पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 101120
इति समाध्यात्मकं मोक्षभागीयम्
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: दुरभिसंभवा भगवन् दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, यत्र हि सर्वाकारैश् च नाम बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ऽभिसंबोद्धव्यास् ते च धर्मा न संविद्यन्ति नोपलभ्यन्ते.
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतत्, दुरभिसंभवा देवपुत्रा दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, मयापि देवपुत्राः सर्वधर्माः सर्वाकारैर् अभिसंबुद्धाः, न च मे कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत. (प्स्प्_4:130) तत् कस्य हेतोः? अत्यन्तविशुद्धत्वाद् देवपुत्राः सर्वधर्माणाम्. इति प्रज्ञात्मकं मोक्षभागियम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, दुरभिसंभवानुत्तरा सम्यक्संबोधिर् इति, यथा पुनर् अहं भगवतो भाषितस्यार्थम् आजानामि. यथा च मम भवति, तथा स्वभिसंबोधा भगवन्न् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् न कश्चिद् अभिसंबुध्यते न केनचिद् अभिसंबुध्यते न किञ्चिद् अभिसंबोद्धव्यं, शून्या हि भगवन् सर्वधर्माः, शून्येषु भगवन् सर्वधर्मेषु स धर्मो न संविद्यते, यो ऽभिसंबुध्येत येन वाभिसंबुध्येत यं वाभिसंबुध्येत. तत् कस्य हेतोः? तथा हि भगवन् सर्वधर्माः शून्याः, यस्यापि धर्मस्य वृद्धये वा प्रहाणाय वा दानं वा दद्यात्, शीलं वा रक्षेत् क्षान्तिं वा संपादयेत् वीर्यं वा आरभेत ध्यानं वा समापद्येत, एवं यावत् सर्वाकारज्ञतायां वा शिक्षेत, ते च धर्मा न संविद्यन्ते, यश् चाभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत सर्वे ते धर्माः शून्याः. अनेन भगवन् पर्यायेण स्वभिसंबोधा बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपस्वभावेन शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानस्वभावेन शून्यम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गस्वभावेन शून्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावेन शून्याः, सर्वाकारज्ञता सर्वाकारज्ञतास्वभावेन शून्या.
इत्य् अधिमात्राणि मोक्षभागीयानि
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनेनायुष्मन् सुभूते पर्यायेण दुरभिसंभवानुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते नाकाशस्यैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. एवम् एवायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. तत् कस्य हेतोः? आकाशसमा हि सुभूते (प्स्प्_4:131) सर्वधर्माः, अथ च पुनर् बोधिसत्त्वो महासत्त्व आकाशसमान् सर्वधर्मान् अधिमुच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्याकाशसमान् सर्वधर्मान् अधिमुच्य स्वभिसंबोधा स्याद् अनुत्तरा सम्यक्संबोधिर् न दुरभिसंभवा न त्व् एवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्न् अनुत्तरायाः सम्यक्संबोधेर्. अनेनायुष्मन् सुभूते पर्यायेण विज्ञायते दुरभिसंभवानुत्तरा सम्यक्संबोधिर् न स्वभिसंबोधा.
इति मृदूनि मोक्षभागीयानि
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र रूपं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत आह: नायुष्मन् सुभूते.
वेदना संज्ञा संस्काराः,
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र विज्ञानं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
एवं विस्तरेण स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि विमोक्षमुखानि अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, यावत् सर्वाकारज्ञता विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र रूपात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
वेदनायाः संज्ञायाः संस्काराणां,
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, (प्स्प्_4:132) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः यावद् अन्यत्र सर्वाकारज्ञतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र या रूपस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदो, या आवेणिकबुद्धधर्माणां तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, यावत् या सर्वाकारज्ञतायास् तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र रूपतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेणान्यत्र स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथताया, अन्यत्र प्रतीत्यसमुत्पादाङ्गतथताया, अन्यत्र सर्वपारमिता सर्वशून्यता सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथताया, अन्यत्र सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तितथताया, अन्यत्र शून्यतानिमित्ताप्रणिहिताभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंवित्तथताया, अन्यत्रावेणिकबुद्धधर्मतथताया, अन्यत्र सर्वाकारज्ञतातथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्र तथता विवर्तते (प्स्प्_4:133) ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
एवं धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटीः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्राचिन्त्यधातुर् विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र तथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामताया भूतकोटेः, अन्यत्राचिन्त्यधातोः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: एवं सत्यतः स्थितितस् तेषु धर्मेष्व् अनुपलम्भमानेषु, कतमः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः?
एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यया धर्मनयजात्या सुभूतिः स्थविरो निर्दिशति, तया न कश्चिद् बोधिसत्त्वो महासत्त्वो विवर्तिष्यते अनुत्तरायाः सम्यक्संबोधेः. य इमे त्रयो बोधिसत्त्वयानिकाः पुद्गलाः तथागतेनाख्याताः, एषां च त्रयाणां बोधिसत्त्वयानिकानां पुद्गलानां व्यवस्थानं न भविष्यति. एक एव बोधिसत्त्वो महासत्त्वो भविष्यति यद् उत बोधिसत्त्वयानिको यथायुष्मतः सुभूतेर् निर्देशः.
अथ खल्व् आयुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं पुनर् आयुष्मन् शारिपुत्र सुभूतिः स्थविर एकम् अपि बोधिसत्त्वं महासत्त्वम् इच्छति, परिप्रष्टव्यस् तावत् सुभूतिः स्थविरः.
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते एकम् अपि बोधिसत्त्वयानिकं बोधिसत्त्वम् इच्छसि?
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: (प्स्प्_4:134) किं पुनर् आयुष्मञ् छारिपुत्र तथतायां त्रीन् बोधिसत्त्वान् इच्छसि, श्रावकयानिकं वा बोधिसत्त्वं प्रत्येकबुद्धयानिकं वा बोधिसत्त्वं बोधिसत्त्वयानिकं वा बोधिसत्त्वम् इच्छसि?
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: तत् किं पुनर् आयुष्मञ् शारिपुत्र तथतायां त्रयो बोधिसत्त्वा उपलभ्यन्ते?
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: किं पुनर् आयुष्मञ् छारिपुत्र तथता एकतो वा द्वाभ्यां वा त्रिभिर् वाकारैर् उपलभ्यते?
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: किं पुनर् आयुष्मञ् शारिपुत्र तथतायाम् एकं बोधिसत्त्वम् उपलभते?
शारिपुत्र आह: नायुष्मन् सुभूते.
सुभूतिर् आह: एवं सत्यतः स्थितितस् ते धर्मा अनुपलभ्यमानाः कुतः पुनर् आयुष्मतः शारिपुत्रस्यैवं भवति, अयं श्रावकयानिको बोधिसत्त्वो ऽयं प्रत्येकबुद्धयानिको बोधिसत्त्वो ऽयं बुद्धयानिको बोधिसत्त्व इत्य्, अयं सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. अयं बोधिसत्त्वो महासत्त्वो निर्यास्यत्य् अनुत्तरायां सम्यक्संबोधौ.
तत्र खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते प्रतिभान्तु ते सुभूते यथापीदं बुद्धानुभावेन, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ.
अथ खल्व् आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमया भगवन् बोध्या निर्यास्यति बोधिसत्त्वो महासत्त्वः?
भगवान् आह: अनुत्तरया सम्यक्संबोध्या निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वः. इति मध्यानि मोक्षभागीयानीत्य् उक्तं मोक्षभागीयम्
(प्स्प्_4:135)
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: निर्यातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ कथं स्थातव्यम्?
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन सत्त्वानाम् अन्तिके समचित्ततायां स्थातव्यं, सर्वसत्त्वानाम् अन्तिके समचित्तम् उत्पादयितव्यं, न विषमं चित्तम् उत्पादयितव्यं, सर्वसत्त्वाः समचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके महामैत्र्य् उत्पादयितव्या, सर्वसत्त्वेषु महाकरुणोत्पादयितव्या, सर्वसत्त्वा मैत्रेण चित्तेनालम्बितव्याः, सर्वसत्त्वा महाकरुणाचित्तेनालम्बितव्या, न पुरुषचित्तेनालम्बितव्याः सर्वसत्त्वानाम् अन्तिके निहतमानतोत्पादयितव्या, सर्वसत्त्वाश् च निःशाठ्येनालम्बितव्याः. इति मृदूष्मगतम्
सर्वसत्त्वानाम् अन्तिके हितचित्ततोत्पादयितव्या, अहितं चित्तं नोत्पादयितव्यं, सर्वसत्त्वाश् च हितचित्तेनालम्बितव्या, नाहितचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अप्रतिहतं चित्तम् उत्पादयितव्यं, सर्वसत्त्वा न प्रतिहतचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अविहेठनाचित्तम् उत्पादयितव्यं, सर्वसत्त्वा न विहेठनाचित्तेनालम्बितव्याः. इति मध्यम् उष्मगतम्
सर्वसत्त्वानाम् अन्तिके मातृचित्तम् उत्पादयितव्यं पितृचित्तम् उत्पादयितव्यं भ्रातृचित्तम् उत्पादयितव्यं भगिनीचित्तम् उत्पादयितव्यं पुत्रचित्तम् उत्पादयितव्यं दुहितृचित्तम् उत्पादयितव्यं मित्रामात्यज्ञातिसालोहितचित्तम् उत्पादयितव्यं सर्वसत्त्वाश् च मातृचित्तेन पितृचित्तेनालम्बितव्या, भ्रातृचित्तेन भगिनीचित्तेनालम्बितव्याः, पुत्रचित्तेन दुहितृचित्तेनालम्बितव्या, मित्रामात्यज्ञातिसालोहितचित्तेनालम्बितव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यान्तुकामेन स्थातव्यम्.
इत्य् अधिमात्रम् उष्मगतम्
आत्मना च प्राणातिपातात् प्रतिविरतेन भवितव्यं परे च प्राणातिपातवैरमणो समादापयितव्याः, प्राणातिपातविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. एवं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यास्तुकामेन स्थातव्यम्.
(प्स्प्_4:136)
आत्मना चादत्तादानात् प्रतिविरतेन भवितव्यं, परे चादत्तादानवैरमण्ये समादापयितव्याः, अदत्तादानविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये अदत्तादानात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च काममिथ्याचारात् प्रतिविरतेन भवितव्यं, परे च काममिथ्याचारप्रतिविरतौ समादापयितव्याः, काममिथ्याचारविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवम् अनृतवचनात् परुषवचनात् पिशुनवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादात्, आत्मना च मिथ्यादृष्टेः प्रतिविरतेन भवितव्यं, परे च मिथ्यादृष्टिविरतौ समादापयितव्या, मिथ्यादृष्टिविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये मिथ्यादृष्टेर् विरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च प्रथमं ध्यानं समापत्तव्यं, परे च प्रथमे ध्याने समादापयितव्याः, प्रथमध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये प्रथमं ध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
एवम् आत्मना च द्वितीयं ध्यानं समापत्तव्यं, एवं तृतीयं ध्यानं समापत्तव्यं, आत्मना च चतुर्थं ध्यानं समापत्तव्यं, परे च चतुर्थे ध्याने समादापयितव्याश् चतुर्थध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये चतुर्थध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च मैत्री भावयितव्या, परे च मैत्रीभावनायां समादापयितव्या, मैत्रीभावनायाश् च वर्णवादिना भवितव्यं, ये चान्ये मैत्रीविहारिणस् तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
एवं करुणायां मुदितायां च कर्तव्यम्, आत्मना चोपेक्षाविहारिणा भवितव्यं, परे चोपेक्षाविहारे समादापयितव्या, उपेक्षाविहारस्य च वर्णवादिना भवितव्यं, ये चान्ये उपेक्षाविहारिणस्, तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना चाकाशानन्त्यायतनासमापत्तिः समापत्तव्या, परे चाकाशानन्त्यायतनसमापत्तौ समादापयितव्याः, आकाशानन्त्यायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये आकाशानन्त्यायतनसमापत्तिं (प्स्प्_4:137) समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं विज्ञानानन्त्यायतनसमापत्तिर् आकिंचान्यायतनसमापत्तिः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिः समापत्तव्या, परे च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयितव्याः नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मृदुमूर्धगतम्
आत्मना च दानपारमिता परिपूरयितव्या, परे च दानपारमितायां समादापयितव्याः, दानपारमितायाश् च वर्णवादिना भवितव्यः, ये चान्ये दानपारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, आत्मना च प्रज्ञापारमिता परिपूरयितव्या, परे च प्रज्ञापारमितायां समादापयितव्याः, प्रज्ञापारमितायाश् च वर्णवादिना भवितव्यं, ये चान्ये प्रज्ञापारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मध्यमूर्धगतम्
आत्मना चाध्यात्मशून्यता भावयितव्या, परे चाध्यात्मशून्यतायां समादापयितव्या, अध्यात्मशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अध्यात्मशून्यतां भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् आत्मना चाभावस्वभावशून्यता भावयितव्या, परे चाभावस्वभावशून्यतायां समादापयितव्या, अभावस्वभावशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभावस्वभावशून्यतां भावयन्ति, तेषां च वर्णवादिना न् भवितव्यं समनुज्ञेन.
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, परे च चतुर्षु स्मृत्युपस्थानेषु समादापयितव्याः, चतुर्णां च स्मृत्युपस्थानानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आत्मना चार्यष्टाङ्गो मार्गो भावयितव्यः, परे चार्याष्टाङ्गे मार्गे स्थापयितव्याः, आर्याष्टङ्गमार्गस्य च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा आर्याष्टाङ्गं मार्गं भावयन्ति, तेषां च वर्णवादिना भवितव्यं (प्स्प्_4:138) समनुज्ञेन.
आत्मना च शून्यतानिमित्ताप्रणिहितसमाधयो भावयितव्याः, परे च शून्यतानिमित्ताप्रणिहितसमाधौ समादापयितव्याः, शून्यतानिमित्ताप्रणिहितसमाधीनां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाः शून्यतानिमित्ताप्रणिहितसमाधीन् भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च चत्वार्य् आर्यसत्यानि भावयितव्यानि, परे चार्यसत्यभावनायां समादापयितव्या, आर्यसत्यानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वार्य् आर्यसत्यानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना चाष्टविमोक्षा भावयितव्याः, परे चाष्टविमोक्षभावनायां समादापयितव्या, अष्टानां च विमोक्षाणां वर्णवादिना भवितव्यं, ये चान्ये ऽष्टविमोक्षां समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च नवानुपूर्वविहारसमापत्तयः समादापयितव्याः, परे च नवानुपूर्वविहारसमापत्तिषु समादापयितव्या, नवानुपूर्वविहारसमापत्तीनां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा नवानुपूर्वविहारसमापत्तीः समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना चाभिज्ञा निष्पादयितव्याः, परे चाभिज्ञाप्राप्तये समादापयितव्याः, अभिज्ञानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभिज्ञा प्रतिलब्धास्, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च दशतथागतबलानि परिपूरयितव्यानि, परे च दशतथागतबलेषु समादापयितव्या, दशानां च तथागतबलानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा दशतथागतबलानि परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद्, आत्मना चाष्टादशावेणिका बुद्धधर्माः परिपूरयितव्याः, परे चाष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या, अष्टादशावेणिकानां च बुद्धधर्माणां वर्णवादिना भवितव्यं, ये चान्ये आवेणिकान् बुद्धधर्मान् परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना च महामैत्री महाकरुणा च परिपूरयितव्या, परे च महामैत्र्यां महाकरुणायां च समादापयितव्या, महामैत्र्या महाकरुणायाश् च वर्णवादिना भवितव्यं, ये चान्ये महामैत्रीं महाकरुणां च परिपूरयन्ति, (प्स्प्_4:139) तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
आत्मना चनुलोमप्रतिलोमप्रतीत्यसमुत्पादः समापत्तव्यः, परे चानुलोमप्रतिलोमप्रतीत्यसमुत्पादे समादापयितव्याः, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये अनुलोमप्रतिलोमप्रतीत्यसमुत्पादं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रमूर्धगतम्
आत्मना च दुष्खं परिजानाति समुदयं च प्रजहाति निरोधं च साक्षात्करोति मार्गञ् च भावयति, परांश् च दुष्खपरिज्ञायै समुदयप्रहाणाय निरोधसाक्षात्क्रियायै मार्गभावनायै समादापयति, दुःखपरिज्ञानस्य समुदयप्रहाणस्य निरोधसाक्षात्क्रियाया मार्गभावनायाश् च वर्णं भाषते, ये चान्ये दुःखं प्रजानन्ति समुदयं प्रजहति निरोधं साक्षात्कुर्वन्ति मार्गं च भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मृद्वी क्षान्तिः
आत्मना च स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् च स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायै समादापयति, स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
एवम् आत्मना च सकृदागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, आत्मना चानागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति.
आत्मना चार्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् चार्हत्त्वफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, अर्हत्त्वफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये ऽर्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च प्रत्येकबुद्धफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियां साक्षात्करोति, परांश् च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायाश् (प्स्प्_4:140) च वर्णं भाषते, ये चान्ये प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्या क्षान्तिः
आत्मना च बोधिसत्त्वन्यामम् अवक्रामति, परांश् च बोधिसत्त्वन्यामावक्रान्त्यां समादापयति, बोधिसत्त्वन्यामावक्रान्तेश् च वर्णं भाषते, ये चान्ये बोधिसत्त्वन्यामम् अवक्रामन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रा क्षान्तिः
आत्मना च सत्त्वान् परिपाचयति, परांश् च सत्त्वपरिपाकाय समादापयति, सत्त्वपरिपाकस्य च वर्णं भाषते, ये चान्ये सत्त्वपरिपाकायाभ्युद्गतास्, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च बुद्धक्षेत्रं परिशोधयति, परांश् च बुद्धक्षेत्रपरिशोधनाय समादापयति, बुद्धक्षेत्रपरिशुद्धेश् च वर्णं भाषते, ये चान्ये बुद्धक्षेत्रपरिशोधनाय प्रतिष्ठितास्, तेषां च वर्णवादी भवति समनुज्ञः. इति मृदवो ऽग्रधर्माः
आत्मना च बोधिसत्त्वाभिज्ञा उत्पादयति, परांश् च बोधिसत्त्वाभिज्ञासु समादापयति बोधिसत्त्वाभिज्ञानां च वर्णं भाषते, ये चान्ये बोधिसत्त्वाभिज्ञा भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्याग्रधर्माः
आत्मना च सर्वाकारज्ञताज्ञानम् उत्पादयति, परांश् च सर्वाकारज्ञताज्ञाने समादापयति, सर्वाकारज्ञताज्ञानस्य च वर्णं भाषते, ये चान्ये सर्वाकारज्ञताज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च सर्ववासनानुसंधिक्लेशान् प्रजहाति, परांश् च सर्ववासनानुसंधिक्लेशप्रहाणतायै समादापयति, सर्ववासनानुसंधिक्लेशप्रहाणस्य च वर्णं भाषते, ये चान्ये सर्ववासनानुसंधिक्लेशान् प्रजहति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च आयुःसंपदं परिगृह्णाति, परांश् च आयुःसंपदि समादापयति, आयुःसंपदश् च वर्णं भाषते, ये चान्ये महापुरुषा आयुःसंपदि स्थितास्, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च सद्धर्मस्थितिं परिगृह्णाति, परांश् च सद्धर्मस्थितौ (प्स्प्_4:141) समादापयति, सद्धर्मस्थितेश् च वर्णं भाषते ये चान्ये सद्धर्मस्थितिं परिगृह्णन्ति, तेषाञ् च महापुरुषर्षभाणां वर्णवादी भवति समनुज्ञः.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन भवितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशल्ये च स्थातव्यम्. तस्यैवं शिक्षमाणस्यैवं तिष्ठतः, अनावरणं रूपं भविष्यति अनावरणा वेदना अनावरणा संज्ञा अनावरणाः संस्कारा, अनावरणं विज्ञानं भविष्यति, एवं विस्तरेण यावद् अनावरणा सद्धर्मस्थितिर् भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततश् चैवं रूपन् न परिगृहीतं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं परिगृहीतम्, एवं यावत् सर्वाकारज्ञता न परिगृहीता. तत् कस्य हेतोः? तथा हि सुभूते यो रूपस्यापरिग्रहो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, तथा हि यो विज्ञानस्यापरिग्रहो न तद् विज्ञानम्. एवं यावद् यः सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता. अस्मिन् खलु पुनर् बोधिसत्त्वस्थाने भाष्यमाणे द्वयोर् बोधिसत्त्वसहस्रयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. इत्य् अधिमात्राग्रधर्माः इत्य् उक्तं निर्वेधभागीयम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य क आकाराः? कानि लिङ्गानि? कानि निमित्तानि? कथं वा वयं भगवन् जानीमहे? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: या च सुभूते पृथग्जनभूमिर् या च श्रावकभूमिर् या च प्रत्येकबुद्धभूमिर् या च बोधिसत्त्वभूमिर् या च तथागतभूमिर् उक्ता सर्वा सा तथतयाविकल्पा निर्विकल्पाद्वयाद्वैधीकारा, यथा च सा तथताविकल्पा तथैव न विकल्पयत्य्, एवम् अवतरत्य् अविकल्पेन, एवम् अवतीर्णो यथा तथता तथा श्रुत्वा ततो ऽतिक्रम्य न किञ्चिद् विकल्पयति, न हि तास् तथताया एकैकतो नोभयतो नानुभयतो, न च यत्किञ्चित्प्रलापी भवति. अर्थोपसंहितां च वाचं भाषते नानर्थोपसंहितां, न च परस्य च कृताकृतं व्यवलोकयति, सुभाषितगवेषी च भवति, एभिः (प्स्प्_4:142) सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सामान्येनावैवर्तिकलक्षणम्
सुभूतिर् आह: कतमैर् भगवन्न् आकारैः? कतमैर् लिङ्गैः? कतमैर् निमित्तैर्? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
भगवान् आह: अनाकारा हि सुभूते सर्वधर्मा अलिङ्गा आनिमित्ताः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अनाकाराः सर्वधर्मा अलिङ्गा आनिमित्ताः, कतमैर् भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽविनिवर्तनीय इति निर्दृश्यते?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वो रूपाद् विनिवृत्तो, वेदनाया विनिवृत्तः संज्ञाया विनिवृत्तः संस्कारेभ्यो विनिवृत्तो, विज्ञानाद् विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वः स्कन्धेभ्यो विनिवृत्तो धातुभ्यो विनिवृत्त आयतनेभ्यो विनिवृत्तः प्रतीत्यसमुत्पादाद् विनिवृत्तः प्रतीत्यसमुत्पादाङ्गेभ्यो विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमिताया विनिवृत्तः, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया विनिवृत्तः, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया विनिवृत्तः, स्मृत्युपस्थानेभ्यो विनिवृत्तः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाद् विनिवृत्तः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो विनिवृत्तः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो विनिवृत्तः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो विनिवृत्तः, श्रावकप्रत्येकबुद्धभूमेर् विनिवृत्तः, अनुत्तरायाः सम्यक्संबोधेर् विनिवृत्तः, अयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य स्वभावो न संविद्यते. एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां स्वभावो न संविद्यते, एवं यावद् अनुत्तरायाः सम्यक्संबोधेः स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् एकम्
(प्स्प्_4:143)
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इतो बहिर्धानां येषां श्रमणब्राह्मणानां मुखम् उल्लोकयति, इमे भगवन्तः श्रमणब्राह्मणाज्ञेयं जानन्ति दृश्यं पश्यन्ति सम्यग्दृष्टिं प्रज्ञां च प्रज्ञापयन्तीति नेदं स्थानं विद्यते. न विचिकित्साम् आपद्यते न शीलव्रतं परामृषति न कुदृष्टिं पतति, न कौतुकमङ्गलेन शुद्धिं प्रत्येति, नान्येषां देवानां नमस्कारं करोति. पुष्पैर् वा गन्धैर् वा धूपैर् वा विलेपनैर् वा चूर्णैर् वा चीवरैर् वा च्छत्रैर् वा ध्वजैर् वा पताकाभिर् वा नान्येषां दातव्यं वा कर्तव्यं वा मन्यते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वितीयम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न मिथ्यादृष्टिको भवति, न नरकेषूपपद्यते न यमलोके न तिर्यग्योन्यां नासुरेषूपपद्यते न प्रत्यन्तेषु जनपदेषूपपद्यते न जडमूको भवति न दीर्घायुष्केषु देवेषूपपद्यते न च स्त्रीभावं परिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं तृतीयम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते स आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादाद्, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाञ् च वर्णवादी भवति समनुज्ञः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि दशाकुशलान् कर्मपथान्नाध्यापद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो (प्स्प्_4:144) बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्थम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यदा दानपारमितायां वर्तते, शीलपारमितायां वर्तते क्षान्तिपारमितायां वर्तते वीर्यपारमितायां वर्तते ध्यानपारमितायां वर्तते, यदा प्रज्ञापारमितायां वर्तते, तदा सर्वसत्त्वानां कृतेन दानं ददाति, एवं शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते सर्वसत्त्वानां कृतेन प्रज्ञां भावयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यान्यान् धर्मान् पर्यवाप्नोति सूत्रं गेयं व्याकरणम् इतिवृत्तकं यावद् अवदानोपदेशं तत्तद् धर्मदानं ददत एवं भवति, सर्वसत्त्वानाम् अनेन दानेन धार्मिका अभिप्रायाः परिपूरिङ् गच्छन्तु, स तद् धर्मदानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा.
सुभूतिर् आह: केन कारणेन भगवन्न् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा?
भगवान् आह: तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा स्कन्धान् वा धातून् वा आयतनानि वा प्रतीत्यसमुत्पादं वा प्रतीत्यसमुत्पादाङ्गानि वा समनुपश्यति, सर्वपारमिता वा सर्वशून्यता वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सप्तत्रिंशद्बोधिपक्ष्यान् वा धर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् वा आर्यसत्यानि वा शून्यतानिमित्ताप्रणिहिता वा दशतथागतबलानि वा वैशारद्यानि प्रतिसंविदो वा आवेणिकान् बुद्धधर्मान् न समनुपश्यति, अनुत्तरां वा सम्यक्संबोधिं न समनुपश्यति, यत्र काङ्क्षा वा विमतिर् वा विचिकित्सा वा स्यात्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो (प्स्प्_4:145) ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् षष्ठम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्निग्धेन कायकर्मणा मनआपेन स्निग्धेन वाक्कर्मणा मनआपेन स्निग्धेन मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सततसमितं मैत्रेण कायकर्मणा मनआपेन मैत्रेण वाक्कर्मणा मनआपेन मैत्रेण मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं सप्तमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः पञ्चभिर् निवरणैः सार्धं न संवसति, कामच्छन्देन व्यापादेन स्त्यानमिद्धेन उद्धतकौकृत्येन विचिकित्सया, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् अष्टमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वम् अनुशयो नास्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं नवमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽतिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽतिक्रामति वा प्रतिक्रामति वा, सो ऽतिक्रामन् वा प्रतिक्रामन् वा उपस्थितस्मृतिर् अतिक्रामति, उपस्थितस्मृतिर् एव प्रतिक्रामति. स्मृतिमांश् चैव गच्छति च क्रमति तिष्ठति निषीदति शय्यां च कल्पयति न सहसा भूमौ पादाव् उत्क्षिपति, न सहसा भूमौ पादौ प्रतिक्षिपति न सहसा भूमौ पादौ निक्षिपति, स्मृतिमान् एव स पादौ उत्क्षिपति प्रतिक्षिपति निक्षिपति, स पश्यन्न् एव भूप्रदेशम् आक्रामति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो (प्स्प्_4:146) महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं दशमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य चीवरपरिभोगे न कायजुगुप्सितो भवति, न यूकिलश् चौक्षसमुदाचारः शुचिसमुदाचारः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽल्पाबाधश् च भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इत्य् उष्मगतावस्थस्यावैवर्तिकलक्षणम् एकादशम्
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य यानि तानि अशीतिक्रिमिकुलसहस्राणि काये प्रतिवसन्ति कायं भक्षयन्ति, तान्य् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वं काये न संविद्यते. तत् कस्य हेतोः? तथा हि सुभूते तानि कुशलमूलानि बोधिसत्त्वस्य महासत्त्वस्य सर्वलोकाभ्युद्गतानि, तेन बोधिसत्त्वस्य महासत्त्वस्य तान्य् अशीतिक्रिमिकुलसहस्राणि काये न संविद्यन्ते. यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्यैतानि कुशलमूलानि प्रवर्धन्ते, तथातथा बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिञ् च वाक्परिशुद्धिञ् च चित्तपरिशुद्धिं च प्रतिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वादशम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च भवति?
भगवान् आह: यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि प्रवर्धन्ते, तथातथा कायचक्रत्वं वाक्चक्रत्वं चित्तचक्रत्वं च कायवाक्चित्तकौटिल्यताञ् च तैः कुशलमूलैः परिशोधयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, स तया कायपरिशुद्ध्या वाक्परिशुद्ध्या चित्तपरिशुद्ध्या च श्रावकभूमिं च प्रत्येकबुद्धभूमिञ् चातिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य (प्स्प्_4:147) कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं त्रयोदशम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारगुरुको भवति न पिण्डपातगुरुको भवति यावन् न चीवरगुरुको भवति, स द्वादशधूतगुणसमादाने वर्तते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्दशम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य न मात्सर्यचित्तम् उत्पद्यते न दौःशील्यचित्तम् उत्पद्यते न क्षुब्धचित्तम् उत्पद्यते न कौसीद्यचित्तम् उत्पद्यते नासमाहितचित्तम् उत्पद्यते न दौष्प्रज्ञाचित्तम् उत्पद्यते नेर्ष्याचित्तम् उत्पद्यते एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चदशम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्थिरबुद्धिश् च भवति सत्कृत्य च परतो धर्मं शृणोति, यत् किंचित् परतो धर्मं शृणोति तत् सर्वं प्रज्ञापारमितायां संस्यन्दयति यानि तानि लौकिकानि कृत्यानि तानि सर्वाणि प्रज्ञापारमिताम् आगम्य धर्मतया संस्यन्दयति, न तं धर्मं समनुपश्यति, यो धर्मधातौ न युज्यते सर्वं तं प्रज्ञापारमितायां युज्यमानं समनुपश्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्.
इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं षोडशम्
पुनर् अपरं सुभूते मारः पापीयान् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अष्टौ महानिरयान् पुरतो ऽभिनिर्माय तत्रैकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राणि बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि दह्यमानानि पच्यमानानि दुःखी तीव्री खरां कटुकां वेदनां प्रत्यनुभवमानान्य् (प्स्प्_4:148) अभिनिर्मिणोति, एवं च वक्ष्यति: इमे ते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयास् तथागतैर् व्याकृतास् तेषु महानरकेषूपपन्नास्, त्वम् अपि नैरयिकस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, यस् त्वम् अविनिवर्तनीयतायै व्याकृतः, पुनर् एव त्वम् एतद् बोधिचित्तं प्रतिनिःसृज्य, एवं त्वं महानिरयेषु नोपपत्स्यसे, ततः त्वं स्वर्गोपगो भविष्यसि.
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न काङ्क्षति न विचिकित्सति, वेदितव्यं व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽवैवर्त्यधातौ स्थानं सुभूते ऽनवकाशो यद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नरके वा तिर्यग्योनौ वा यमलोके वा असुरेषु वा कायेषूपपद्यते, नैतत् स्थानं विद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति मूर्धगतावस्थस्यावैवर्तिकलक्षणं सप्तदशम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् श्रमणवेषेणोपसंक्रम्यैवं वक्ष्यति: यत् त्वया पूर्वश्रुतं, एवं मया दानपारमिता परिशोधयितव्या, एवं मया शीलपारमिता परिशोधयितव्या, एवं मया क्षान्तिपारमिता परिशोधयितव्या, एवं मया वीर्यपारमिता परिशोधयितव्या एवं मया ध्यानपारमिता परिशोधयितव्या, एवं मया प्रज्ञापारमिता परिशोधयितव्या, एवं मया यावद् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, तत् सर्वं प्रतिदेशय यत् त्वया पूर्वम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां प्रथमचित्तोत्पादम् उपादाय यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं तत् सर्वम् अनुमोदितन् तत् प्रतिदेशय तन् निसृज, यद् एतत् त्वया श्रुतं नैतद् बुद्धवचनं नैतत् सम्यक्संबुद्धेन भाषितं कविकृतकं काव्यम् एतत्, यद् अहं भाषे एतद् बुद्धवचनम् एतत् तथागतेन भाषितम्.
सचेद् बोधिसत्त्वो महासत्त्वः क्षुभ्यति काङ्क्षति विचिकित्सति, वेदितव्यम् एवम् एष बोधिसत्त्वो महासत्त्वो ऽव्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, अनियतो ऽयं बोधिसत्त्वो महासत्त्वो, नायं बोधिसत्त्वो (प्स्प्_4:149) महासत्त्वो ऽविनिवर्तनीयधातौ स्थितः.
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न काङ्क्षति न विचिकित्सति, धर्मतां प्रतिसरति, अनभिसंस्कारम् अनुत्पादं प्रतिसरति, न परस्य श्रद्धया गच्छति, अपरप्रणेयश् च भवति, दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपरप्रणेयश् च भवति यावद् अनुत्तरायां सम्यक्संबोधौ, तद्यथापि नाम अर्हन् क्षीणास्रवो भिक्षुर् न परस्य श्रद्धया गच्छति प्रत्यक्षकारी धर्मतायाम् असंहार्यो भवति मारेण पापीयसा. एवम् एव सुभूते ऽनवमर्दनीयो बोधिसत्त्वो महासत्त्वः श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा, अप्रत्युदावर्तनीयधर्मा च भवति श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बुद्धयानिकैर् वा अनुत्तरायां सम्यक्संबोधौ, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ स्थितो ऽपरप्रणेयश् च भवति, स तथागतस्यार्हतः सम्यक्संबुद्धस्यापि श्रद्धया न गच्छति, प्राग् एव श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा बुद्धयानिकानां वा प्राग् एव मारस्य पापीयसः, प्राग् एवान्यतीर्थिकानां परिव्राजकानां वा श्रद्धया गच्छेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति, यस्य श्रद्धया गच्छेद् रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा, रूपतथताया वा वेदनातथताया वा संज्ञातथताया वा संस्कारतथताया वा विज्ञानतथताया वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुत्तरां च सम्यक्संबोधिं न समनुपश्यति यावद् अनुत्तरायाः सम्यक्संबोधेस् तथतान् न समनुपश्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति मूर्धगतावस्थस्यावैवर्तिकलक्षणम् अष्टादशम्
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेनाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्योपसंक्रम्यैवं वक्ष्यति: संसारचारिकैषा नैषा सर्वाकारज्ञताचारिका, इहैव त्वं दुःखस्यान्तं कुरु.
(प्स्प्_4:150)
स खलु पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य मार्गप्रतिरूपकम् उपदेक्ष्यति, यो ऽसौ मार्गप्रतिरूपकः संसारावचरैर् लौकिकैर् आकारैर् यदि वास्ति संज्ञा यदि वा प्रथमं ध्यानं यावन् नैवसंज्ञानासंज्ञायतनम् उपदेक्ष्यति: अयम् आयुष्मन् मार्गः, इयं प्रतिपद् येन मार्गेण यया प्रतिपदा स्रोतआपत्तिफलम् अनुप्राप्स्यसि, सकृदागामिफलम् अनागामिफलं येन मार्गेणार्हत्त्वम् अनुप्राप्स्यसि, अनेनायुष्मन् मार्गेणानया प्रतिपदा इहैव त्वं दुःखस्यान्तं कुरु, न तु तानि संसारावचराणि दुःखानि प्रत्यनुभविष्यसि, अहो बतायम् इहैव तवात्मभावो न निर्वृत्तो भवेत्, कुतस् त्वम् अन्यम् आत्मभावं प्रतिगृहीतव्यं मन्यसे?
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, उत्तरे चास्यैवं भवति, बहुकरो मे ऽयं भिक्षुर् यो ऽयं मार्गप्रतिरूपकम् उपदिशति, यो मार्गप्रतिरूपको नैवं स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तते, न सकृदागामिफलसाक्षात्क्रियायै संवर्तते, नानागामिफलसाक्षात्क्रियायै संवर्तते नार्हत्त्वफलसाक्षात्क्रियायै संवर्तते, न प्रत्येकबुद्धफलसाक्षात्क्रियायै संवर्तते, नानुत्तरायाः सम्यक्संबोधेः साक्षात्क्रियायै संवर्तते. उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यानि मयैवं बुद्ध्वा सर्वेष्व् अपि त्रिषु यानेषु शिक्षितव्यम्.
तम् एनं मारः पापीयान् बोधिसत्त्वं महासत्त्वं हर्षितं विदित्वा एवं वक्ष्यति: इच्छसि त्वं कुलपुत्र तान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं यैर् बोधिसत्त्वैर् महासत्त्वैर् गङ्गानदीवालुकोपमा बुद्धा भगवन्तः प्रत्युपस्थिताः पूजिताश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, गङ्गानदीवालुकोपमानां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके दानपारमिता परिपूरिता शीलपारमिता परिपूरिता क्षान्तिपारमिता परिपूरिता वीर्यपारमिता परिपूरिता ध्यानपारमिता परिपूरिता प्रज्ञापारमिता परिपूरिता, गङ्गानदीवालुकोपमाश् चैव बुद्धा भगवन्तः पर्युपासिताः परिपृच्छिताः परिप्रश्नीकृता, अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर् महासत्त्वैर् बोधिसत्त्वयाने स्थातव्यं? कथं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता स्थातव्यम्? एवं (प्स्प्_4:151) स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावत् महामैत्र्यां महाकरुणायां चरता स्थातव्यम्? यथा तैर् बुद्धैर् भगवद्भिर् आख्यातं तथा स्थित्वा तथा चरित्वा तथा योगम् आपद्यापि तैर् एव तावद् बोधिसत्त्वैर् महासत्त्वैर् अनुत्तरा सम्यक्संबोधिर् नाभिसंबुद्धा, तथा चरितैस् तथानुशासितैस् तथा स्थितैस् तथा शिक्षमाणैः सर्वाकारज्ञता नानुप्राप्ता, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यसि?
सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवं विवेच्यमानस्य चित्तस्यान्यथात्वं न भवति नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यैर् अङ्गैः स्रोतआपत्तिफलं प्राप्यते सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिर् यावत् सर्वाकारज्ञतानुप्राप्यते.
ततः स पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य चित्तस्यानवलीनतां विदित्वा तत्रैव पृथिवीप्रदेशे संबहुलान् भिक्षून् अभिनिर्मिणोति, एवं च वाचं भाषते: इमे ते ऽर्हन्तः क्षीणास्रवा ये ते ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता अभूवंस् ते ऽर्हत्त्वे स्थिताः, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे?
सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, मारो बतायं पापीयान् मार्गप्रतिरूपकम् उपदिशति, न च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रत्युदावर्त्यानुत्तरायाः सम्यक्संबोधेः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति, उत्तरे चास्यैवं भवति, अस्थानम् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्, आर्यसत्याभिज्ञासु चरन्, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयन् सर्वाकारज्ञतां भावयन्न्, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यतेति (प्स्प्_4:152) नैतत् स्थानं विद्यते.
इति क्षान्तिगतावस्थस्यावैवर्तिकलक्षणम् एकोनविंशतितमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, सचेद् एवं शिक्षित्वा यथा तथागतेनाख्यातं तया चर्ययाविरहितस्यैभिः पारमिताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो बोधिसत्त्वो महासत्त्वो न परिहीयते दानपारमितया न परिहीयते शीलपारमितया न परिहीयते क्षान्तिपारमितया न परिहीयते वीर्यपारमितया न परिहीयते ध्यानपारमितया न परिहीयते प्रज्ञापारमितया न परिहीयते अध्यात्मशून्यतया न परिहीयते यावद् अभावस्वभावशून्यतया न परिहीयते स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् न परिहीयते अप्रमाणध्यानारूप्यसमापत्तिभिर् न परिहीयते शून्यतानिमित्ताप्रणिहिताभिज्ञाभिर् न परिहीयते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मैर् न परिहीयते सर्वाकारज्ञतया.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यो मारकर्माणि बुध्यते स न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् अग्रधर्मगतावस्थस्यावैवर्तिकलक्षणं विंशतितमम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कुतो भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति प्रज्ञायते.
भगवान् आह: रूपसंज्ञायाः सुभूते विवर्तितो, वेदनासंज्ञायाः संज्ञासंज्ञायाः संस्कारसंज्ञाया विज्ञानसंज्ञाया विवर्तितो, धातुसंज्ञाया आयतनसंज्ञायाः प्रतीत्यसमुत्पादसंज्ञायाः प्रतीत्यसमुत्पादाङ्गसंज्ञाया रागसंज्ञाया दोषसंज्ञाया मोहसंज्ञाया दृष्टिसंज्ञायाः, दानपारमितासंज्ञायाः शीलपारमितासंज्ञायाः क्षान्तिपारमितासंज्ञायाः वीर्यपारमितासंज्ञाया ध्यानपारमितासंज्ञायाः प्रज्ञापारमितासंज्ञाया विवर्तितो, ऽध्यात्मशून्यतासंज्ञाया यावद् अभावस्वभावशून्यतासंज्ञायाः स्मृत्युपस्थानसंज्ञायाः सम्यक्प्रहाणार्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसंज्ञाया (प्स्प्_4:153) अप्रमाणध्यानारूप्यसमापत्तिसंज्ञाया विवर्तितः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञायाः शून्यतानिमित्ताप्रणिहितसंज्ञाया अभिज्ञासंज्ञाया विवर्तितो, दशबलवैशारद्यसंज्ञायाः प्रतिसंवित्संज्ञाया आवेणिकबुद्धधर्मसंज्ञाया विवर्तितः, सर्वाकारज्ञतासंज्ञाया विवर्तितः, श्रावकप्रत्येकबुद्धसंज्ञाया विवर्तितः, बोधिसत्त्वसंज्ञाया विवर्तितो यावद् बुद्धसंज्ञाया विवर्तितः. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर् धर्मैर् बोधिसत्त्वन्यामम् अवक्रान्तः. स तम् अपि धर्मं नोपलभते अनुपलभमानो नाभिसंस्करोत्य् अनभिसंस्कुर्वन् नोत्पादयति तेनोच्यते ऽनुत्पादक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति दर्शनमार्गे दुष्खे धर्मज्ञानक्षान्तिः
पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं विच्छन्दयिष्यति: आकाशसमैषा यद् उत सर्वाकारज्ञता आकाशभावनैषा अभावस्वभावलक्षणशून्यता, एते ऽपि धर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्या न चाकाशसमैर् धर्मैर् अभावस्वभावैः स्वलक्षणशून्यैः कश्चिद् धर्म उपलभ्यते, यो वाभिसंबुध्यते येन वाभिसंबुध्यते यं वाभिसंबुध्यते, सर्व एते आकाशसमा धर्मा अभावस्वभावाः स्वलक्षणशून्या निरर्थकं त्वं विहन्यसे मारकर्म एतत् परिदीपितं यद् इयम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नैतत् सम्यक्संबुद्धभाषितम् इति. तस्मात् त्वं कुलपुत्र प्रतिप्रस्रम्भय एतान् मनसिकारान् मा ते दीर्घरात्रम् अनर्थाय दुष्खाय विनिपाताय संवर्तेरन्न् इति. तत्र तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा ताः परिभाषाः श्रुत्वैवम् उपपरीक्षितव्यं, मारकर्माणो तानि यो मे ऽनुत्तरायाः सम्यक्संबोधेर् विवेचयति किं चाप्य् आकाशसमाः सर्वधर्मा अभावस्वभावाः स्वलक्षणशून्यास्, तान् सत्त्वा न जानन्ति न पश्यन्ति न बुध्यन्ते तान् वयम् आकाशसमान् अभावस्वभावान् सर्वधर्मान् स्वलक्षणशून्यतासंनाहं संनह्य सर्वाकारज्ञताम् अभिसंबुद्ध्य सत्त्वानां धर्मं देशयिष्यामो, ऽप्रमेयान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामः, सकृदागामिफले (प्स्प्_4:154) ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयिष्यामः, प्रत्येकायां बोधौ प्रतिष्ठापयिष्यामो, ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामः. तत्र बोधिसत्त्वैर् महासत्त्वैः प्रथमचित्तोत्पादम् उपादाय इमान् धर्मान् श्रुत्वा दृढचित्तैर् भवितव्यम् अप्रकम्पचित्तैर् भवितव्यम् असंहार्यचित्तैर् भवितव्यं, त इमे यैर् दृढचित्ततायै अप्रकम्पचित्ततायै असंहार्यचित्ततायै समन्वागताः षट्सु पारमितासु चरन्तो बोधिसत्त्वनियामम् अवक्रामयिष्यन्ति.
इति दुःखे धर्मज्ञानम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः उताहो विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अविनिवर्तनीयः सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, विनिवर्तनीयो ऽपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः.
सुभूतिर् आह: कथं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? कथं च विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः. एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यं, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मारेण पापीयसा न शक्यते विवेचयितुम् अनुत्तरायाः सम्यक्संबोधेः.
इति दुःखे ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं सुभूते आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, यावच् चतुर्थध्यानं समापद्यते (प्स्प्_4:155) यावन् निरोधसमापत्तिं समापद्यते, आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वश् चत्वारि स्मृत्युपस्थानानि समापद्यते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यते, यावच् छून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यते, यावत् पञ्चाभिज्ञा अभिनिर्हरति, इमैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिर् निरोधसमापत्तिभिश् च परिजयं करोति, चत्वारि स्मृत्युपस्थानानि भावयति सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गम् आर्याष्टाङ्गिकं मार्गं शून्यतानिमित्ताप्रणिहितं समाधिं समापद्यते, न च ध्यानफलं परिगृह्णाति, यावन् न निरोधसमापत्तिफलं परिगृह्णाति, न स्रोतआपत्तिफलं परिगृह्णाति न सकृदागामिफलं नानागामिफलं नार्हत्त्वं परिगृह्णाति न प्रत्येकबोधिं परिगृह्णाति आकाङ्क्षमाण एवं संचिन्त्यात्मभावं परिगृह्णाति येनात्मभावेन सर्वसत्त्वानाम् अर्थं करोति तम् आत्मभावं परिगृह्णाति एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दुःखे ऽन्वयज्ञानम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मनसिकारेण समन्वागतो बोधिचित्तेनाविरहितो न रूपगुरुको भवति न क्षणगुरुको भवति नास्रवगुरुको भवति, न दानगुरुको भवति न शीलगुरुको भवति न क्षान्तिगुरुको भवति न वीर्यगुरुको भवति न ध्यानगुरुको भवति न प्रज्ञागुरुको भवति, नाप्रमाणगुरुको भवति नारूप्यगुरुको भवति न समापत्तिगुरुको भवति नाभिज्ञागुरुको भवति न सप्तत्रिंशद्बोधिपक्ष्यधर्मगुरुको भवति न सर्वविमोक्षसमाधिसमापत्तिगुरुको भवति न शून्यतानिमित्ताप्रणिहितगुरुको भवति नार्यसत्यगुरुको भवति न वैशारद्यगुरुको भवति न प्रतिसंविद्गुरुको भवति न सम्यक्संबोधिगुरुको भवति न सत्त्वपरिपाचनगुरुको भवति न बुद्धदर्शनगुरुको भवति न कुशलमूलावरोपनगुरुको भवति. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्याः. स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व अने इमेन च मनसिकारेण समन्वागतश् चतुर्भिश् चेर्यापथैर् अभिक्रामति न प्रतिक्रामति न भ्रान्तचित्त आगच्छति न भ्रान्तचित्तो गच्छति न चङ्क्ररैष्यति (प्स्प्_4:156) न च स्थास्यति न निषीदिष्यति न शय्यां कल्पयिष्यति स स्मृत एवागमिष्यति गमिष्यति चङ्क्रमिष्यति स्थास्यति निषीदिष्यति शय्यां कल्पयिष्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
इति समुदये धर्मज्ञानक्षान्तिः
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन्न् उपायकौशल्येन सत्त्वानां परिपाचनाय पञ्चकामगुणान् उपदिशति सर्वसत्त्वानां दानं ददाति, अन्नम् अन्नार्थिकानां, पानं पानार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति, स आत्मना च दानपारमितायां चरति, परांश् च दानपारमितायां समादापयति दानपारमितायाश् च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, स आत्मना च प्रज्ञापारमितायां चरति, परांश् च प्रज्ञापारमितायां समादापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति समुदये धर्मज्ञानम्
स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन् जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, एवं चातुर्द्वीपकं लोकधातुं साहस्रं लोकधातुं द्विसाहस्रं लोकधातुं यावत् त्रिसाहस्रं महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, न च कामगुणान् परिभुङ्क्ते सततसमितं ब्रह्मचारी भवति, न च कस्यचिद् अवमर्दनाकारं जनयति येनावमर्दनाकारेण परो ऽनात्तमनाः स्यात्, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं वज्रपानिर् यक्षः सदानुबद्धो भविष्यत्य्, अयं बोधिसत्त्वो महासत्त्वो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यथा ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सततसमितं समनुबद्धो यावत् पञ्चवज्रपाणि कुलानि सततसमितं समनुबद्धानि भविष्यन्ति, स न शक्यते मनुष्यैर् अमनुष्यैर् वावक्रमनायानवमर्दनीयो (प्स्प्_4:157) भवति स देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर्लोके सहधर्मेण. इति समुदये ऽन्वयज्ञानक्षान्तिः
तस्य चित्तं न विक्षिप्यते बोधिमनसिकाराद् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्य नेन्द्रियाणि विकलानि भवन्ति श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतिन्द्रियं समाधिन्द्रियं प्रज्ञेन्द्रियं स सत्पुरुषो भविष्यति नासत्पुरुषः.
सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः?
भगवान् आह: यदा सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तं न विनङ्क्ष्यते, एतावता सुभूते बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो बोधिमनसिकारैः समन्वागतो यानि तानि स्त्रीणाम् आवेशनानि वशीकरणानि मन्त्रविद्यौषधिभैषज्यानि तानि सर्वाणि सर्वेण सर्वं सर्वथा सर्वन् न प्रयुक्ते न च प्रयोजयति न च स्त्रीणाम् आवेशनम् अन्यतरान्यतरं करोति, न स्त्रियाः पुरुषस्य वा आदेशनाप्रातिहार्यं करोति, पुत्रो वा ते भविष्यति धीता वा ते भविष्यति, कुलोद्गतो वा भविष्यति, दीर्घायुष्को वा भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु निमित्तं न समनुपश्यति, स निमित्तम् असमनुपश्यन्, परिशुद्धाजीवो विहरति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये ऽन्वयज्ञानम्
पुनर् अपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस्, तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि, तानि शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहम्, एवं भगवन्न् इत्य् आयुष्मां सुभूतिर् भगवतः प्रत्यश्रोषीत्.
भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिमनसिकारैर् अविरहितो न स्कन्धयोगम् अनुयुक्तो (प्स्प्_4:158) विहरति, न धात्वायतनयोगम् अनुयुक्तो विहरति. न प्रतीत्यसमुत्पादाङ्गयोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स शून्यतायां स्थितो न कस्यचिद् धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति. इति निरोधे धर्मज्ञानक्षान्तिः
न चौरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्याहरणं वा हरनं वा समनुपश्यति. इति निरोधे धर्मज्ञानम्
न सेनाकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतायां स्थितो न कस्यचिद् धर्मस्याल्पत्वं वा बहुत्वं वा समनुपश्यति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
न युद्धकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वधर्मतायां स्थितो न कस्यचिद् धर्मस्यानुनयं वा प्रतिघं वा समनुपश्यति. न ग्रामकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वशून्यतायां स्थितो न कस्यचिद् धर्मस्य निचयं वासंनिचयं वा समनुपश्यति. न नगरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स आकाशशून्यतायां स्थितो न कस्यचिद् धर्मस्य संग्रहं वासंग्रहं वा समनुपश्यति. न निगमकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सुभूते कोट्यां स्थितो न कस्यचिद् धर्मस्यात्ययं वानत्ययं वा समनुपश्यति. नात्मकथायोगम् अनुयुक्तो विहरति, एवं न सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यककथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? अत्यन्तविशुद्धत्वात् सर्वधर्माणाम् अन्यत्र प्रज्ञापारमिताकथायोगम् अनुयुक्तो विहरति, अविरहितश् च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः. इति निरोधे ऽन्वयज्ञानम्
स दानपारमितायां चरन् न मात्सर्यकथायोगम् अनुयुक्तो विहरति, शीलपारमितायां चरन् न दौःशील्यकथायोगम् अनुयुक्तो विहरति, क्षान्तिपारमितायां चरन् न प्रतिघकथायोगम् अनुयुक्तो विहरति, वीर्यपारमितायां चरन् न कौशीद्यकथायोगम् अनुयुक्तो विहरति, ध्यानपारमितायां चरन् न विक्षेपकथायोगम् अनुयुक्तो विहरति, प्रज्ञापारमितायां चरन् न दौष्प्रज्ञाकथायोगम् अनुयुक्तो विहरति, सर्वधर्मशून्यतायां विहरन् धर्मकामश् चैव भवति नाधर्मकामः, स धर्मधातौ चरन् न भेद्यस्य धर्मस्य वर्णवादी (प्स्प्_4:159) भवति, समित्रकामो भवति नामित्रकामो बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां च महासत्त्वानां ये च श्रावकप्रत्येकबुद्धयानिकाः कुलपुत्रास् तान् अप्य् अनुत्तरायां सम्यक्संबोधौ समादापयति निवेशयति प्रतिष्ठापयति, स तथागतान् अर्हतः सम्यक्संबुद्धान् आकाङ्क्षति, दर्शनाय यत्र लोकधातौ तिष्ठन्ति ध्रियन्ते यापयन्ति, आकाङ्क्षंस् तत्रोपपद्यते, स इमैर् मनसिकारैर् रात्रिंदिवं विहरति यद् उत बुद्धमनसिकारैः. तत् कस्य हेतोः? तथा हि प्रायेण सुभूते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामधातुप्रतिसंयुक्तान् मनसिकारान् उत्पादयित्वा दशभिः कुशलैः कर्मपथैर् वर्तमानाः तेषु बुद्धक्षेत्रेषूपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति. तत्र प्रथमं ध्यानम् उत्पादयित्वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उत्पादयित्वा तत्रोपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मार्गे धर्मज्ञानक्षान्तिः
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽध्यात्मशून्यतायां स्थितस्य यावद् अभावस्वभावशून्यतायां स्थितस्य स्मृत्युपस्थाने स्थितस्य सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्थितस्याप्रमाणध्यानारूप्यसमापत्तिषु स्थितस्यार्यसत्येषु स्थितस्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितस्य सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु स्थितस्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्थितस्य नैवं भवत्य्, अविनिवर्तनीयो वाहं न वाहम् अविनिवर्तनीय इति विचिकित्सा चास्य नोत्पद्यते. निःसंशयश् च भवति स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सो ऽणुम् अपि धर्मं न समनुपश्यति, यो विवर्तते वा न वा विवर्तते. तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफलभूमौ स्थितो न काङ्क्षति न विचिकित्सति स्वकायां भूमाव् एवं सकृदागाम्यनागाम्यर्हत्त्वभूमौ स्थितो बुद्धभूमौ स्थितो न काङ्क्षति न विचिकित्सत्य्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्वकायां भूमौ न काङ्क्षति न विचिकित्सति. (प्स्प्_4:160) स तत्राविनिवर्तनीयभूमौ स्थितो बुद्धक्षेत्रञ् च परिशोधयति, सत्त्वांश् च परिपाचयत्य्, उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते, न च मारकर्माणां वशेन गच्छति, सर्वाणि च तानि मारकर्माणि बुध्यते बुद्ध्वा च विध्वस्तानि विरलीकरोति. तद्यथापि नाम सुभूते पुरुष आनन्तर्यकर्मकारी आनन्तर्यचित्तेनाविरहितो यावन् मरणकालम् इत्य् अनुवर्तत एव तद् आनन्तर्यचित्तं, न च तत्रानन्तर्यचित्तं शक्नोति विष्कम्भयितुम्, अनुवर्तते चास्य तत् पर्युत्थानं यावन् मरणकालम्. एवम् एव सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य तद् अविनिवर्तनीयचित्तं भूतं स्थितम् अविनिवर्तनीयभूमाव् अविकम्पन् तच् चित्तं, न शक्यते सदेवमानुषासुरेण लोकेन विवर्तयितुम्. तत् कस्य हेतोः? तथा हि तद् अविनिवर्तनीयचित्तं सदेवमानुषासुरम् अतिक्रम्य सम्यक्त्वनियामम् अवक्रान्तं स स्वकायां भूमौ स्थित्वाभिज्ञापरमपारमिताः प्राप्य बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, तेषु च बुद्धक्षेत्रेषु कुशलमूलान्य् अवरोपयित्वा तांश् च बुद्धान् भगवतः परिपृच्छति परिप्रश्नयति पर्युपास्ते.
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः तथा स्थितः, स मान उत्पन्नोत्पन्नानि च मारकर्माण्य् अवबुध्यते, उत्पन्नोत्पन्नानाञ् च मारकर्माणां वशेन न गच्छति, तानि च मारकर्माण्य् उपायकौशल्येन भूतकोटीः शोधयति, स्वकायाञ् च भूमौ न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? तथा हि स निःकाङ्क्षो भूतकोट्याः, न भूतकोटिम् एकां वा द्वे वा विकल्पयति, तस्य जातिविनिवृत्तस्यापि न श्रावकप्रत्येकबुद्धभूमौ चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति. इति मार्गे धर्मज्ञानम्
तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य स्वलक्षणशून्येषु सर्वधर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यते. जातिविनिवृत्तस्यापि नैवं भवति, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम्, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्या अनुत्तरा सम्यक्संबोधिः.
(प्स्प्_4:161)
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं स्थितः स्वकायां भूमाव्, अपरप्रत्ययः स्वकायां भूमाव्, अनवमर्दनीयः स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व एवं स्थितो ऽसंहार्येण ज्ञानेन समन्वागतो भवति.
सचेत् खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: ऽहैव त्वम् अर्हत्त्वं प्राप्नु हि, न त्वं व्याकृतो ऽनुत्तरायां सरोयक्संबोधौ, न च त्वयानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धो, येन त्वं व्याक्रियथास् तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ, न च त्वयि ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ.
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वस् तद् वचनं श्रुत्वा नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न च चित्तस्यान्यथा त्वं भवति वेदितव्यं, सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि मम ते धर्माः संविद्यन्ते यैर् धर्मैर् बोधिसत्त्वा महासत्त्वा व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ. इति मार्गे ऽन्वयज्ञानक्षान्तिः
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: माराधिष्ठितो वा पुरुषः श्रावकत्वे त्वं कुलपुत्र व्याकृतो न त्वम् अनुत्तरायां सम्यक्संबोधौ, किं ते ऽनुत्तरया सम्यक्संबोध्या.
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भविष्यति, मारो बतायं पापीयान् बुद्धवेषेणोपसंक्रान्तो माराधिष्ठितो वा पुरुषो, न च तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वं महासत्त्वं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा समादापयति.
सचेद् अयम् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: नैतद् बुद्धभाषितं न श्रावकैर् मारभाषितान्य् एतानि सूत्राणि यत्र त्वं चरसि. वेदितव्यम् एतद् बोधिसत्त्वेन महासत्त्वेन मारो बतायं पापीयान् माराधिष्ठितो वा पुरुषो, यो माम् अमुत्तरायाः सम्यक्संबोधेर् विवेचयति. वेदितव्यम् एतत् सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वः तैः पूर्वकैस् तथागतैर् (प्स्प्_4:162) अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोः? तथा ह्य् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य त आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनियो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनैव योगम् आपद्यते ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सद्धर्मपरिग्रहं करोति. तत्र कतरो धर्मो यस्य कृतेन बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति? इह सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माः शून्या इति धर्मं देशयति, तत्रैके मोहपुरुषाः प्रतिक्रोशन्ति प्रतिवहन्ति नैष धर्मो न विनयो नैतच् छास्तुः शासनम्, अस्य सुभूते कृतशो बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेनैवम् उपपरीक्षितव्यं, ये ऽपि ते तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं भाषिष्यन्ते, अहम् अपि तत्र गणनां यास्याम्य् अहम् अपि तत्र व्याकृतो ममाप्य् एष धर्मो यस्य धर्मस्य कृतेनाहम् आत्मपरित्यागं करोमि जीवितपरित्यागं करोमीमं सुभूते ऽर्थवशं संपश्य बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागं करोति जीवितपरित्यागं करोत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति न विचिकित्सति, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते तं सर्वम् उद्गृह्णाति तथोद्गृहीतञ् च समानं न विप्रणाशयति. तत् कस्य हेतोः? यथापि तद् धारणीप्रतिलब्धत्वात्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमस्या भगवन् धारण्याः प्रतिलब्धत्वाद् बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति?
(प्स्प्_4:163)
भगवान् आह: धारणधारणीप्रतिलब्धस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति.
सुभूतिर् आह: तथागतस्यैव भगवन्न् अर्हतः सम्यक्संबुद्धस्य न श्रावकभाषितानि न देवभाषितानि न नागभाषितानि न यक्षभाषितानि न गन्धर्वभाषितानि नासुरभाषितानि न गरुडभाषितानि न किंनरभाषितानि न महोरगभाषितानि.
भगवान् आह: ये केचित् सुभूते रुतसंकेतघोषाः सर्वत्र बोधिसत्त्वो महासत्त्वो न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? यथापि नाम तद् धारणधारणीप्रतिलब्धत्वाद्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महागुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, प्रमाणगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽपरिमितगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् महागुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽप्रमाणगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, परिमितगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा ह्य् अनेनानन्तम् अपर्यन्तं ज्ञानं प्रतिलब्धम् असंहार्यं श्रावकप्रत्येकबुद्धैस्, तत्र च ज्ञाने स्थित्वाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रतिसंविदो ऽभिनिर्हरति याभिः प्रतिसंविद्भिर् अभिनिर्हृताभिः सदेवमानुषासुरेण लोकेन न शक्यः पर्यादातुम्.
इति मार्गे ऽन्वयज्ञानम् इति दर्शनमार्गस्थावैवर्तिकलक्षणम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रतिबलो भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पान् आकारलिङ्गनिमित्तानि निर्देष्टुं यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रभाव्यते साधु भगवन् गम्भीराणि गम्भिराणि स्थानानि निर्दिशतु यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् (प्स्प्_4:164) परिपूरयति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तिः परिपूरयति, शून्यतानिमित्ताप्रणिहिताभिज्ञाः परिपूरयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, सर्वाकारज्ञतां परिपूरयति. इति गम्भीरो भावनामार्गः
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते, साधु खलु पुनस् त्वं सुभूते यस् त्वम् अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् अर्थाय गम्भीराणि गम्भीराणि स्थानानि परिपृच्छितव्यानि मन्यसे, गम्भीरम् इति सुभूते शून्यताया एतद् अधिवचनम् आनिमित्तस्याप्रणिहितस्यानभिसंस्कारस्यानुत्पादस्यानिरोधस्यानिर्वाणस्याशान्तस्य तथताया भूतकोटेर् धर्मधातोर् इमानि तानि सुभूते गम्भीरगम्भीराणि स्थानानि येषाम् एतद् अधिवचनं यद् इदं निर्वाणम् इति.
सुभूतिर् आह: निर्वाणस्यैवैतद् भगवन्न् अधिवचनं न पुनर् भगवन् सर्वधर्माणाम्?
भगवान् आह: सर्वधर्माणाम् एवैतत् सुभूते ऽधिवचनं गम्भीरम् इति. तत् कस्य हेतोः? रूपं सुभूते गम्भीरम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते गम्भीरं, चक्षुर् अपि सुभूते गम्भीरम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि सुभूते गम्भीरं, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा अपि सुभूते गम्भीराश्, चक्षुर्विज्ञानं सुभूते गम्भीरं, चक्षुःसंस्पर्शः सुभूते गम्भीरः, चक्षुःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा. एवं श्रोत्रं घ्राणं जिह्वा कायो, मनोविज्ञानं सुभूते गम्भीरं, मनःसंस्पर्शः सुभूते गम्भीरः, मनःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा, पृथिवीधातुर् अपि सुभूते गम्भीरः, एवम् अब्धातुः तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुः सुभूते गम्भीरः. प्रतीत्यसमुत्पादः सुभूते गम्भीरो, ऽविद्या सुभूते गम्भीरा, एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं शोकपरिदेवदुष्खदौर्मनस्योपायासाः सुभूते गम्भीराः, सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखं सुभूते गम्भीरं, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सुभूते गम्भीरा, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि सुभूते गम्भीराणि, त्रीणि विमोक्षमुखानि सुभूते गम्भीराणि, (प्स्प्_4:165) अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सुभूते गम्भीराः, बोधिर् अपि सुभूते गम्भीरा. कथञ् च पुनः सुभूते रूपं गम्भीरं? यथा रूपतथता तथा गम्भीरं, यथा वेदनातथता तथा गम्भीरं, यथा संज्ञातथता तथा गम्भीरं, यथा संस्कारतथता तथा गम्भीरं, यथा विज्ञानतथता तथा गम्भीरं, यथा स्कन्धधात्वायतनतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादाङ्गतथता तथा गम्भीरम्, एवं यथा सर्वपारमितातथता तथा गम्भीरं, यथा सर्वशून्यतातथता तथा गम्भीरं, यथा बोधिपक्ष्याणां धर्माणां तथता तथा गम्भीरं, यथार्यसत्याप्रमाणध्यानारूप्यसमापत्तितथता तथा गम्भीरं, यथा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता तथा गम्भीरं, यथा शून्यतानिमित्ताप्रणिहिताभिज्ञातथता तथा गम्भीरं, यथा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतथता तथा गम्भीरं, यथा बोधितथता तथा गम्भीरम्. इति भावनामार्गगाम्भीर्यम्
सुभूतिर् आह: कथं भगवन् रूपस्य तथता?
भगवान् आह: यत्र सुभूते तथतायां न रूपं नान्यत्र रूपाद्, यत्र सुभूते तथतायां न वेदना नान्यत्र वेदनायाः, यत्र सुभूते तथतायां न संज्ञा नान्यत्र संज्ञयाः, यत्र सुभूते तथतायां न संस्कारा नान्यत्र संस्कारेभ्यो, यत्र सुभूते तथतायां न विज्ञानं नान्यत्र विज्ञानाद्. एवं यत्र सुभूते तथतायां न स्कन्धधात्वायतनानि नान्यत्र स्कन्धधात्वायतनेभ्यो, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादो नान्यत्र प्रतीत्यसमुत्पादाद्, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादङ्गानि नान्यत्र प्रतीत्यसमुत्पादाङ्गेभ्यो, यत्र सुभूते तथतायां न सर्वपारमिता नान्यत्र सर्वपारमिताभ्यो, यत्र सुभूते तथतायां न सर्वशून्यता नान्यत्र सर्वशून्यताभ्यो, यत्र सुभूते तथतायां न बोधिपक्ष्या धर्मा नान्यत्र बोधिपक्षेभ्यो धर्मेभ्यो, यत्र सुभूते तथतायां न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नान्यत्र सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो यत्र सुभूते तथतायां नार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नान्यत्रार्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो, यत्र सुभूते तथतायां नाभिज्ञादशबलवैशारद्यप्रतिसंविदो नान्यत्राभिज्ञादशबलवैशारद्यप्रतिसंविद्भ्यो, यत्र सुभूते तथतायां नावेणिकाबुद्धधर्मा नान्यत्रावेणिकेभ्यो बुद्धधर्मेभ्यो, यत्र सुभूते तथतायां न बोधिर् नान्यत्र बोधेः तथता.
(प्स्प्_4:166)
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावत् सूक्ष्मेणोपायेनाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो रूपतश् च वारितो निर्वाणं च सूचितम्. एवं वेदनायाः संज्ञायाः संस्कारेभ्यो, विज्ञानतश् च वारितो निर्वाणं च सूचितं, सर्वधर्मसंग्रहे ऽप्य् अस्य लौकिकलोकोत्तरेण सास्रवेणानास्रवेण सास्रवाणास्रवेभ्यो वारितो निर्वाणं च सूचितम्.
इति भावनामार्गस्य समारोपापवादान्तमुक्ता
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदा पुनः सुभूते बोधिसत्त्वो महासत्त्व इमानि गम्भीरगम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति तुलयिष्यत्य् उपनिध्यास्यति. इति भावनापथः
एवं मया स्थातव्यं यथा प्रज्ञापारमितायाम् आज्ञप्तम्, एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायाम् आख्यातम्, एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायाम् उद्दिष्टम् इत्य्. अयं सुभूते बोधिसत्त्वो महासत्त्वः तथा संपादयंस् तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा प्रयुज्यमानस् तथा घटमानस् तथा व्यायच्छमानः.
इति निर्वेधाङ्गदो भावनापथः
स तेन चित्तोत्पादेनासंख्येयम् अप्रमेयम् अपरिमाणकुशलमूलं परिग्रहीष्यत्य् अपरिमाणात् कल्पात् संसाराच् छोरयिष्यति विपृष्ठीकरिष्यति व्यन्तीकरिष्यति, कः पुनर् वादो यदाव्यवकीर्णः प्रज्ञापारमितायांश् चरन् बोधिप्रतिसंयुक्तैर् मनसिकारैर् विहरिष्यति. तद्यथापि नाम सुभूते स पुरुषो रागचरितो वितर्कचरितस् तस्यान्यतरया स्त्रिया सार्धम् अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतः स्यात् सा च स्त्री परपरिगृहीता न लभते गृहतो निष्क्रमणाय. तत् किं मन्यसे? सुभूते किं प्रतिसंयुक्तास् तस्य पुरुषस्य वितर्का वर्तेरन्न् इति.
सुभूतिर् आह: स्त्रीप्रतिसंयुक्ता एवं भगवंस् तस्य पुरुषस्य वितर्का वर्तेरन्न्, इयं मे स्त्री आगता एतया सार्धं निषीदिष्यामि प्रतिक्रमिष्यामि परिचारयिष्यामीति.
भगवान् आह: तत् किं मन्यसे? सुभूते रात्र्या वा दिवसस्य वात्ययेन कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्.
सुभूतिर् आह: बहवो भगवन् बहवः सुगत तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तेरन्.
(प्स्प्_4:167)
भगवान् आह: यावन्तः सुभूते तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तन्ते, इयतः कल्पान् स बोधि सत्त्वो महासत्त्वः संसाराच् छोरयति विपृष्ठीकरोति व्यन्तीकरोति य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षते उपपरीक्षते उपनिध्यायति तथा तथा च योगम् आपद्यते, यथा यथा तान् दोषान् विवर्जयति यैर् दोषैर् बोधिसत्त्वा महासत्त्वा विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. एवं योगन् अनुयुक्तस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्यानेन विहारेण विहरतो यथा प्रज्ञापारमितायाम् उपदिष्टायाम् एकदिवसेन यत् कुशलमूलं येन कुशलमूलेन गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः स्युर्, नेदं तस्य कुशलस्य शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटीनियुतशतसहस्रतमीम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिशाम् अपि उपनिषदम् अपि नोपैति.
इति त्रिविधो ऽनुशंसः
पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात् त्रिषु रत्नेषु बुद्धरत्ने धर्मरत्ने संघरत्ने. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो ऽधिमात्राधिमात्रः
भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? एष हि बोधिसत्त्वानां महासत्त्वानां मार्गो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इति प्रतिपक्षो मृदुमृदुः
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् स्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेद्, एवं सकृदागामिष्व् अनागामिष्व् अर्हत्सु दक्षिणां प्रतिष्ठापयेत्, प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
(प्स्प्_4:168)
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो ऽधिमात्रमध्यः
भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति प्रतिपक्षो मृदुमध्यः
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो ऽधिमात्रमृदुः
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत्. तत् कस्य हेतोः? मातैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता जनयित्री चैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. अत्र हि सुभूते प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् परिपूरयन्ति.
इति प्रतिपक्षो मृद्वधिमात्रः
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् सत्त्वेभ्यो धर्मदानं दद्यात्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो मध्याधिमात्रः
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि सत्त्वेभ्यो धर्मदानं दद्यात्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः (प्स्प्_4:169) स सर्वाकारज्ञतयाविरहितो यः पुनः सुभूते बोधिसत्त्वो महिसत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञतयाविरहितः, तस्मत् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितयाविरहितेन भवितव्यम्.
इति प्रतिपक्षो मध्यमृदुः
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिर् योगम् आपद्येत चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टङ्गेन मार्गेण योगम् आपद्येत चतुर्भिर् आर्यसत्यैर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः शून्यतानिमित्ता प्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकबुद्धधर्मैर् योगम् आपद्येत. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो मध्यमध्यः
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् एकम् अपि दिवसं योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् योगम् आपद्येत. तत् कस्य हेतोः? अस्थानं सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञताया विवर्तते नेदं स्थानं विद्यते. स्थानञ् च खलु पुनः सुभूते ऽवकाशश् च यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञताया विवर्तते, स्थानम् एतद् विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितयाविरहितेन भवितव्यम्.
इति प्रतिपक्षो मध्यमध्यः
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया (प्स्प्_4:170) विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठंस् तद् आमिषदानं धर्मदानं ताभ्यां प्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो मध्यमृदुः
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि तद् आमिषदानं धर्मदानं ताभ्यां च प्रज्ञापारमिताप्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमः परिणामो यद् उत प्रज्ञापारमितापरिणामः. यः पुनः प्रज्ञापारमितया विरहितः परिणामो न स परिणामः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणामना कुशलमूलेन भवितव्यम्.
इति प्रतिपक्षो मध्याधिमात्रः
तत् किं मन्यसे? सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताविरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन्न् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां यं कुशलमूलं तत् सर्वम् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
इति विपक्षो मृद्वधिमात्रः
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि यं कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमो ऽनुमोदनापरिणामो यद् उत प्रज्ञापारमितानुमोदना परिणामस्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितानुमोदनापरिणामना कुशलमूलेन भवितव्यम्.
इति प्रतिपक्षो ऽधिमात्रमृदुः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन्न् अभिसंस्कारः कल्पित इत्य् उक्तो भगवता तदा कथं स (प्स्प्_4:171) कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्? न च भगवन्न् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वानुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक् संबोधिम् अभिसंबोद्धुम्. इति विपक्षो मृदुमध्यः
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न ह्य् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वा अनुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स चापि सुभूते अभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक एवाख्यायते, रिक्तक एवाख्यायते, तुच्छक एवाख्यायते, असारक एवाख्यायते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितः.
इति प्रतिपक्षो ऽधिमात्रमध्यः
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो इह शून्यतायां स्थित्वा यथा यथाभिसंस्कारान् प्रत्यवेक्षते तथा तथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति, यथा यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तथा तथासंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवेत्.
इत्य् अर्थक्षिप्तविपक्षस्य मृदुमृदुः प्रतिपक्षो ऽधिमात्राधिमात्रः इति भावनामार्गस्थावैवर्तिकलक्षणम्
सुभूतिर् आह: असंख्येयस्य च भगवन्न् अप्रमेयस्य चापरिमाणस्य च कः प्रतिविशेषः? किं नानाकरणम्?
भगवान् आह: असंख्येयम् इति सुभूते यस्य संख्या न विद्यते यः संख्यान् नोपैति, असंख्येयम् इति वा अप्रमाणम् इति वा सुभूते यस्य प्रमाणन् नोपलभ्यते ऽतीतानागतप्रत्युत्पन्नेषु धर्मेषु, अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुम्.
सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा विज्ञानम् अपि भगवन्न् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्.
(प्स्प्_4:172)
भगवान् आह: स्यात् सुभूते पर्यायो येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदनापि संज्ञापि संस्कारा अपि, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्याद् इत्य् असंख्येयादीनाम् उपलक्षणाम्.
कतमेन भगवन् पर्यायेण रूपम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्?
भगवान् आह: रूपं सुभूते शून्यम् असं ख्येयम् अप्रमेयम् अपरिमाणं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते शून्यम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्.
सुभूतिर् आह: किं पुनर् भगवन् रूपम् एव शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् एव शून्यं, न पुनः सर्वधर्मा अपि शून्याः?
भगवान् आह: तत् किं मन्यसे? सुभूते न मया सर्वधर्माः शून्या इत्य् आख्याताः.
सुभूतिर् आह: शून्या इति भगवन् सर्वधर्मास् तथागतेनाख्याता, ये च भगवन् शून्या अक्षया अपि ते, असंख्येया अपि ते अप्रमेया अपि ते, अपरिमाणा अपि ते, न भगवन् शून्यतायाः संख्योपलभ्यते, न प्रमाणम् उपलभ्यते, न परिमाणम् उपलभ्यते, इत्य् असंख्येयादीनां स्वभावलक्षणं, तस्मात् तर्हि भगवन् नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते. अनभिलप्यम् एतत् सुभूते तथागतेनाभिलपितम्, अक्षयम् इति वा असंख्येयम् इति वा अप्रमेयम् इति वा अपरिमाणम् इति वा शून्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् इति वा देशनानिष्पन्दनिर्देश एष सुभूते तथागतस्याक्षयम् इति यावन् निर्वाणम् इति चेति चोद्यपूर्वकस् तथागतकरुणानिष्पन्दनिर्देशः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं धर्माणां धर्मता तथागतेन देश्यते, सा च धर्मता अनभिलप्या यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, तथा सर्वधर्मा भगवन्न् अनभिलप्याः.
(प्स्प्_4:173)
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते अनभिलप्या, या सुभूते धर्माणाम् अनभिलप्यता सा शून्यता, न च शून्यता शक्याभिलपितुम्.
सुभूतिर् आह: किं पुनर् भगवन्न् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा?
भगवान् आह: न सुभूते अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिर्.
सुभूतिर् आह: सचेद् भगवन्न् अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिः, दानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, एवं शीलक्षान्तिवीर्यध्यानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, प्रज्ञापारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, चतुर्णां स्मृत्युपस्थानानां न वृद्धिर् न परिहाणिर् भविष्यति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य न वृद्धिर् न परिहाणिर् भविष्यति, अष्टानां विमोक्षाणां न वृद्धिर् न परिहाणिर् भविष्यति, नवानुपूर्वविहारसमापत्तीनाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानां शून्यतानिमित्ताप्रणिहिताभिज्ञानं न वृद्धिर् न परिहाणिर् भविष्यति, दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां न वृद्धिर् न परिहाणिर् भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न वृद्धिर् न परिहाणिर् भविष्यति, अष्टादशानाम् आवेणिकबुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति. सचेद् भगवन्न् आसां षण्णां पारमितानां न वृद्धिर् न परिहाणिर् भविष्यति, यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति, तदा अभव्या हि भगवन् सर्वाकारज्ञतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इत्य् अनभिलप्यस्य हानिवृद्ध्या भावेन चोद्यम्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नानभिलप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा. सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवति, अहं प्रज्ञापारमितया विवर्द्धे, ऽहं ध्यानपारमितया विवर्द्धे, ऽहं वीर्यपारमितया विवर्द्धे, ऽहं क्षान्तिपारमितया विवर्द्धे, ऽहं शीलपारमितया विवर्द्धे, ऽहं दानपारमितया विवर्द्धे. एष च पुनर् अस्यैवं भवति, नामधेयमात्रम् एतद् यद् इदं दानपारमिता, स दानपारमितायां (प्स्प्_4:174) चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथानुत्तरा सम्यक्संबोधिर्, एवं शीलक्षान्तिवीर्यध्यानपारमिता प्रज्ञापारमितायां चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति यथानुत्तरा सम्यक्संबोधिर् इति परिहारः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा च पुनर् भगवन्न् अनुत्तरा सम्यक्संबोधिः?
भगवान् आह: सर्वधर्माणां तथतानुत्तरा सम्यक्संबोधिः.
सुभूतिर् आह: कतमैषा भगवन् सर्वधर्माणां तथता यानुत्तरा सम्यक्संबोधिः?
भगवान् आह: या सुभूते रूपस्य तथता या वेदनायास् तथता या संज्ञयाः तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धतथता या धातुतथता या आयतनतथता या प्रतीत्यसमुत्पादतथता या प्रतीत्यसमुत्पादाङ्गतथता, एवं यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः, सा नैव विवर्द्धते न परिहीयते. तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो ऽभीक्स्णं बहुलं विहरति, न कस्यचिद् धर्मस्य वृद्धिं वा परिहाणिं वा समनुपश्यति. एवं खलु सुभूते अनभिलप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिर्, एवं च सुभूते दानपारमिताया न वृद्धिर् न परिहाणिर्, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया न वृद्धिर् न परिहाणिर्, एवं शून्यतानां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् अभिज्ञानां शून्यतानिमित्ताप्रणिहितानां दशानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अवृद्ध्यपरिहाणियोगेन.
इति बोधिलक्षणम्
सुभूतिर् आह: तत् किं प्रथमचित्तोत्पादेन भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, उताहो पश्चिमेन चित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? यदि तावद् भगवन् बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादेनानुत्तरां (प्स्प्_4:175) सम्यक्संबोधिम् अभिसंबुध्यते, तत् पूर्वकश् चित्तोत्पादः पश्चिमेन चित्तोत्पादेनासमवसृतः, पश्चिमश् चित्तोत्पादः पूर्वकेन चित्तोत्पादेनासमवसृतः, एवम् असमवसृतानां भगवंश् चित्तचैतसिकानां धर्माणां कथं कुशलमूलान्य् उपचयं गच्छन्ति, न चानुपचितैः कुशलमूलैः शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्? इति मनसोर् असमवधानेन चोद्यम्
भगवान् आह: तेन हि सुभूते उपमां ते करिष्याम्य् अस्यैवार्थस्य विज्ञापनाय, उपमया इहैकत्या विद्वांसः पुरुषा भाषितस्यार्थम् आज्ञास्यन्ति. तत् किं मन्यसे? सुभूते तैलप्रद्योतस्य ज्वलितस्य दीप्यमानायां वर्तौ प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा.
सुभूतिर् आह: न भगवन् प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा न च प्रथमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा, न भगवन् पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, न च पश्चिमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा.
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु सा वर्तिर् दग्धा.
सुभूतिर् आह: दग्धा भगवन् दग्धा सुगत.
भगवान् आह: एवम् एव सुभूते न प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेन सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अत्र हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय दश भूमीः परिपूरयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
सुभूतिर् आह: कतमा भगवन् दश भूमीः परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
भगवान् आह: शुक्लविपश्यनाभूमिं सुभूते परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृतावीभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् (प्स्प्_4:176) अभिसंबुध्यते, श्रावकप्रत्येकबुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बोधिसत्त्वभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत्र बोधिसत्त्वो महासत्त्वो दशसु भूमिषु शिक्षमाणो न च प्रथमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधिम्.
इति दीपदृष्टान्तेन परिहारः
सुभूतिर् आह: गम्भीरो भगवन् प्रतीत्यसमुत्पादो, न च नाम भगवन् प्रथमचित्तोत्पादेन, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च नाम भगवन् पश्चिमेन चित्तोत्पादेन, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम्.
भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तं निरुद्धम् अपि नु तत् पुनर् एवोत्पत्स्यते.
सुभूतिर् आह: नो हीदं भगवन्. इत्य् उत्पादगाम्भीर्यम्
भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तम् उत्पन्नम् अपि नु तन् निरोधधर्मि.
सुभूतिर् आह: निरोधधर्मि भगवन् निरोधधर्मि सुगत.
भगवान् आह: तत् किं मन्यसे? सुभूते यन् निरोधधर्मि तन् निरोत्स्यते.
सुभूतिर् आह: नो हीदं भगवन्. इति निरोधगाम्भीर्यम्
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता.
सुभूतिर् आह: तथैव भगवं स्थास्यति यथा तथता.
(प्स्प्_4:177)
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता भूतकोटिर् भविष्यति.
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते गम्भीरा तथता.
सुभूतिर् आह: गम्भीरा भगवन्. इति तथतागाम्भीर्यम्
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव चित्तं यथा तथता.
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते अन्यत्र तथतायाश् चित्तम्.
सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञेयगाम्भीर्यम्
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तथता तथतां समनुपश्यति.
सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञानगाम्भीर्यम्
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स गम्भीरायां प्रज्ञापारमितायां चरति.
सुभूतिर् आह: यो भगवैम् एवं चरति, स गम्भीरायां प्रज्ञा पारमितायां चरति.
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स कुत्र चरति.
सुभूतिर् आह: यो भगव्न्न् एवं चरति, स न कुत्रचिच् चरति. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एते समुदाचारा न भवन्ति, न समुदाचरन्ति तथतायां स्थितस्य न भगवन् किञ्चित् समुदाचारति, नापि तत्र कश्चित् समुदाचरति. इति चर्यागाम्भीर्यम्
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति स कुत्र चरति?
सुभूतिर् आह: चरति भगवन् परमार्थे यत्र द्वयसमुदाचारो न संविद्यते.
भगवान् आह: तत् किं मन्यसे? सुभूते यः परमार्थे चरति समुदाचारे चरति, स निमित्ते चरति.
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तेन निमित्तसंज्ञा वानिमित्तसंज्ञा वा विभाविता भवति.
(प्स्प्_4:178)
सुभूतिर् आह: नो हीदं भगवन्. इत्य् अद्वयगाम्भीर्यम्
भगवान् आह: तत् कथं सुभूते बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा वा आनिमित्तसंज्ञा वा न विभाविता भवति?
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रयुज्यते, निमित्तं वा भावयिष्याम्य् अनिमित्तं वा भावयिष्यामीति, इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापरिपूर्णैर् दशभिस् तथागतबलैर् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् महामैत्र्या महाकरुणया अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इदं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं येनोपायकौशल्येन न कंचिद् धर्मं भावी वा करोत्य् अभावी वा करोति. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वलक्षणशून्यतायां स्थितस्, तत्र च स्वलक्षणशून्यतायां स्थित्वा त्रीन् समाधीन् समापद्यते, सत्त्वानां कृतशस् तैश् च समाधिभिः सत्त्वान् परिपाचयति.
एवं भगवन् बोधिसत्त्वो महासत्त्वस् त्रीन् समाधीन् समापद्यते, तत्र च भगवन् बोधिसत्त्वो महासत्त्वस् त्रीषु समाधिषु स्थित्वा सत्त्वांश् च प्रणिधानेन चरतस् तान् अप्रणिहितेन नियोजयति, सत्त्वांश् च विकल्पे चरतस् तान् बोधिसत्त्वो महासत्त्वः शून्यतायां प्रतिष्ठापयति, सत्त्वांश् च निमित्ते चरतस् तान् बोधिसत्त्वो महासत्त्व आनिमित्ते प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिभिः समाधिभिः सत्त्वान् परिपाचयति.
इत्य् उपायकौशलं गाम्भीर्यम् इत्य् उक्तः शैक्षो ऽवैवर्तिको गणः
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस् त्रीन् समाधीन् समापद्यते शून्यताम् आनिमित्तम् अप्रणिहितम्, अपि नु स प्रज्ञापारमितायां विवर्धते.
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद्य् आयुष्मन् शारिपुत्र दिवसे भावनया विवर्धते, एवं स्वप्नान्तरगतो ऽपि विवर्धते. तत् कस्य हेतोः? अविकल्पः, अथ खल्व् आयुष्मन् शारिपुत्र स्वप्नश् च दिवसश् च, सचेद् आयुष्मन् शारिपुत्र यदि दिवसे बोधिसत्त्वस्य (प्स्प्_4:179) महासत्त्वस्य प्रज्ञापारमिताभावनास्ति, तदा स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भविष्यति. इति भवशान्त्योर् अकल्पना
एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः कर्म करोति, भवति तस्य कर्मण आचयो वा उपचयो वा, यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा नास्य भवत्य् आचयो वा उपचयो वा. तत् कस्य हेतोः? न हि स्वप्ने कस्यचिद् धर्मस्याचवो वा उपचयो वा उपलभ्यते. अथ विबुद्धो विकल्पयिष्यति, भवति तस्याचयो वा उपचयो वा.
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यश् च दिवसं प्राणातिपातं कृतो, यश् च स्वप्नान्तरे हतस् तं प्रतिविबुधो विकल्पयति, अहो हतो मया हतः साधु हत इति, तत् कर्मायुष्मन् शारिपुत्र किम् आह?
शारिपुत्र आह: नायुष्मन् सुभूते अनारम्बणकर्मोत्पद्यते सारम्बणम् एव कर्मोत्पद्यते.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते नानारम्बणं चेतनोत्पद्यते सारम्बणम् एवायुष्मन् शारिपुत्र कर्मोत्पद्यते नानारम्बणं सारम्बणा चेतनोत्पद्यते नानारम्बणम्. दृष्टश्रुतमतविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते, नादृष्टैर् नाश्रुतैर् नामतैर् नाविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते. तत्र काचिद् बुद्धिः संक्लेशं परिगृह्णाति, काचिद् बुद्धिर् व्यवदानं परिगृह्णाति, तस्मात् तर्ह्य् आयुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं सारम्बणैव चेतनोत्पद्यते नानारम्बणा.
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वाणि कर्माणि सर्वाश् चेतना विविक्ता उक्ता भगवता, तत् कथं सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा?
सुभूतिर् आह: निमित्तीकृत्यायुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा.
अथ खल्व् आयुष्मान् शारिपुत्रः सुभूतिं स्थविरम् एतद् अवोचत्: यद्य् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं (प्स्प्_4:180) समापद्येत प्रज्ञां भावयेत्, तच् च कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत् परिणामितं भवत्य् अनुत्तरायै सम्यक्संबोधये.
अथ खल्व् आयुष्मान् सुभूतिः स्थविर आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: अयम् आयुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवताविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यति.
अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अयं सुभूति स्थविर एवम् आह, अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवतो ऽविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यतीति.
एवम् उक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं नामधेयं मैत्रेयो बोधिसत्त्वो महासत्त्वो विसर्जयिष्यत्य्, उताहो रूपं विसर्जयिष्यति, वेदना संज्ञा संस्कारा, विज्ञानं विसर्जयिष्यति? या रूपस्य शून्यता सा विसर्जयिष्यति, या वेदनाशून्यता या संज्ञाशून्यता या संस्कारशून्यता, या विज्ञानशून्यता सा विसर्जयिष्यति? या च रूपस्य शून्यता न सा प्रतिबला विसर्जयितुं, या वेदनायाः शून्यता या संज्ञायाः शून्यता या संस्काराणां शून्यता या विज्ञानस्य शून्यता न सा प्रतिबला विसर्जयितुम्? तत् किं विसर्जयिष्यति नाहं तं धर्मं समनुपश्यामि, यो धर्मो विसर्जयिष्यति, यं विसर्जयिष्यति, यत्र वा विसर्जयिष्यति? तम् अप्य् अहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, येन व्याकृतो, यत्र वा व्याकृतस्, तम् अप्य् अहं धर्मं न समनुपश्यामि सर्व एते धर्मा अद्वया अद्वैधीकाराः.
अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: कश्चित् त्वया मैत्रेय एते धर्मा एवं साक्षात्कृता यथैतान् धर्मान् भाषसे?
मैत्रेय आह: न मयैते धर्मा एवं साक्षात्कृता यथाहम् एतान् धर्मान् भाषे.
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वो यथापि नाम दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिताविन एष निर्देशो ऽनुपलम्भो ऽनुपलम्भचरितस्य.
(प्स्प्_4:181)
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र समनुपश्यसि त्वं तं धर्मं येन त्वं धर्मेणार्हन्न् इति प्रभाव्यसे.
शारिपुत्र आह: नो हीदं भगवन्.
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य्, अयं धर्मो व्याकरिष्यत्य् अयं धर्मो व्याक्रियते अयं धर्मो व्याकृतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवञ् चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति, न चास्य विचिकित्सोत्पद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिं, यः शारिपुत्र बोधिसत्त्वो महासत्त्व एवं चरति स चरति प्रज्ञापारमितायाम्. एवञ् चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिम्.
इति चोद्यपरंपरेत्य् उक्ता भवशान्तिसमता
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायाञ् चरता जिघत्सितान् सत्त्वान् दृष्ट्वा पिपासितान् दुर्निवसितान् दुःप्रावृतान् शयनासनविहीनांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा दानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञाप्स्यन्ते. यथापि तच् चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्मणां परीत्ताभानाम् अप्रमाणाभानां आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां वृहत्फलानां शुद्धावासानां सुदृशानां सुदर्शनानाम् अस्पृहानाम् अतपानाम् अकनिष्ठानां देवानाम् उपभोगपरिभोगाय, एवंविधास् तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् उपभोगपरिभोगा भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां चरता प्राणातिपातिकान् सत्त्वान् दृष्ट्वा अदत्तादायिकान् काममिथ्याचारिकान् मृषावादिकान् पारुषिकान् पिशुनवचनान् प्रलापान् अभिध्यालुकान् व्यापन्नचित्तानि (प्स्प्_4:182) मिथ्यादृष्टिकान् अल्पायुष्कान् बह्वाबाधान् बह्वायासान् दुर्वर्णान् अल्पेशाख्यान् अल्पभोगान् नीचकुलान् निहीनवृत्तीन् अङ्गविहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा शीलपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयत्य् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरतान्योन्यव्यापादबहुलचित्तान् सत्त्वान् दृष्ट्वा लोष्टताडनशस्त्रप्रहारांश् च ददतो जीवितांश् च व्यवरोपयतो दण्डादण्डि मुषलामुषलि केशाकेशि कचाकचि कुर्वतश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा क्षान्तिपारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. सर्वसत्त्वाश् च मातृसमचित्ता भविष्यन्ति, पितृसमचित्ताश् च भविष्यन्ति, भ्रातृसमचित्ताश् च भविष्यन्ति, भगिनीसमचित्ताश् च भविष्यन्ति, पुत्रदुहितृसमचित्ताश् च भविष्यन्ति, मैत्रचित्ता भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भविष्यति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन वीर्यपारमितायाञ् चरता हीनवीर्यान् सत्त्वान् दृष्ट्वा कुशीदान् अलसान् निरुद्योगान् अल्पसत्त्वांस् त्रिभिर् यानैः प्रस्थितान् श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बोधिसत्त्वयानेन वा सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा वीर्यपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितां, परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां चरता सत्त्वान् पञ्चसु निवरणेषु प्रवर्तमानान् दृष्ट्वा कामच्छन्दे व्यापादे स्त्यानमिद्धे उद्धतकौकृत्ये विचिकित्सायां निवरणेषु (प्स्प्_4:183) प्रवर्तमानान् सत्त्वान् मूढान् मूढस्मृतीन् प्रथमध्यानविरहितान् द्वितीयध्यानविरहितांस् तृतीयध्यानविरहितांश् चतुर्थध्यानविरहितान् मैत्रीकरुणामुदितोपेक्षाविरहितान् आकाशानन्त्यायतनसमापत्त्या विज्ञानानन्त्यायतनसमापत्त्या आकिञ्चन्यियतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा ध्यानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता दुःप्रज्ञान् प्रज्ञापरिहीणान् सत्त्वान् दृष्ट्वा लौकिकलोकोत्तरया सम्यग्दृष्ट्या विहीनान् अक्रियावादिनो नास्तिकवादान् उच्छेदवादान् शाश्वतवादान् एकत्वान्यत्वोभयत्ववादांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा प्रज्ञापारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे तेषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिषु राशिषु वर्तमानान् सत्त्वान् दृष्ट्वा नियतानियतमिथ्यात्वनियतान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्सेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे नियतानियतमिथ्यात्वनियतानां सत्त्वानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता नैरयिकान् सत्त्वान् तैर्यग्योनिकान् सत्त्वान् यामलौकिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयाणाम् अपायानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते.
(प्स्प्_4:184)
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमान् महापृथिवीस्थाणुकण्टकगहनप्राग्भारप्रपातस्यन्दनिकागूथोडिगल्लान् परिपूर्णान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् एते दोषा न भविष्यन्ति न प्रज्ञास्यन्ते, तच् च मे बुद्धक्षेत्रं समपाणितलजातं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमां महापृथिवीं मृत्तिकामयीं दृष्ट्वा अपगतजातरूपरजताम् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे इयं महापृथिवी सुवर्णवालुकाच्छन्ना भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वान् ममकारपरिग्रहवर्तमानान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानां ममकारपरिग्रहो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतुरो वर्णान् दृष्ट्वा क्षत्रियान् ब्रह्मणान् वैश्याञ् शूद्रान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे चतुर्णां वर्णानाम् अन्तशः शब्दो न भविष्यति न प्रज्ञास्यते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् (प्स्प्_4:185) चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां हीनोत्कृष्टमध्यमतान् दृष्ट्वा हीनकुलीनतां मध्यकुलीनतां चोत्कृष्टकुलीनतां च सत्त्वानां दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां वर्णनानात्वं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां वर्णनानात्वं न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा अभिरूपा भविष्यन्ति प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागताः. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता अधिपतिं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽधिपतिप्रज्ञप्तिर् अपि न भविष्यति न प्रज्ञास्यते. अन्यत्र धर्मराजेन तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां गतिसंभेदं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वंश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां गतिसंभेदो न भविष्यति न प्रज्ञास्यते, नरकतिर्यग्योनियमलोकदेवमनुष्या अन्यत्र सर्वसत्त्वा एककर्माणो (प्स्प्_4:186) भविष्यन्ति, चतुर्भिः स्मृत्युपस्थानैर् अविरहिताः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेणाप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् अष्टभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् अभिज्ञाभिर् यावच् चतसृभिः प्रतिसंविद्भिर्. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतस्रो योनीः सत्त्वानां दृष्ट्वाण्डजां जरायुजां संस्वेदजाम् औपपादुकां दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तिस्रो योनयः सत्त्वानां न भविष्यन्ति न प्रज्ञास्यन्ते, अण्डजा जरायुजा संस्वेदजा अन्यत्र सर्वसत्त्वा औपपादुका भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् पञ्चाभिज्ञाभिर् विरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः पञ्चाभिज्ञा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सर्वसत्त्वानाम् उच्चारप्रस्रावादीन् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वा धर्मप्रीतिध्यानाहारा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् प्रभाविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य (प्स्प्_4:187) तत्र बुद्धक्षेत्रे सर्वसत्त्वाः स्वयंप्रभा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकिरज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सरान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सराणां शब्दो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतायूर्विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा अपरिमितायुषो भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् लक्षणविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा द्वात्रिंशद्भिर् महापुरुषलक्षणैः समन्वागता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् कुशलमूलविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः कुशलमूलसमन्वागता भविष्यन्ति, यैः कुशलमूलैः समन्वागता बुद्धान् भगवत उपस्थास्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति, सर्वाकारज्ञतायाश् चाभ्यासी भवति.
(प्स्प्_4:188)
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रोगस्पृष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां चत्वारो व्याधयो न भविष्यन्ति न प्रज्ञास्यन्ते. कतमे चत्वारो? वातिका वा पैत्तिका वा श्लेष्मिका वा सांनिपातिका वा. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिभिः क्लेशैः क्लिष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयः क्लेशा न भविष्यन्ति न प्रज्ञास्यन्ते. कतमाः त्रयो? रागो द्वेषो मोहः. सर्वसत्त्वाश् च विगतरागा भविष्यन्ति विगतद्वेषा विगतमोहा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता हीनाधिमुक्तिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे द्वयोर् यानयोः शब्दो न भविष्यति न प्रज्ञास्यते, श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा, अन्यत्र सर्वसत्त्वाः सर्वाकारज्ञतायाम् अभिसंप्रस्थिता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरताभिमानिकान् सत्त्वान् दृष्ट्वैवम् उपपरिक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽभिमानिकानां सत्त्वानां शब्दो ऽपि न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा निरभिमाना भविष्यन्ति. एवं चरन् (प्स्प्_4:189) सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः पिरिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवं चित्तम् उत्पादयितव्यं, नाहं तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, सचेत् मे तत्र बुद्धक्षेत्रे मितम् आयुःप्रमाणं स्याद् मिता च प्रभा, मितश् च भिक्षुसंघः, अपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे अमितम् आयुःप्रमाणं भविष्यति, अमिता च प्रभा, अमितश् च भिक्षुसंघो भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि तावन्ति ममैकं बुद्धक्षेत्रं यावन् न भवेन् न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, ऽपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि भवन्ति ममैकं बुद्धक्षेत्रं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, दीर्घो बतायं संसारो, बहुर् अयं सत्त्वधातुस् तेनैवं योनिशो मनसिकर्तव्यम्, आकाशपर्यन्तो बतायं संसार, आकाशपर्यन्तो बतायं सत्त्वधातुर्, न चेह कश्चित् संसरिष्यति, न च कश्चित् परिनिर्वास्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
अथ खलु तस्यां पर्षदि गङ्गदेवा नाम भगिनी संनिपतिताभुत् संनिषण्णा, सोत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जामुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य (प्स्प्_4:190) भगवन्तम् एतद् अवोचत्: अहं भगवन्न् अहं सुगत षट्सु पारमितासु चरित्वैवंरूपं बुद्धक्षेत्रं परिगृहीष्ये यथा तथागतेनार्हता सम्यक्संबुद्धेनेह प्रज्ञापारमितायाम् उपदिष्टम्.
अथ खलु सा स्त्री सुवर्णपुष्पं गृहीत्वा, रूप्यपुष्पं च गृहीत्वा, जलजानि स्थलजानि च पुष्पाणि गृहीत्वा, सर्वाणि चाभरणानि गृहीत्वा, सुवर्णवर्णपीतवर्णं च पुष्पयुगं गृहीत्वा येन भगवांस् तेन क्षिपति स्म. समनन्तरक्षिप्तं च तद् दूष्ययुगम् अथ तावद् एव बुद्धानुभावेनोपरि वैहायसम् अन्तरीक्षे भगवतो मूर्ध्नि संधौ कूटागारम् अस्थात्, चतुरस्रं चतुःस्थूणं समं भागशो घटितं सुविभक्तं रमणीयं.
अथ खलु सा स्त्रीस् तत्कूटागारं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति.
अथ खलु भगवांस् तस्याः स्त्रिया अध्याशयं विदित्वा तस्यां वेलायां स्मितं प्रादुरकरोत्, धर्मता खलु पुनर् एषा बुद्धानां भगवतां यदा स्मितं प्रादुः कुर्वन्ति.
अथ खलु तावद् एवानेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वाराद् निश्चरन्ति स्म. तद्यथापि नाम नीलाः पीता लोहिता अवदाता माञ्जिष्ठाः स्फटिकरजतवर्णास् तान् अनन्तापर्यन्तान् लोकधातून् गत्वा पुनर् एवागत्य भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतो मूर्ध्न्य् अन्तर्हिताः.
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं चीवरं प्रवरित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.
एवम् उक्ते भगवान् आयुष्मन्तं आनन्दम् एतद् अवोचत्: इयम् आनन्द गङ्गदेवा भगिनी अनागते ऽध्वनि सुवर्णपुष्पो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति तारकोपमे कल्पे ऽयम् आनन्द एतस्या गङ्गदेवाया भगिन्याश् चरमः स्त्रीभावो भविष्यति. इयम् आनन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्ज्य पुरुषभावं प्रतिलभ्याक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते अभिरत्यां लोकधातौ, स तत्र ब्रह्मचर्यं चरिष्यति. अस्य खलु पुनर् आनन्द बोधिसत्त्वस्य महासत्त्वस्य सुवर्णपुष्प इति नामधेयं (प्स्प्_4:191) भविष्यति. स खलु पुनर् आनन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वस् ततश् च्युतः समानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, अविरहितश् च बुद्धैर् भगवद्भिर् भविष्यति, तद्यथापि नां आनन्द राजा चक्रवर्ती प्रासादेन प्रासादं चङ्क्रामति, स यावज्जीवं पादतलाभ्यां धरणीं नाक्रामति यावन् मरणकालम् इति. एवम् एवानन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति.
अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: यावन्तो बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्सेत्रे संनिपतिता भविष्यन्ति, तथागतसंनिपातः स वेदितव्यः.
अथ खलु भगवान् आयुष्मत आनन्दस्य चेतसा चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: एवम् एतद् आनन्द यथा वदसि, तथागतसंनिपातः स वेदितव्यो बोधिसत्त्वानां महासत्त्वानां यः संनिपातः सुवर्णपुष्पस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्सेत्रे न प्रमाणबद्धो भिक्षुसंघो भविष्यति, न शक्यं तस्य भिक्षुसंघस्य प्रमाणं कर्तुम्, इयन्तो वा श्रावका, इयन्ति वा श्रावकशतानि, इयन्ति वा श्रावकसहस्राणि, इयन्ति वा श्रावकशतसहस्राणि, इयत्यो वा श्रावककोट्य, इयन्ति वा श्रावककोटीशतानि, इयन्ति वा श्रावककोटीशतसहस्राणि, इयन्ति वा श्रावककोटिनियुतशतसहस्राणि, अन्यत्रासंख्येयाप्रमेयापरिमाणानि श्रावककोटीनियुतशतसहस्राणि भविष्यन्ति. सुवर्णपुष्पस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्र इमे दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते, य इह प्रज्ञापारमितायां परिकीर्तिताः.
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: क्व भगवन्न् एतया गङ्गदेवया कुशलमूलम् अवरोपितम्?
भगवान् आह: दीपङ्करस्यानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके एतया भगिन्या कुशलमूलम् अवरोपितम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामितं, स च दीपङ्करस् तथागतो ऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैर् अभ्यवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया, यदा मया आनन्द दीपंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धः पञ्चभिर् (प्स्प्_4:192) उत्पलैर् अवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानेन, तदाहं तेन दीपंकरेण भगवता तथागतेनार्हता सम्यक्संबुद्धेन कुशलमूलसमन्वागतो ऽयम् इति विदित्वा व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ भविष्यसि त्वम् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानाञ् च बुद्धो भगवांस् तदा ममैतया भगिन्या व्याकरणं श्रुत्वा एवं चित्तम् उत्पादितम्, अहो बताहम् अप्य् अनागते ऽध्वनि एवं व्याक्रियेयम् अनुत्तरायां सम्यक्संबोधौ, यथायं माणवको व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. एवम् आनन्दैतया भगिन्या तस्य दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमं चित्तम् अनुत्तरायै सम्यक्संबोधये समुत्पादितम्.
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कृतपरिकर्मा भगवन्न् इयं गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये.
भगवान् आह: एवम् एतद् आनन्द एवम् एतत्, यथा वदसि, कृतपरिकर्मा आनन्दैषा गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये.
इत्य् उक्ता क्षेत्रशुद्धिर् अनुत्तरा
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमितायां भगवंश् चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः? कथं शून्यता भावयितव्या? कथम् आनिमित्ते परिजयः? कथम् आनिमित्तं भावयितव्यम्? कथम् अप्रणिहिते परिजयः कर्तव्यः? कथम् अप्रणिहितं भावयितव्यं? यावत् कथं बोधिपक्षेषु धर्मेषु परिजयः कर्तव्यः? कथं बोधिपक्ष्या धर्मा भावयितव्याः? इत्य् उपायकौशलविषयः
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं स्कन्धधात्वायतनानि शून्यानीति प्रत्यवेक्षितव्यानि, प्रतीत्यसमुत्पादः शून्य इति प्रत्यवेक्षितव्यः, प्रतीत्यसमुत्पादाङ्गानि शून्यानीति प्रत्यवेक्षितव्यानि, एवं यावत् कामधातुः शून्य इति प्रत्यवेक्षितव्यः, रूपधातुः शून्य इति प्रत्यवेक्षितव्यः, आरूप्यधातुः शून्य इति प्रत्यवेक्षितव्यः. तथा च प्रत्यवेक्षितव्यं, यथा प्रत्यवेक्षमाणस् तच् चित्तं न विक्षिपति, सो ऽविक्षिप्तचित्तस् तं धर्मं न समनुपश्यति, यो धर्मः साक्षात्क्रियेत, स तं धर्मम् (प्स्प्_4:193) असमनुपश्यन् न साक्षात्करोति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यैर् धर्मैः सुशिक्षितो न कस्यचिद् धर्मस्य व्यवच्छेदं करोति, यो वा साक्षात्कुर्याद्, यं वा साक्षात्कुर्याद्, येन वा साक्षात्कुर्यात्, सर्वांस् तान् धर्मान् न संयुक्तान् न विसंयुक्तान् समनुपश्यति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, न बोधिसत्त्वेन महासत्त्वेन शून्या धर्माः साक्षात्कर्तव्या इति. कथं भगवन् बोधिसत्त्वो महासत्त्वः शून्यतायां स्थितः शून्यतां न साक्षात्करोति?
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते. असमाहित एव बोधिसत्त्वो महासत्त्व आरंबणे चित्तम् उपनिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर् धर्मैर्, न चास्रवक्षयं साक्षात्करोति. तत् कस्य हेतोः? एवम् उदारज्ञानसमन्वागतो बोधिसत्त्वो महासत्त्वो भविष्यति. तत् कस्य हेतोः? यो बोधिपक्ष्येषु धर्मेषु स्थित एवं जानाति परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति.
तेन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रत्यवेक्षितव्यं, दानपारमिताया अयं कालः, शीलपारमिताया अयं कालः, क्षान्तिपारमिताया अयं कालः, वीर्यपारमिताया अयं कालः, ध्यानपारमिताया अयं कालः, प्रज्ञापारमिताया अयं कालः, स्मृत्युपस्थानस्य भावनाया अयं कालः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य भावनाया अयं कालः, शून्यतानिमित्ताप्रणिहितभावनाया अयं कालः, अध्यात्मशून्यताया अयं कालो बहिर्धाशून्यताया अयं कालो ऽध्यात्मबहिर्धाशून्यताया अयं कालो यावद् अभावस्वभावशून्यताया अयं कालः, अप्रमाणध्यानारूप्यसमापत्तिभावनाया अयं काल, आर्यसत्यभावनाया अयं कालः, पञ्चानाम् अभिज्ञानां भावनाया अयं कालो, विमोक्षसमाधिसमापत्तिधारणीमुखभावनाया अयं कालः, दशानां तथागतबलानां प्रतिलाभायायं कालश्, चतुर्णां वैशारद्यानां प्रतिलाभायायं कालः प्रतिसंवित्प्रतिलाभायायं कालो, (प्स्प्_4:194) अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरणायायं कालो, महामैत्र्या महाकरुणायाः प्रतिलाभायायं कालो, नायं कालः स्रोतःआपत्तिफलसाक्षात्क्रियायै, नायं कालः सकृदागामिफलसाक्षात्क्रियायै, नायं कालो नागामिफलसाक्षात्क्रियायै, नायं कालो ऽर्हत्त्वफलसाक्षात्क्रियायै नायं कालः प्रत्येकबुद्धज्ञानसाक्षात्क्रियायै, सर्वाकारज्ञतायाः प्रतिलाभायायं कालः.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतायां च परिजयं करोति, शून्यतया च विहरत्य्, आनिमित्ते च परिजयं करोति, आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोति, अप्रणिहितेन च विहरति. स्मृत्युपस्थानानि च भावयति स्मृत्युपस्थानैश् च विहरति न च साक्षात्करोति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आर्याष्टाङ्गिकं च मार्गञ् च भावयत्य् आर्याष्टाङ्गिकेन च मार्गेण विहरति न च साक्षात्करोति.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बोधिपक्ष्येषु धर्मेषु परिजयं करोति, बोधिपक्ष्यांश् च धर्मान् भावयति बोधिपक्ष्यैश् च धर्मैर् विहरति, न च स्रोतआपत्तिफलं साक्षात्करोति न च सकृदागामिफलन् न चानागामिफलन् नार्हत्त्वफलं साक्षात्करोति. इत्य् उपायकौशलप्रयोगः
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः शूरश् च भवेद्, वीरश् च भवेद्, दृढप्रतिष्ठानश् च भवेद्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेद्, दर्शनीयश् च भवेत्, परमशुभवर्णपुष्करतया समन्वागतश् च भवेद्, इष्वस्त्रे च परमां गतिंगतो भवेद्, दृढानि चानेन प्रहरणानि गृहीतानि भवेयुः, सर्वासु च चतुःषष्ठिषु कलासु परिनिष्पन्नो भवेत्, सर्वत्र च शिल्पस्थानेषु च कर्मस्थानेषु च गतिंगतो भवेत्, बहुजनस्य च प्रियो मनआपो भवेत्, स यां याम् एव च कांश्चित् क्रियाम् आरभेत सर्वत्र तत्र तत्र च लाभसत्कारसमन्वागतो भवेत्, तेन च बहुजनं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत्, स भूयस्या मात्रया आत्तमनस्को भवेत् प्रमुदितः प्रीतिसौमनस्यजातः स मातापितृपुत्रदारान् गृहीत्वा केनचिद् एव करणीयेन महाभयभैरवम् अटवीकान्तारं प्रविष्टस् स्याद् बालानां भीषणकं स रोमहर्षणं, तत्र च स पुरुषः प्रविश्य तान् मातापितृपुत्रदारान् (प्स्प्_4:195) अभयेनाभिनिमन्त्रयेन्, मा भैष्ट मा भैष्टाहं युष्मान् इतो महाभयभैरवाद् अटवीकान्ताराद् बालानां भीषणात् स रोमहर्षणाच् छीघ्रम् एवापक्रामयिष्यामि शीघ्रम् एव परिमोचयिष्यामि. तस्य च पुरुषस्य तत्राटवीकान्तारे बहवो ऽमित्रा वधकाः प्रत्यर्थिकाः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः, स च पुरुषः परमेण प्रज्ञाबलेन समन्वागतो भवेत्, स तान् परिमोचयित्वा मातापितृपुत्रदारांस् तस्माद् अटवीकान्तारान् निष्काशयित्वा पुनर् एव ग्रामं वा नगरं वा निगमं वा जनपदं वा जनप्रदेशं वा गत्वा प्रीतिसौमनस्य जातो विहरेद् अक्षतो ऽनुपहतो, न च तेषां सत्त्वानाम् अन्तिके प्रत्यर्थिकानां प्रत्यमित्राणां वा मनः प्रदुषयेत्. तत् कस्य हेतोः? तथा हि स कृतयोग्यः सर्वासु च कलासु भवेत्, तेन तत्राटवीकान्तारे बहुतराश् च शूरतराश् च दृढप्रहरणतराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणाम् अन्ये उदारतराः प्रत्यर्थिकाः प्रत्यमित्रा अभिनिर्मिता भवेयुः, ते तेन भयेन सर्वे ऽपगता भवेयुः. अथ स पुरुषस् तान् मातापितृपुत्रदारान् स्वस्तिना परिमोचयित्वा सुखं विहरेत्.
एवम् एव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अन्तिके मैत्र्यारम्बणेन चित्तेन करुणामुदितोपेक्षारम्बणेन चित्तेन स्फारित्वा विहरत्य् अत्रान्तरे सुभूते बोधिसत्त्वो महासत्त्वो न चानिमित्तेन व्याह्रियते न चानिमित्तसमाधिं साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठेत्.
इत्य् अन्तरायिकधर्मसमतिक्रमणोपायः
तद्यथापि नाम सुभूते पक्षी शकुनिर् अन्तरीक्षे चरति न च भूमौ पतति, आकाशे वान्तरीक्षे विहरति न च तत्र तिष्ठति न प्रतिष्ठते. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः शून्यतायां च परिजयं करोति शून्यतया च विहरति, आनिमित्ते च परिजयं करोत्य् आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोत्य् अप्रणिहितेन च विहरति, न च शून्यतां वानिमित्तं वाप्रणिहितं वा साक्षात्करोति, यया साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेद्, अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया चापरिमाणेषु च बुद्धधर्मेषु चरित्वा सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अप्रतिष्ठितविहारोपायः
(प्स्प्_4:196)
तद्यथापि नाम सुभूते बलवान् इष्वस्त्राचार्यो भवेद् इष्वस्त्रशिक्षायां सुशिक्षितः स काण्डम् ऊर्ध्वमुखं क्षिप्त्वा तदन्यैः काण्डैस् तस्य पूर्वकस्य काण्डस्य परंपरया पृथिव्यां पतनं न दद्यात् तावत् काण्डं पृथिव्यां न पतति यावत् स पुरुष आकाङ्क्षेत्. अथ खल्व् एतत् काण्डं पृथिव्यां निपतेत्, स पश्चिमं काण्डम् ऊर्ध्वमुखं नाक्षिपेद्, एवं सा काण्डपरंपरा पृथिव्यां निपतेत्.
एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन परिगृहीतस् तावत् तां परमां भूतकोटिं न साक्षात्करोति यावन् न तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ, यदा तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ तदा तां परमां भूतकोटिं साक्षात्करोति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् एतेषां धर्माणां धर्मतोपनिध्यातव्या उपपरीक्षितव्याः.
इति प्रणिधानावेधानुवृत्त्युपायः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो य इह धर्मतायां शिक्षते भूतकोट्यां शिक्षते धर्मधातौ शिक्षते अत्यन्तशून्यतायां शिक्षते यावत् स्वलक्षणशून्यतायां शिक्षते यावत् त्रिषु विमोक्षमुखेषु शिक्षते, न चान्तरेण व्यवसादम् आपद्यते ऽनुत्तरायां सम्यक्संबोधौ, आश्चर्यं भगवन्न् आश्चर्यं सुगत.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः. यस्य सुभूते सर्वसत्त्वा अपरित्यक्तास् तस्यैवंरूपः प्रणिधानविशेषो भवति, यः सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् अभिनिर्हरति, सर्वसत्त्वा मयापरित्यक्ता मयैते परिमोचयितव्याः, असंविद्यमानैर् धर्मैर् वर्तमानाः शान्तं शून्यतासमाधिविमोक्षमुखम् अभिनिर्हरत्य्, आनिमित्तं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, अप्रणिहितं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, उपायकौशल्यसमन्वागतः स बोधिसत्त्वो महासत्त्वस् तस्मिन् समये वेदितव्यो, न चान्तरा भूतकोटिं साक्षात्करोति यावन् न सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् असाधारणोपायः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानीमानि गम्भीराणि स्थानानि प्रत्यवेक्षितुकामो भवति, तद्यथेदम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां (प्स्प्_4:197) चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि आर्याष्टाङ्गिकमार्गं त्रीणि विमोक्षमुखानि, तेनैवं चित्तोत्पादो ऽभिनिर्हर्तव्यो, दीर्घरात्रम् इमे सत्त्वा आत्मसंज्ञायां सत्त्वसंज्ञायां जीवसंज्ञायां जन्तुसंज्ञायां पोषसंज्ञायां पुरुषसंज्ञायां पुद्गलसंज्ञायां मनुजसंज्ञायां मानवसंज्ञायां कारकसंज्ञायां वेदकसंज्ञायां जानकसंज्ञायां पश्यकसंज्ञयाम् उपलम्भे चरन्ति, तेषाम् उपलम्भदृष्टिप्रहाणायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि. यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखं भावयत्य्, आनिमित्तं समाधिविमोक्षमुखं भावयत्य् अप्रणिहितं समाधिविमोक्षमुखं भावयति समापद्यते च न च भूतकोटीं साक्षात्करोति, यया साक्षात्क्रियया स्रोतआपत्तिफलं प्राप्नुयात्, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुयात्, प्रत्येकां बोधिं प्राप्नुयात्, तस्मिन् समये बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफलम् अनुप्राप्नुयाद् न सकृदागामिफलन् नानागामिफलं नार्हत्त्वम् अनुप्राप्नुयात्, न प्रत्येकां बोधिम् अनुप्राप्नुयाद्, एवं चरन् बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन एतैश् च कुशलमूलैः समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति न च परिहीयते चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतया न परिहीयते, दानपारमितया न परिहीयते, शीलपारमितया न परिहीयते, क्षान्तिपारमितया न परिहीयते, वीर्यपारमितया न परिहीयते, ध्यानपारमितया न परिहीयते, प्रज्ञापारमितया न परिहीयते, आर्यसत्यैर् न परिहीयते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते पञ्चभिर् अभिज्ञाभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् न परिहीयते, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न परिहीयते, महामैत्र्या महाकरुणया न परिहीयते. एवं बोधिसत्त्वो महासत्त्वस् तस्मिन् समये सर्वबोधिपक्ष्यैर् धर्मैः समन्वागतो न च परिहीयते ततो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो (प्स्प्_4:198) विवर्धते शुक्लैर् धर्मैः, तीक्ष्णतमानि चास्येन्द्रियाणि भवन्ति यथा न श्रावकप्रत्येकबुद्धानाम्. इत्य् अशक्त्युपायः
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वाश् चतुर्भिर् विपर्यासैर् विपर्यस्तचित्ता नित्यसंज्ञायां सुखसंज्ञायां शुभसंज्ञायाम् आत्मसंज्ञायाञ् च तेषाम् अर्थाय बोधये चरिष्यामि, तथा चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि, यथानित्यम् इति दुःखम् इत्य् अशुभम् इति अनात्मीयम् इति वा समुदाचारो ऽपि न भविष्यति. सो ऽनेन चित्तोत्पादेन समन्वागत उपायकौशल्येन च प्रज्ञापारमितायां चरति, बुद्धधर्मसमाधिं समापद्यते ऽपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतानिमित्ताप्रणिहितसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वो महासत्त्वो भावयति समापद्यते च, न च भूतकोटिं साक्षात्करोति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वा उपलम्भचरता आत्मेति, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यका इति, रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धा इति वा धातव इति वा आयतनानीति वा प्रतीत्यसमुत्पादा इति वा प्रतीत्यसमुत्पादाङ्गानीति वा चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिस् तेषां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सत्त्वानाम् एते उपलम्भदोषा न भविष्यन्ति, स इमैश् चित्तोत्पादैः समन्वागतो ऽनेन चोपायकौशल्येन प्रज्ञापारमितायां चरन् न भूतकोटीं साक्षात्करोत्य् अपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतासमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् अनुपलम्भोपायः
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वा निमित्तेन चरिताः स्त्रीनिमित्तेषु वा पुरुषनिमित्तेषु वा रूपनिमित्तेषु वा आरूप्यनिमित्तेषु (प्स्प्_4:199) वा, तेषां सत्त्वानां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, एषां सत्त्वानाम् इमे दोषा न भविष्यन्ति. स तेन चित्तोत्पादेन समन्वागतो ऽनेन चोपायकौशल्येन समन्वागतः प्रज्ञापारमितायां चरन् न चान्तरा भूतकोटीं साक्षात्करोत्य् अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च तस्य तेन चित्तोत्पादेन समन्वागतस्यानिमित्तसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् आनिमित्तोपायः
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वाः प्रणिधानेन चरिता यद् उत शक्रत्वं ब्रह्मत्वं लोकपालत्वं चक्रवर्तित्वम् अभिलषन्ति रूपम् अभिलषन्ति एवं वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिलषन्ति, तेषाम् अहम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तथा धर्मं देशयिष्यामि यथैव ते सत्त्वानां प्रणिधानदोषा न भविष्यन्तीति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य एभिश् चित्तोत्पादैर् एभिश् च कुशलमूलैर् अनेन चोपायकौशल्येन प्रज्ञापारमितायां चरतः, अप्रणिहितसमाधिविमोक्षमुखं भावना परिपूरिं गच्छति, न च भूतकोटिं साक्षात्करोति, अपरिपूर्णैर् दशभिर् बलैर् वैशारद्यैः प्रतिसंविदावेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति, अस्थानैः सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन्न् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां चरंश् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु मार्गेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन् दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां चरन् यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् परिजयं कुर्वाण, एवं ज्ञानधर्मसमन्वागतो ऽनभिसंस्कारे वा पतेत त्रैधातुकेन वा सार्धं संवसेन् नैतत् स्थानं विद्यते.
इत्य् अप्रणिहितोपायः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एषु बोधिपाक्षिकेषु (प्स्प्_4:200) धर्मेषु चरन् परिजयं कुर्वाणः परिप्रष्टव्यः. कथं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो बोधिपक्ष्येषु धर्मेषु चरित्वा परिजयं कृत्वा न शून्यतां साक्षात्कुर्यात्, न च भूतकोटिं प्रतिसंविध्येन्, न स्रोतआपत्तिफलं वा सकृदागामिफलं वा नागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुप्राप्नुयात्? कथं शून्यताम् आनिमित्तम् अप्रणिहितम् अनभिसंस्कारम् अनुत्पादम् अभावं वा साक्षात्कुर्यात् प्रज्ञापारमितां च भावयेद्? इति.
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वैर् महासत्त्वैर् एवं परिपृच्छमान एवं व्याकुर्याच्, छूनय्ता चैव तेन मनसिकर्तव्या, आनिमित्तं चैव तेन मनसिकर्तव्यम्, अप्रणिहितं चैव तेन मनसिकर्तव्यम्, अनभिसंस्कारो ऽनुत्पादो भावश् चैव मनसिकर्तव्यो, न च सर्वसत्त्वाः परित्यक्तव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं सूचयति तं व्याकरोति तं प्रभावयति.
सचेत् पुनः सुभूते पृष्ट एवं व्याकुर्यान्, न तेन शून्यतायां परिजयं कर्तव्यं, नानिमित्ते नाप्रणिहिते नानभिसंस्कारे नानुत्पादे नाभावे न तेन बोधिपक्ष्यैर् धर्मैः परिजयः कर्तव्यो, न च सर्वसत्त्वाः समालम्बितव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् नायं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं तं न सूचयति तं न व्याकरोति तं न प्रभावयति, यः पुनर् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मं तं न सूचयति न व्याकरोति न भावयति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् अयं बोधिसत्त्वो महासत्त्वः परिजयं कृत्वा ततो भूमेर् अतिक्रान्तो याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयभूमिः. इत्य् अवैवर्तिकलिङ्गोपायः
सुभूतिर् आह: स्यात् पुनर् भगवन् पर्यायो यद् अविनिवर्तनीयो बोधिसत्त्वो (प्स्प्_4:201) महासत्त्वो भवेत्?
भगवान् आह: स्यात् सुभूते यो बोधिसत्त्वो महासत्त्वः षट् पारमिताः श्रुत्वा वाश्रुत्वा वा एवं विसर्जयेद् यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, वेदितव्यस् तैर् बोधिसत्त्वैर् महासत्त्वैर् अविनिवर्तनीयो ऽयं बोधिसत्त्वो महासत्त्वः.
सुभूतिर् आह: तेन हि भगवन् बहवो बोधिसत्त्वा महासत्त्वा बोधाय चरन्ति, अल्पकास् ते भगवन् बोधिसत्त्वा महासत्त्वा य एवं विसर्जयिष्यन्ति, यथाविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः परिकर्मभूमौ वा, अपरिकर्मभूमौ वा.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. तत् कस्य हेतोः? तथा हि सुभूते ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा य एवं व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ, ये पुनस् ते व्याकृता भविष्यन्ति त एवं विसर्जयिष्यन्ति, उत्तप्तकुशलमूलास् ते वेदितव्या बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन. इत्य् अप्रमाणविषयोपायः
इत्य् उक्तम् उपायकौशलम्
इत्य् उक्तः सर्वाकाराभिसंबोधः
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकाराभिसंबोधाधिकारस् तथतापरिवर्तश् चतुर्थः
(प्स्प्_5:1)
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता व्
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतो ऽपि स्वप्नोपमांश् चैव सर्वधर्मान् व्यवलोकयति, प्रतिश्रुत्कोपमान् मरीच्युपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् व्यवलोकयति न च साक्षात्करोति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति प्रथमं लिङ्गम्
पुनर् अपरं सुभूते स्वप्नान्तरगतो ऽपि बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुके वा न स्पृहयति न चित्तम् उत्पादयति नानुशंसयति, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति द्वितीयम्
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतस् तथागतम् अनेकशतपरिवारम् अनेकसहस्रपरिवारम् अनेकशतसहस्रपरिवारम् अनेककोटीनियुतशतसहस्रपरिवारं भिक्षुभिक्षुणीभिर् उपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः परिवृतं पुरस्कृतं तथागतम् अर्हन्तं सम्यक्संबुद्धं धर्मं देशयन्तं पश्यति, स तं धर्मं श्रुत्वा तस्य धर्मस्यार्थम् आजनाति धर्मानुधर्मप्रतिपन्नो विहरति समयप्रतिपन्नो ऽनुधर्मचारी, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति तृतीयम्
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः सचेत् तथागतं पश्येद् वैहायसम् अत्युद्गम्य भिक्षुसंघस्य धर्मं देशयन्तं द्वात्रिंशद्भिर् महापुरुषलक्षणैः समलंकृतं व्यामप्रभम् ऋद्धिप्रातिहार्यञ् च निदर्शयन्तन् निर्मितांश् च निर्मिण्वन्तन् तांश् चैव निर्मितान् अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वतः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयस्य लक्षणं वेदितव्यम्. इति चतुर्थम्
(प्स्प्_5:2)
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते ग्रामघाते वर्तमाने नगरघाते वर्तमाने ऽग्निदाहे वर्तमाने, व्याडमृगान् वा दृष्ट्वा तदन्यान् वा चण्डमृगजातीर् दृष्ट्वा पिपासितान् दृष्ट्वा बुभुक्सितान् दृष्ट्वा मातापितृमरणं वा दृष्ट्वा भ्रातृभगिनीमरणं वा दृष्ट्वा पुत्रदुहितृमरणं वा दृष्ट्वा मित्रामात्यज्ञातिसालोहितमरणं वा दृष्ट्वा न शोकभयभैरवसंत्रासम् उत्पादयति, ततश् च स्वप्नात् समनन्तरविबुद्धस्य समानस्यैवं भवति, स्वप्नोपमं सर्वम् इदं त्रैधातुकं, मयाप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य स्वप्नोपमं सर्वत्रैधातुकम् इति धर्मो देशयितव्यः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति पञ्चमम्
पुनर् अपरं सुभूते कथं विज्ञायते यथाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्तिति? सचेत् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो नारकं वा सत्त्वं दृष्ट्वा तिर्यग्योनिगतं वा सत्त्वं दृष्ट्वा यामलोकिकं वा सत्त्वं दृष्ट्वा, एवं स्मृतिं प्रतिलभते येन स्मृतिलब्धस्य चैवं भवति, तथा करिष्यामि तथा प्रतिपत्स्ये यथा मे तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्ति. तत् कस्य हेतोः? तथा हि यश् च स्वप्नो यश् चाहं सर्व इमे धर्मा अद्वया अद्वैधीकाराः, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति सष्ठम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्त्वः स्वप्नान्तरगतो वा प्रतिविबुद्धो वा नगरदाहे वर्तमाने, एवं समन्वाहरति, येन मया स्वप्नान्तरगतेन वा प्रतिविबुद्धेन वा य आकारा यानि लिङ्गानि यानि निमित्तानि दृष्टानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवति, यदि त आकारास् तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते तैर् अवैवर्तिको बोधिसत्त्वो महासत्त्व एवं सत्याधिष्ठानं करोति, (प्स्प्_5:3) येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ तेन सत्येन सत्यवचनेनायं नगरदाह उपशाम्यतु शीतीभवत्व् अस्तं गच्छतु. सचेद् उपशाम्यति शीतीभवत्य् अस्तं गच्छति वेदितव्यं सुभूते व्याकृतो बतायं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधाव् अविनिवर्तनीयतायै. सचेत् पुनः सुभूते अग्निस्कन्धो ऽतिक्रमित्वा गृहाद् गृहं दहति रथ्याया रथ्या दहत्य् अन्यद् गृहं दहत्य् अन्यद् गृहं न दहत्य् अन्यां रथ्यां दहत्य् अन्यां रथ्यां न दहति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मं प्रत्याख्यानसंवर्तनीयम् एतैः सत्त्वैः कर्मोपचितं येनैतेषां सत्त्वानाम् एकं गृहं दह्यते, एकं गृहं न दह्यते, तेषाम् एतद् दृष्टधार्मिकम् एव कर्म विपच्यते, अयं सुभूते हेतुर् अयं प्रत्ययो ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां यैर् हेतुभिर् यैः प्रत्ययैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सप्तमम्
पुनर् अपरं सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस् तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि. सचेत् सुभूते कश्चिद् एव स्त्री वा पुरुषो वामनुष्येणाधिष्ठितो भवेत्, तत्र बोधिसत्त्वेन महासत्त्वेन एवं समन्वाहर्तव्यं, सचेद् अहं व्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये, परिशुद्धश् च मे ऽध्याशयो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, परिशुद्धश् च मे मनसिकारो ऽनुत्तरायै सम्यक्संबोधये, अपगतं मे श्रावकचित्तम् अपगतं मे प्रत्येकबुद्धचित्तम्, अपगतेन श्रावकप्रत्येकबुद्धचित्तेन मयानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोदिं ये ऽपि ते ऽसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां नास्ति किंचिद् अदृष्टं वाश्रुतं वाविदितं वासाक्षात्कृतं वानभिसंबुद्धं वा यथा ते बुद्धा भगवन्तः प्रजानन्ति पश्यन्ति ममाध्याशयर इति ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य एतेन सत्येन सत्यवचनेनायं स्त्री वा पुरुषो वा येनामनुष्येण गृहीतो विहेठितो वा सो (प्स्प्_5:4) मनुष्यो ऽपक्रामतु.
सचेत् पुनः सुभूते सो ऽमनुष्यस् ततो नापक्रामति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य वेदितव्यम् एतत् सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस् तैर् पूर्वकैस् तथगतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य सो ऽमनुष्यस् ततो ऽपक्रामति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये. एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत उपायकौशल्यविरहितस्याचरिताविनश् चतुर्षु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे च मार्गे चतुर्ष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेषु बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति सचेद् बोधिसत्त्वस्यैवं भवति, येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचनेनायम् अमनुष्यभूत इतो ऽपक्रामत्व् इत्य् एवं सत्याधिष्ठानं करिष्यति. तत्र मारः पापीयान् औत्सुक्यम् आपत्स्यते कथम् अमनुष्य इतो ऽपक्रामेद्? इति. तत् कस्य हेतोः? तथा हि मारः पापीयान् बलवत्तरं च तेजोवत्तरं च तत्रौत्सुक्यम् आपत्स्यते कथम् अयम् अमनुष्य इतो ऽपक्रामेद् इति, एवं माराधिष्ठानेन स ततो ऽपक्रामिष्यति, एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति, ममैषो ऽनुभावेनामनुष्य इतो ऽपक्रान्तो, न पुनर् एवं ज्ञास्यति मारानुभावेनैषो ऽमनुष्य इतो ऽपक्रान्त इति. स तेनान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उल्लापयिष्यत्य् उच्चग्घयिष्यति पंसयिष्यत्य्, अहं व्याकृतो ऽनुत्तरायै सम्यक्संबोधये तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् एते पुनर् अन्ये न व्याकृता अनुत्तरायै सम्यक्संबोधये. स तेन तावन्मात्रकेण मारं विवर्धयिष्यति, दूरीकरिष्यति सर्वाकारज्ञतां दूरीकरिष्यत्य् अनुत्तरं बुद्धज्ञानम्. स तथारूपो बोधिसत्त्वो महासत्त्वस् तावन्मात्रकेणानुपायकुशलो (प्स्प्_5:5) ऽभिमानम् उत्पादयिष्यति, तस्य द्वे भूमि प्रतिकाङ्क्षितव्ये. कतमे द्वे? यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. एवं सत्याधिष्ठानेन बोधिसत्त्वस्य महासत्त्वस्य मारकर्मोत्पत्स्यते, तत्र स कल्याणमित्राणि न सेविष्यते न भजिष्यते न पर्युपासिष्यते तद् एव मारबन्धनम् आगाढीकरिष्यति. तत् कस्य हेतोः? यथापि नाम षट्सु पारमितास्व् अचरितत्वाद् उपायकौशलेन वापरिगृहीतत्वाद्, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्याधिष्ठानेन मारकर्म वेदितव्यम्.
कथं च पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितास्व् अचरिताविनो यावद् बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति? इह सुभूते मारः पापीयान् अन्यतरेण वेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये, अमुको ऽन्वयस् ते, इदन् ते नामधेयम्, इदन् ते पितुर् नामधेयम्, इदन् ते मातुर् नामधेयम् इदन् ते पुत्रदुहितृभगिनीनामधेयम्, इदन् ते मित्रामात्यज्ञातिसालोहितानां यावद् आसप्तममातामहपितामहयुगस्य नामधेयम् उपदेक्ष्यति, आमुष्मात् त्वं जनपदाद् आमुष्मात् त्वं नगराद् अमुष्माद् दिशस् त्वम् आगतो, ऽमुष्मिन् जनपदे त्वं जातो ऽमुस्मिं ग्रामे वा नगरे वा. सचेत् प्रकृत्या मृदुको भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं मृदुक एवाभूः, सचेत् स तीक्ष्णो भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं तीक्ष्ण एवाभूः, सचेद् आरण्यको भविष्यति, सचेत् पिण्डपातिको भविष्यति, सचेत् पांशुकूलिको भविष्यति, सचेत् खलुपुनःपश्चाद्भक्तिको भविष्यति सचेद् एकाशनिको भविष्यति सचेत् प्रस्थव्पिण्डिको भविष्यति, सचेच् छ्माशानिको भविष्यति, सचेद् अभ्यवकाशिको भविष्यति, सचेद् वृक्षमूलिको भविष्यति, सचेन् नैषद्यिको भविष्यति, सचेद् यथासंस्तरिको भविष्यति, सचेत् त्रैचीवरिको भविष्यति, सचेद् अल्पेच्छो भविष्यति, सचेत् संतुष्टो भविष्यति, सचेत् प्रविविक्तो भविष्यति, सचेद् अपगतपादम्रक्षणो भविष्यति, सचेन् मन्दभाष्यो भविष्यति, स तम् एवं वक्ष्यति: पूर्वम् अपि त्वं मन्दभाष्य एवाभूः, सचेन् मन्दमन्त्रो भविष्यति, पूर्वम् अपि त्वं मन्दमन्त्र एवाभूः. तत् कस्य (प्स्प्_5:6) हेतोः? तथा हि तवैवंरूपा धूतगुणाः संविद्यन्ते निश्चयेन ते पूर्वम् अप्य् एत एव धूतगुनाः संलेखा अभूवन्.
सो ऽनेन च पूर्वकेण नामापदेशेन गोत्रापदेशेन च प्रत्युत्पन्नधूतगुणापदेशेन च मन्यनाम् उत्पादयिष्यति. तम् एनं मारः पापीयान् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये ऽविनिवर्तनीयतायां यथा ते धूतगुणाः संविद्यन्ते.
कदाचिद् भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद् गृहपतिवेषेणोपसंक्रमिष्यति, कदाचिद् मातृवेषेणोपसंक्रमिष्यति, कदाचित् पितृवेषेणोपसंक्रमिष्यति, कदाचिद् भ्रातृवेषेणोपसंक्रमिष्यति, कदाचिद् भगिनीवेषेणोपसंक्रमिष्यति, कदाचिद् ब्राह्मणवेषेणोपसंक्रमिष्यति, कदाचिद् मित्रामात्यज्ञातिसालोहितवेषेणोपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये. तत् कस्य हेतोः? तथा हि तवामी गुणाः संविद्यन्ते ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्.
ये च ते मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारा लिङ्गानि निमित्तान्य् आख्यातास् ते तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते. वेदितव्यं सुभूते तदन्यैर् बोधिसत्त्वैर् महासत्त्वैर् माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि य आकारा यानि लिङ्गानि यानि निमित्तान्य् ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ते चास्य न संविद्यन्ते. अनेन च नामापदेशेन तद् अन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उच्चग्घ्ययिष्यत्य् उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति, इदम् अपि सुभूते नामापदेशेन नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरितः सत्त्वानां नाम न जानाति, रूपं न जानाति, वेदनां संज्ञां संस्कारान्, विज्ञानं न जानाति. तस्य मारः पापीयान् नामाधिष्ठानेन व्याकरिष्यति, यावत् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्येदं नाम भविष्यति, यत् तेन नामधेयम् अनुवितर्कितं भविष्यत्य् अनुविचारितम्. तत्र दुष्प्रज्ञाजातीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुपायकुशलस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नः, यच् च मया नामधेयं मनसानुवितर्कितम् अनुविचारितम्, (प्स्प्_5:7) इदं ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य नामधेयं भविष्यति. तथा तथा मारः पापीयान् निर्देक्ष्यति मारकायिका वा देवता माराधिष्ठितो वा भिक्षुस् तस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नो, यथा च मम नामधेयं, यथा चानेन भिक्षुना निर्दिष्टं समेति नाम समेति मे नाम्ना व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.
ये च मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याकारा लिङ्गानि निमित्तान्य् आख्यातानि तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते, तैश् चाकारैर् लिङ्गैर् निमित्तैर् विरहितः, सो ऽनेन च नामापदेशेन मन्यनाम् उत्पादयिष्यति, स तदन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, स तया मन्यनया अभिमन्यतया दूरीभविष्यत्य् अनुत्तरायाः सम्यक्संबोधेस् तस्योपायकौशल्यविरहितस्य प्रज्ञा पारमिताविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वे भूमी प्रतिकाङ्क्सितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. अथ वा चिरं सुचिरं संधाव्य संसृत्येमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् स प्रियान् बोधिसत्त्वान् महासत्त्वान् न कल्याणमित्राण्य् अभीक्ष्णं लप्स्यते दर्शनाय न चैनान् पर्युपासिष्यते, सचेत् तेनैवात्मभावप्रतिलाभेन तान् पूर्वकांश् चित्तोत्पादान् न विगर्हिष्यति न प्रतिदेशयिष्यति तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
तद्यथापि नाम सुभूते भिक्षुश् चतसृणां मूलापत्तीनाम् अन्यतरान्यतराम् आपत्तिम् आपद्याभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयः. सो ऽभव्यस् तेनैव चात्मभावेन चतुर्णां श्रामण्यफलानाम् अन्यतरान्यतरं श्रामण्यफलम् अनुप्राप्तुम्.
एवम् एव सुभूते अयं ततो गुरुतरश् चित्तोत्पादो यो ऽयं नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्य मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः.
तिष्ठन्तु सुभूते चतस्रो गुरुका मूलापत्तयः, पञ्चभ्यो ऽपि सुभूते आनन्तर्येभ्यः कर्मभ्यो गुरुतरो ऽयं चित्तोत्पादो यो ऽयं (प्स्प्_5:8) बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः. इति हि सुभूते इमानि तानि नामानि नामापदेशेनोत्पद्यमानानि मारकर्माणि सूक्ष्माणि भवन्ति.
पुनर् अपरं सुभूते विवेकगुणेन बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् ह्य् उपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: विवेकस्य तथागतो वर्णवादी. नाहं सुभूते एवं विवेकं वदामि बोधिसत्त्वस्य महासत्त्वस्य यद् उतारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि.
सुभूतिर् आह: कतरः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेको यदि नारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि? कथंरूपो भगवन्न् अन्यो विवेको बोधिसत्त्वस्य महासत्त्वस्य?
भगवान् आह: सचेत् सुभूते बोधिसत्त्वो महासत्त्वः श्रावकप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, बोधिसत्त्वो महासत्त्वो नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यो ऽयं मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य. अनेन च विवेकेन रात्रिंदिवं विहरति विविक्तश् चैव विहरति बोधिसत्त्वो महासत्वो यद् उत बोधिसत्त्वविवेकेन नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति विविक्त एव विहरति बोधिसत्त्वो महासत्त्वो, ग्रामान्ते ऽपि वा विहरन्न् अनेन विवेकेन विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यश् च मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य.
यञ् च पुनः स मारः पापीयान् विवेकम् उपदेक्ष्यत्य् अरण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, स तेन विवेकेन संकीर्णश् चैव समानः श्रावकप्रतिसंयुक्तैर् मनसिकारैः विहरति प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विहरति प्रज्ञापारमितायाम् अनभियुक्तः सर्वाकारज्ञतां न परिपूरयति. एवं सो ऽनेन विहारेण विहरन्न् अपरिशुद्धधर्ममनसिकारश् चैव समानस् तदन्यान् अपि बोधिसत्त्वान् महासत्त्वान् अवमंस्यते ये ते ग्रामान्ते विहरन्ति परिशुद्धधर्ममनसिकाराः श्रावकचित्तैर् असंकीर्णाः प्रत्येकबुद्धचित्तैर् असंकीर्णा (प्स्प्_5:9) इहान्यैः पापकैश् चित्तोत्पादैर् असंकिर्णा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखसत्याभिज्ञापरिपूरिं गताः.
अथ च पुनः सो ऽनुपायकुशलो बोधिसत्त्वो महासत्त्वः, किं चापि योजनशतिकेष्व् अटवीकान्तारेष्व् अपगतव्यादमृगपक्षिष्व् अपगतचौरकान्तारेष्व् अपगतभृशपर्णराक्षसानुविचरितेषु तत्र मध्ये वा संकल्पयेद् वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा ततो वा उत्तरि, इमं च विवेकन् न जानाति येन विवेकेन बोधिसत्त्वो महासत्त्वो ऽध्याशयसंप्रस्थितो विहरति, संकीर्णश् चैव विहरति बोधिसत्त्वो महासत्त्वः संक्लिष्टश् चैव तत्र विवेके निश्रित आलीनो ऽध्यवसितो न मे स तावन्मात्रकेण चित्तम् अभिराधयति, यश् च मया विवेक आख्यातस् तस्मिन् विवेके न संदृश्यते.
तम् एनं मारः पापीयान् उपसंक्रम्योपर्य् अन्तरीक्षे स्थित्वैवं वदति: साधु साधु कुलपुत्र एष विवेकस् तथागतेनाख्यातो येन विहरस्य् एवं त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. स ततो विवेकात् पुनर् अन्यान् विवेकान् अवमन्यमानस् तदन्यान् बोधिसत्त्वयानिकान् भिक्षून् पेशलान् कल्याणधर्मनो ऽवमंस्यते संकीर्णविहारेण बतेमे विहरन्त्य् आयुष्मन्त इति. ये च विविक्तविहारेण विहरन्ति बोधिसत्त्वा महासत्त्वास् तान् संकीर्णविहारेण चोदयिष्यति स्मारयिष्यति अवमंस्यते, ये च संकीर्णविहारेण विहरन्ति तान् विविक्तविहारेण समुदाचरिष्यति तत्र च गौरवम् उत्पादयिष्यति, यत्र च गौरवम् उत्पादयितव्यं तत्र मानम् उत्पादयिष्यति. तत् कस्य हेतोः? अहम् अमनुष्यैश् चोद्ये, अहम् अमनुष्यैः स्मार्ये, एष विहारो येन विहारेणाहं विहरामि, कं ग्रामान्तविहारिणम् अमनुष्याः स्मारयिष्यन्ति? अयं बोधिसत्त्वस् तदन्यान् बोधिसत्त्वयानिकान् कुलपुत्रान् पंसयिष्यत्य् अवमंस्यते उल्लापयिष्यति कुत्सयिष्यति.
अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, चौरः सदेवमानुषासुरस्य लोकस्य, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकारां कुलपुत्राणां, तज्जातिकः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. तत् कस्य हेतोः? आधिमानिका हि सुभूते तथारूपाः पुद्गला वेदितव्याः. इत्य् अष्टमम्
(प्स्प्_5:10)
यस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्यापरित्यक्ता सर्वाकारज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन, सर्वसत्त्वानाम् अर्थं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन तज्जातीयः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. अपि तु खलु स्वकार्ययोगम् अनुयुक्तेन विहर्तव्यं नित्योद्विग्नमानसेन संसार उत्त्रस्तमानसेनासंसृष्टेन त्रैधातुकेन. तत्र चैव मैत्र्य् उत्पादयितव्या तत्र चैवानुकम्पाकरुणोत्पादयितव्या मुदितोत्पादयितव्या उपेक्षोत्पादयितव्या, तथा च करिष्यामि यथैते मम दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति नोत्पत्स्यन्ते, सचेद् उत्पत्स्यन्ते क्षिप्रम् एव प्रहास्यामीति शिक्षा करणीया. अयं सुभूते बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कानि पुनर् भगवन् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धा भगवन्तः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, बोधिसत्त्वा महासत्त्वाश् च सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, श्रावका अपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि.
ये च षट् पारमिता आख्यास्यन्ति देशयिष्यन्ति प्रज्ञपयिष्यन्ति प्रस्थापयिष्यन्ति विवरिष्यन्ति विभजिष्यन्ति उत्तानीकरिष्यन्ति संप्रकाशयिष्यन्ति, इमे ऽपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः सर्वशून्यता आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. तथताभूतकोटिधर्मधातु बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः शास्तारो वेदितव्याः षट् पारमिता मार्गः षट् पारमिता आलोकः षट् पारमिता (प्स्प्_5:11) उल्का षट् पारमिता अवभासः षट् पारमिता भूमिः षट् पारमिताः शरणं षट् पारमिता लयनं षट् पारमिताः परायणं षट् पारमिता माता षट् पारमिताः पिता. चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञतायै यावत् सर्ववासनानुसंधिक्लेशप्रहाणाय संवर्तन्ते. तत् कस्य हेतोः? तथा हि सुभूते ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितराव् अभूताम्. ये ऽपि ते सुभूते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भविष्यतः. ये ऽपि ते सुभूते एतर्हि दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषाम् अपि सुभूते बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भवतः. तत् कस्य हेतोः? तथा हि सुभूते ऽतो निर्जाता ह्य् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन चतुर्भिः संग्रहवस्तुभिः सत्त्वाः संग्रहीतव्याः. कतमैश् चतुर्भिर्? दानेन प्रियवद्यतयार्थक्रियया समानार्थतया. इदम् अप्य् अहं सुभूते ऽर्थवशं पश्यन्न् एवं वदामि: एते बोधिसत्त्वानां महासत्त्वानां शास्तारो मातापितरौ लयनं त्राणं द्वीपः शरणं यद् उतेम एव सप्तत्रिंशद् बोधिपक्ष्या धर्माः. इति नवमम्
तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. इति दशमम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किंलक्षणा (प्स्प्_5:12) भगवन् प्रज्ञापारमिता?
भगवान् आह: असङ्गलक्षणा सुभूते प्रज्ञापारमिता न सुभूते प्रज्ञापारमिता लक्षणन् न प्रज्ञापारमितायाः किञ्चिल् लक्षणम्.
सुभूतिर् आह: स्याद् भगवन् पर्यायो येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्येरन्.
भगवान् आह: एवम् एतद् येन लक्षणेन सुभूते प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते. तत् कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ता अस्वभावाः स्वभावशून्याः, अनेन सुभूते पर्यायेण येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते यद् उत विविक्तलक्षणेन शून्यतालक्षणेन.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः सर्वधर्मविविक्ताः सर्वधर्माः सर्वधर्मैः शून्यास्, तत् कथं भगवन् सत्त्वानां संक्लेशं व्यवदानं प्रज्ञायते? न भगवन् विविक्तं वा शून्यता वा संक्लिश्यते वा व्यवदायते वा, न विविक्तं वा शून्यता वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न विविक्ते वा शून्यतायां वा कश्चिद् धर्म उपलभ्यते, यो बोधिम् अभिसंबुध्येतास्य चैवं भगवन् भगवतो भाषितस्य कथम् अर्थं जानीयाम्? इति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते, अपि नु दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.
भगवान् आह: तत् किं मन्यसे? सुभूते, अपि त्व् अहंकारममकारौ विविक्ताव् अपि त्व् अहंकारममकारौ शून्यौ.
सुभूतिर् आह: विविक्तो भगवन् शून्यः सुगत.
भगवान् आह: तत् किं मन्यसे? सुभूते, अहंकारममकारेण सत्त्वाः संसारे संधावन्ति संसरन्ति.
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, अहंकारममकारेण भगवन् सत्त्वाः संसारे संधावन्ति संसरन्ति.
भगवान् आह: एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते संसारे संधावतां संसरतां, यत्र सुभूते नाहंकारो न ममकारस् तत्र नोद्ग्रहो ऽनेन ते सत्त्वाः संसारे न संधावन्ति न संसरन्ति.
(प्स्प्_5:13)
एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते संसारे न संधावतां न संसरताम्, अपि तु खलु पुनर् न कश्चित् तत्र संक्लिश्यते वा व्यवदायते वा, एवं खलु सुभूते संक्लेशो व्यवदानञ् च प्रज्ञायते. इत्य् एकादशम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धेषु चरति न धातुषु चरति नायतनेषु चरति न प्रतीत्यसमुत्पादे चरति न प्रतीत्यसमुत्पादाङ्गेसु चरति न स्मृत्युपस्थानेषु चरति न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न मार्गेषु चरति नार्यसत्येषु नाप्रमाणध्यानारूप्यसमापत्तिषु चरति न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति न शून्यतानिमित्ताप्रणिहितेषु चरति न पञ्चस्व् अभिज्ञासु चरति न बलवैशारद्येषु चरति न प्रतिसंवित्सु चरति नावेणिकेषु बुद्धधर्मेषु चरति न सर्वाकारज्ञतायां चरति. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यो वा चरेत येन वा चरेत यत्र वा चरेत, एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो ऽनभिभवनीयो भवति सदेवमानुषासुरेण लोकेन. एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धैर् न शक्यो ऽभिभवितुम्. तत् कस्य हेतोः? तथा हि सो ऽनभिभूते स्थाने स्थितो यद् उत बोधिसत्त्वनियामे ऽनभिभूतो हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनसिकारैर् विहरन्न्, एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्याशीभवति. इति द्वादशम् इत्य् उक्तं लिङ्गम्
भगवान् आह: कत् किं मन्यसे? सुभूते ये जाम्बूद्वीपकाः सत्त्वास् ते सर्वमानुष्यकम् आत्मभावं प्रतिलभेरन् प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येरंस् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिनामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं (प्स्प्_5:14) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरंस्, तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेच्, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां दक्षिणीयतां गच्छति. तत् कस्य हेतोः? तथा हि न कस्यचित् सत्त्वस्य तादृशो विहारो यथा बोधिसत्त्वस्य महासत्त्वस्य स्थापयित्वा तथागतम् अर्हन्तं सम्यक्संबुद्धम्. तत् कस्य हेतोः? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमितायां चरन्तो महामैत्रीम् अभिनिर्हरन्ति, ते प्रज्ञापारमितायाञ् चरन्तः सर्वसत्त्वान् वध्यगतान् समनुपश्यन्ति ते महाकरुणां प्रतिलभन्ते, ते तेन विहारेण विहरन्तो मुदितया प्रमोदन्ते ते महामुदिताम् अभिनिर्हरन्ति, ते तेन निमित्तेन सार्धं न संवसन्ति ते महोपेक्षां प्रतिलभन्ते, अयं सुभूते बोधिसत्त्वानां महासत्त्वानां महान् प्रज्ञालोको यद् उत प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितालोकः. अनभिसंबुद्धा अपि ते कुलपुत्रा बोधिसत्त्वानां महासत्त्वानां दक्षिणीयतां गच्छन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् येषाञ् च परिभुञ्जते (प्स्प्_5:15) चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् प्रज्ञापारमिता
प्रतिसंयुक्तैर् मनसिकारैर् विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति सर्वाकारज्ञतायाश् चाभ्याशीभवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनामोघराष्ट्रपिण्डं परिभोक्तुकामेन, सर्वसत्त्वानां पन्थानम् उपदेष्टुकामेन, विपुलम् एव भासं कर्तुकामेन, बन्धनगतान् सत्त्वान् परिमोचयितुकामेन, सर्वसत्त्वानाम् अनुत्तरं प्रज्ञाचक्षुर् विशोधयितुकामेन प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहर्तव्यम्. सचेद् बोधिसत्त्वो महासत्त्व एतान् प्रज्ञापारमिताप्रतिसंयुक्तान् मनसिकारान् मनसिकुर्याद् इति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता चैव कथा कथयितव्या. इति प्रथमा विवृद्धिः
तेन प्रज्ञापारमिताप्रतिसंयुक्तां कथां कथयित्वा प्रज्ञापारमिताप्रतिसंयुक्ताश् चैव मनसिकारा मनसिकर्तव्यास्, तेन प्रज्ञापारमिताप्रतिसंयुक्तैर् मानसिकारैर् विहरतान्येषां मनसिकाराणाम् अवकाशो न दातव्यस्, तथा च कर्तव्यं यथा तैः प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् अनिक्षिप्तधुरो रात्रिंदिवं विहरेत्, तद्यथापि नाम सुभूते पुरुषेण मणिरत्नम् अप्रतिलब्धपूर्वं स्यात् सो ऽपरेण समयेन प्रतिलभेत्, स तत् मणिरत्नं प्रतिलभ्योदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत्, तस्य सह प्रतिलब्धन्तं मणिरत्नं पुनर् एव नश्येत् स ततोनिदानं महता दुःखदौर्मनस्येन संयुक्तो भवेत्, तस्य सततसमितं मणिरत्नं प्रतिसंयुक्ता एव मनसिकाराः प्रवर्तेरन्, अहो बताहं तेन मणिरत्नेन वियुक्त इति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन रत्नम् इदम् इति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितेन भवितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन् सर्वमनसिकाराः स्वभावेन विरहिताः, सर्वमनसिकाराः स्वभावेन शून्यास्, तदा कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति? न ह्य् अविरहितो ऽपि बोधिसत्त्वो महासत्त्व उपलभ्यते मनसिकारा वा सर्वाकारज्ञता वा.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते बोधिसत्त्वो महासत्त्व एवं जानाति, विरहिताः सर्वधर्माः स्वभावेन ते न श्रावकैर् न प्रत्येकबुद्धैर् न बुद्धैर् भगवद्भिः कृताः, स्थिताश् चैवैतेषां धर्माणां धर्मस्थितिता धर्मनियामता धर्मता धर्मधातुस् (प्स्प्_5:16) तथता अवितथता अनन्यतथता भूतकोटिर्, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया भवति. तत् कस्य हेतोः? तथा हि सुभूते प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन शून्या, सा नापि विवर्धते नापि परिहीयते. इति द्वितीया
सुभूतिर् आह: सचेद् भगवन् प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन सून्या, तत् कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा, न भूतकोटी विवर्धते वा परिहीयते वा, न धर्मधातुर् विवर्धते वा परिहीयते वा. तत् कस्य हेतोः? न हि प्रज्ञापारमिता एका वा द्वे वा. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाष्यमाणे चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निष्ठा तत्र गन्तव्या, स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ, चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् या प्रज्ञापारमितायाः शून्यता रिक्तता तुच्छता वशिकता असारकता सा प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र प्रज्ञापारमितायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् शून्यता प्रज्ञपारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र शून्यतायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् रूपं प्रज्ञापारमितायां चरति, वेदना संज्ञा संस्कारा, विज्ञानं प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
(प्स्प्_5:17)
सुभूतिर् आह: किं पुनर् भगवन् स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञापारमितायां चरन्ति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् षट् पारमिताः प्रज्ञापारमितायां चरन्ति? एवं सर्वशून्यताः सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः प्रज्ञापारमितायां चरन्ति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् या रूपस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरन्ति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: वेदनायाः संज्ञायाः संस्काराणां, किं पुनर् भगवन् या विज्ञानस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् या स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता रिक्तता तुच्छता वशिकता असारकता तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन्न् अन्या षण्णां पारमितानां शून्यता सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां (प्स्प्_5:18) बुद्धधर्माणां च शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते.
सुभूतिर् आह: सचेत् पुनर् भगवन्न् एते धर्मा न चरन्ति प्रज्ञापारमितायां, कथं चरन्तः पुनर् भगवन् बोधिसत्त्वा महासत्त्वाश् चरन्ति प्रज्ञापारमितायाम्?
भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो धर्मः प्रज्ञापारमितायाञ् चरति.
सुभूतिर् आह: न भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तां प्रज्ञापारमितां यत्र बोधिसत्त्वा महासत्त्वाश् चरन्ति.
सुभूतिर् आह: न भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते यत् त्वं धर्मं न समनुपश्यसि कश्चित् स धर्म उपलभ्यते.
सुभूतिर् आह: न भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते यो धर्मो नोपलभ्यते, अपि नु स उत्पद्यते वा निरुध्यते वा.
सुभूतिर् आह: न भगवन्.
भगवान् आह: इयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिर्, एवंरूपया सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ, इयं सुभूते तथागतस्य वैशारद्यप्रतिसंवित् यां प्रतिसंविद्यमानो बोधिसत्त्वो महासत्त्व एवं चरन् घटमानो व्यायच्छमानो ऽनुत्तरं सम्यक्संबोधिज्ञानं महाज्ञानं सर्वाकारज्ञताज्ञानं नानुप्राप्नुयाद् इति नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेनानुत्पत्तिकैर् धर्मैः क्षान्तिः प्रतिलब्धा तथा हि तन् निम्नो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति तृतीया
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वधर्माणाम् अनुत्पत्तये व्याकरिष्यते बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ?
भगवान् आह: नो हिदं सुभूते.
(प्स्प्_5:19)
सुभूतिर् आह: किं पुनर् भगवन्न् उत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते अनुत्तरायां सम्यक्संबोधौ?
भगवान् आह: न सुभूते.
सुभूतिर् आह: सचेद् भगवन् नानुत्पत्तये नैवोत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते ऽनुत्तरायां सम्यक्संबोधौ, तत् कथं भगवन् व्याकरणं भवति बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ.
सुभूतिर् आह: न भगवन्. नाहं भगवंस् तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तम् अप्य् अहं धर्मन् न समनुपश्यामि यो धर्मो ऽभिसंबुध्येत येन वाभिसंबुध्यते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मान् अनुपलभमानस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अभिसंभोत्स्य इदम् अभिसंभोत्स्ये. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वा एते विकल्पा न भवन्ति. तत् कस्य हेतोः? अविकल्पा हि सुभूते प्रज्ञापारमिता. इति चतुर्थी
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कावचना यावत् सूक्ष्ंआ निपुणा भगवन् प्रज्ञापारमितात्यन्तविविक्तत्वाद्, न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तहत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत् किं मन्यसे? कौशिक यावन्तो जांबुद्वीपकाः सत्त्वास् ते सर्वे दशभिः (प्स्प्_5:20) कुशलैः कर्मपथैः समन्वागता भवेयुश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् तथत्वाय प्रतिपद्येत, अस्य कौशिक कुशलमूलस्य एष पूर्वकः कुशलमूलाभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियतशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिषाम् अप्य् उपनिषदम् अपि नोपैति.
अथ खल्व् अन्यतरो भिक्षुः शक्रं देवानाम् इन्द्रं एतद् अवोचत्: अभिभूतस् त्वं कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा ते च जांबूद्वीपकाः सत्त्वाः दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागताः, य इमां प्रज्ञापारमिताम् अनिक्षिप्तचित्तेनोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तथत्वाय च प्रतिपत्स्यते अन्येषाञ् च चित्तचैतसिकानां धर्माणाम् अवकाशं न दास्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
एवम् उक्ते शक्रो देवानाम् इन्द्रस् तं भिक्षुम् एतद् अवोचत्: एकचित्तोत्पादेनैवाहं भिक्षो तेन बोधिसत्त्वेन महासत्त्वेन ते च जाम्बूद्वीपकाः सत्त्वा दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागता अभिभूताः, कः पुनर् वादो य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय प्रतिपत्स्यन्ते, ते सदेवमानुषासुरलोकम् अभिभूय निर्यास्यन्ति सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा माहासत्त्वाः, ये ऽपि ते स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धास् तान् अपि सर्वान् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं स्रोतआपन्नान् सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धान्, ये ऽपि ते बोधिसत्त्वा महासत्त्वा दानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. (प्स्प्_5:21) न केवलं ये दानपारमितायां चरन्ति, ये ऽपि ते शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरन्ति, ये ऽपि ते प्रज्ञापारमितायां चरन्त्य् उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिअसत्त्वा महासत्त्वाः. ये बोधिसत्त्वा महासत्त्वा यथोपदिष्टायां प्रज्ञापारमितायां चरन्ति ते सदेवमानुषासुरेण लोकेन न शक्या अभिभवितुं प्रज्ञापारमितायां, यश् चरति बोधिसत्त्वो महासत्त्वो यथानुशिष्टं प्रज्ञापारमिताम् अनुवर्तते, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय स्थितो, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतानां न दूरीकरोत्य्, अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो न विरागयति बोधिमण्डम्, अयं बोधिसत्त्वो महासत्त्वः सत्त्वान् संसीदयमानान् उद्धर्तुकामो, ऽयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते न श्रावकशिक्षायां शिक्षते न प्रत्येकबुद्धशिक्षायां शिक्षते. इति पङ्चमी
एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं चत्वारो महाराजास् तम् उपसंक्रमितव्यं मंस्यन्ते, उपसंक्रम्यैवं वक्ष्यन्ति: शीघ्रं शिक्षस्व इमानि तानि चत्वारि पात्राणि यानि त्वया प्रतिग्रहीतव्यानि बोधिमण्डनिषण्णेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन यानि परिगृहीतानि पूर्वकैस् तथागतेऐर् अर्हद्भिः सम्यक्संबुद्धैः.
एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां तम् उपसंक्रमितव्यं मंस्यन्ते, सार्धं देवैस् त्रयस्त्रिंशैः सुयामश् च देवपुत्र उपसंक्रम्यमितव्यं मंस्यते, सार्धं सुयामैर् देवपुत्रैः संतुषितो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं संतुषितैर् देवपुत्रैर् निर्माणरतिश् च देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं निर्माणरतिभिर् देवपुत्रैः परनिर्मितवशवर्त्य् अपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं परनिर्मितवशवर्तिभिर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं ब्रह्मापि सहांपतिर् उपसंक्रमितव्यं मंस्यते, सार्धं ब्रह्मपार्षद्यैर् देवपुत्रैर् ब्रह्मपुरोहितैर् (प्स्प्_5:22) महाब्रह्मैः आभास्वरो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं आभास्वरैर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं परीत्ताभा अप्रमाणाभा आभास्वराः, परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना, अनभ्रकाः पुण्यप्रसवा बृहत्फला, असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सुदृशाः सुदर्शना यावद् अकनिष्ठा देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते.
यो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति, तथागतैर् अपि सो ऽर्हद्भिः सम्यक्संबुद्धैर् बोधिसत्त्वो महासत्त्वो नित्यं समन्वाहृतो भविष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरत्य्, एवं यश् चरति बोधिसत्त्वो महासत्त्वो इह गम्भीरायां प्रज्ञापारमितायां यानि तानि लौकिकानि दुःखानि परोपक्रमिकानि काये उत्पत्स्यन्ते तानि तस्य सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं सुभूते दृष्टधार्मिको गुणो भविष्यति बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां चरतो यानि वा तानि सांनिपातिकानि ग्लान्यानि, तद्यथापि नाम चक्षुरोगः श्रोत्ररोगो घ्राणरोगो जिह्वारोगो दन्तरोगः कायशूलं चित्तसूलम्, एवम् अशीतिरोगशतानि चतुरधिकानि सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं तस्य बोधिसत्त्वस्य महासत्त्वस्य दृष्टधार्मिको गुणः प्रतिकाङ्क्षितव्य इह गम्भीरायां प्रज्ञापारमितायां चरतः. इति षष्ठी
अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: किम् अयं शक्रो देवानाम् इन्द्रः स्वकेन प्रतिभानेन प्रज्ञापारमिताम् उपदिशति उताहो बुद्धानुभावेनेति?
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: बुद्धानुभाव एष भदन्तानन्द वेदितव्यो यद् अहं प्रज्ञापारमिताम् उपदिशामि.
अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवम् एतद् आनन्दैवम् एतत्, तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानं यच् छक्रो देवानाम् इन्द्रः प्रज्ञापारमिताम् उपदिशति. यस्मिन्न् आनन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते प्रज्ञापारमितायां योगम् आपद्यते प्रज्ञापारमितां भावयति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे संशयप्राप्ता भवन्ति: किम् अयं बोधिसत्त्वो भूतकोटिं साक्षात्करिष्यति (प्स्प्_5:23) भूतकोटिं साक्षात्कृत्वा स्रोतआपत्तिफलं वा साक्षात्करिष्यति सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा साक्षात्करिष्यति प्रत्येकां बोधिं प्राप्स्यति, उताहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तस्मिन् समये मारः पापीयाञ् छोकशल्यविद्धो भवति.
पुनर् अपरम् आनन्द बोधिसत्त्वस्य मारः पापीयान् उल्कापातान् उत्प्रेक्ष्यति भयं जनयिष्यत्य्, अप्य् एव नामास्य बोधिसत्त्वस्य महासत्त्वस्यावलीनता वा भवेद् रोमहर्षो वा भवेद् अवलीनचित्तता वा भवेद् एकचित्तोत्पादस्यापि विक्षोभनं भविष्यति सर्वाकारज्ञतां मनसिकुर्वतः.
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः?
भगवान् आह: न खल्व् आनन्द सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः, केषांचिद् आनन्द बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः केषांचिन् नोपसंक्रमिष्यति.
आनन्द आह: कियद्रूपाणां भगवन् बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः कियद्रूपाणां नोपसंक्रमिष्यति?
भगवान् आह: यैर् आनन्द बोधिसत्त्वैः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता चित्तेन नाधिमुक्ता तेषां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.
पुनर् अपरम् आनन्द य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा बोधिसत्त्वः संशयप्राप्तो ऽभूत्, स्याद् वेयं प्रज्ञापारमिता न वा स्याद् इत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.
पुनर् अपरम् आनन्द यो बोधिसत्त्वः कल्याणमित्रविरहितो भवति सो ऽसंपश्यमानः कल्याणमित्रानीमां गम्भीरां प्रज्ञापाररैतां न शृणोत्य् अशृण्वन् न जानात्य् अजानानस् तथतायै न प्रतिपत्स्यते, कथं प्रज्ञापारमिता भावयितव्येत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.
(प्स्प्_5:24)
पुनर् अपरम् आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मपरिग्रहं करोत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति अवतारं च लप्स्यते.
पुनर् अपरं आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मस्य वर्णं भाषिष्यते तत्र मारस्य पापीयस एवं भविष्यति, सहाय एषो मम यो ऽसद्धर्मस्य वर्णं भाषिष्यते, बहूनाम् अप्य् एष बोधिसत्त्वयानिकानां पुद्गलानां सहायो लब्धो यो ऽसद्धर्मस्य वर्णं भाषिष्यते, अयं ममाभिप्रायं परिपूरयिष्यत्य्, अयं बोधिसत्त्वयानिकः पुद्गलो ऽप्य् आभ्यां द्वाभ्यां भूमिभ्याम् अन्यतरस्यां भूमौ स्थास्यति यद् उत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा.
पुनर् अपरम् आनन्द एवंरूपस्य बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते यो बोधिसत्त्व इह गम्भीरायां प्रज्ञपारमितायां भाष्यमाणायाम् एवं वक्ष्यति: गम्भीरेयं प्रज्ञापारमिता, किं ते एतया गम्भीरया प्रज्ञापारमितया श्रुतया भाषितया वाचितया पर्यवाप्तया धारितया? अहम् अपि तावद् अस्याम् आगाधं न लभे कुतः पुनस् त्वं लप्स्यसे, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो ऽन्यतरं बोधिसत्त्वम् अवमंस्यते: अहं दानपारमितायां चरामि न त्वं दानपारमितायाञ् चरसि, अहं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरामि न त्वं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरसि, अहं प्रज्ञापारमितायां चरामि न त्वं प्रज्ञापारमितायां चरसि, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो आत्मानम् उत्कृष्टं मन्यते तस्मिन्न् आनन्द समये मारः पापीयांस् तुष्टो भवत्य् उदग्रो भवत्य् आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो नामग्रहणतो वा गोत्रग्रहणतो वा परिकीर्तितो भवति स तेन नामग्रहणेन वा गोत्रग्रहणेन वा तदन्यान् बोधिसत्त्वान् पेशलान् कल्याणधर्मणो ऽवमंस्यते, आत्मानम् उत्कर्षयति परान् पंशयति, ते चास्य गुणा न संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् आकारा लिङ्गानि निमित्तानि. (प्स्प्_5:25) स तैर् अकारैर् लिङ्गैर् निमित्तैर् असंविद्यमानैः क्लेशम् उत्पादयति, आत्मानम् उत्कर्षयति परान् पंशयति: न त्वम् अत्र बोधिसत्त्वयाने संदृश्यसे यथाहम् अत्र बोधिसत्त्वयाने बोधिसत्त्वगोत्रे संदृश्ये. स तेनाधिमानेन बोधिसत्त्वयानिकान् पुद्गलान् कुत्सयिष्यति पंशयिष्यति. तत्र मारस्य पापीयस एवं भविष्यति, अशून्यं मे भवनं भविष्यत्य् उत्सदा भविष्यन्ति महानरकास्, तिर्यग्योनिर् यमलोकः प्रेतविषयः. तथातथा च मारः पापीयांस् तान् बोधिसत्त्वान् अधिष्ठास्यति यथादेयवचना भविष्यन्ति तेषां तयादेयवचनतया बहुजनः श्रोतव्यं मंस्यन्ते, तेषां श्रुत्वा दृष्ट्वानुकृतिम् आपत्स्यन्ते, ते श्रुत्वा दृष्ट्वानुकृतिम् आपद्यमानास् तथतायै न शिक्षिष्यन्ते, ते तथतायै न शिक्षमाणास् ते तथतायै न प्रतिपद्यमानाः क्लेशं विवर्धयिष्यन्ति, ते विपर्यस्तया चित्तसंतत्या यद्यद् एव कर्मारप्स्यन्ते कायेन वा वाचा वा मनसा वा, सर्वं तद् अनिष्टत्वायाकान्तत्वायामनआपत्वाय संवर्तिष्यति. एवं ते महानरका उत्सदा भविष्यन्ति, तिर्यग्योनिर् यमलोकः प्रेतविषय उत्सदो भविष्यति, मारभवनान्य् उत्सदानि भविष्यन्ति. इमं आनन्दार्थवशं संपश्यमानो मारः पापीयान् आत्तमना भवति प्रमुदितः प्रीतिसौमनस्यजातः.
पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलः श्रावकयानिकेन पुद्गलेन सार्धं विवदति, तत्र मारस्य पापीयस एवं भवति, दूरीकरिष्यति बतायं कुलपुत्रः सर्वाकारज्ञतां नायम् अभ्यासी भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? नैते कलहभण्डनविग्रहविवादा मार्गः सर्वाकारज्ञ्ताया नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष नैष मार्गः सर्वाकारज्ञतायाः.
पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलो ऽपरेण बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहभण्डनविग्रहविवादान् करोति, तत्र मारस्य पापीयस एवं भवति, उभाव् अप्य् एतौ दूरीभविष्यतः, सर्वाकारज्ञताया उभाव् अप्य् एतौ नाभिसंभोत्स्येते ऽनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि नैष मार्गः सर्वाकारज्ञताया य एतैः कुलपुत्रैर् आरब्धो, नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष य एतैः कुलपुत्रैर् आरब्धः.
पुनर् अपरं आनन्दाव्याकृतो बोधिसत्त्वो व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिके चित्तम् आघातयिष्यति, कलहं वा भण्डनम् (प्स्प्_5:26) वा विग्रहं वा विवादं वा करिष्यति, तेन पुनस् तावत एव कल्पान् संनाहः संनद्धव्यः यावन्ति तस्य तानि चित्तान्य् उत्पन्नानि कलहं वा भण्डनं वा विग्रहं वा विवादं वा कुर्वतः, सचेद् अस्य सर्वाकारज्ञतापरिभ्यक्ता भवति.
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: अस्ति भगवन्न् एतेषां चित्तोत्पादानां निःसरणम् उताहो तावत एव कल्पान् संनाहः संनद्धव्यः.
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: अनिःसरणो मयानन्द धर्मो देशितः श्रावकयानिकानाञ् च पुद्गलानां प्रत्येकबुद्धयानिकानाञ् च पुद्गलानां, तत्रानन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहं वा भण्डनं वा विग्रहं वा कुर्याद् यावद् विवदेद् वा आक्रोशेद् वा परिभाषेद् वा कलहयित्वा वा भण्डयित्वा वा विग्रहयित्वा वा विवादयित्वा वा आक्रोशयित्वा वा परिभाषयित्वा वा न प्रतिदेशयत्य् अनुशयं वहति अनुशयबद्धो विहरति, नाहम् आनन्द तस्य पुद्गलस्य निःसरणं वदामि, अवश्यं तेन तावत एव कल्पान् संनाहः संनद्धव्यः, सचेद् अस्यापरित्यक्ता सर्वाकारज्ञता.
पुनर् अपरम् आनन्द बोधिसत्त्वो महासत्त्वः कलहयित्वा भण्डित्वा विग्रहयित्वा विवदित्वा आक्रोषित्वा परिभाषित्वा प्रतिदेशयति: मानुशयं वहत्य् आयत्यां संवरम् आपद्यते दुर्लब्धा मे लाभा, यन् मया सर्वसत्त्वानां भार आहर्तव्यस् तद् अहं मन्त्रिते प्रतिमन्त्रयामि, यन् मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्याप्रियं मन्त्रयामि प्रतिवचनं च ददामि. एवम् अपि मया न वक्तव्यं जडैडकमूकसदृशेन मया भवितव्यं, अध्याशयश् च मे न विकोपयितव्यो यन् मयैते सत्त्वाः परिनिर्वापयितव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तद् अहम् अत्र व्यापद्ये तद् अहम् अत्र क्षुभ्यामि न मयात्र व्यापत्तव्यं न मया क्षोभचित्तम् उत्पादयितव्यम्. अस्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवतारं न लभते.
पुनर् अपरम् आनन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं न स्थातव्यं सचेत् तिष्ठति तेन न कस्यचिद् अन्तिके व्यापत्तव्यं. तत् कस्य हेतोः? तथा हि नैतन् मम प्रतिरूपं स्यात्, (प्स्प्_5:27) यद् अहम् एतेषाम् अन्तिके व्यापद्ये वा क्षुभ्येयं वा. तत् कस्य हेतोः? तथा हि ते मयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वदुःखेभ्यः परिमोचयितव्याः. इति सप्तमी
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्?
भगवान् आह: तद्यथापि नामानन्द शास्तरि, एवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्. तत् कस्य हेतोः? एष हि मम सहायक एकयानसमारूढो, यथा चैवैतेन शिक्षितव्यं तथा चैव मया शिक्षितव्यं यत्र चैतेन शिक्षितव्यं तत्र चैव मया शिक्षितव्यं यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिस्व् आर्यसत्येषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायाम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न मयात्र शिक्षितव्यम्. सचेत् पुनर् एष बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मयाप्य् एवम् एव शिक्षितव्यम्. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः समशिक्षो भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्?
भगवान् आह: अध्यात्मशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्. एवं स्कन्धधात्वायतनानि स्कन्धधात्वायतनैः शून्यानि, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादैः शून्यः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गैः शून्यानि, पारमिताः पारमिताभिः शून्याः, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सप्तत्रिशद्ब्बोधिपक्ष्यैर् धर्मैः शून्याः, आर्यसत्यान्य् (प्स्प्_5:28) आर्यसत्यैः शून्यानि, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैः सून्यानि, त्रीणि विमोक्षमुखानि त्रिभिर् विमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्या, दशबलानि दशबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, आवेणिकबुद्धधर्मा आवेणिकाबुद्धधर्मैः शून्याः, बोधिर् यावद् बोध्या शून्या. इयं सुभूते बोधिसत्त्वानां महासत्त्वानां समता, यत्र समतायां स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अष्टमी
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञनां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायाः सम्यक्संबोधेः क्षयाय शिक्षते विरागाय शिक्षते निरोधाय शिक्षते ऽनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूतिः स्थविर एवम् आह, यद् रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, यद् रूपस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, एवं वेदनासंज्ञासंस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय (प्स्प्_5:29) निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाञ् चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. अनुत्तरायाः सम्यक्संबोधेः क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै इति. तत् किं मन्यसे? सुभूते या रूपस्य तथता या वेदनायास् तथता या संज्ञायास् तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धधात्वायतनानां तथता या प्रतीत्यसमुत्पादस्य तथता या प्रतीत्यसमुत्पादाङ्गानां तथता या पारमितानां तथता या सर्वशून्यतानां तथता या सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां तथता या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता याप्रमाणध्यानारूप्यसमापत्तीनां तथता यार्यसत्यानां तथता या त्रयाणां विमोक्षमुखानां तथता या पञ्चानाम् अभिज्ञानां तथता या दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माणां तथता या सम्यक्संबोधेस् तथता या स्रोतआपन्नस्य तथता या सकृदागामिनस् तथता यानागामिनस् तथता यार्हतस् तथता या प्रत्येकबुद्धस्य तथता या बोधिसत्त्वस्य महासत्त्वस्य तथता, या तथागतस्य तथता, यया तथतया तथागतः प्रज्ञप्यते, अपि नु सा तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा.
सुभूतिर् आह: न भगवन् न सुगत.
भगवान् आह: एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायां न च तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते षट्सु पारमितासु, शिक्षते सर्वासु शून्यतासु, शिक्षते स्मृत्युपस्थानेषु, शिक्षते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु, शिक्षते आर्यसत्येषु, शिक्षते ऽप्रमाणध्यानारूप्यसमापत्तिषु, शिक्षते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु, शिक्षते शून्यतानिमित्ताप्रणिहितेषु, शिक्षते पञ्चस्व् अभिज्ञासु, शिक्षते दशबलवैशारद्यप्रतिसंवित्सु, (प्स्प्_5:30) शिक्षते ऽष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापरमपारमिताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यते मारेण वा मारकायिकाभिर् वा देवताभिर् अभिमर्दितुम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रम् अविनिवर्तनीयताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके पैतृके तथागतगोचरे चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नाथकरणीयैर् धर्मैश् चरति बुद्धक्षेत्रपरिशोधनैः. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो महामैत्र्यां शिक्षते महाकरुणायां शिक्षते बुद्धक्षेत्रपरिशोधनाय शिक्षते सत्त्वपरिपाकाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनतायै शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् परिनिर्वापयिष्यामीति शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो ऽमृतधातुद्वारं विवरिष्यामीति शिक्षते, संस्कृतधातुं संदर्शयिष्यामीति शिक्षते, न हि सुभूते शक्यं हीनसत्त्वैर् इह शिक्षायां शिक्षितुं सर्वसत्त्वान् संसाराद् उद्धर्तुकामः स सत्त्वो यो ऽस्यां शिक्षायां शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके उपपद्यते, न प्रत्यन्तेषु जनपदेषूपपद्यते न चण्डालकुलेषूपपद्यते, नान्येषु नीचेषु नीचवृत्तिषु कुत्सितेषु कुलेषूपपद्यते, न काणो भवति, न कुण्डो भवति, न लङ्गो भवति, न लल्लो भवति, न वधिरो भवति, न पक्षहतो भवति, न विकलेन्द्रियो भवति, सुपरिपूर्णेन्द्रियो भवति, नापरिपूर्णेन्द्रियो भवति, न प्राणातिपातिको भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न मिथ्याजीवेन जीविकां कल्पयति, नाभूतपरिग्रहं करोति, न दुःशीलपरिग्राहको भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेसूवेषूपपद्यते. तत् कस्य हेतोः? तथा (प्स्प्_5:31 ) ह्य् अस्ति तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, अप्रमाणानि च समापद्यते, आरूप्यसमापत्तीश् च समापद्यते, न च ध्यानानां न चाप्रमाणानां न चारूप्यसमापत्तीनां वशेनोपपद्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिशुद्धिम् अधिगच्छति, श्रावकभूमेः प्रत्येकबुद्धभूमेर् अपि परिशुद्धिम् अधिगच्छति.
एवम् उक्ते आयुष्मान् सुभूतिः स्थविरो भगवन्तम् एतद् अवोचत्: यद् भगवन् सर्वधर्माः प्रकृतिपरिशुद्धास्, तत् कतमस्य धर्मस्य बोधिसत्त्वो महासत्त्वः परिशुद्धिम् अधिगच्छति?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सर्वधर्माः सुभूते परकृतिपरिशुद्धाः, एवं परिशुद्धेषु सुभूते सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या तत्रासंसीदनता अनवलीनता, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. तत्सर्वबालपृथग्जना एतान् धर्मान् न जानन्ति न पश्यन्ति, तेषां सत्त्वानां कृतेन बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति शीलपारमितायां चरति क्षान्तिपारमितायां चरति वीर्यपारमितायां चरति ध्यानपारमितायां चरति प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थानेषु चरति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरत्य्, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु चरति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरति, पञ्चस्व् अभिज्ञासु चरति दशबलवैशारद्यप्रतिसंवित्सु चरति, अष्टादशावेणिकेषु बुद्धधर्मेषु चरति सर्वाकारज्ञतायां चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु बलवैशारद्यम् अनुप्राप्नोति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वचित्तचरितानां पारं गच्छति. इति नवमी
तद्यथापि नाम सुभूते ऽल्पकास् ते महापृथिवीप्रदेशा यत्र जांबूनदं सुवर्णं जातरूपम् उत्पद्यते, एवम् एव सुभूते ऽल्पकास् ते सत्त्वा य इह शिक्षायां शिक्षण्ते, यद् उत प्रज्ञापारमिताशिक्षायाम् इतो बहुतरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धभूमौ संप्रस्थिताः. इति दशमी
तद्यथापि नाम सुभूते ऽल्पकास् ते सत्त्वा ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते, अतः प्रभूततरकास् ते सत्त्वा (प्स्प्_5:32) ये कोट्टराज्यं संवर्तनीयं कर्म समदाय वर्तन्ते. एवम् एव सुभूते ऽल्पतरकास् ते सत्त्वा य इमं सर्वाकारज्ञतामार्गं समारुहन्ति, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धमार्गं समारुहन्ति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा ये तथतायै प्रतिपद्यन्ते, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धत्वाय स्थास्यन्ति. ये ऽपि ते सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरः प्रज्ञापारमितयाविरहिता ये ऽविनिवर्तनीयभूमिम् अवक्रमिष्यन्ति, अतः प्रभूततरकास् ते ये सत्त्वाविनिवर्तनीयभूमिन् नावक्रमिष्यन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनाविनिवर्तनीयभूमिम् अनुप्राप्तुकामेनाविनिवर्तनीयभूमौ गणनां गन्तुकामेनेहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इत्य् एकादशी
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यसहगतं चित्तम् उत्पद्यते, न दौःशील्यसहगतं चित्तम् उत्पद्यते, न क्षोभसहगतं चित्तम् उत्पद्यते, न कौशीद्यसहगतं चित्तम् उत्पद्यते, न विक्षिप्तसहगतं चित्तम् उत्पद्यते, न दौःप्रज्ञासहगतं चित्तम् उत्पद्यते, न रागसहगतं चित्तम् उत्पद्यते, न द्वेषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न खिलसहगतं चित्तम् उत्पद्यते. इति द्वादशी
न रूपसहगतं चित्तम् उत्पद्यते, न वेदनासंज्ञासंस्कारसहगतं चित्तम् उत्पद्यते, न विज्ञानसहगतं चित्तम् उत्पद्यते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गसहगतं चित्तम् उत्पद्यते, एवं न सर्वशून्यताः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसहगतं चित्तम् उत्पद्यते, न सम्यक्संबोधिसघगतं चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मम् उपलभते, अनुपलम्भमानो न कञ्चिद् धर्मचित्तम् उत्पादयति. एवं खलु सुभूते इह गम्भीरायां प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः संगृहीता भवन्ति, सर्वाः पारमिताः समुदानीता भवन्ति, सर्वाः पारमिता (प्स्प्_5:33) अनुगता भवन्ति. तत् कस्य हेतोः? तथा हि सुभूते इह गम्भीरायां प्रज्ञापारमितायां सर्वाः पारमिता अन्तर्गता भवन्ति. इति त्रयोदशी
तद्यथापि नाम सुभूते सत्कायदृष्ट्यां द्वाषष्टिदृष्टिगतान्य् अन्तर्गतानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति. तद्यथापि नाम सुभूते पुरुषस्य कालगतस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति. एवम् एव सुभूते बोधिसत्त्वस्य महासत्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वपारमितानां पारं गन्तुकामेन इह गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इति चतुर्दशी
इह पुनः सुभूते गम्भीरायां प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अग्रतायै शिक्षते. तत् किं मन्यसे? सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा अपि नु ते बहवः.
सुभूतिर् आह: बहवो भगवन् जांबूद्वीपका एव तावत् सत्त्वाः कः पुनर् वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः.
भगवान् आह: यावन्तः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरममानुष्यकम् आत्मभावं प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरंस् तां सर्वान् एकैको बोधिसत्त्वो यावज्जीवं तिष्ठंस् तथागतान् अर्हतः सम्यक्संबुद्धांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? एवं महर्द्धिका हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता अनुत्तरायाः सम्यक्संबोधेर् आहारिका. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अनुत्तरेन भवितुकामेन सर्वसत्त्वानाम् अनाथानां नाथेन भवितुकामेनाशरणानां शरणेन भवितुकामेनापरायणानां परायणेन भवितुकामेनात्राणानां त्राणेन (प्स्प्_5:34) भवितुकामेनालयनानां लयनेन भवितुकमेनाद्वीपनां द्विपेन भवितुकामेन बुद्धत्वम् अनुप्रापुतुकामेन बुद्धविषयम् अनुप्राप्तुकामेन बुद्द्धविक्रीडितं विक्रीडितुकामेन, बुद्धसिंहनादं नदितुकामेन बुद्धशंखं प्रपूरयितुकामेन बुद्धसांकथ्यं कर्तुकामेन इहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यं, प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वो न सा काचित् संपत्तिर् यां न प्रतिलभते या तेन न प्रतिलब्धा स्यात्.
सुभूतिर् आह: श्रावकसंपद् अपि तेन प्रतिलब्धव्या प्रत्येकबुद्धसंपद् अपि तेन प्रतिलब्धव्या.
भगवान् आह: श्रावकसंपद् अपि तेन सुभूते प्रतिलब्धव्या, प्रत्येकबुद्धसंपद् अपि तेन सुभूते प्रतिलब्ध्या, तत्र च न स्थातव्यं न प्रतिष्ठातव्यं, ज्ञानेन च दर्शनेन च दृष्ट्वातिक्रमिष्यति बोधिसत्त्वनियामम् अवक्रमिष्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्यासी भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः ये तदन्ये दक्षिणीयाः श्रावकप्रत्येकबुद्धास् तान् सर्वान् अभिभवित्वा गच्छति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति प्रज्ञापारमितां चरति प्रज्ञापारमितायाम् अविरहितः प्रज्ञापारमितया, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाम् अपरिहाणधर्मा वेदितव्याः, सर्वाकारज्ञताया दूरीकरोति श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वाभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति पञ्चदशी
सचेत् पुनस् तस्यैवं भवति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, सचेद् एवं जानाति न चरति प्रज्ञापारमितायां सचेद् एवं प्रज्ञापारमितां न जानाति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, तद् अपि न जानाति न पश्यति यस्य वा प्रज्ञापारमिता येन वा प्रज्ञापारमिता यो वा प्रज्ञापारमितया निर्यात्य् एवम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् पुनर् अस्यैवं भवति, नेयं प्रज्ञापारमिता नामुष्मिन् प्रज्ञापारमिता (प्स्प्_5:35) नानया प्रज्ञापारमितया कश्चिद् धर्मो निर्यास्यति स्थितत्वाद् धर्मधातोस् तथताया भूतकोटेर्, एवं चरन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायाम् अभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति षोडशी विवृद्धिर् इत्य् उक्ता विवृद्धिः
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: चरन्न् अपीह बोधिसत्त्वो महासत्त्वो दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायार, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेस्व् आर्यसत्येस्व् अप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् सर्वसत्त्वान् अभिभवति, कः पुनर् वादो यदानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. सुलब्धास् तैर् लाभाः सुजीवितं तेषां सत्त्वानां येषां सर्वाकारज्ञतायां चित्तं क्रमति, कः पुनर् वादो यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पादयिष्यन्ति, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति.
अथ खलु शक्रो देवानाम् इन्द्रो मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस् तेनोपसंक्रामद् उपसंक्रम्य तैर् मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरति स्म अभ्यवकिरति स्म प्रकिरति स्म, अवकीर्याभ्यवकीर्य प्रविकीर्यैवं वाचम् अभाषत: ये बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिम् अध्यालम्बन्ते तेषाम् अनेन कुशलमूलेनानुत्तराणां बुद्धधर्माणां परिपूरिर् भवतु, त्रिसर्वज्ञतासर्वधर्माणां प्रिपूरिर् भवतु, एषां स्वयंभूधर्माणां परिपूरिर् भवतु, एषाम् अनास्रवधर्माणां परिपूरिर् भवतु. इति त्रिसर्वज्ञत्वधर्मानुत्तरा परिपूरिनिरूढिः
न मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वयानिकः पुद्गलो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो विवर्तेतानुत्तरायाः सम्यक्संबोधेर्, न हि मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वो महासत्त्वो विवर्त्य श्रावको वा प्रत्येकबुद्धो वा भवेद्, अथ तर्हि छन्दं जनयेद् अनुत्तरायां सम्यक्संबोधौ भूयस्या मात्रया (प्स्प्_5:36) प्रणिधिं कुर्वीतानुत्तरायां सम्यक्संबोधौ, इमानि संसरावचराणि दुःखानि दृष्ट्वार्थकामः सुखकामः हितकामः स सदेवमानुषासुरस्य लोकस्य य एतैश् चित्तोत्पादैः समन्वागतो बोधिसत्त्वो महासत्त्व एवं चिन्तयति, किम् इति वयं तीर्णा अतीर्णान् सत्त्वांस् तारयेम, किम् इति वयं मुक्ता अमुक्तान् सत्त्वान् मोचयेम, किम् इति वयम् आश्वस्ता अनाश्वस्तान् सत्त्वान् आश्वासयेम, किम् इति वयं परिनिर्वृता अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेमेति. कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवति यः प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? चर्याप्रतिपन्नानाञ् च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? अविनिवर्तनीयानां च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? इत्य् अपरित्यक्तसत्त्वार्था निरूढिर् इत्य् उक्ता निरूढिः
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: स्यात् कौशिक चातुर्महाद्वीपके लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानांश् चित्तोत्पादानां पुण्यस्य प्रमाणं, तिष्ठतु कौशिक चातुर्द्वीपको लोकधातुर् एवं साहस्रो लोकधातुर् एवं द्विसाहस्रो मध्यमो लोकधातुः, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणं, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेषु शतधा भिन्नया वालाग्रकोट्या उदकबिन्दूनाम् उत्क्षिप्यमानानां प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणम्.
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: माराधिष्ठितास् ते भगवन् सत्त्वा भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारपक्षिकास् ते भगवन् सत्त्वा भविष्यन्ति, मारभवनात् ते भगवन् सत्त्वाश् च्युता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारभवनात् ते भगवन् सत्त्वा इहागता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. तत् कस्य हेतोः? मारभवनविध्वंसनकरास् ते भगवन् सत्त्वा, यैर् इमे चित्तोत्पादा अभिनिर्हृता, ये ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. अनुमोदितव्यास् ते भगवंश् चित्तोत्पादा, ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति. यैर् अपरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघस्, तैर् इमे चित्तोत्पादा (प्स्प्_5:37) अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्या यथा न द्वयः संज्ञी नाद्वयः संज्ञी.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा त्वं वदसि, य इमान् कौशिक चित्तोत्पादान् अनुमोदिष्यन्ते ते क्षिप्रं तथागतम् अर्हन्तं सम्यक्संबुद्धम् आरागयिष्यन्ति आरागयित्वा न विरागयिष्यन्ति. एवं ते एभिर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैः समन्वागता यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृता भविष्यन्ति, गुरुकृता मानिताः पूजिता अर्चिता अपचायिता भविष्यन्ति. तत्र ते न जात्व् अमनआपानि रूपाणि द्रक्ष्यन्ति, नामनआपान् शब्दान् श्रोष्यन्ति, नामनआपान् गन्धान् घ्रास्यन्ति, नामनआपान् रसान् आस्वादयिष्यन्ति, नामनआपान् स्प्रष्टव्यान् स्प्रक्ष्यन्ति, नामनआपान् धर्मान् विज्ञास्यन्ति. न च ते जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति, बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रमिष्यन्ति, तांश् च बुद्धान् भगवतः पर्युपासिष्यन्ते, कुशलमूलञ् चावरोपयिष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चासंख्येयानाम् अप्रमेयाणाम् अपरिमाणानां बोधिसत्त्वानां महासत्त्वानां नवयानसंप्रस्थितानां कुशलमूलान्य् अनुमोदितान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामितानि, प्रथमभूमिस्थितानां कुशलमूलान्य् अनुमोदितानि, द्वितीयभूमिस्थितानां यावद् दशभूमिस्थितानां यावद् एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोदितानि, तैश् च कुशलमूलैर् विबद्धमानैर् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवन्ति. ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्याप्रमेयान् असंख्येयान् अपरिमाणसत्त्वान् परिनिर्वापयिष्यन्ति. तद् अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा तच् चित्तम् अन्यत्र चित्तेन चरेन् नान्यत्र चित्तेन. इत्य् उक्ता चित्तसंस्थितिः
अविनिवर्तनीयानाम् एकजातिप्रतिबद्धानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा न द्वयसंज्ञा नाद्वयसंज्ञा. इति सकलप्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पः
(प्स्प्_5:38)
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते प्रज्ञापारमितैवाविकल्पा, उताहो ध्यानपारमिताप्य् अविकल्पा, वीर्यपारमिताप्य् अविकल्पा, क्षान्तिपारमिताप्य् अविकल्पा, शीलपारमिताप्य् अविकल्पा, दानपारमिताप्य् अविकल्पा.
सुभूतिर् आह: अविकल्पा आयुष्मन् शारिपुत्र प्रज्ञापारमिता, अविकल्पा ध्यानपारमिता, अविकल्पा वीर्यपारमिता, अविकल्पा क्षान्तिपारमिता, अविकल्पा शीलपारमिता, अविकल्पा आयुष्मन् शारिपुत्र दानपारमिता.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अविकल्पं, चक्षुश् चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना अविकल्पा. एवं श्रोत्रं घ्राणं जिह्वा काया, मनो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्यया वेदना अविकल्पा. किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, शब्दो गन्धो रसः स्प्रस्तव्यं, धर्मा अप्य् अविकल्पाः. किं पुनर् आयुष्मन् सुभूते ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वाविकल्पाः स्मृत्युपस्थानानि वा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा वा अविकल्पाः, शून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सर्वशून्यता वा सर्वसमाधयो वा दशतथागतबलानि वा चत्वारि वैशारद्यानि वा चतस्रः प्रतिसंविदो वा महामैत्री वा महाकरुणा वाविकल्पा यावद् अष्टादशावेणिका बुद्धधर्मा अविकल्पाः, बुद्धो ऽप्य् अविकल्पः बोधिर् अप्य् अविकल्पा संस्कृतो धातुर् अप्य् अविकल्पो ऽसंस्कृतो धातुर् अप्य् अविकल्पः.
सुभूतिर् आह: सर्वधर्मा अप्य् आयुष्मञ् छारिपुत्राविकल्पाः.
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वधर्मा अविकल्पाः, तत् कुतो ऽयं पञ्चगतिकस्य संसारस्य संभेदः? कुतो वा नरकतिर्यग्योनियमलोकदेवमनुष्याणां व्यवस्था? कुतो वा प्रभावना स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां बुद्धानां भगवताम्?
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद् एते आयुष्मन् शारिपुत्र सत्त्वा विपर्यास समुत्थिताः कर्माभिसंस्कुर्वन्ति कायेन वाचा मनसा वा, अतो निदानं विवर्तन्ते, छन्दमूलकर्मपरिगृहीता नरकतिर्यग्योनियमलोकदेवमनुष्याः, यत् पुनर् आयुष्मान् शारिपुत्र एवम् आह, कुतः स्रोतआपन्नाः प्रभाव्यन्ते, सकृदागामिनः प्रभाव्यन्ते, अनागामिनः प्रभाव्यन्ते, अर्हन्तः प्रभाव्यन्ते प्रत्येकबुद्धाः (प्स्प्_5:39) प्रभाव्यन्ते, कतो यावद् बुद्धा भगवन्तः प्रभाव्यन्ते?
सुभूतिर् आह: अविकल्पतया आयुष्मन् शारिपुत्र स्रोतआपन्नो ऽविकल्पः, स्रोतआपत्तिफलम् अविकल्पम्, एवं सकृदागाम्य् अनागाम्य् अर्हत्त्वम्, अविकल्पं प्रत्येकबुद्धत्वं, प्रत्येकबोधिर् अविकल्पा, अतो ऽविकल्पः प्रत्येकबुद्धः. ये ऽपि ते आयुष्मन् शारिपुत्राभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् आयुष्मन् शारिपुत्र बुद्धा भगवन्तो ऽविकल्पो विकल्पप्रहीणास्, तद् अनेनापि ते आयुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यं, सर्वधर्मा अविकल्पा अविकल्पतथतां प्रमाणीकृत्य भूतकोटिं धर्मधातुम्. एवं खल्व् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेनाविकल्पायां प्रज्ञापारमितायां चरितव्यम्, अविकल्पायां प्रज्ञापारमितायां चरन्न् अविकल्पं धर्मम् अभिसंबुध्यते. इति समस्तनिवृत्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पः
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सारे बतायम् आयुष्मन् सुभूते चरति बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति.
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: असारे बतायं चरत्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्रासारा प्रज्ञापारमिता, असारा ध्यानपारमिता, असारा वीर्यपारमिता, असारा क्षान्तिपारमिता, असारा शीलपारमिता, असारा दानपारमिता, एवं यावद् असारा सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् असारम् एव नोपलभते न समनुपश्यति, कुतः पुनः सारम् उपलप्स्यते, एवं यावद् असारां सर्वाकारज्ञतां, कुतः पुनः सारम् उपलप्स्यते.
अथ खलु संबहुलानां कामावचराणां रूपावचराणाञ् च देवपुत्राणाम् एतद् अभवत्: नमस्कर्तव्यास् ते कुलपुत्राः कुलदुहितरश् च यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, ये चेह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति, अत्र चार्थे चरन्तो न च भूतकोटिं साक्षात्कुर्वन्ति, असाक्षात्कुर्वतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न तिष्ठेयुर्, अनेन भगवन् पर्यायेण नमस्कर्तव्यास् ते भगवन् बोधिसत्त्वा महासत्त्वा य इमां धर्मसमतां न साक्षात्कुर्वन्ति.
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नेदं (प्स्प्_5:40) देवपुत्रा दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमं धर्मसमतां न साक्षात्कुर्वन्ति, यस्याः साक्षात्कृतायाः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा तिष्ठेयुः. इदं तेषां देवपुत्रा दुष्करं यद् असंख्येयान् अप्रमेयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते, ते च सत्त्वा अत्यन्ततया नोपलभ्यन्ते ये विनयितव्या इति. एवञ् चरन्तो बोधिसत्त्वा महासत्त्वाः संप्रस्थिता अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वान् विनयिष्याम इति, आकाशं स विनयितव्यं मन्येत यः सत्त्वान् विनयितव्यान् मन्येत. तत् कस्य हेतोः? आकाशविविक्ततया सत्त्वविविक्तता द्रष्टव्या, आकाशशून्यतया सत्त्वशून्यता द्रष्टव्या, आकाशासारतया सत्त्वासारता द्रष्टव्या, आकाशतुच्छतया सत्त्वतुच्छता द्रष्टव्या इति. अनेनापि देवपुत्राः पर्यायेण दुष्करकारको बोधिसत्त्वो महासत्त्वो यो ऽसंविद्यमानानां सत्त्वानां कृतशः संनाहं संनह्यते आकाशेन सार्धं स विवदितव्यं मन्येत यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत, स च संनाहः संनद्धो बोधिसत्त्वेन महासत्त्वेन सत्त्वाश् च नोपलभ्यन्ते येषाम् अर्थाय संनाहः संनद्धः. तत् कस्य हेतोः? सत्त्वविविक्ततया संनाहविविक्तता द्रष्टव्या. सचेद् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? रूपविविक्ततया सत्त्वविविक्तता, वेदनासंज्ञासंस्कारविज्ञानविविक्ततया सत्त्वविविक्तता, प्रज्ञापारमिताविविक्ततया रूपविविक्तता यावद् विस्तरेण सर्वाकारज्ञताविविक्तता. सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मविविक्ततायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न संत्रासम् आपद्यते, चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्. इति द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पः
भगवान् आह: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमिताया?
सुभूतिर् आह: असत्त्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां, विविक्तत्वाच् छान्तत्वाद् अनुत्पादत्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्, अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् स नोपलभ्यते यः संसीदते, येन (प्स्प्_5:41) वा संसीदते यत्र वा संसीदते सर्व एते धर्मा नोपलभ्यन्ते. सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् सर्व एते धर्मा नोपलभ्यन्ते यो वा संसीदेत् येन वा संसीदेत् यत्र वा संसीदेत्, एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतयो देवा नमस्यन्ति यः प्रज्ञापारमितायां चरति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न केवलं सुभूते सेन्द्रकैर् देवैः सब्रह्मकैः सप्रजापतिकैर् देवैर् नमस्यनीयो बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति, ये ऽपि ते ऽतिक्रान्तवर्णा देवपुत्राः शुभकृत्स्ना वृहत्फला यावच् छुद्धावासका देवपुत्रास् ते ऽपि सुभूते नमस्यन्ति बोधिसत्त्वं महासत्त्वं य एवं प्रज्ञापारमितायां चरति.
ये ऽपि ते सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति. अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयिष्यति, वीर्यपारमितां परिपूरयिष्यति, क्षान्तिपारमितां परिपूरयिष्यति, शीलपारमितां परिपूरयिष्यति, दानपारमितां परिपूरयिष्यति, अध्यात्मशून्यतां परिपूरयिष्यति यावद् अभावस्वभावशून्यतां परिपूरयिष्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् परिपूरयिष्यति यावत् सर्वाकारज्ञतां परिपूरयिष्यति, यावत् पुनः सुभूते बोधिसत्त्वान् महासत्त्वान् बुद्धा भगवन्तः प्रज्ञापारमितायां चरतः समन्वाहरन्ति, ते बोधिसत्त्वा महासत्त्वा बुद्धप्रतिपन्ना धारयितव्याः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्वे माराः पापीयांसो भवेयुर् एकैकश् च मारः पापीयांस् तावत एव मारान् पापीयासो ऽभिनिर्मिमीते, ते सर्वे ऽप्रतिबलास् तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽन्तरायं कर्तुम्.
द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो (प्स्प्_5:42) दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्यां? सर्वधर्माश् च शून्यतातो व्यवलोकिता भवन्ति, सर्वसत्त्वाश् चापरित्यक्ता भवन्ति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्धर्षो भवति मारैः पापीयाभिः. अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्याम्? यथावादी तथाकारी च भवति बुद्धांश् च भगवतः समन्वाहरति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. एवञ् चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य ते देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते पर्युपास्यन्ते परिप्रश्नयन्ति, उत्साहञ् च ददाति: क्षिप्रं त्वं कुलपुत्र बुद्धबोधिं समनुप्राप्स्यसि तस्मात् तर्हि त्वं कुलपुत्र एतेनैव विहारेण विहर यद् उत शून्यताविहारेणानिमित्तविहारेणाप्रणिहितविहारेण. तत् कस्य हेतोः? एतेन त्वं कुलपुत्र विहारेण विहरन्न् अनाथानां सत्त्वानां नाथो भविष्यसि, असरणानां शरणं भविष्यसि, अत्राणानां सत्त्वानां त्राणं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धभूतानां सत्त्वानाम् आलोको भविष्यसि. तत् कस्य हेतोः? एतेन हि प्रज्ञापारमिताविहारेणाविरहितस्य बोधिसत्त्वस्य महासत्त्वस्यामी गुणा भवन्ति.
ये ऽपि ते ऽसंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि भिक्षुसंघपरिवृता बुद्धा भगवन्तो बोधिसत्त्वगणपुरस्कृता, यो ऽसौ प्रज्ञापारमितायां चरत्य् एतैर् एव गुणैः समन्वागतो यद् उत प्रज्ञापारमितागुणैस् तस्य ते बुद्धा भगवन्तो नामं च गोत्रं च परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
तस्य बोधिसत्त्वस्य महासत्त्वस्य तद्यथापि नामाहम् एतर्हि रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि, शिखिनश् च बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि.
(प्स्प्_5:43)
ये ऽपि ते बोधिसत्त्वा महासत्त्त्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति, अनया च प्रज्ञापारमितयाविरहितास् तेषाम् अहं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि.
ये ऽपि ते पूर्वस्यां दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयत्य् उदानं चोदानयन्ति. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वम् अत्र विदिक्षु लोकधातुषु, ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वमार्गं परिपूरयमाणा यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, तेषाम् अपि ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. तत् कस्य हेतोः? एवं दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा भवन्ति, ये बुद्धनेत्र्यव्यवच्छेदाय प्रतिपन्नाः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषां भगवन् बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपास् ते बुद्धा भगवन्तो धर्मं देशयन्त्य् उदानं चोदानयन्ति विनिवर्तनीयानां वा अविनिवर्तनीयानां वा?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सन्ति सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया ये प्रज्ञापारमितायां चरन्ति, सन्ति विनिवर्तनीया बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्ति, येषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. ये ऽपि ते रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
पुनर् अपरं सुभूते ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्ति, सर्वधर्मा अनुत्पत्तिका इत्य् अधिमुक्ता न चानुत्पत्तिकैर् (प्स्प्_5:44) धर्मैः क्षान्तिः प्रतिलब्धा, सर्वधर्माः शून्या इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, सर्वधर्माः शान्ता इत्य् अधिमुक्ताः सर्वधर्मा विगता इति तुच्छका इति वशिका इत्य् असारका इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, एषां सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
येषां ते सुभूते बोधिसत्त्वानां महासत्त्वानां बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूउपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, तेषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रहीणा श्रावकभूमिश् च प्रत्येकबुद्धभूमिश् च प्रतिकाङ्क्षितव्या, व्याक्रियन्ते च ते ऽनुत्तरायां सम्यक्संबोधौ.
यस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, स बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयतायां स्थास्यति यत्र स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति.
पुनर् अपरं सुभूते बोधिसत्त्वा महासत्त्वा गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां श्रुत्वा न काङ्क्षिष्यन्ति न विचिकित्सिष्यन्ति न धन्धायिष्यन्ति. एवम् एतद् यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितेत्य् अधिमोक्ष्यन्ते बोधिम् अभिसंभोत्स्यते, कस् तत्र स्थित्वा धर्मं देशयिष्यति? नेदं स्थानं विद्यते.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः. तत् कस्य हेतोः? न च नाम भगवन् कश्चित् तथतायां तिष्ठति नापि कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते नापि कश्चिद् धर्मं देशयति. अथ च नावलीयते न चास्य काङ्क्षायितत्वं वा धन्धायितत्वं वा भवति. इति प्रज्ञप्तिसहार्यपुद्गलाधिष्ठानो द्वितियो ग्राहकविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् मायोपमं चित्तम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं मायोपमं चित्तम्.
सुभूतिर् आह: न भगवन्, नाहं भगवन् मायोपमं चित्तं समनुपश्यामि.
(प्स्प्_5:45)
भगवान् आह: तत् किं मन्यसे? सुभूते यत्र न माया, न मायोपमं चित्तं तत्र समनुपश्यसि त्वं चित्तम्.
सुभूतिर् आह: न भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
सुभूतिर् आह: न भगवन्, नाहं भगवन् अन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यामि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सो ऽहं भगवन्न् अन्यं धर्मं न समनुपश्यन् तत्कतमं धर्मम् उपदेक्ष्याम्य् अस्ति वा नास्ति वेति? यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽस्तितां वा नास्तितां वोपैति, यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न चासंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोहोत्स्यते. तत् कस्य हेतोः? तथा हि भगवंस् ते धर्मा न संविद्यन्ते ये संक्लिश्येयुर् व्यवदायेयुर् वा. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमितात्यन्तविविक्ता, ध्यानपारमितात्यन्तविविक्ता वीर्यपारमितात्यन्तविविक्ता, क्षान्तिपारमितात्यन्तविविक्ता, शीलपारमितात्यन्तविविक्ता, दानपारमितात्यन्तविविक्ता, एवम् अध्यात्मशून्यतात्र्यन्तविविक्ता यावद् अभावस्वभावशून्यतात्यन्तविविक्ता, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अत्यन्तविविक्ताः, अप्रमाणध्यानारूप्यसमापत्त्यार्यसत्यान्य् अत्यन्तविविक्तानि, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अत्यन्तविविक्तानि, पञ्चाभिज्ञा अत्यन्तविविक्ता, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा अत्यन्तविविक्ताः, अनुत्तरां सम्यक्संबोधिर् अप्य् अत्यन्तविविक्ता.
यश् चात्यन्तविविक्तो धर्मो न स भावयितव्यो वा विभावयितव्यो वा, नापि कस्यचिद् धर्मस्याहारिका प्रज्ञापारमितात्यन्तविविक्तत्वाद्, यद्य् अत्यन्तविविक्ता प्रज्ञापारमिता तत् कथं भगवन् प्रज्ञापारमितम् आगम्य बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? अनुत्तरापि सम्यक्संबोधिर् अत्यन्तविविक्ता, कथं विविक्तेन विविक्तस्यानुबोधौ भवति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (प्स्प्_5:46) सुभूते एवम् एतत्, अत्यन्तविविक्ता हि सुभूते प्रज्ञपारमिता, ऽत्यन्तविविक्ता ध्यानपारमिता, ऽत्यन्तविविक्ता वीर्यपारमिता, ऽत्यन्तविविक्ता क्षान्तिपारमिता, ऽत्यन्तविविक्ता शीलपारमिता, ऽत्यन्तविविक्ता दानपारमिता, अत्यन्तविविक्ताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अत्यन्तविविक्ता, अनुत्तरा समयक्संबोधिर् अत्यन्तविविक्ता यावत् सर्वाकारज्ञता अत्यन्तविविक्ता. यथा सुभूते ऽत्यन्तविविक्ता प्रज्ञापारमिता यावत् सर्वाकारज्ञता तथात्यन्तविविक्ताम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
सचेत् सुभूते न प्रज्ञापारमितात्यन्तविविक्ताभविष्यद् यावत् सर्वाकारज्ञतात्यन्तविविक्ता भविष्यन् न प्रज्ञापारमिताभविष्यद् यावन् न सर्वाकारज्ञताभविष्यद् एवं न प्रज्ञपारमिता. ये च पुनर् एवं श्रोष्यन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके गम्भीरां प्रज्ञापारमितां तेषां च बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तिकाद्, अयम् अपि बोधिसत्त्वयानिकः पुद्गल इमां प्रज्ञापारमिताम् अधिमोक्ष्यते, इमां प्रज्ञापारमितां यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषिता तथाधिमुच्यमानो ऽविनिवर्तनीयतायां स्थास्यति, एवं बहुकरं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायाः श्रवणं वदामि, कः पुनर् वादो ये ऽधिमोक्ष्यन्ते ऽधिमुच्य तथत्वाय स्थास्यन्ति तथत्वाय प्रतिपत्स्यन्ते तथत्वाय स्थित्वा तथत्वाय प्रतिपद्यमानास् तिष्ठन्ति सर्वाकारज्ञतायाम्.
सुभूतिर् आह: यत् पुनर् भगवंस् तथतायां स्थित्वा तथतायां प्रतिपद्यमानो न कश्चिद् धर्मम् उपलभते तदा कथं तिष्ठति सर्वाकारज्ञतायाम्?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथा सुभूते तथागतनिर्मितस् तिष्ठति तथा तिष्ठति सर्वाकारज्ञतायाम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते, को ऽयं तथतायां तिष्ठति? को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? को वा तथतायां स्थित्वा धर्मं देशयिष्यति? तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति (प्स्प्_5:47) तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदायुष्मान् सुभूतिर् एवम् आह, तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते को ऽयं तथतायां तिष्ठति, को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, को या तथतायां स्थित्वा धर्मन् देशयिष्यति, तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति. एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि, न सुभूते तथागतनिर्मितः कश्चिद् धर्मम् उपलभते यस् तथतायां स्थास्यति यस् तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस् तथतायां स्थित्वा धर्मं देशयिष्यति तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्य्सक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यन्तिति, नेदं स्थानं विद्यते. तत् कस्य हेतोः? उत्पादाद् वा सुभूते तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर्, नेह सुभूते तथतायां कश्चित् तिष्ठति न तथतायां कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते न तथतायां कश्चिद् धर्मं देशयति. तत् कस्य हेतोः? न ह्य् अत्र तथतायां धर्म उपलभ्यते, यो वा तथतायां तिष्ठेत्, यो वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यो वा तथताया स्थित्वा धर्मं देशयिष्यति. तत् कस्य हेतोः? तथतैव तावन् नोपलभ्यते, नैवास्योत्पाद उपलभ्यते न व्ययो न स्थितिर् नान्यथात्वम्. यत्रास्य धर्मस्य नोत्पाद उपलभ्यते न व्ययो न स्थितिर् नान्यथात्वं, कस् तत्र स्थास्यति? को वा तत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? तस्मात् तर्हि सुभूते प्रज्ञापारमितात्यन्तविविक्ता यावत् सर्वाकारज्ञतात्यन्तविविक्ता, तस्मात् सुभूते प्रज्ञपारमिताम् आगम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न च विवेकेन विवेको ऽभिसंभोत्स्यते, अभिसंभोत्स्यते च, न च ताम् अनागम्य प्रज्ञापारमिताम् अभिसंभोत्स्यते.
(प्स्प्_5:48)
सुभूतिर् आह: गम्भीरे भगवन्न् अर्थे चरति बोधिसत्त्वो महासत्त्वः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, गम्भीरे ऽर्थे चरति बोधिसत्त्वो महासत्त्वो, दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वो, यो गम्भीरे ऽर्थे चरति, तञ् चार्थं न साक्षात्करोति यद् उत श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा.
सुभूतिर् आह: यथाहं भगवतो भाषितस्यार्थम् आजानामि तथा न कश्चिद् दुष्करकारको बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि भगवन् सो ऽर्थो नोपलभ्यते यं साक्षात्कुर्यात्. सापि प्रज्ञापारमिता नोपलभ्यते यया साक्षात्कुर्यात्, सो ऽपि धर्मो नोपलभ्यते यः साक्षात्कुर्याद्, अनुपलभमानो भगवन् सर्वधर्मांस् तत् कतमम् अर्थं साक्षात्करिष्यति? कतमां प्रज्ञापारमितां साक्षात्करिष्यति? कतमं धर्मं साक्षात्करिष्यति यं साक्षात्कृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? इयं भगवन्न् अनुपलम्भचरिर् बोधिसत्त्वचरिर् यत्र चरन् बोधिसत्त्वो महासत्त्वः सर्वधर्मैर् अनन्धकारताम् अनुप्राप्नोति.
सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, एवञ् चरं भगवन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां, स चरन् निमित्तम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति न समनुपश्यति.
तस्य खलु पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, दूरीकरिष्यामि श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वासन्नो ऽस्मि सर्वाकारज्ञतायाः. इति स्वभावविकल्पः
तद्यथापि नाम भगवन् नाकाशस्यैवं भवति कस्यचिद्, अहं दूरे वाभ्यासे वा. तत् कस्य हेतोः? अभेदत्वाद् भगवन्न् आकाशस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् अभ्यासे वा. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति गोत्रविकल्पः
(प्स्प्_5:49)
तद्यथापि नाम भगवन् मायापुरुषस्य नैवं भवति, मायाकारो वा न मम दूरे मायाकारो ममाभ्यासे, यः पुनर् एवं जनकायः संनिपतितः स मम दूरे नाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् मायापुरुषस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः इति समुदागमविकल्पः
तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति, येनारम्बणेन प्रतिभास उत्पन्नस् तन् ममाभ्यासे, ये पुनर् अत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूरे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रतिभासस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रज्ञापारमितायाः. इत्य् आलम्बनविकल्पः
तद्यथापि नाम भगवंस् तथागतस्यार्हतः सम्यक्संबुद्धस्य न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नोपलभ्यते, एवम् एव भगवन् प्रज्ञापारमिताया न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नोपलभ्यते. इति प्रतिपक्षविकल्पः
तद्यथापि नाम भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वविकल्पप्रहीण एवम् एव भगवन् प्रज्ञापारमिता सर्वविकल्पप्रहीणा अविकल्पताम् उपादाय. इति स्वाधिगमविकल्पः
तद्यथापि नाम भगवंस् तथागतनिर्मितस्य नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवंस् तथागतनिर्मितस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, स्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति कर्तृविकल्पः
तद्यथापि नाम भगवंस् तथागतेन यो निर्मितः स यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च निर्मिनो ऽविकल्पो (प्स्प्_5:50) निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां भावयति तच् च कृत्यं करोति सा च प्रज्ञापारमिताविकल्पा निर्विकल्पा. इति कारित्रविकल्पः
तद्यथापि नाम भगवन् दक्षेण पलगण्डेन पलगण्डान्तेवासिना वा यन्त्रयुक्तः कृतः स्यात् स्त्रीविग्रहो वा पुरुषविग्रहो वा हस्तिविग्रहो वा बलीवर्दविग्रहो वा, स च यन्त्रयुक्तो यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च यन्त्रयुक्तो ऽविकल्पो निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भाव्यते तच् च कृत्यं करोति सा प्रज्ञापारमिता अविकल्पा निर्विकल्पा. इति क्रियासाफल्यविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राह्यविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं संप्रस्थिता बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एत्द् अवोचत्: असंख्येयकल्पकोटीनियुतशतसहस्रसंप्रस्थिताः सुभूते ऽमी बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः.
सुभूतिर् आह: कियन्तो बुद्धा भगवतः पर्युपासिता भगवंस् तैर् बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?
भगवान् आह: गङ्गानदीवालुकोपमा बुद्धा भगवन्तः पर्युपासितास् तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा भवितव्या ये ऽनेनोपायकौशल्येन समन्वागताः.
सुभूतिर् आह: कियत् तैर् भगवन् कुशलमूलं कृतं बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचिच् छीलपारमिता, न सा काचित् क्षान्तिपारमिता, न सा काचिद् वीर्यपारमिता, न सा काचिद् ध्यानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचित् प्रज्ञापारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता ये ऽनेनोपायकौशल्येन समन्वागताः.
सुभूतिर् आह: आश्चर्यम् एतद् भगवन् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः.
(प्स्प्_5:51)
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, आश्चर्यम् एतत् सुभूते बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः. तद्यथापि नाम सूर्याचन्द्रमसौ मण्डले चतुर्षु द्वीपेषु कार्यं कुर्वाते चतुरो द्वीपान् अनुगच्छतः, एवम् एव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति पञ्च पारमिता अनुगच्छन्ति, प्रज्ञापारमिताविरहितत्वात् पञ्च पारमिताः पारमितानामधेयं लभन्ते, प्रज्ञापारमिताविरहितत्वाद् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर् न राजा चक्रवर्तीति नामधेयं लभते, एवम् एव सुभूते पञ्च पारमिता विरहितत्वात् प्रज्ञापारमितया न पारमितानामधेयं लभन्ते.
इति न्यूनाधिगमविकल्पः
तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकानाम्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वात् सुधर्षणा भवन्ति मारेण पापीयसा मारकायिकाभिर् वा देवताभिः.
इति संपरिग्रहो ऽभावविकल्पः
तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः संनाहसंनद्धः संग्रामे वर्तमाने दुर्धर्षो भवति राजन्यैर् वा प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वाद् दुर्धर्षा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिर् आधिमानिकैर् वा पुद्गलैर् यावद् एवं बोधिसत्त्वचण्डालैर् वा पञ्च पारमिता दुर्धर्षा भवन्ति. इति प्रतिपत्तिवैकल्यविकल्पः
तद्यथापि नाम सुभूते कोट्टराजानो राज्ञश् चक्रवर्तिनो ऽनुविधेया भवन्ति सो ऽयं प्रातरुपस्थानो यो गच्छन्ति, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इति परप्रत्ययमायित्वविकल्पः
तद्यथापि नाम सुभूते याः काचित् कुनद्यः सर्वास् ता येन गङ्गानदी तेनानुगच्छन्ति ता गङ्गानद्या सार्धं महासमुद्रम् उपयान्ति, एवम् एव पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इत्य् उद्देशनिवृत्तिविकल्पः
तद्यथापि नाम सुभूते पुरुषस्य दक्षिणो हस्तः सर्वकृत्यानि करोत्य्, एवम् एव सुभूते प्रज्ञापारमिता द्रष्टव्या, यथा च वामहस्त (प्स्प्_5:52) एवं पञ्च पारमिता द्रष्टव्याः. इति प्रादेशिककारित्रविकल्पः
तद्यथापि नाम सुभूते यच् च कुनदीनां यच् च महानदीनाम् उदकं सर्वं तं महासमुद्रप्रविष्टम् एकरसं भवत्य्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता अनुप्रविष्टाः पारमिता नामधेयं लभन्ते. इत्य् अधिगमनानात्वविकल्पः
तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गस्य बलकायस्य चक्ररत्नम् अग्रतो गच्छति, तिष्ठति च यत्र राज्ञश् चक्रवर्तिनश् चक्ररत्नं तिष्ठति तत्र राजा चक्रवर्ती बलकायम् अर्पयति न च चक्ररत्नं स्थानतश् चलति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका येन सर्वाकारज्ञता तेनानुगच्छन्ति, तत्र स्थास्यन्ति तत्र स्थित्वा स्थानतो नातिक्रामन्ति. इति स्थानप्रस्थानास्थानविकल्पः.
तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चक्ररत्नं सपरिणायकरत्नं सगृहपतिरत्नं चतुरङ्गस्य बलकायस्याग्रतो गच्छत्य्, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिताग्रतो गच्छत्य् अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति. न च प्रज्ञापारमिताया एवं भवति, दानपारमिता ममानुगच्छेच्, छीलपारमिता ममानुगच्छेत्, क्षान्तिपारमिता ममानुगच्छेद्, वीर्यपारमिता ममानुगच्छेद् ध्यानपारमिता ममानुगच्छेत्, नैवं दानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति. तत् कस्य हेतोः? स्वभाव आसाम् अकिंचित्समर्थः स्वभावः शून्यस् तुच्छो मरीचिसमः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् सर्वधर्माः स्वभावशून्यास् तत् कथं बोधिसत्त्वो महासत्त्वः दानपारमितायां चरन् शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञपारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत एवं भवति, विपर्यस्तचित्तो ऽयं लोकसंनिवेशः, स न शक्यो ऽनुपायकौशल्येन संसारतः परिमोक्तुं, तेषां सत्त्वानाम् अर्थाय दानपारमितायां चरिष्यामि, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यामीति, स तेषां सत्त्वानाम् (प्स्प्_5:53) अर्थायाध्यात्मबहिर्धावस्तु परित्यजति तस्य च परित्यजत एवं भवति, न किंचित् परित्यक्तम्. तत् कस्य हेतोः? तथा ह्य् एतद् वस्तु स्वभावशून्यं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो दानपारमितां परिपूरयति. तेषाञ् च सत्त्वानाम् अर्थाय दौःशील्यस्यावकाशं न ददाति. तत् कस्य हेतोः? न ह्य् एतन् मम प्रतिरूपं स्याद् यो ऽहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थितः प्राणातिपातं कुर्याम्, एवम् अदत्तादानं काममिथ्याचारं मृषावादं पिशुनवचनं परुषवचनम् अबद्धप्रलापम् अभिध्यां व्यापादं मिथ्यादृष्टिं कुर्यां, श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणः शीलपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थायैकचित्तोत्पादम् अपि न क्षोभयति, एवं खलु सुभूते बोधिसत्त्त्वो महासत्त्वो व्युपपरीक्षमाणः क्षान्तिपारमितायाञ् चरति. तेषाम् एव सत्त्वानाम् अर्थाय कौशीद्यचित्तं नोत्पादयति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो वीर्यपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय विक्षिप्तचित्तो न भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो ध्यानपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय न जातु प्रज्ञापारमिताविरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. तत् कस्य हेतोः? न ह्य् अन्यथा शक्याः सत्त्वाः परिपाचयितुम् अन्यत्र प्रज्ञयेत्य् अर्थवशेनैवम् अर्थं प्रज्ञापारमितायां चरति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् पारमितानां नास्ति नानात्वं, कथम् इयं प्रज्ञापारमिता पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तराख्यायते?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते पारमितानां किञ्चित् नानात्वं, यदि पुनः प्रज्ञापारमिता न भाव्येत, नेमाः पञ्च पारमितानामधेयं लभेरन् प्रज्ञापारमितां पुनः सुभूते आगम्य इमाः पञ्च पारमिताः पारमितानामधेयं लभन्ते तद्यथापि नाम सुभूते नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजम् उपसंक्रान्ता एकवर्णा (प्स्प्_5:54) भवन्ति यद् उत तद्वर्णाः, एवम् एव सुभूते प्रज्ञापारमिताम् आगम्य पञ्च पारमिताः पारमितानामधेयं लभन्ते, ताः सर्वाकारज्ञताम् अनुप्रविष्टा एकवर्णा भवन्ति, न विशेषः कश्चित् प्रज्ञायते, इयं दानपारमिता, इयं शीलपारमिता, इयं क्षान्तिपारमिता, इयं वीर्यपारमिता, इयं ध्यानपारमिता, इयं प्रज्ञापारमिता. तत् कस्य हेतोः? तथा ह्य् आसां स्वभावो नास्त्य् अनेन कारणेन स्वभावो न प्रज्ञायते.
सुभूतिर् आह: यदि भगवन्न् अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते, कथम् इयं प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तामाख्यायते अनुत्तराख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते. अपि तु खलु पुनर् लोकव्यवहारसंकेतम् उपादाय दानपारमिता प्रज्ञप्ता, शीलपारमिता प्रज्ञप्ता, क्षान्तिपारमिता प्रज्ञप्ता, वीर्यपारमिता प्रज्ञप्ता, ध्यानपारमिता प्रज्ञप्ता सत्त्वानां संसारतः परिमोचनाय. ते च सत्त्वा न जायन्ते न म्रियन्ते न च्यवन्ते नोपपद्यन्ते, सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या. अनेन सुभूते कारणेनासां पञ्चानां पारमितानां प्रज्ञापारमिताग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते, तद्यथापि नाम सुभूते याः काश्चन स्त्रियस् तासां स्त्रीरत्नम् अग्रम् आख्यायते ज्येष्ठम् आख्यायते श्रेष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते उत्तमम् आख्यायते अनुत्तमम् आख्यायते निरुत्तमम् आख्यायते असमम् आख्यायते असमसमम् आख्यायते. एवम् एव सुभूते प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते.
सुभूतिर् आह: क एष भगवन्न् अभिप्रायो यत् प्रज्ञापारमिता अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते (प्स्प्_5:55) प्रणीताख्यायतेऽ उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता सर्वान् कुशलान् धर्मान् गृहीत्वा येन सर्वाकारज्ञता तेन स्थास्यत्य् अस्थानयोगेन. इति पृष्टतो निर्याणविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राह्यविकल्पः
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा?
भगवान् आह: न सुभूते प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा अगृहीता अमुक्ताः.
सुभूतिर् आह: तत् कतमान् भगवन् सर्वधर्मान् प्रज्ञापारमिता न गृह्णाति न मुञ्चति?
भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, न वेदनां न संज्ञां न संस्कारान्, विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अनुत्तरां सम्यक्संबोधिं सुभूते प्रज्ञपारमिता न गृह्णाति न मुञ्चति. इति ग्रहणमोक्षणविकल्पः
सुभूतिर् आह: कथं भगवन् रूपम् अपरिगृहीतं भवति, कथं वेदना संज्ञा संस्काराः, कथं विज्ञानम् अपरिगृहीतं भवति?
भगवान् आह: यः सुभूते रूपस्यामनसिकारो वेदनाया अमनसिकारः संज्ञाया अमनसिकारः संस्काराणाम् अमनसिकारो विज्ञानस्यामनसिकारः, यः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानार अमनसिकारो, यः सर्वपारमितानां सर्वशून्यतानां, यः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अमनसिकारो, य आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीनाम् अमनसिकारो, यः शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् (प्स्प्_5:56) अमनसिकारो, यो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदाम् अमनसिकारो, य आवेणिकानां बुद्धधर्माणाम् अमनसिकारः, यावद् यो ऽनुत्तरायाः सम्यक्संबोधेर् अमनसिकारः. एवं ह्य् एतत् सुभूते रूपम् अपरिगृहीतं भवति यावत् सर्वाकारज्ञता परिगृहीता भवति.
सुभूतिर् आह: यदि भगवन् रूपं न मनसिकर्तव्यं, वेदना संज्ञा संस्कारा, विज्ञानं न मनसिकर्तव्यं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकर्तव्यानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा न मनसिकर्तव्याः सर्वाकारज्ञता न मनसिकर्तव्या तत् कथं भगवन् रूपम् अमनसिकृत्वा, वेदनां संज्ञां संस्कारान्, विज्ञानम् अमनसिकृत्वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वामनसिकृत्वा, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अमनसिकृत्वा सर्वाकारज्ञताम् अमनसिकृत्वा कुशलमूलानि विवर्धन्ते? कुशलमूलैश् चाविवर्धमानैः कथं पारमिताः परिपूर्यन्ते? पारमिता अपरिपूर्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं न मनसिकरिष्यति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकरिष्यति, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यापरमाणध्यानारूप्यसमापत्तीर् न मनसिकरिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न मनसिकरिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न मनसिकरिष्यति, यावद् अनुत्तरां सम्यक्संबोधिं न मनसिकरिष्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानि विवर्धिष्यन्ते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अमनसिकृत्वा हि रूपं (प्स्प्_5:57) वेदनां संज्ञां संस्कारां विज्ञनम् अमनसिकृत्वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गान्य् अमनसिकृत्वा सर्वपारमिताः सर्वशून्यताः सप्तत्रिंसद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अमनसिकृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
इति मनसिकारविकल्पः
सुभूतिर् आह: किम् अत्र भगवन् कारणं येन रूपम् अमनसिकारं, वेदना संज्ञा संस्कारा, विज्ञानम् अमनसिकारम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा मनसिकाराणि, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अमनसिकारा, अनुत्तरा सम्यक्संबोधिर् अमनसिकारा?
भगवान् आह: अमनसिकारेण हि न श्लिष्यते कामधातौ न श्लिष्यते रूपधातौ न श्लिष्यते आरूप्यधाताव् अमनसिकारेण न क्वचिच् छ्लिष्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न क्वचिद् धर्मे श्लिष्यते. इति त्रैधातुकाश्लेषविकल्पः
सुभूतिर् आह: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न क्वचित् स्थास्यति.
भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न तिष्ठति, एवं चरन् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु न तिष्ठति, सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु न तिष्ठत्य्, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अपि न तिष्ठति. इति स्थानविकल्पः
सुभूतिर् आह: किम् अत्र भगवन् कारणं येन बोधिसत्त्वो महासत्त्वः तत्रापि न तिष्ठति?
भगवान् आह: अनभिनिवेशेन बोधिसत्त्वो महासत्त्वो न क्वचित् (प्स्प्_5:58) तिष्ठति. तत् कस्य हेतोः? तथा हि सर्वधर्मान् न समनुपश्यति यत्राभिनिविशेत वा तिष्ठेद् वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरत्य् अनभिनिवेश्यास्थानयोगेन. इति भावाभावविकल्पाभिनिवेशविकल्पः
सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं भावयत्य् एवं चरति स प्रज्ञापारमितायां चरति स प्रज्ञापारमितां भावयति, अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानीते दूरीकरोति प्रज्ञापारमितां, स प्रज्ञापारमिताया दूरीभवति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया दूरीभवति, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया दूरीभवति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेभ्यो दूरीभवत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता क्वचिद् धर्मे ऽभिनिविशते, न च प्रज्ञापारमितायाः कश्चिद् अभिनिवेशो ऽस्ति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यत्राभिनिविशतेः.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अपि संजानीते च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञपारमिताया यः प्रज्ञापारमितायाञ् चरति सर्वधर्मेषु चरति. सचेद् अस्यैवं भवति, प्रज्ञापारमिता पञ्च पारमिताः परिगृह्णाति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः परिगृह्णाति, शून्यतानिमित्ताप्रणिहितान्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिगृह्णाति, विमोक्षसमाधिसमापत्तिधारणीमुखानि परिगृह्णाति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिगृह्णाति, सर्वाकारज्ञतां परिगृह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः, न खलु पुनः प्रज्ञापारमिताविरहितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
सचेत् पुनर् अस्यैवं भवतीह प्रज्ञापारमितायां व्याकरिष्यत्य् अनुत्तरायां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. सचेत् पुनर् अस्यैवं भवति, य इह प्रज्ञापारमितायां स्थित्वा दानपारमिताम् अभिनिर्हरिष्यति, शीलपारमिताम् अभिनिर्हरिष्यति, क्षान्तिपारमिताम् (प्स्प्_5:59) अभिनिर्हरिष्यति, वीर्यपारमिताम् अभिनिर्हरिष्यति, ध्यानपारमिताम् अभिनिर्हरिष्यति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिनिर्हरिष्यति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अभिनिर्हरिष्यत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिनिर्हरिष्यति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अभिनिर्हरिष्यति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि प्रज्ञापारमिताच्युतस्य, ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमितादानपारमिताच्युतस्य शक्यम् अभिनिर्हरणाय, न हि स्मृत्य्पस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आध्यात्मशून्यता यावद् अभावस्वभावशून्यताच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखच्युतस्य शक्यम् अभिनिर्हरणाय, न हि शून्यतानिमित्ताप्रणिहिताभिज्ञाच्युतस्य शक्यम् अभिनिर्हरणाय, न हि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मच्युतस्य शक्यम् अभिनिर्हरणाय, न हि सर्वाकारज्ञता च्युतस्य शक्यम् अभिनिर्हरणाय, न हि महामैत्रीमहाकरुणाच्युतस्य शक्यम् अभिनिर्हरणाय.
सचेत् पुनर् अस्यैवं भवति, अपरिगृहीतास् तथागतेन सर्वधर्माः स्वयम् अभिसंबुद्धा अभिसंबुध्याख्याता देशिताः प्रकाशिताश्, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि तथागतेन कश्चिद् धर्मो ऽभिसंबुद्धः. तत् कस्य हेतोः? दृष्टं धर्मं न प्रज्ञपयति, कुतः पुनः कञ्चिद् धर्मम् अभिसंभोत्स्यते, नेदं स्थानं विद्यते. इति वस्तुप्रज्ञप्तिविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत इमे दोषा न भवन्ति?
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवञ् जानाति, अनुक्ताः सर्वधर्मा अपरिगृहीता, न चाशक्तो धर्मो ऽपरिगृहीतः कश्चिद् अभिसंबुध्यते, सचेद् एवञ् चरति चरति प्रज्ञापारमितायां, सचेद् अपरिग्रहधर्मम् अभिनिवशते विरहितः प्रज्ञापारमितया. तत् कस्य हेतोः? न हि प्रज्ञापारमिताभिनिवेशेन वर्तितव्या. इति शक्तिविकल्पः
(प्स्प्_5:60)
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमित प्रज्ञापारमितयाविरहिता? ध्यानपारमिता ध्यानपारमितयाविरहिता, वीर्यपारमिता वीर्यपारमितयाविरहिता, क्षान्तिपारमिता क्षान्तिपारमितयाविरहिता, शीलपारमिता शीलपारमितयाविरहिता, दानपारमिता दानपारमितयाविरहिता, अध्यात्मशून्यता अध्यात्मशून्यतयाविरहिता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतयाविरहिता, स्मृत्युपस्थानानि स्मृत्युपस्थानैर् अविरहितानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, मार्गा मार्गैर् अविरहिता, आर्यसत्यान्य् आर्यसत्यैर् अविरहितान्य्, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् अविरहितानि, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैर् अविरहितानि, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मैर् अविरहिताः, सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता? सचेद् भगवन् प्रज्ञापारमिता प्रज्ञापारमितयाविरहिता, एवं ध्यानं वीर्यं क्षान्तिः शीलं, दानपारमिता दानपारमितयाविरहिता, यावत् सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता. इति प्रतिपक्षविकल्पः
तत् कथं प्रज्ञापारमिताभिनिर्हर्तव्या? एवं ध्यानं वीर्यं क्षान्तिः शीलं, तत् कथं दानपारमिताभिनिर्हर्तव्या? यावत् तत् कथं सर्वाकारज्ञताभिनिर्हर्तव्या?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति नाभिनिविशते, इदं रूपम् अस्य रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् इति नाभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा नाभिनिविशते, इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति, एवं यावत् सर्वधर्मान् नाभिनिविशते, इमे सर्वधर्मा अस्य सर्वधर्माः. रूपं नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः (प्स्प्_5:61) प्रतीत्यसमुत्पादाङ्गानि वा नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, यावत् सर्वाकारज्ञतां नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति. तत् कस्य हेतोः? न हि धर्मो नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा संविद्यते, न हि स्वभावः स्वभावेन शक्यो ऽभिनिर्हरणाय.
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यावत् सर्वाकारज्ञतायां स्थास्यति. तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गबलकायो येन येन स राजा गच्छति तेन तेनानुवर्तते, एवम् एव सुभूते येन येन प्रज्ञापारमिता गच्छति तेन तेनेमाः पञ्च पारमिता अनुवर्तन्ते, येन सर्वाकारज्ञता तेन स्थास्यन्ति. इति यथेच्छगमनव्याघातविकल्पः
इत्य् उक्तो नवविधः प्रथमो ग्राहकविकल्पः
तद्यथापि नाम सुभूते सारथिश् चतुरङ्गम् अभिरुह्य सत्मार्गेण गच्छति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथ्यं करोति सम्यग्मार्गेण येन सर्वाकारज्ञता तेनानुगच्छति. इत्य् उक्ता उद्देशनिर्याणविकल्पाः
सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां मार्गः? कतमो ऽमार्गः?
भगवान् आह: श्रावकमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, प्रत्येकबुद्धमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, सर्वाकारज्ञतामार्गो बोधिसत्त्वानां महासत्त्वानां मार्गः. इमौ सुभूते बोधिसत्त्वानां महासत्त्वानां मार्गामार्गौ. इति मार्गामार्गज्ञानविकल्पः
सुभूतिर् आह: महाकृत्येन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता. एवं नयति प्रणयति, अयं मार्गो ऽयम् अमार्ग इति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता, एवं नयति (प्स्प्_5:62) प्रणयति, अयं मार्गो ऽयम् अमार्ग इति. अप्रमेयाणम् असंख्येयानाम् अपरिमाणानां सत्त्वानां कृत्येन प्रत्युपस्थिता प्रज्ञापारमिता, न कश्चित् सुभूते प्रणयति न रूपं परिगृह्णाति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं परिगृह्णाति, न श्रावकभूमेर् वा न प्रत्येकबुद्द्धभूमेर् वा प्रत्युपस्थिता, सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिकानुत्तरायां सम्यक्संबोधौ, श्रावकभूमेश् च प्रत्येकबुद्धभूमेश् च नोपनायिका, सर्वाकारज्ञतायाश् चोपनायिका. एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका धर्मस्थितितां प्रमाणीकृत्य.
सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका, तत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं? कथं शीलं रक्षितव्यं, कथं क्षान्तिर् भावयितव्या, कथं वीर्यम् आरब्धव्यं, कथं ध्यानं समापत्तव्यं, कथं प्रज्ञा भावयितव्या?
भगवान् आह: सर्वाकारज्ञताम् आरम्बणीकृत्य दानं दातव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य शीलं रक्षितव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य क्षान्तिर् भावयितव्या, सर्वाकारज्ञताम् आरम्बणीकृत्य वीर्यम् आरब्धव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य ध्यानं समापत्तव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य प्रज्ञा भावयितव्या. तेन बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि. तथा च परिणामयितव्यानि यथास्य त्रिविधा बुद्धिर् न भवति, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं बोधिसत्त्वस्य महासत्त्वस्य इमान् कुशलान् धर्मान् अनुत्तरायै सम्यक्संबोधये परिणामयतः षट्पारमिताभावना परिपूरिङ् गच्छति यावद् बोधिसत्त्वस्य महासत्त्वस्य मैत्रीभावना परिपूरिङ् गच्छति यावत् सर्वाकारज्ञताभावना परिपूरिङ् गच्छति. यः कश्चिद् बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अविरहितः सर्वाकारज्ञतयाविरहितो भवति, तस्माद् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितव्यं षट्सु पारमितासु चरितव्यम्. षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वः सर्वान् कुशलान् धर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्माद् (प्स्प्_5:63) बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः.
इत्य् उत्पादनिरोधविकल्पः
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः?
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनैवं प्रत्यवेक्षितव्यं, रूपं न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्कारा, विज्ञनं न संयुक्तं न विसंयुक्तं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न विसंयुक्तानि, एवं सर्वपारमिताः सर्वसून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा न संयुक्ता न विसंयुक्ताः, सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः.
इति संयोगविसंयोगविकल्पः
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामीति योगः करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थास्यामीति योगः करणीयः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न स्थास्यामीति योगः करणीयः, न प्रतीत्यसमुत्पादाङ्गेषु न स्थास्यामीति योगः करणीयः, एवं न सर्वपारमितासु स्थास्यामीति योगः करणीयः, न सर्वशून्यतासु न सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहितेषु नाभिज्ञादशबलवैशारद्यप्रतिसंवित्सु नावेणिकेषु बुद्धधर्मेषु स्थास्यामीति योगः करणीयः, न सर्वाकारज्ञतायां स्थास्यामीति योगः करणीयः. तत् कस्य हेतोः? न हि रूपं वा क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं क्वचित् स्थितं, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा क्वचित् स्थितानि, एवं न पारमिता न शून्यता न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न विमोक्षमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः क्वचित् स्थिता, न सर्वाकारज्ञता क्वचित् स्थिता. एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् (प्स्प्_5:64) अभिसंबोधव्या. इति रूपादिस्थानविकल्पः
तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलं वा भक्षयितुकामः स्यात् तेनाम्रफलं पनसफलं वावरोपयितव्यम्, अवरोप्य चोदकं कालानुकालं दातव्यं केलायितव्यं, तस्यानुपूर्वेण संबद्ध्यमानस्य स्तम्बस्य सामग्री लभमानस्य् आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति, स तान्य् आम्रफलानि वा परसफलानि वा भक्षिष्यति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेनानुग्रहीष्यति शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञयानुग्रहीष्यति सत्त्वान् संसारात् परिमोचयिष्यति.
इति गोत्रविप्रणाशविकल्पः
तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, बोधिमण्डे निसीदितुकामेन, धर्मचक्रं प्रवर्तयितुकामेन षट्सु पारमितासु शिक्षितव्यम्.
सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यम् इति वदसि.
भगवान् आह: प्रज्ञापारमितया सुभूते प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि, सर्वधर्मवशिताम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. इति प्रार्थनाभावविकल्पः
तत् कस्य हेतोः? एषा हि प्रज्ञापारमिता सर्वधर्मवशिताम् अनुप्रापयति, एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं, तद्यथापि नाम सुभूते महासमुद्रः सर्वरत्नानां सर्वसरितां मुखं, सर्वनदीजलानि समुद्रे प्रविष्टान्य् एकरसानि भवन्त्य्, एवम् एव प्रज्ञापारमिता सर्वधर्माणां मुखं, सर्वधर्मा हि प्रज्ञापारमिता भाविताः प्रज्ञापारमिता भवन्ति, तस्मात् तर्हि श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्वयानिकैर् वा पुद्गलैर् इहैव प्रज्ञापारमितायां शिक्षितव्यं, तस्माद् बोधिसत्त्वेन महासत्त्वेन दानपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं प्रज्ञापारमितायां शिक्षितव्यम्, अध्यात्मशून्यतायां शिक्षितव्यं बहिर्धाशून्यतायां शिक्षितव्यम् अध्यात्मबहिर्धाशून्यतायां शिक्षितव्यं यावद् अभावस्वभावशून्यतायां शिक्षितव्यं, स्मृत्युपस्थानेषु शिक्षितव्यम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु (प्स्प्_5:65) शिक्षितव्यं शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंवित्सु शिक्षितव्यम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितव्यं सर्वाकारज्ञतायां शिक्षितव्यम्. इति हेत्वभावविकल्पः
तद्यथापि नाम सुभूते इष्वस्त्राचार्यो यथानुरूपं धनुर् गृहीत्वा दुराधर्षो भवति प्रत्यर्थिकानां वा प्रत्यमित्राणां वा, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दुराधर्षो भवति मारैर् वा मारकायिकाभिर् वा देवताभिस् तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन प्रज्ञापारमितायां शिक्षितव्यं, तं च प्रज्ञापारमितायां चरन् तम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बुद्धा भगवन्तो दानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति? शीलपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, क्षान्तिपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, वीर्यपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, ध्यानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, प्रज्ञापारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, अध्यात्मशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यावद् अभावस्वभावशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् तम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् तम् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु चरन् तं दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकाबुद्धधर्मेषु चरन् तं, कथं सर्वाकारज्ञतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति?
एवम् उत्क्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति, तथा च समन्वाहरन्ति यत्र नैव दानं न शीलन् न क्षान्तिर् न वीर्यन् न ध्यानं न प्रज्ञोपलभ्यते. एवम् अनुपलम्भेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यत्र नाध्यात्मशून्यता यावद् अभावस्वभावशून्यता स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, यत्र (प्स्प्_5:66) नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा नोपलभ्यन्ते, यत्र सर्वाकारज्ञता नोपलभ्यते. एवम् अनुपलम्भयोगेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति.
पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति, न वेदनातो न संज्ञातो न संस्कारतो, न विज्ञानतः समन्वाहरन्ति, न स्कन्धतो न धातुतो नायतनतो न प्रतीत्यसमुत्पादतो न प्रतीत्यसमुत्पादाङ्गतः समन्वाहरन्ति, न दानपारमितातो न शीलपारमितातो न क्षान्तिपारमितातो न वीर्यपारमितातो न ध्यानपारमितातो न प्रज्ञापारमितातः समन्वाहरन्ति, नाध्यात्मशून्यतातो यावन् नाभावस्वभावशून्यतातः समन्वाहरन्ति, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतः समन्वाहरन्ति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखतः समन्वाहरन्ति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतः समन्वाहरन्ति, न सर्वाकारज्ञतातः समन्वाहरन्ति. इति प्रत्यर्थिकधर्मोपलम्भविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
अथ खलु सुभूतिः स्थविरः शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: यत् त्वं कौशिकैवं वदसि गम्भीरेयं भगवन् प्रज्ञापारमिता, दुष्करकारका बोधिसत्त्वा महासत्त्वा येषां गम्भीरेषु धर्मेषु न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा, शून्येषु कौशिक सर्वधर्मेषु कस्यात्र काङ्क्षायितत्वं वा धन्वायित्वं वा भविष्यति?
एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्: यद्यद् एव सुभूतिः स्थविरो निर्दिशति सर्वन् तच् छून्यताम् एवारभ्य निर्दिशति न क्वचित् सज्जति, तद्यथापि नामेषुर् अन्तरीक्षे क्षिप्तो न क्वचित् सज्जति, एवम् एव सुभूतेः स्थविरस्य धर्मदेशना न क्वचित् सज्जति.
अथ खलु सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कच्चिद् अहं भगवन्न् एवं भाषमाण एवम् उपदिशन्न् उक्तवादी च भगवतो धर्मवादी च धर्मस्य चानुधर्मं सम्यग् व्याकुर्वन् व्याकरोमि?
भगवान् आह: सम्यक् खलु त्वं कौशिक एवं भाषमाण एवम् उपदिशंस् तथागतस्योक्तवादी च धर्मवादी च धर्मस्य चानुधर्मं (प्स्प्_5:67) व्याकुर्वन् व्याकरोषि.
देवेन्द्र आह: आश्चर्यं भगवन् यावद् एव सुभूतेः स्थविरस्य प्रतिभाति सर्वन् तच् छून्यतां चैवारभ्य प्रतिभाति, आनिमित्तं चैवाप्रणिहितं चैवारभ्य प्रतिभाति, स्मृत्युपस्थानान्य् आरभ्य प्रतिभाति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् आरभ्य प्रतिभाति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् आरभ्य प्रतिभाति, यावद् अनुत्तरां सम्यक्संबोधिम् आरभ्य प्रतिभाति.
एवम् उक्ते भगवान् शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: सुभूतिः कौशिक स्थविरः शून्यतायां विहरन् दानपारमिताञ् चैव नोपलभते, कः पुनर् वादो ये दानपारमितायां चरन्ति शीलपारमितायां चरन्ति क्षान्तिपारमितायां चरन्ति वीर्यपारमितायां चरन्ति ध्यानपारमितायां चरन्ति प्रज्ञापारमिताञ् चैव नोपलभते, कः पुनर् वादो ये प्रज्ञापारमितायां चरन्ति. स्मृत्युपस्थानान्य् एव नोपलभते, कः पुनर् वादो ये स्मृत्युपस्थानानि भावयन्ति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गांश् चैव नोपलभते, कः पुनर् वादो ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयन्ति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतान् नोपलभते, कः पुनर् वादो ये ऽध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयन्ति, आर्यसत्यान्य् एव नोपलभते, कः पुनर् वादो य आर्यसत्यानि भावयन्ति, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, कः पुनर् वादो ये ऽप्रमाणध्यानारूप्यसमापत्तीर् भावयन्ति, शून्यतानिमित्ताप्रणिहितान्य् एव नोपलभते, कः पुनर् वादो ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति, ध्यानविमोक्षसमाधिब्समापत्तिधारणीमुखान्य् एव नोपलभते, कः पुनर् वादो ये ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयन्ति, तथागत बलान्य् एव नोपलभते, कः पुनर् वादो ये बलानि भावयन्ति वैशारद्यान्य् एव नोपलभते, कः पुनर् वादो ये वैशारद्यान्य् अभिनिर्हरन्ति, प्रतिसंविद एव नोपलभते, कः पुनर् वादो ये प्रतिसंविदो ऽभिनिर्हरन्ति अभिज्ञा एव नोपलभते, कः पुनर् वादो ये ऽभिज्ञां भावयन्ति, महाकरुणाम् एव नोपलभते, कः पुनर् वादो ये महाकरुणाविहारं भावयन्ति, आवेणिकान् एव बुद्धधर्मान् नोपलभते, कः पुनर् वादो ये आवेणिकां बुद्धधर्मान् अभिनिर्हरन्ति, अनुत्तराम् एव सम्यक्संबोधिन् नोपलभते, कः पुनर् वादो ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, (प्स्प्_5:68) सर्वाकारज्ञतम् एव नोपलभते, कः पुनर् वादो ये सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तथागतत्वम् एव नोपलभते, कः पुनर् वादो यस् तथागतो भवत्य् अनुत्पादम् एव नोपलभते, कः पुनर् वादो ये ऽनुत्पादं साक्षात् कुर्वन्ति, लक्षणान्य् एव नोपलभते, कः पुनर् वादो येषां लक्षणानि काये भवन्ति, अनुव्यञ्जनान्य् एव नोपलभते, कः पुनर् वादो येषाम् अनुव्यञ्जनानि काये भवन्ति. तत् कस्य हेतोः? सर्वधर्मविविक्तविहारी कौशिक सुभूतिः, अनुपलम्भविहारी शून्यताविहार्य् आनिमित्तविहार्य् अप्रणिहितविहारी कौशिक य एष सुभूतेः स्थविरस्य विहारः स बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहारस्य शततमीम् अपि कलान् नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोतीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति. तत् कस्य हेतोः? तथा हि तथागतविहारं स्थापयित्वा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सर्वश्रावकप्रत्येकबुद्धानां च ये विहारास् तेषां विहाराणाम् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सो ऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते. तस्मात् तर्हि कौशिक बोधिसत्त्वेन महासत्त्वेनाग्रतां गन्तुकामेनानेन विहारेण विहर्तव्यं यद् उत प्रज्ञापारमिताविहारेण. तत् कस्य हेतोः? अत्र हि कौशिक प्रज्ञापारमितायाञ् चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, बोधिसत्त्वनियामम् अवक्रामति, बुद्धधर्मान् परिपूरयति, सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्ववासनानुसंधिक्लेशप्रहानो भविष्यति.
अथ खलु तस्यां पर्षदि देवास् त्रयस्त्रिंशा मान्दारवाणि पुष्पाणि गृहीत्वा भगवन्तम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म. षष्टिञ् च भिक्षूणां शतम् उत्स्थायासनेभ्य एकांशञ् चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमयाम् आसुः, तेषां च भिक्षूणाम् अञ्जलयः प्रणामिता बुद्धानुभावेन मान्दारवैः पुष्पैः परिपूर्णा अभूवंस् ते च मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति (प्स्प्_5:69) स्मावकिरन्तो ऽभ्यवकिरन्तो ऽभिप्रकिरन्त एवं च वाचम् उदीरयन्ति स्म: वयं भगवन्न् एतेन कुशलमूलेनैतेनोत्तमेन विहारेण विहरिष्यामो यत्र नागतिः सर्वश्रावकप्रत्येकबुद्धानाम् इति.
अथ खलु भगवांस् तस्या वेलायां तेषां भिक्षूणाम् अध्याशयं विदित्वा स्मितं प्रदुष्करोति स्म. धर्मता खलु पुनर् एषां बुद्धानां भगवतां यदा स्मितं प्रादुष्कुर्वन्ति तदा खल्व् अनेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति स्म, तद्यथा नीलाः पीता लोहिता अवदाता माञ्जिष्ठा रजतवर्णास् त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभास्य पुनर् एवागत्य बुद्धान् भगवतस् त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्य् अन्तर्हिताः.
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकन् नाप्रत्ययन् तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.
एवम् उक्ते भगवान् आयुष्मन्तं आननदम् एतद् अवोचत्: इमान्य् आनन्द षष्टिर् भिक्षुशतान्य् अनागते ऽध्वनि तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, अवकीर्णकुसुमनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति, तेषां खलु पुनर् आनन्दावकीर्णकुसुमनाम्नां तथागतानाम् अर्हतां सम्यक्संबुद्धानां समसमो भिक्षुसंघो भविष्यति, समसमं बुद्धक्षेत्रं भविष्यति, समसमम् आयुःप्रमाणं भविष्यति, विंशतिवर्षसहस्रं यतो यतो ऽभिनिष्क्रमिष्यन्ति अभिनिष्क्रम्य प्रव्रजिष्यन्ति प्रव्रजित्वा यत्र यत्र विहरिष्यन्ति तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षाणि प्रवर्षिष्यन्ति. तस्मात् तर्ह्य् आनन्द उत्तमेन विहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.
इत्य् अन्येषां महाबोधौ संदर्शनाप्रथमं कारणरो
यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वा एवं गन्तव्या मनुष्येभ्यो वाहं च्युत्वेहोपपन्नस् तुषिताद् वा देवनिकाया च्युत्वेहोपपन्न इति, मनुष्येष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण (प्स्प्_5:70) श्रुता भविष्यति, तुषितेषु देवेष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति, तथागतव्यवलोकयितास् ते आनन्द बोधिसत्त्वा महासत्त्वा भविष्यन्ति य इह गम्भीरायां प्रज्ञापारमितायां चरिष्यन्ति.
यः कश्चिद् आनन्दन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यत्य् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, बोधिसत्त्वयानिकानां वा पुद्गलानाम् इमां गम्भीरां प्रज्ञापारमिताम् उपदेक्ष्यत्य् अनुशासिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखं मया तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुताभूत्, उद्ग्रहीता च धारिता च वाचिता च पर्यवाप्ता चाभूत्, तेषु च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलम् अवरोपितम् अभूत्, न श्रावकाणाम् अन्तिके कुशलमूलम् अवरोपितं नापि श्रावकाणाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुत्वेति.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, अर्थतश् च धर्मतश् च विनयतश् चानुगमिष्यति निष्ठानन्द तेन कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखीभूतो ऽहं तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् इति,
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यति न प्रतिवहिष्यति प्रसादं प्रतिलप्स्यते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः, अवरोपितकुशलमूलः, कल्याणमित्रपरिगृहीतः, किं चाप्य् आनन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके कुशलमूलम् अवरोपितं स न तद् विसंवादयिष्यति श्रावकत्वाय वा प्रत्येकबुद्धत्वाय वा. अपि तु खलु पुनर् आनन्द सुप्रतिसंविदितेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मेषु चरता, सर्वाकारज्ञतायां चरता. सुप्रतिसंविदितो ह्य् (प्स्प्_5:71) आनन्द बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन् न श्रावकत्वाय वा न प्रत्येकबुद्धत्वाय वा स्थास्यति. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि त इमां गम्भीरां प्रज्ञापारमितां, सचेत् पुनस् त्वं आनन्द यो मया धर्मो देशितः स्थापित्वा प्रज्ञापारमितां सर्वान्तां धर्मदेशनाम् उद्गृह्य पर्यवाप्य पुनर् एव नाशयेः पुनर् एवोत्सृजेर् न मे त्वम् आनन्द तावता अपराद्धः स्याः, सचेत् त्वम् आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य एकपदम् अपि नाशयेर् उत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः, सचेत् त्वं आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य द्वे पदम् अपि पुनर् एव नाशयेः पुनर् एवोत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि ते तथेमां गम्भीरां प्रज्ञापारमितां पठेयम् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या भवेत्, त्वया च सुव्यक्तेन सुपरिगृहीतेनाक्षरपदव्यञ्जनेन सुनिरुक्ता च सुपरिगृहीता च कर्तव्या.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति तेन कुलपुत्रेण वा कुलदुहित्रा वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर् अनुपरिगृहीता भविष्यति, यो ह्य् आनन्द तर्हि मां संमुखीभूतः कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेनेयं गम्भीरा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः प्रज्ञापारमितां सत्कुर्वन् तु गुरुकुर्वन् मानयन् पूजयन् तेन पूजितो भवामि, अतीतानागतप्रत्युत्पन्नाश् च बुद्धा भगवन्तः पूजिता भवन्ति.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा, इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा गौरवं च प्रेम च प्रसादं (प्स्प्_5:72) चोत्पादयिष्यति अतीतानागतप्रत्युत्पन्ननां बुद्धानां भगवताम् अन्तिके तेन गौरवञ् च प्रेम च प्रसादश् चोत्पादितो भविष्यति यथा ते ऽहम् आनन्द प्रियश् च मनआपश् चापरित्यक्तश् च तथेयं गम्भीरा प्रज्ञापारमिता प्रिया मनआपापरित्यक्ता भवतु यथा एकपदम् अपि त इतो गम्भीराया प्रज्ञापारमिताया न नाशयितव्यं, बह्व् अपि ते ऽहम् आनन्द भाषे प्रज्ञापारमिताया परीन्दनाम् आरभ्य संक्षिप्तेनानन्द यादृशस् ते ऽहं शास्ता तादृशी ते प्रज्ञापारमिता शास्ता, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता या अप्रमाणानि परीन्दनानि, अहं च ते आनन्देमां गम्भीरां प्रज्ञापारमिताम् अनुपरीन्दामि, तस्मात् तर्ह्य् आनन्द सदेवमानुषासुरस्य लोकस्यारोचयामि यस्यापरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघो ऽपरित्यक्ता अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽपरित्यक्तानुत्तरा सम्यक्संबोधिस् तस्येयं गम्भीरा प्रज्ञापारमितापरित्यक्ता भवतु, इयम् अस्माकम् अनुशासनी.
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, परेषाञ् चेमां गम्भीरां प्रज्ञापारमिताम् अनेकपर्यायेण विस्तरेणाख्यास्यति देशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विवरिष्यति विभजिष्यत्य् उत्तानीकरिष्यति संप्रकाशयिष्यति, स खलु पुनर् आनन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अभ्यासन्नश् च भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता ह्य् आनन्द बुद्धानां भगवताम् अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दैतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. तस्मात् तर्ह्य् आनन्द (प्स्प्_5:73) बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन इह प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? एषा ह्य् आनन्द बोधिसत्त्वानां महासत्त्वानां माताजनयित्री यद् उत प्रज्ञापारमिता, ये केचिद् आनन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां शिक्षिष्यन्ते सर्वे ते निर्यास्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. तस्मात् तर्ह्य् आनन्देमां प्रज्ञापारमितां भूयस्या मात्रयानुपरीन्दामि. तत् कस्य हेतोः? एषा ह्य् आनन्द तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्य् एष कोशो यद् उत प्रज्ञापारमिताकोशः. ये ऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति ते ऽप्य् आनन्द बुद्धा भगवन्त इत एव प्रज्ञापारमिताकोशाद् देशयन्ति. ये ऽपि ते आनन्दातीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवंस् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा धर्मन् देशितवन्तः. ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते धर्मञ् च देशयिष्यन्ति. ये ऽपि ते आनन्दातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वास्यन्ति च. इति महाबोधिहेतोः प्रज्ञापारमितापरीन्दनाद्वितीयं कारणम्
सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमिम् आरभ्य धर्मन् देशयेस् तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽर्हत्त्वं साक्षात्कुर्युर् अद्यापि त्वया मम श्रावकेण श्रावककृत्यन् न कृतं स्यात्. सचेत् मे त्वम् आनन्द बोधिसत्त्वस्य महासत्त्वस्य एकम् अपि प्रज्ञापारमिता प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर्, एवम् अहं त्वया श्रावकेनाभिराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं स्यात्, तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरन् मानुष्यकम् आत्मभावं प्रतिलभ्यार्हत्त्वं साक्षात्कुर्युस् तेषाञ् चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु.
(प्स्प्_5:74) तत् किं मन्यसे? त्वम् आनन्दापि नु तत् पुण्यक्रियावस्तु बहु.
आनन्द आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स आनन्द बहुतरं पुण्यं प्रसवेत्, यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेद् अन्तश एकदिवसम् अपि, तिष्ठत्व् आनन्द एकदिवसं सचेद् यावद् अर्धदिवसम् अपि, तिष्ठत्व् अर्धदिवसं यावत् पुरोभक्तम् अपि, तिष्ठत्व् आनन्द पुरोभक्तं सचेद् यावन् नालिकान्तरं, सचेद् यावत् क्षणं वा यावल् लवं वा, तिष्ठत्व् आनन्द लवम् अन्तशो निमेषमात्रम् अपि, अयं आनन्द ततो बहुतरं पुण्यं प्रसवेत्. यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेत्, स सर्वश्रावकयानिकानां सर्वप्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलम् अभिभवति. सचेद् आनन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेद् अन्तश एकदिवसम् अप्य् अर्धदिवसम् अपि पुरोभक्तम् अपि नालिकान्तरं वा क्षणं वा लवं वा निमेषमात्रम् अपि, अयम् आनन्द बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां कुशलमूलम् अभिभवति. तत् कस्य हेतोः? तथा हि स आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः परांश् चानुत्तरायै सम्यक्संबोधये संप्रहर्षयति समुत्तेजयति समादापयति निवेशयति प्रतिष्ठापयति. एवं आनन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरञ् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्न् आर्यसत्येषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सर्वाकारज्ञतायां चरन् कुशलमूलैर् विवर्धमानो ऽस्थानम् अनवकाशो यद् अनुत्तरायाः सम्यक्संबोधेः परिहास्यते नेदं स्थानं विद्यते. अस्यां खलु पुनः प्रज्ञापारमितायां भाष्यमाणायां चतस्रः परिषदो देवमनुष्ययक्सगन्धर्वासुरगरुडकिंनरमहोरगाश् च संनिपतिताः संनिषन्णा अभूवन्.
(प्स्प्_5:75)
अथ खलु भगवांश् चतसृणां पर्षदां पुरतस् तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेणाभि संस्कृतेनाक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म, भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयन्तं सागरोपमायां पर्षद्य् अक्षोभ्यायां सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैर् बोधिसत्त्वयानिकैश् च पुद्गलैः.
अथ खलु भगवान् पुनर् एव तम् ऋद्ध्यभिसंस्कारं प्रतिसंहरति स्म, येनर्द्ध्यभिसंस्कारेण प्रतिसंहृतेन ताश् चतस्रः परिषदो न भूयः पश्यन्ति स्म. तम् अक्सोभ्यं तथागतम् अर्हन्तां सम्यक्संबुद्धं श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा पुद्गलास् तञ् च बुद्धक्षेत्रम् अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न भूयः पश्यन्ति स्म. स बुद्धप्रमुखो भिक्षुसंघो न भूयश् चक्षुरिन्द्रियस्यावभासम् आगच्छति. तत् कस्य हेतोः? प्रतिसंहृतो हि भगवता तथागतेन स ऋद्ध्यभिसंस्कारस् तेन भूयो न पश्यति स्म.
अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. यथा पुनर् एव सो ऽक्सोभ्यस् तथागतो ऽर्हन् सम्यक्संबुद्धस् ते च श्रावकास् ते च बोधिसत्त्वयानिकाः कुलपुत्रास् तच् च बुद्धक्षेत्रं चक्षुषो नाभासम् आगच्छन्ति, एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. सर्वधर्मा ह्य् आनन्दाजानका अपश्यका अक्रियासमर्थाः. तत् कस्य हेतोः? निरीहका अग्राह्या आनन्द सर्वधर्मा अग्राह्या निरीहकतया, अचिन्त्याः सर्वधर्मा मायापुरुषोपमा, अवेदका ह्य् आनन्द सर्वधर्मा असारताम् उपादाय. एवञ् चरन्न् आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं (प्स्प्_5:76) शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वः शिक्षते प्रज्ञापारमितयां सर्वपारमितानुप्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. एषा हि शिक्षा याग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, सर्वलोकहिता सर्वलोकसुखा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता, यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रलोकधातुं दक्षिणेन पाणिनोत्क्षिप्य पुनर् एव निक्षिपेयुर् न च तेषाम् एवं भवति उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रलोकधातुः निक्षिप्तो वेति. तत् कस्य हेतोः? इयं सानन्द प्रज्ञापारमिताशिक्षा यत्र शिक्षित्वा बुद्धानां भगवताम् अतीतानागतप्रत्युत्पन्नेषु धर्मेषु असङ्गज्ञानदर्शनम् उत्पन्नं यावत्य आनन्द शिक्षाः सर्वासाम् आनन्द शिक्षानाम् इयं प्रज्ञापारमिताशिक्षाग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, आकाशस्य आनन्द प्रमाणं वा पर्यन्तं वा उद्गृहीतव्यं मन्येत यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वा ग्रहीतव्यं मन्येत. तत् कस्य हेतोः? अप्रमाणा ह्य् आनन्द प्रज्ञापारमिता, न मयानन्द प्रज्ञापारमितायाः प्रमाणम् आख्यातं, नामकायपदकायव्यञ्जनकाया ह्य् आनन्द प्रमाणबद्धा, न प्रज्ञापारमिता प्रमाणबद्धा. इति महाबोधिप्राप्तये पुण्यबाहुल्यलक्षणं तृतीयं कारणम् इत्य् उक्तानि कारणानि
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् प्रज्ञापारमिताप्रमाणबद्धा?
भगवान् आह: अक्षयत्वाद् आनन्द प्रज्ञापारमिताप्रमाणबद्धा विविक्ताद् आनन्द प्रज्ञापारमिता प्रमाणबद्धा, ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविता न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविष्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द एतर्हि दशदिशि लोके तथागता अर्हन्तः (प्स्प्_5:77) सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मन् देशयन्ति ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते. तत् कस्य हेतोः? आकाशं स आनन्द क्षयितुं मन्येत यः प्रज्ञापारमितायाः क्षयं मन्येत न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, न ध्यानपारमिता क्षीयते न वीर्यपारमिता क्षीयते न क्षान्तिपारमिता क्षीयते न शीलपारमिता क्षीयते न दानपारमिता क्षीणा क्षीयते क्षष्यते, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न क्षीणा न क्षीयते न क्षेष्यते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, शून्यतानिमित्ताप्रणिहिताभिज्ञा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न क्षीणा न क्षीयन्ते न क्षेष्यन्ते दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्मा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वाकारज्ञता न क्षीणा न क्षीयते न क्षेष्यते. न हि तेषां धर्माणाम् उत्पादो ऽस्ति येषाम् उत्पादो नास्ति, कुतस् तेषां क्षयः प्रज्ञास्यते? इत्य् उक्ता क्षयानुत्पादज्ञानात्मिका महाबोधिः
अथ खलु भगवाञ् जिह्वेन्द्रियं निर्णाम्य सर्वावन्तं मुखमण्डलं जिह्वेन्द्रियेणाच्छादयित्वायुष्मन्तं आनन्दम् एतद् अवोचत्: तत् किं मन्यसे? आनन्दापि नु ईदृशं जिह्वेन्द्रियं वितथवादि अन्यथावादि स्यात्.
आनन्द आह: न भगवन् न सुगत.
भगवान् आह: तस्मात् तर्ह्य् आनन्द इमां प्रज्ञापारमितां चतसृणां पर्षदां विस्तरेणाख्याहि देशय प्रज्ञापय प्रस्थापय विभज विभावयोत्तानीकुरु संप्रकाशय, इहैवानन्द गम्भीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैश् च प्रत्येकबुद्धयानिकैश् च बोधिसत्त्वयानिकैश् च पुद्गलैः शिक्षितव्यं, यत्र यथानुशिक्षमाणाः स्वकस्वकासु भूमिषु स्थास्यन्ते, (प्स्प्_5:78) इयं पुनर् आनन्द गम्भीरा प्रज्ञापारमिता सर्वाक्षरप्रवेश सर्वानक्षरप्रवेशा, इयम् आनन्द गम्भीरा प्रज्ञापारमिता सर्वधारणीनां मुखं, यैर् धारणीमुखैर् बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, धारणीं धारयतां बोधिसत्त्वानां महासत्त्वानां सर्वाः प्रतिभानप्रतिसंविदो भविष्यन्तियम् आनन्द गम्भीरा प्रज्ञापारमिता, ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वधर्म उक्तो मया, तस्मात् तर्ह्य् आनन्दारोचयामि ते प्रतिवेदयामि ते, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति, इयं सानन्द प्रज्ञापारमिता धारण्य् उक्ता मया, तां त्वं प्रज्ञापारमिताधारणीं धारयन् सर्वधर्मान् धारयसि. इत्य् उक्तं महाबोधौ संप्रत्ययकारणम्
अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: गम्भीरा बतेयं तथागतानां बोधिः, यन् नूनम् अहं तथागतं परिपृच्छेयम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अक्षया हि भगवन् प्रज्ञापारमिता.
भगवान् आह: आकाशाक्षयत्वात् सुभूते अक्षया प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?
भगवान् आह: रूपाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर् हर्तव्या. एवं स्कन्धधात्वायतनाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाङ्गाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दानपारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, एवं शीलपारमिताक्षयत्वात् क्षान्तिपारमिताक्षयत्वाद् वीर्यपारमिताक्षयत्वाद् ध्यानपारमिताक्षयत्वात् प्रज्ञापारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, स्मृत्युपस्थानाक्षयत्वेन सम्यक्प्रहाणाक्षयत्वेन ऋद्धिपादाक्षयत्वेन इन्द्रियाक्षयत्वेन बलाक्षयत्वेन बोध्यङ्गाक्षयत्वेनार्याष्टाङ्गमार्गाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, अध्यात्मशून्यताक्षयत्वेन बहिर्धाशून्यताक्स्यत्वेनाध्यात्मबहिर्धाशून्यताक्षयत्वेन यावद् अभावस्वभावशून्यताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, आर्यसत्याक्षयत्वेनाप्रमाणध्यानारूप्यसमापत्त्यक्षयत्वेन (प्स्प्_5:79) सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या शून्यतानिमित्ताप्रणिहिताक्षयत्वेन पञ्चाभिज्ञाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दशबलाक्षयत्वेन चतुर्वैशारद्याक्षयत्वेन प्रतिसंविदक्षयत्वेनाष्टादशावेणिकाबुद्ध धर्माक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वाकारज्ञताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या.
पुनर् अपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संज्ञाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्कन्धाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, धात्वाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, आयतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, अविद्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासवेन प्रज्ञापारमिताभिनिर्हर्तव्या, षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, उपादानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन (प्स्प्_5:80) महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्य, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकना आद्यन्तविवर्जिता, आवेणिको ऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्णस्य यद् एवं प्रतीत्यसमुत्पादं व्यवलोकयत्य्, एवं व्यवलोकयन् प्रतीत्यसमुत्पादं सर्वज्ञज्ञानं प्रतिलप्स्यते. यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्वो ऽनेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयिष्यति, न स श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, सो ऽनुत्तरायां सम्यक्संबोधौ स्थास्यति. यः कश्चित् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा विवर्तिष्यत्य् अनुत्तरायाः सम्यक्संबोधेः, स सर्व इमं प्रज्ञापारमितामनसिकारम् अनागम्य विवर्तिष्यति, न संज्ञास्यते कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकयितव्यः? कथम् अभिनिर्हर्तव्य? इति. ये केचित् सुभूते बोधिसत्त्वयानिकाः पुद्गला विवर्तन्ते सर्वे त इदम् उपायकौशल्यम् अनागम्य विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. ये केचित् सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः सर्वे त इमां प्रज्ञापारमिताम् आगम्य न विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् उपायकौशल्येन. एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन् आकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकयितव्या अभिनिर्हर्तव्या.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं समनुपश्यति, अहेतुकम् उत्पद्यमानन् न कंचिद् धर्मं समनुपश्यति, निरुध्यमानन् न कंचिद् धर्मम् आत्मतः समनुपश्यति न सत्त्वतो न जीवतो न जन्तुतो न पोषतो न पुरुषतो न पुद्गलतो न मनुजतो न मानवतो न कारकतो नोत्थापकतो न समुत्थापकतो न वेदकतो न वेदापकतो न जानकतो न जानापकतो न पश्यकतो न पश्यापकतो, न नित्यतो नानित्यतः समनुपश्यति न सुखतो न दुष्खतो नात्मकतो नानात्मकतो न शान्ततो नाशान्ततः.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो (प्स्प्_5:81) व्यवलोकयितव्यः प्रज्ञापारमितायाञ् चरता, यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति तस्मिन् समये रूपं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा, वेदना संज्ञा संस्कारा, विज्ञानं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं सर्वपारमितान् न समनुपश्यति, सर्वशून्यतान् न समनुपश्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् न समनुपश्यति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितान् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. सर्वाकारज्ञतान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति तस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण प्रज्ञापारमितां न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, दानपारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् दानपारमितां समनुपश्येत्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्यास्ताङ्गमार्गन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्याष्टाङ्गमार्गं समनुपश्येत्. अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् अभावस्वभावशून्यतां समनुपश्येद् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीर् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीः (प्स्प्_5:82) समनुपश्येत्. शून्यतानिमित्ताप्रणिहितां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति, येन धर्मेण शून्यतानिमित्ताप्रणिहितान् समनुपश्येत्. सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न समनुपश्यति, तम् अपि धर्मन्1 न समनुपश्यति येन धर्मेण सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समनुपश्येत्. अभिज्ञादशबलवैशारद्यप्रतिसंविदो न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणाभिज्ञदशबलवैशारद्यप्रतिसंविदः समनुपश्येत्. अष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति, तम् अपि धर्मान् न समनुपश्यति येन धर्मेणाष्टादशावेणिकान् बुद्धधर्मान् समनुपश्येत्. अनुत्तरां सम्यक्संबोधिन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणानुत्तरां सम्यक्संबोधिं समनुपश्येत्.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं सर्वधर्मान् अनुपलभमानेन. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मान् अनुपलभमानः प्रज्ञापारमितायां चरति तस्मिन् समये मारः पापीयां शोकशल्यसमर्पितो भवति, तद्यथापि नाम सुभूते पुरुषस्य मातापितरौ कालगतौ भवतः स तेन दुष्खेन शोकशल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः, एवम् एव सुभूते मारः पापीयां बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मान् अनुपलभमानस्य शोकसल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एक एव भगवन् मारः पापीयान् परमशोकशल्येन समन्वागतो भवति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते?
भगवान् आह: सर्व एव सुभूते माराः पापीयांसः परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते, यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेणाविरहितो भवति, एवं विहरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरलोको ऽवतारन् न लभते यत्र गृहीत्वा विहेठयेत्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यम्. इत्य् उक्तम् अक्षयाकारं क्षयज्ञानम् अनुत्पादाकारम् अनुत्पादज्ञानम्
(प्स्प्_5:83)
प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति. प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः पारमिता भावनापरिपूरिं गच्छन्ति
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् दानन् ददाति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् शीलं रक्षति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् क्षान्त्या संपादयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् वीर्यम् आरभते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् ध्यानं समापद्यते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् प्रज्ञां भावयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
(प्स्प्_5:84)
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतः सर्वाकारज्ञतायां परिणामयतः सत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं मनःकर्म प्रत्युपस्थितं भवति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो यद् इदं प्रतिग्राहका आक्रोशन्ति वा परिभाषन्ते वा, असत्याभिश् च परुषाभिर् वाग्भिः समुदाचरन्ति, न च तेषाम् अन्तिके चित्तम् आघातयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोद्धिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दनन् ददतस् ते प्रतिग्राहका यद्य् आक्रोशन्ति वा परिभाषन्ते वा असत्यां वा परुषां वा वाचं समुदाचरन्ति तस्याक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा, असत्यया वा परुषया वा वाचा समुदाचर्यमाणस्य दानबुद्धिर् एव भवति, परित्यागबुद्धिर् एव भवति, दातव्यञ् चैव मया दानन्, न मया न दातव्यं स कायिकञ् च चैतसिकञ् च वीर्यं स व्यञ्जनयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः सर्वाकारज्ञतायां परिणामयते, न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा चित्तं परिणामयत्य्, अन्यत्र सर्वाकारज्ञतारम्बणम् एव चित्तं प्रवर्तते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
(प्स्प्_5:85)
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः, तस्य मायाबुद्धिर् एव दाने प्रत्युपस्थिता भवति, तेन च दानेन न कस्यचित् सत्त्वस्योपकारं वापकारं वा पश्यत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिकश् च वाचिकश् च चैतसिकश् च संवरस् तेन संवरेन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा परामृषति, तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यपरोपयति, नादत्तम् आददाति, न कामेषु मिथ्या चरति, न मृषावाग् भवति, न परुषवाग् भवति न पिशुनां वाचं भाषते, न संभिन्नप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, स तत्र शीलपारमितायां स्थितो यद् दानन् ददात्य् अन्नम् अन्नार्थिकानां पानं पानार्थिकानां यानं यानार्थिकानां वस्त्रं वस्त्रार्थिकानां माल्यं माल्यार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानां उपकरणम् उपकरणार्थिकानाम् अन्यतरान्यतराणि मानुष्यकाणि सर्वपरिष्कारोपकरणानि ददाति, तच् च दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथा न श्रावकप्रत्येकबुद्धभूमौ वा परिणामयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्त्वस्य शीलपारमितायां स्थितस्य सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यते न व्यापद्यते ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा (प्स्प्_5:86) यत्र हि नाम मम सत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुर्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0