भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 4160

इति दानसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा संचिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते, स तत्र ( प्स्प्1-2: 49 ) स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति, ते च सत्त्वा न जातु विरहिता भवन्ति तया धर्मदेशनया, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति शीलसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, एवं सन्नाहं सन्नह्यते, सचेन् मम सर्वसत्त्वा दण्डलोष्टमुष्टिशस्त्रप्रहारन् दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां क्षान्तौ प्रतिष्ठापयितव्या इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्मिमीते ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्टैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः, स च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवं रूपायां क्षान्तौ प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते ( प्स्प्1-2: 50 ) धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति क्षान्तिसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठितः सर्वसत्त्वान् कायिकचैतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति.
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रविष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति वीर्यसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा अविक्षेपं वा समनुपश्यति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, ते च समादापिता निवेशिताः प्रतिष्ठापिता भवन्ति, न जातु विरहिता भवन्ति ध्यानपारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा ( प्स्प्1-2: 51 ) चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय तं जनकायं ध्यानपारमितायां प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यानपारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति ध्यानसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति? यतः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते, एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् अपि तत्र समादापयति निवेशयति प्रतिष्ठापयति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकसत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञा अपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.

इति प्रज्ञासंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च ( प्स्प्1-2: 52 ) देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तं, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयति निवेशयति प्रतिष्ठापयति. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो भवति, निवेशितो वा प्रतिष्ठापितो वा भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति, इयन्तो मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाम् इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, इयन्तः सत्त्वाः सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या, यावद् इयन्तः सत्त्वा अष्टादशस्व् ( प्स्प्1-2: 53 ) आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्याः, एवं सकृदागामिफले अनागामिफले इयन्तः सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः सर्वज्ञत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति.
अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः, एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबुद्धत्वे असंख्येया अप्रमेयाः सत्त्वा बुद्धत्वे प्रतिष्ठापयितव्याः.
इति शमथसंभारः
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायम् असंख्येयम् अप्रमेयं निर्माय तं षट्सु पारमितासु प्रतिष्ठापयेत्, यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां यद् इमां मायाधर्मताम् उपादाय.
सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि तथा असन्नाहसन्नद्धो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा विज्ञानं विज्ञानेन शून्यं, चक्षुश् चक्षुषा शून्यम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यम्, रूपं रूपेण शून्यं, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा धर्मैः शून्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञानेन शून्यं, चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदयितं ( प्स्प्1-2: 54 ) चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यम्, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणसंस्पर्श अप्रत्ययवेदयितं, जिह्वासंस्पर्शप्रत्ययवेदयितं, कायसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यम्.
दानपारमितापि भगवन् दानपारमितया शून्या, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्रज्ञापारमितया शून्या,
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या,
सप्तत्रिंशद् बोधिपक्षा धर्मा बोधिपक्षैर् धर्मैः शून्याः, दशतथागतबलानि दशभिस् तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, अष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकबुद्धधर्मैः शून्या, बोधिसत्त्वो ऽपि भगवन् बोधिसत्त्वेन शून्यः, महायानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः. अनेन भगवन् पर्यायेण असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते यथा वदसि. तत् कस्य हेतोः? अकृता हि सुभूते सर्वाकारज्ञता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः.
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता विकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः.

भगवान् आह: कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता विकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः. तत् कस्य हेतोः? न हि सुभूते रूपं करोति न विकरोति नाभिसंस्करोति, न वेदना न संज्ञा न संस्काराः, न विज्ञानं करोति न विकरोति नाभिसंस्करोति.
न चक्षुः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रं न घ्राणंन जिह्वा न कायो न मनः करोति न विकरोति नाभिसंस्करोति, न रूपं ( प्स्प्1-2: 55 ) करोति न विकरोति नाभिसंस्करोति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति.
न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति.
न चक्षुःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति.
न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं न घ्राणसंस्पर्शप्रत्ययवेदयितं न जिह्वासंस्पर्शप्रत्ययवेदयितं न कायसंस्पर्शप्रत्ययवेदयितं न मनःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं प्रतिश्रुत्का प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता अत्यन्ततया न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, यावद् अभावस्वभावशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता न विद्यते ( प्स्प्1-2: 56 ) नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय.
सप्तत्रिंशद् बोधिपक्ष्या धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.
तथता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथता ह्य् अत्यन्ततया न विद्यते नोपलभ्यते, एवम् अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर् अचिन्त्यधातुर् बोधिः सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.

अनेन सुभूते पर्यायेण सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति विदर्शनासंभारः
सुभूतिर् आह: यथाहं भगवतो भाषितस्यार्थम् आजानामि, रूपं भगवन्न् अबद्धम् अमुक्तं, वेदना संज्ञा संस्काराः, विज्ञानं भगवन्न् अबद्धम् अमुक्तम्.
पूर्णो मैत्रायणीपुत्र आह: रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि, वेदना संज्ञा संस्काराः, विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि.
सुभूतिर् आह: एवम् एतद् आयुष्मन् पूर्ण.
पूर्ण आह: कतमत् तद् आयुष्मन् सुभूते रूपं यद् अबद्धम् अमुक्तम्? कतमे ते वेदना संज्ञा संस्काराः? कतमत् तद् विज्ञानं यद् अबद्धम् अमुक्तम्?
सुभूतिर् आह: यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते स्वप्नोपमा वेदना संज्ञा संस्काराः, यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्, एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रतिभासोपमा यद् एतद् आयुष्मन् पूर्ण ( प्स्प्1-2: 57 ) निर्मितोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते निर्मितोपमा वेदना संज्ञा संस्काराः, यद् एतं निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्.
अतीतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, अतीता वेदना संज्ञा संस्काराः, अतीतम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्, एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, प्रत्युत्पन्ना वेदना संज्ञा संस्काराः, प्रत्युत्पन्नम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् आयुष्मन् पूर्ण रूपस्य, एवं तद् रूपम् अबद्धम् अमुक्तम्, असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्, असत्त्वाद् आयुष्मन् पूर्ण विज्ञानस्यैवं तद् विज्ञानम् अबद्धम् अमुक्तम्, एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् आनिमित्तत्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशं निष्क्लेशं सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम्, आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् रूपस्यैवं तद् रूपम् अबद्धम् अमुक्तं वेदना संज्ञा संस्काराः, संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् अबद्धम् अमुक्तम्.
सर्वधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः.
दानपारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
अध्यात्मशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अध्यात्मबहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, यावद् अभावस्वभावशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
सप्तत्रिंशद् आयुष्मन् पूर्ण बोधिपक्ष्या धर्मा अबद्धा अमुक्ता, एवं दश बलानि चत्वारि वैशारद्यानि यावद् अष्टादशावेणिका बुद्धधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ताः.
बोधिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, सर्वाकारज्ञताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बोधिसत्त्वो ऽप्य् अबद्धो ऽमुक्तः, तत् कस्य हेतोः? असत्त्वाद् अबद्धो ऽमुक्तः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धो ऽमुक्तः.
तथताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अवितथताप्य् अनन्यतथतापि धर्मतापि धर्मधातुर् अपि धर्मनियामतापि भूतकोटिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धो ऽमुक्तः, एवं षड् अपि पारमिता अबद्धा अमुक्ताः, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, सत्त्वान् अपि यान् परिनिर्वापयिष्यति, ते ऽप्य् अबद्धा अमुक्ताः, बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति, तान्य् अप्य् अबद्धान्य् अमुक्तानि, यान् अपि बुद्धान् भगवतः पर्युपासिष्यते ते ऽप्य् अबद्धा अमुक्ताः, यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः, बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, नाभिज्ञाभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, न पञ्चभिश् चक्षुर्भिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, तथा नान्यैः समाधिभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, अबद्धाम् अमुक्तां मार्गाकारज्ञताम् उत्पादयिष्यति, अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते, अबद्धम् अमुक्तं धर्मचक्रं प्रवर्तयिष्यति, अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयिष्यत्य् अबद्धो अमुक्तः.
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अबद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वम् उपादाय, एवं विविक्ततां यावद् अनुत्पन्नताम् उपादाय.
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वस्य महासत्त्वस्य अबद्धो ऽमुक्तो महायानसन्नाहो वेदितव्यः.
इति युगनद्धमार्गसंभारः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानम्? कथं भगवन् बोधिसत्त्वो महासत्त्वो महायनसंप्रस्थितो वेदितव्यः? कुतस् तद् यानं निर्यास्यति? क्व वा तद् यानं स्थास्यति? को वा तेन यानेन निर्यास्यति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूते ( प्स्प्1-2: 59 ) एवं वदसि, कतमद् बोधिसत्त्वस्य महासत्त्वस्य महायानम् इति. षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. कतमाः षट्? दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, परांश् च तत्र समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च दश कुशलान् कर्मपथान् समादाय वर्तते, परांश् च दश कुशले कर्मपथे समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च क्षान्तिसमापन्नो भवति, परांश् च क्षान्तौ समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्चसु पारमितासु अनिक्षिप्तधुरो विहरति, परांश् च तासु पञ्चसु पारमितासु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतापद्यते, ( प्स्प्1-2: 60 ) न च तेषां वशेनोपपद्यते, परांश् च ध्यानेषु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता.
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन सर्वधर्मान् नाभिनिविशते, सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते, सर्वधर्मप्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च समादापयत्य् अनुपलंभयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इत्य् उपायकौशलसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता.
तत्र कतमा अध्यात्मशून्यता? अध्यात्मिका धर्मा उच्यन्ते चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रं श्रोत्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणं घ्राणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वा जिह्वया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो मनसाशून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अध्यात्मशून्यता.
तत्र कतमा बहिर्धाशून्यता? ये बहिर्धा धर्मास् तद्यथा रूपशब्दगन्धरसस्पर्शधर्माः, तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् ( प्स्प्1-2: 61 ) उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं शब्दगन्धरसस्पर्शाः, धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते बहिर्धाशून्यता.
तत्र कतमा अध्यात्मबहिर्धाशून्यता? षड् आध्यात्मिकान्य् आयतनानि षड् बाह्यान्य् आयतनानि, इयम् उच्यते अध्यात्मबहिर्धाशून्यता.
तत्र कतमे अध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याः? चक्षुःश्रोत्रघ्राणजिह्वाकायमनांस्य् अध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा.
तत्र कतमे बहिर्धा धर्मा अध्यात्मिकैर् धर्मैः शून्याः? रूपशब्दगन्धरसस्पर्शधर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अध्यात्मबहिर्धाशून्यता.

तत्र कतमा शून्यताशून्यता? या सर्वधर्माणां शून्यता तया शून्यतया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते शून्यताशून्यता.
तत्र कतमा महाशून्यता? पूर्वा दिक् पूर्वया दिशा शून्या, एवं दक्षिणा पश्चिमा उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अध ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् आसाम् एषा, इयम् उच्यते महाशून्यता.
तत्र कतमा परमार्थशून्यता? परमार्थ उच्यते निर्वाणं, तच् च निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परमार्थशून्यता.
तत्र कतमा संस्कृतशून्यता? संस्कृत उच्यते कामधातू रूपधातुर् आरूप्यधातुश् च, तत्र कामधातुः कामधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, रूपधातू रूपधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, आरूप्यधातुर् आरूप्यधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते संस्कृतशून्यता.
तत्र कतमा असंस्कृतशून्यता? असंस्कृत उच्यते यस्य नोत्पादो न निरोधो न स्थितिर् नान्यथात्वम्, इदम् उच्यते असंस्कृतम् ( प्स्प्1-2: 62 ) असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते असंस्कृतशून्यता.
तत्र कतमा अत्यन्तशून्यता? यस्यान्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अत्यन्तशून्यता.
तत्र कतमा अनवराग्रशून्यता? यस्य नैवाग्रं नावरम् उपलभ्यते, तस्य मध्याभावः, यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः, आदिमध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनवराग्रशून्यता.
तत्र कतमा अनवकारशून्यता? यस्य धर्मस्य न कश्चिद् अवकारः, अवकारो नाम अविकिरणं छोरणम् उत्सर्गः, अनवकारो ऽनवकारेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अनवकारशून्यता.
तत्र कतमा प्रकृतिशून्यता, या सर्वधर्माणां प्रकृतिः संस्कृतानां वा असंस्कृतानां वा न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता नापकृता, प्रकृतिः प्रकृत्या शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते प्रकृतिशून्यता.
तत्र कतमा सर्वधर्मशून्यता? सर्वधर्मा उच्यन्ते रूपं वेदना संज्ञा संस्कारा विज्ञानं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनोरूपशब्दगन्धरसस्प्रष्टव्यधर्मा चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शप्रत्यया वेदना संस्कृता धर्मा असंस्कृता धर्मा इम उच्यन्ते सर्वधर्माः. तत्र धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते सर्वधर्मशून्यता.
तत्र कतमा स्वलक्षणशून्यता? रूपेणालक्षणं रूपम्, अनुभवलक्षणा ( प्स्प्1-2: 63 ) वेदना, उद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्कारा, विजाननालक्षणं विज्ञानं विस्तरेण कर्तव्यं, यच् च संस्कृतानां धर्माणां लक्षणालक्षणं, यच् चासंस्कृतानां धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणेण शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते स्वलक्षणशून्यता.
तत्र कतमा अनुपलम्भशून्यता? ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते. तत् कस्य हेतोः? नातीत अनागता उपलभ्यन्ते नाप्य् अनागत अतीता, न प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते, नाप्य् अतीतानागतयोः प्रत्युत्पन्ना एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वाद् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनुपलम्भशून्यता.
तत्र कतमा अभावस्वभावशून्यता? नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वात्, संयोगः संयोगेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावस्वभावशून्यता.
तत्र कतमा भावशून्यता? भाव उच्यते पञ्चोपादानस्कन्धाः, स च भावो भावेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते भावशून्यता.
तत्र कतमा अभावशून्यता? अभाव उच्यते असंस्कृतं, तच् चासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावशून्यता.
तत्र कतमा स्वभावशून्यता? स्वभावो हि प्रकृतिर् अविपरीतता तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा ज्ञानेन दर्शनेन च कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते स्वभावशून्यता.
तत्र कतमा परभावशून्यता? या उत्पादाद् वा तथागतानां अनुत्पादाद् वा स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् धर्मनियामता तथता अवितथता अनन्यतथता भूतकोटिस् तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा परेण कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परभावशून्यता.
इदम् उच्यते सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इति ज्ञानसंभारः

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, ( प्स्प्1-2: 64 ) यद् उत शूरङ्गमो नाम समाधिः, रत्नमुद्रो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, सुचन्द्रो नाम समाधिः, चन्द्रध्वजकेतुर् नाम समाधिः, सर्वधर्मोद्गतो नाम समाधिः, अवलोकितमूर्ध्वा नाम समाधिः, धर्मधातुनियतो नाम समाधिः, नियतध्वजकेतुर् नाम समाधिः, वज्रोपमो नाम समाधिः, धर्मप्रवेशमुद्रो नाम समाधिः, समाधिराजसुप्रतिष्ठितो नाम समाधिः, रश्मिप्रमुक्तो नाम समाधिः, बलव्यूहो नाम समाधिः, समुद्गतो नाम समाधिः, निरुक्तिनिर्देशप्रवेशो नाम समाधिः, अधिवचनसंप्रवेशो नाम समाधिः, दिग्विलोकितो नाम समाधिः, आधारणमुद्रो नाम समाधिः, असंप्रमुषितो नाम समाधिः, सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः, आकाशस्फारणो नाम समाधिः, तेजोवती नाम समाधिः, अप्रमाणावभासो नाम समाधिः, असंगानावरणो नाम समाधिः, सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः, रणजहो नाम समाधिः, वैरोचनो नाम समाधिः, अनिमिषो नाम समाधिः, अनिकेतस्थितो नाम समाधिः, निश्चित्तो नाम समाधिः, विमलप्रदीपो नाम समाधिः, अनन्तप्रभो नाम समाधिः, प्रभाकरो नाम समाधिः, समन्तावभासो नाम समाधिः, शुद्धसारो नाम समाधिः, विमलप्रभो नाम समाधिः, रतिकरो नाम समाधिः, विद्युत्प्रदीपो नाम समाधिः, अक्षयो नाम समाधिः, वज्रमण्डलो नाम समाधिः, अक्षयापगतो नाम समाधिः, अनिञ्ज्यो नाम समाधिः, विवृतो नाम समाधिः, सूर्यप्रदीपो नाम समाधिः, चन्द्रविमलो नामसमाधिः, शुद्धप्रभासो नाम समाधिः, आलोककरो नाम समाधिः, काराकारो नाम समाधिः, ज्ञानकेतुर् नाम समाधिः, वज्रोपमो नामसमाधिः, चित्तस्थितिर् नाम समाधिः, समन्तावलोको नाम समाधिः, सुप्रतिष्ठितो नाम समाधिः, रत्नकोटिर् नाम समाधिः, वरधर्ममुद्रो नाम समाधिः, सर्वधर्मसमता नाम समाधिः, रतिजहो नामसमाधिः, सर्वधर्मोद्गतपूर्णो नाम समाधिः, विकिरणो नाम समाधिः, सर्वधर्मपदप्रभेदो नाम समाधिः, समाक्षरो नाम समाधिः, अक्षरापगतो नाम समाधिः, आरम्बणच्छेदो नाम समाधिः, अविकारो नाम समाधिः, अप्रकारो नाम समाधिः, नाम निमित्ताप्रवेशो नाम समाधिः, अनिकेतचारी नाम समाधिः, तिमिरापगतो नाम समाधिः, चारित्रवती नाम समाधिः, अचलो नाम समाधिः, विषयतीर्णो नाम समाधिः, सर्वगुणसंचयोपगतो नाम समाधिः, चित्तस्थितिनिश्चितो नाम ( प्स्प्1-2: 65 ) समाधिः, शुभपुष्पितशुद्धिर् नाम समाधिः, बोध्यङ्गवान् नाम समाधिः, अनन्तप्रतिभासो नाम समाधिः, असमसमो नाम समाधिः, सर्वधर्मातिक्रमणो नाम समाधिः, परिच्छेदकरो नाम समाधिः, विमतिविकिरणो नाम समाधिः, निरधिष्ठानो नाम समाधिः, एकव्यूहो नाम समाधिः, आकाराभिनिर्हारो नाम समाधिः, एकाकारव्यूहो नाम समाधिः, अकारानवकारो नाम समाधिः, निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः, संकेतरुतप्रवेशो नाम समाधिः, गीतनिर्घोषाक्षरविमुक्तो नाम समाधिः, ज्वलनोल्को नाम समाधिः, लक्षणपरिशोधनो नाम समाधिः, अनभिलक्षितो नाम समाधिः, सर्वाकारवरोपेतो नाम समाधिः, सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अक्षयाकारो नाम समाधिः, धारणीप्रतिपत्तिर् नाम समाधिः, सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, सर्वरोधनिरोधप्रशमनो नाम समाधिः, अनुसारप्रतिसारो नाम समाधिः, विमलप्रभो नाम समाधिः, सारवती नाम समाधिः, परिपूर्णचन्द्रविमलो नाम समाधिः, महाव्यूहो नाम समाधिः, सर्वाकारप्रभाकरो नाम समाधिः, समाधिसमता नाम समाधिः, अरणसमवसरणो नाम समाधिः, अरणसरणसर्वसमवसरणो नाम समाधिः, अनिलानिकेतो नाम समाधिः, तथतास्थितिनिश्चितो नाम समाधिः, कायकलिसंप्रमथनो
नाम समाधिः, वाक्कलिविध्वंसनो नाम समाधिः, गगनकल्पो नाम समाधिः, आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवति, अयम् उच्यते शूरङ्गमो नाम समाधिः.
तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता, अयम् उच्यते रत्नमुद्रो नाम समाधिः.
तत्र कतमः सिंहविक्रीडितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति, अयम् उच्यते सिंहविक्रीडितो नाम समाधिः,
तत्र कतमः सुचन्द्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति, अयम् उच्यते सुचन्द्रो नाम समधिः.
तत्र कतमश् चन्द्रध्वजकेतुर् नाम समाधिः? यः सर्वसमाधीनां ध्वजं धारयति, अयम् उच्यते चन्द्रध्वजकेतुर् नामसमाधिः.
तत्र कतमः सर्वधर्मोद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् उद्गच्छति, अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः.
तत्र कतमो ऽवलोकितमूर्ध्ना नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मूर्ध्नानम् अवलोकयति, अयम् उच्यते अवलोकितमूर्ध्ना नाम समाधिः.
तत्र कतमो धर्मधातुनियतो नाम समाधिः? यत्र समाधौ स्थित्वा धर्मधातोर् निश्चयं गच्छति, अयम् उच्यते धर्मधातुनियतो नाम समाधिः.
तत्र कतमो नियतध्वजकेतुर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नियतध्वजं धारयति, अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः.
तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् न भिद्यते, अयम् उच्यते वज्रोपमो नाम समाधिः.
तत्र कतमो धर्मप्रवेशमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रां प्रविशति, अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः.
तत्र कतमः समाधिराजसुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां राजसुप्रतिष्ठानेन प्रतितिष्ठति, अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः.
तत्र कतमो रश्मिप्रमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मीन् अवसृजति, अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः.
तत्र कतमो बलव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलव्यूहं धारयति, अयम् उच्यते बलव्यूहो नाम समाधिः.
तत्र कतमः समुद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा समाधयः समुदागच्छन्ति, अयम् उच्यते समुद्गतो नाम समाधिः.
तत्र कतमो निरुक्तिनिर्देशप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति, अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः.
तत्र कतमो ऽधिवचनसंप्रवेशो नाम समाधिः? यत्र ( प्स्प्1-2: 67 ) समाधौ स्थित्वा सर्वसमाधीनाम् अधिवचननामधेयानि प्रविशति, अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः.

तत्र कतमो दिग्विलोकितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो व्यवलोक्यन्ते, अयम् उच्यते दिग्विलोकितो नाम समाधिः.
तत्र कतम आधारणमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रा आधारयति, अयम् उच्यते आधारणमुद्रो नाम समाधिः.

तत्र कतमो ऽसंप्रमुषितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न प्रमुष्यन्ते, अयम् उच्यते असंप्रमुषितो नाम समाधिः.
तत्र कतमः सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः संग्रहं समवसरणतां गच्छन्ति, अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः.
तत्र कतम आकाशस्फारणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकाशस्फारणतया स्फरति, अयम् उच्यते आकाशस्फारणो नाम समाधिः.
तत्र कतमस् तेजोवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तेजसा च धिया च ज्वलयति, तेनोच्यते तेजोवती नाम समाधिः.
तत्र कतमो ऽप्रमाणावभासो नाम समाधिः? यत्र समाधौ स्थित्वा अप्रमाणम् अवभासते, तेनोच्यते अप्रमाणावभासो नाम समाधिः.
तत्र कतमो ऽसङ्गानावरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसंगरहितताम् उपादाय निरावरणो ऽवभासते, तेनोच्यते असंगानावरणो नाम समाधिः.
तत्र कतमः सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मेषु प्रवृत्तिं समुच्छिनत्ति तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः.
तत्र कतमो रणजहो नाम समाधिः? यत्र समाधौ स्थित्वा ( प्स्प्1-2: 68 ) सर्वसमाधीनां निमित्तान्य् अपि जहाति प्राग् एवान्यानि निमित्तानि क्लेशानां, तेनोच्यते रणजहो नाम समाधिः.
तत्र कतमो वैरोचनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति तपति विरोचते, तेनोच्यते वैरोचनो नाम समाधिः.
तत्र कतमो ऽनिमिषो नाम समाधिः? यत्र समाधौ स्थित्वा न कश्चिद् धर्मम् एषति, तेनोच्यते ऽनिमिषो नाम समाधिः.
तत्र कतमो ऽनिकेतस्थितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु न कञ्चिद् धर्मम् अनिकेतं समनुपश्यति तेनोच्यते ऽनिकेतस्थितो नाम समाधिः.
तत्र कतमो निश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा निहीनांश् चित्तचैतसिकान् धर्मान् न प्रवर्तयति तेनोच्यते निश्चित्तो नाम समाधिः.
तत्र कतमो विमलप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं धारयति तेनोच्यते विमलप्रदीपो नाम समाधिः.
तत्र कतमो ऽनन्तप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा अनन्तां प्रभां करोति तेनोच्यते ऽनन्तप्रभो नाम समाधिः.
तत्र कतमः प्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभां करोति तेनोच्यते प्रभाकरो नाम समाधिः.
तत्र कतमः समन्तावभासो नाम समाधिः? यस्य समाधेः सह प्रतिलम्भेन सर्वसमाधिमुखन्य् अवभासन्ते, तेनोच्यते समन्तावभासो नाम समाधिः.
तत्र कतमः शुद्धसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां शुद्धसमताम् अनुप्राप्नोति, तेनोच्यते शुद्धसारो नामसमाधिः.
तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलम् आकर्षयति सर्वसमाधीन् प्रभावयति, तेनोच्यते विमलप्रभो नाम समाधिः.
तत्र कतमो रतिकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति, तेनोच्यते रतिकरो नाम समाधिः.
तत्र कतमो विद्युत्प्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति, तेनोच्यते विद्युत्प्रदीपो नाम समाधिः.
तत्र कतमो ऽक्षयो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नैवाक्षयं न क्षयं समनुपश्यति, तेनोच्यते ऽक्षयो नाम समाधिः.
तत्र कतमो वज्रमण्डलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमण्डलानि धारयति, अयम् उच्यते वज्रमण्डलो नाम समाधिः.
तत्र कतमो ऽक्षयापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं समनुपश्यति तथा च पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति, तेनोच्यते ऽक्षयापगतो नाम समाधिः.
तत्र कतमो ऽनिञ्ज्यो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दति न प्रपञ्चयति, तेनोच्यते ऽनिञ्ज्यो नाम समाधिः.
तत्र कतमो विवृतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् विवृतान् समनुपश्यति, तेनोच्यते विवृतो नाम समाधिः.
तत्र कतमः सूर्यप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मिमुखम् अवभासयति, तेनोच्यते सूर्यप्रदीपो नाम समाधिः,
तत्र कतमश् चन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अन्धकारं विधमयति, तेनोच्यते चन्द्रविमलो नाम समाधिः.
तत्र कतमः शुद्धप्रभासो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते, तेनोच्यते शुद्धप्रभासो नाम समाधिः.
तत्र कतम आलोककरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति, तेनोच्यते आलोककरो नाम समाधिः.
तत्र कतमः काराकारो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमाधीनां कारगताङ् क्रियाङ् करोति, तेनोच्यते काराकारो नाम समाधिः.
तत्र कतमो ज्ञानकेतुर् नामसमाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां ज्ञानकेतुं समनुपश्यति, तेनोच्यते ज्ञानकेतुर् नाम समाधिः.
तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा ( प्स्प्1-2: 70 ) सर्वधर्मान् निर्विध्यते समाधिम् अपि न समनुपश्यति, तेनोच्यते वज्रोपमो नाम समाधिः.
तत्र कतमश् चित्तस्थितिर् नाम समाधिः? यत्र समाधौ स्थित्वा चित्तं न वर्णयति न विवर्तते न प्रतिभासते न विघातम् आपत्स्यते न चास्यैवं भवति चित्तम् इति, तेनोच्यते चित्तस्थितिर् नाम समाधिः.
तत्र कतमः समन्तालोको नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समन्तालोकं समनुपश्यति, तेनोच्यते समन्तालोको नाम समाधिः.
तत्र कतमः सुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु प्रतिष्ठितो भवति, तेनोच्यते सुप्रतिष्ठितो नाम समाधिः.
तत्र कतमो रत्नकोटिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोतिर् इव संदृश्यन्ते, तेनोच्यते रत्नकोटिर् नाम समाधिः.
तत्र कतमो वरधर्ममुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति, आदिमुद्रामुद्रिताम् उपादाय, तेनोच्यते वरधर्ममुद्रो नाम समाधिः.
तत्र कतमः सर्वधर्मसमता नाम समाधिः? यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति, तेनोच्यते सर्वधर्मसमता नाम समाधिः.
तत्र कतमो रतिजहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिरतिः सर्वधर्मरतीर् जहाति, तेनोच्यते रतिजहो नाम समाधिः.

तत्र कतमः सर्वधर्मोद्गतपूर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मैश् चोद्गच्छति सर्वधर्मैश् चापूर्यते, तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः.

तत्र कतमो विकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरति विधमयति, तेनोच्यते विकिरणो नाम समाधिः.
तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति, तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः.
तत्र कतमः समाक्षरो नाम समाधिः? यत्र समाधौ स्थित्वा ( प्स्प्1-2: 71 ) सर्वसमाधीनां समाक्षरतां प्रतिलभते, तेनोच्यते समाक्षरो नाम समाधिः.
तत्र कतमो ऽक्षरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते, तेनोच्यते ऽक्षरापगतो नाम समाधिः.
तत्र कतम आरम्बणच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बनं च्छिद्यते, तेनोच्यते आरम्बणच्छेदो नाम समाधिः.
तत्र कतमो ऽविकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां विकारं नोपलभते, तेनोच्यते ऽविकारो नाम समाधिः.
तत्र कतमो ऽप्रकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते, तेनोच्यते ऽप्रकारो नाम समाधिः.
तत्र कतमो नामनिमित्ताप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नामनिमित्तानि नोपलभते, तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः.
तत्र कतमो ऽनिकेतचारी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते, तेनोच्यते ऽनिकेतचारी नाम समाधिः.
तत्र कतमः तिमिरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधि तिमिरं विशोधयति, तेनोच्यते तिमिरापगतो नाम समाधिः.
तत्र कतमश् चारित्रवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चारित्रं समनुपश्यति, तेनोच्यते चारित्रवती नाम समाधिः.
तत्र कतमो ऽचलो नाम समाधिः? यत्र समाधौ स्थित्वा सत्त्वानां चलितं न समनुपश्यति, तेनोच्यते ऽचलो नाम समाधिः.
तत्र कतमो विषयतीर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयम् अतिक्रामति, तेनोच्यते विषयतीर्णो नाम समाधिः.
तत्र कतमः सर्वगुणसंचयोपगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वगुणानां सर्वसमाधीनां च संचयताम् अनुप्राप्नोति, तेनोच्यते सर्वगुणसंचयोपगतो नाम समाधिः.
तत्र कतमश् चित्तस्थितिनिश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चित्तं न प्रवर्तते, तेनोच्यते चित्तस्थितिनिश्चित्तो ( प्स्प्1-2: 72 ) नाम समाधिः.
तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु शुभपुष्पितशुद्धिं प्रतिलभते, तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः.
तत्र कतमो बोध्यङ्गवान् नाम समाधिः? यत्र समाधौ स्थित्वा सप्तबोध्यङ्गानि प्रतिलभते, तेनोच्यते बोध्यङ्गवान् नाम समाधिः.
तत्र कतमो ऽनन्तप्रतिभासो नाम समाधिः? यत्र समाधौ स्थित्वा अन्तद्वयं नोपलभते, तेनोच्यते ऽनन्तप्रतिभासो नाम समाधिः.
तत्र कतमो ऽसमसमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समसमतां न प्रतिलभते, तेनोच्यते ऽसमसमो नाम समाधिः.
तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समतिक्रामति, तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः.
तत्र कतमः परिच्छेदकरो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमधीनां सर्वधर्माणां च परिच्छेदं करिष्यति, तेनोच्यते परिच्छेदकरो नाम समाधिः.
तत्र कतमो विमतिविकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिविमतिविकिरणम् अनुप्राप्नोति, तेनोच्यते विमतिविकिरणो नाम समाधिः.
तत्र कतमो निरधिष्ठानो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति, तेनोच्यते निरधिष्ठानो नाम समाधिः.
तत्र कतम एकव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति, तेनोच्यते एकव्यूहो नाम समाधिः.
तत्र कतम आकाराभिनिर्हारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां चाकाराभिनिर्हारं समनुपश्यति, तेनोच्यते आकाराभिनिर्हारो नाम समाधिः.
तत्र कतम एकाकारव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाकारतां समनुपश्यति, तेनोच्यते एकाकारव्यूहो नाम समाधिः.
तत्र कतम आकारानवकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् अद्वयतां समनुपश्यति, तेनोच्यते आकारानवकारो नाम समाधिः.
तत्र कतमो निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमधीनां निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कश्चिन् न प्रतिविध्यते, तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः.
तत्र कतमः संकेतरुतप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां संकेतरुतानि प्रविशति, तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः.
तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति, तेनोच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः.
तत्र कतमो ज्वलनोल्को नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति पतति विरोचते, तेनोच्यते ज्वलनोल्को नाम समाधिः.
तत्रकतमो लक्षणपरिशोधनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वलक्षणानि परिशोधयति, तेनोच्यते लक्षणपरिशोधनो नाम समाधिः.
तत्र कतमो ऽनभिलक्षितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षयति अभिलक्षयति, तेनोच्यते ऽनभिलक्षितो नाम समाधिः.
तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वाकारवरोपेतो भवति, तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः.
तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु सुखदुःखानि न समनुपश्यति, तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः.
तत्र कतमो ऽक्षयाकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति, तेनोच्यते ऽक्षयाकारो नाम समाधिः.
तत्र कतमो धारणीप्रतिपत्तिर् नाम समाधिः? यत्र समाधौ ( प्स्प्1-2: 74 ) स्थित्वा सर्वसमाधीन् आधारयति, तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः.
तत्र कतमः सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः? यत्र समाधौ स्थित्वा समाध्ंआं सम्यक्त्वमिथ्यात्वानि न समनुपश्यति, तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः.
तत्र कतमः सर्वरोधनिरोधप्रशमनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधनिरोधान् न समनुपश्यति, तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः.

तत्र कतमो ऽनुसारप्रतिसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुसारप्रतिसारान् न समनुपश्यति, तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः.

तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभ्यते, तेनोच्यते विमलप्रभो नाम समाधिः.
तत्र कतमः सारवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् असारतां नोपलभ्यते, तेनोच्यते सारवती नाम समाधिः.
तत्र कतमः परिपूर्णचन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः परिपूर्णा भवन्ति, तद्यथापि नम चन्द्रः पूर्णमास्यां, तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः.
तत्र कतमो महाव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति, तेनोच्यते महाव्यूहो नाम समाधिः.
तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति, तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः.
तत्र कतमः समाधिसमता नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां न विक्षेपं नैकाग्रतां च समनुपश्यति, तेनोच्यते समाधिसमता नाम समाधिः.
तत्र कतमो ऽरणसमवसरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न रणन्ति, तेनोच्यते ऽरणसमवसरणो नाम समाधिः.
तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः? यत्र ( प्स्प्1-2: 75 ) समाधौ स्थित्वा सर्वसमाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति, तेनोच्यते ऽरणसरणसर्वसमवसरणो नाम समाधिः.
तत्र कतमो ऽनिलानिकेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं न समनुपश्यति, तेनोच्यते ऽनिलानिकेतो नाम समाधिः.
तत्र कतमस् तथतास्थितनिश्चितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तथतां न व्यतिवर्तते, तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः.
तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते, तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः.
तत्र कतमो वाक्कलिविध्वंसनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते, तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः.
तत्र कतमो गगनकल्पो नाम समाधिः? यत्र समाधौ स्थित्वा गगनवद् अवभासते, तेनोच्यते गगनकल्पो नाम समाधिः.
तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति, तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो महायानम्.
इति पुण्यसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि स्मृत्युपस्थानानि, कतमानि चत्वारि? कायस्मृत्युपस्थानं वेदनास्मृत्युपस्थानं चित्तस्मृत्युपस्थानं धर्मस्मृत्युपस्थानम्.
तत्र कतमत् कायस्मृत्युपस्थानम्? एवं यावत् कतमद् धर्मस्मृत्युपस्थानम्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् ( प्स्प्1-2: 76 ) चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये, एवम् अध्यात्मं वेदनासु चित्ते, अध्यात्मधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, इह सुभूते बोधिसत्त्वो महासत्त्वश् चरंश् चरामीति प्रजानाति, स्थितः स्थितो ऽस्मीति प्रजानाति, निषण्णो निषण्णो ऽस्मीति प्रजानाति, शयानः शयितो ऽस्मीति प्रजानाति, यथा यथास्य कायः स्थितो भवति प्रणीतम् अप्रणीतं वा तथा तथैनं प्रजानाति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति, आलोकिते विलोकिते समिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति, तद्यथापि नाम सुभूते चक्रं भ्रामयन् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन् दीर्घम् आविध्यामीति यथाभूतं प्रजानाति, ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति ( प्स्प्1-2: 77 ) यथाभूतं प्रजानाति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वासामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः, तद्यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा चत्वारि फलकानि कुर्यात्, चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो वा अथ वा निषण्णः, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्का यकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये यथाभूतं प्रत्यवेक्षते, तद्यथापि नाम सुभूते कर्मकारस्य मूतोडिः पूर्णो नानाधान्यानां शालीनां ब्रीहीनां तिलानां तण्डुलानां मुद्गानां माषाणां यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्यि अन्यश् चक्षुष्मान् पुरुषो मुक्त्वा प्रत्यवेक्षमाणः, एवं जानीयाद् अयं शालिः अयं ब्रिही ( प्स्प्1-2: 78 ) अमी तिलाः अमी तण्डुलाः अमी मुद्गाः अमी माषाः अमी यवाः अमि गोधूमाः अमी मसूराः अमी सर्षपा इति, एवम् एव सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकान् नखरोमत्वक्चर्मान्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आमम् अन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम्. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा विपूयकानि वा विखादितकानि वा विक्षिप्तकानि वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान उत्सृष्टानि षड्रात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा सृगालैर् वा वृकैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झितानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि, स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां मांसशोणितम्रक्षितां स्नायुविनिबद्धां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणितस्नायुबन्धनां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहबन्धनविप्रयुक्तां विसंयुक्तां यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिशो विक्षिप्तानि यद् उतान्येन पादास्थीनि अन्येन जंघास्थीनि अन्येन उर्वस्थीनि अन्येन श्रोणीकटाहास्थीनि अन्येन पृष्ठवंशास्थीनि अन्येन पार्श्वकास्थीनि अन्येन ग्रीवास्थीनि अन्येन बाह्वस्थीनि अन्येन शिरःकपालास्थीनि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेकवर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसंनिभानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना समसमीभूतानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. एवं वेदनायां चित्ते, धर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि सम्यक्प्रहाणानि. कतमानि चत्वारि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणां यच् छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, अनुत्पन्नानां कुशलानां धर्माणां उत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां कुशलनां धर्माणां स्थितये भूयोभावाय असंप्रमोषाय अपरिहाणाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वार ऋद्धिपादाः. कतमे चत्वारः? इह सुभूते बोधिसत्त्वो महासत्त्वश् च्छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतम्, एवं वीर्यसमाधिचित्तसमाधिमीमांसासमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि. कतमानि पञ्च? श्रद्धेन्द्रियं वीर्येन्द्रियं ( प्स्प्1-2: 81 ) स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चबलानि. कतमानि पञ्च? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सप्तबोध्यङ्गानि. कतमानि सप्त? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रश्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्. तत्र कतमत् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गम्? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत आर्याष्टाङ्गमार्गः. कतम आर्याष्टाङ्गो मार्गः? यद् उत सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत त्रयः समाधयः. कतमे त्रयः समाधयः? शून्यतानिमित्ताप्रणिहितं, तत्र कतमः शून्यतासमाधिः? स्वलक्षणेन शून्यान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखमयम् उच्यते शून्यतासमाधिः, आनिमित्तान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् आनिमित्तं विमोक्षमुखम् अयम् उच्यते आनिमित्तः समाधिः, अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् अप्रणिहितं विमोक्षमुखम् अयम् उच्यते अप्रणिहितः समाधिः, इमानि त्रीणि विमोक्षमुखानि त्रयः समाधयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ( प्स्प्1-2: 82 ) यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानम् अन्वयज्ञानं संवृतिज्ञानं परिजयज्ञानं यथारुतज्ञानम्. तत्र कतमद् दुःखज्ञानम्? यद् दुःखस्यानुत्पादज्ञानम् इदं दुःखज्ञानम्. तत्र कतमत् समुदयज्ञानम्? यत् समुदयस्य प्रहाणज्ञानम्. तत्र कतमन् निरोधज्ञानम्? यद् दुःखनिरोधज्ञानम्. तत्र कतमन् मार्गज्ञानम्? यन् निरोधसाक्षात्करणज्ञानम्. तत्र कतमत् क्षयज्ञानम्? यद् रागदोषमोहक्षयज्ञानम्. तत्र कतमद् अनुत्पादज्ञानम्? यद् अनुत्पादे अनुत्पादज्ञानम्. तत्र कतमद् धर्मज्ञानम्? यत् पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानम्. तत्र कतमद् अन्वयज्ञानम्? चक्षुर् अनित्यं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं, एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु च ज्ञानम्. तत्र कतमत् संवृतिज्ञानम्? यत् परसत्त्वानां परपुद्गलानां चेतसैव चेतसो ज्ञानम्. तत्र कतमत् परिजयज्ञानम्? यत् प्रतिपत् परिजयज्ञानम्. तत्र कतमद् यथारुतज्ञानम्? यत् तत् तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इदं त्रीणीन्द्रियानि. कतमानि त्रीणि? अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्.
तत् कतमद् अनाज्ञातमाज्ञास्यामीन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अनाज्ञातमाज्ञास्यामीन्द्रियम्.
तत्र कतमद् आज्ञेन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् आज्ञातवतां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदम् उच्यते आज्ञेन्द्रियम्.
तत्र कतमद् आज्ञातावीन्द्रियम्? यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियंप्रज्ञेन्द्रियम्, इदम् उच्यते आज्ञातावीन्द्रियम्. इदम् अपि सुभूते बोधिसत्त्वस्य ( प्स्प्1-2: 83 ) महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः समाधिर् अवितर्को ऽविचारः समाधिः. तत्र कतमः सवितर्कः सविचारः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, अयम् उच्यते सवितर्कः सविचारः समाधिः. तत्र कतमो ऽवितर्को ऽविचारमात्रः समाधिः? यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यानस्यान्तरिको यम् उच्यते ऽवितर्को ऽविचारमात्रः समाधिः. तत्र कतमो ऽवितर्को ऽविचारः समाधिः? यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत दशानुस्मृतयः. कतमा दश? यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिस् त्यागानुस्मृतिर् देवतानुस्मृतिर्, उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायानुस्मृतिर् आनापानानुस्मृतिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयो ऽष्टौ विमोक्षा, नवानुपूर्वविहारस्मापत्तयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, दश तथागतबलानि. कतमानि दश? यद् उत इह बोधिसत्त्वो महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो विपाकञ् च यथाभूतं प्रजानाति, नानाधातुकं लोकम् अनेकधातुकं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्नानतां यथाभूतं प्रजानाति, सर्वत्रगामिनीं ( प्स्प्1-2: 84 ) प्रतिपदं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथाभूतं प्रजानाति, सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति, स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, स आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वा उपसंपद्य विहरति, क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरमिथ्यात्वम् इति यथाभूतं प्रजानाति. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि वैशारद्यानि. कतमानि चत्वारि?
यद् उत सम्यक्संबुद्धस्य बत मे प्रतिजानतः, इमे धर्मा अभिसंबुद्धा इति, अत्र च मे कश्चिच् छ्रमणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो विहरामि आर्षभं स्थानं प्रतिजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्राह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
क्षीणास्रवस्य बत मे प्रतिजानतः, इमे आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेधमाणस्य नालम् अन्तरायायेति नैतत् स्थानं विद्यते, अत्र मे कश्चिच् छ्रमणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति,
या मया प्रतिपद् आह्याता आर्या नैर्याणिकी निर्याति तत् कतरस्य सम्यग् दुःखक्षयाय तां प्रतिपद्यमानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा पेयालं, यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति. इमानि चत्वारि वैशारद्यानि. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चतस्रः प्रतिसंविदः. कतमाश् चतस्रः? धर्मप्रतिसंविद् अर्थप्रतिसंविद् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उताष्टादशावेणिका बुद्धधर्माः. कतमे अष्टादश? यद् उत याञ् च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः, याञ् च रात्रिम् उपादाय परिनिर्वास्यति, एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं, नास्ति रवितं, नास्ति मुषितस्मृतिता, नास्ति नानात्वसंज्ञा, नास्त्य् असमाहितं चित्तं, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दपरिहाणिर्, नास्ति वीर्यपरिहाणिर्, नास्ति स्मृतिपरिहाणिर्, नास्ति समाधिपरिहाणिर्, नास्ति प्रज्ञापरिहाणिर्, नास्ति विमुक्तिपरिहाणिः, सर्वकायकर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च, अनागते ऽध्वन्यप्रतिहतम् असङ्गज्ञानं दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च प्रवर्तते, इमे अष्टादशावेणिका बुद्धधर्माः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
इति मार्गसंभारः

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत धारणीमुखानि, यद् उताक्षरनयसमताक्षरमुखम् अक्षरप्रवेशः, कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः?
अकारो मुखः सर्वधर्माणाम् आद्यनुत्पन्नत्वात्,
रेफो मुखः सर्वधर्माणां रजो ऽपगतत्वात्,
पकारो मुखः सर्वधर्माणां परमार्थनिर्देशात्,
चकारो मुखः सर्वधर्माणां च्यवनोपपत्त्यनुपलब्धित्वात्,
नकारो मुखः सर्वधर्माणां नामापगतत्वात्,
लकारो मुखः सर्वधर्माणां लोकोत्तीर्णत्वात्, तृष्णालताहेतुप्रत्ययसमुद्घातित्वात्,
दकारो मुखः सर्वधर्माणां दान्तदमथपरिच्छिन्नत्वात्,
बकारो मुखः सर्वधर्माणां बन्धनविमुक्तत्वात्,
डकारो मुखः सर्वधर्माणां डमरापगत्वात्,
सकारो मुखः सर्वधर्माणां संगानुपलब्धित्वात्,
वकारो मुखः सर्वधर्माणां वाक्पथघोषसमुच्छिन्नत्वात्,
तकारो मुखः सर्वधर्माणां तथताचलितत्वात्,
यकारो मुखः सर्वधर्माणां यथावदनुत्पादत्वात्,
स्तकारो मुखः सर्वधर्माणां स्तम्भानुपलब्धित्वात्,
ककारो मुखः सर्वधर्माणां कारकानुपलब्धित्वात्,
सकारो मुखः सर्वधर्माणां समतानुपलब्धित्वात्,
मकारो मुखः सर्वधर्माणां ममकारानुपलब्धित्वात्,
गकारो मुखः सर्वधर्माणां गगनानुपलब्धितः,
स्थकारो मुखः सर्वधर्माणां स्थानानुपलब्धितः,
जकारो मुखः सर्वधर्माणां जात्यनुपलब्धितः,
श्वकारो मुखः सर्वधर्माणां श्वासानुपलब्धितः,
धकारो मुखः सर्वधर्माणां धर्मधात्वनुपलब्धितः,
शकारो मुखः सर्वधर्माणां शमथानुपलब्धितः,

खकारो मुखः सर्वधर्माणां खसमतानुपलब्धितः,
क्षकारो मुखः सर्वधर्माणां क्षयानुपलब्धितः,
स्तकारमुखाः सर्वधर्मास् तच् चानुपलब्धितः,
ज्ञकारमुखाः सर्वधर्माः सर्वज्ञानानुपलब्धितः,
हकारमुखाः सर्वधर्माः हेतोर् अनुपलब्धितः,
च्छकारमुखाः सर्वधर्माश् च्छवेर् अप्य् अनुपलब्धितः,
स्मकारमुखाः सर्वधर्माः स्मरणानुपलब्धितः,
ह्वकारमुखाः सर्वधर्मा आह्वानापगतत्वात्,
सकारमुखाः सर्वधर्मा उत्साहानुपलब्धितः,
घकारमुखाः सर्वधर्मा घनानुपलब्धितः,
ठकारमुखाः सर्वधर्मा विठपनानुपलब्धितः,
णकारमुखाः सर्वधर्मा रणविगतत्वात्,
फकारमुखाः सर्वधर्माः फलानुपलभितः,
स्ककारमुखाः सर्वधर्माः स्कन्धानुपलब्धितः,
जकारमुखाः सर्वधर्मा जरानुपलब्धितः,
चकारमुखाः सर्वधर्माश् चरणानुपलब्धितः,
टकारमुखाः सर्वधर्माः ष्टंकारानुपलब्धितः,
ढकारमुखाः सर्वधर्मा ढंकारानुपलब्धितः.
नास्ति अत उत्तरि अक्षरव्यवहारः. तत् कस्य हेतोः? तथा हि न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन लुज्येत येन पश्येत, तद्यथापि नाम सुभूते आकाशम्, एवम् एव सर्वधर्मा अनुगन्तव्याः, अयं सुभूते धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः, यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति, न स क्वचिद् रुते प्रतिहन्यते, सर्वं तं धर्मतया समाधयिष्यति, रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते, यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः.
कतमा विंशतिः? स्मृतिमांश् च भविष्यति, मतिमांश् च भविष्यति, गतिमांश् च भविष्यति, धृतिमांश् च भविष्यति, ह्रीमांश् च प्रज्ञावांश् च प्रतिभानवांश् च, इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यतेन च कथंकथी भविष्यति, विमतिश् चास्य न भविष्यति, न च श्लक्ष्णां वाचं श्रुत्वा परेष्व् अनुनीतो भविष्यति, न च परुषया वाचा प्रतिहन्यते, न चोन्नतो भविष्यति, नावनतः यथास्थित एव भविष्यति, रुतकुशलश् च भविष्यति, स्कन्धकुशलश् च भविष्यति, धातुकुशलश् च भविष्यति, आयतनकुशलश् च भविष्यति, सत्यकुशलश् च भविष्यति, प्रतीत्यसमुत्पादकुशलश् च भविष्यति, हेतुकुशलश् च भविष्यति, प्रत्ययकुशलश् च भविष्यति, धर्मकुशलश् च भविष्यति, इन्द्रियपरिपूर्णज्ञानकुशलश् च भविष्यति, परचित्तज्ञानकुशलश् च भविष्यति, ऋद्धिविधिज्ञानकुशलश् च भविष्यति, दिव्यश्रोत्रज्ञानकुशलश् च भविष्यति, पूर्वनिवासानुस्मृतिज्ञानकुशलश् च भविष्यति, च्युतोपपत्तिज्ञानकुशलश् च भविष्यति, आस्रवक्षयज्ञानकुशलश् च भविष्यति, स्थानास्थननिर्देशकुशलश् च भविष्यति, अतिक्रमणकुशलश् च भविष्यति, ईर्यापथकुशलश् च भविष्यति, इमान् अनुशंसान् प्रतिलप्स्यत इति. इदम् अपि सुभूते धारणीमुखम् अक्षरमुखम् अकारमुखं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इति धारणीसंभारः
यद् अपि तत् सुभूतिर् एवम् आह, कथं बोधिसत्त्वो महासत्त्वो ( प्स्प्1-2: 88 ) महायानसंप्रस्थितो भवतीति, इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो भूमेर् भूमिं संक्रामति यद् उतासंक्रान्त्या सर्वधर्माणाम्. तत् कस्य हेतोः? न हि स कश्चिद् धर्मो य आगच्छति वा गच्छति वा संक्रामति वा उपसंक्रामति वा, अपि तु या धर्माणां भूमिस् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति.
कतमच् च बोधिसत्त्वस्य महासत्त्वस्य भूमिपरिकर्म? प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि. कतमानि दश?
अध्याशयप्ररिकर्म अनुपलम्भयोगेन,
हितवस्तुतापरिकर्म निमित्ततानुपलम्भताम् उपादाय,
सर्वसत्त्वसमचित्ततापरिकर्म सत्त्वानुपलब्धिताम् उपादाय,
त्यागपरिकर्म दायकदेयपरिग्राहकानुपलब्धिताम् उपादाय,
कल्याणमित्रसेवापरिकर्म तैर् असंतापनताम् उपादाय,
सद्धर्मपर्येष्टिपरिकर्म सर्वधर्मानुपलब्धिताम् उपादाय,
अभीक्ष्णं नैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय,
बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धितामुपादाय,
धर्मविवरणपरिकर्म धर्मभेदानुपलब्धिताम् उपादाय,
सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय,
इमानि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दश परिकर्माणि करणीयानि.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसिकरोति तेषु च प्रतिपद्यते. कतमान् अष्टौ? यद् उत शीलविशुद्धिं, कृतज्ञतां कृतवेदितां, क्षान्तिबलप्रतिष्ठानं, प्रामोद्यप्रत्यनुभवतां, सर्वसत्त्वापरित्यागतया महाकरुणाया आमुखीकर्म, गुरूणां श्रद्धया गौरवं, शास्तृसंज्ञायागुरुशुश्रूषां, पारमितास् तद् योगपर्येष्टिम्, इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्यम्. कतमेषु पञ्चसु? यद् उत बहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरानभिनिवेशे, निरामिषधर्मदानविवरणतायां तया चामन्यनतया, बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामनतायां तया चामन्यनतया, अमितसंसारापरिखेदनतायां तया चामन्यनतया, ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया, एषु सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु स्थातव्यं, ते च न परित्यक्तव्याः. कतमेषु दशसु? यद् उत अरण्यवासो, ऽल्पेच्छता, संतुष्टिर्, धूतगुणसंलेखानुत्सर्जनं, शिक्षाया अपरित्यागः, कामगुणविजुगुप्सनं, निर्वित्सहगतश् चित्तोत्पदः, सर्वास्तिपरित्यागता, अनवलीनचित्तता, सर्ववस्तुनिरपेक्षता, इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन न परित्यक्तव्या एषु च स्थातव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्माः परिवर्जयितव्याः. कतमे दश? यद् उत गृहिप्रव्रजितसंस्तवः परिवर्जयितव्यः, कुलमात्सर्यं परिवर्जयितव्यः, संगणिकास्थानं परिवर्जयितव्यं, आत्मोत्कर्षणं परिवर्जयितव्यं, परपंसनं परिवर्जयितव्यं, दशाकुशलाः कर्मपथाः परिवर्जयितव्याः, अधिमानस्तम्भौ परिवर्जयितव्यौ, विपर्यासाः परिवर्जयितव्याः, विचिकित्सा परिवर्जयितव्या, रागद्वेषमोहाधिवासनाः परिवर्जयितव्याः. इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः. कतमे षट्? यद् उत षट् पारमिताः परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः. कतमे षट्? श्रावकचित्तं परिवर्जयितव्यं, प्रत्येकबुद्धचित्तं परिवर्जयितव्यं, परितसनाचित्तं परिवर्जयितव्यं, याचनकं दृष्ट्वा नावलीयते, सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्यचित्तम् उत्पादयितव्यं, न च याचनकविक्षेपः कर्तव्यः. इमे सुभूते षड् धर्मा बोधिसत्त्वेन ( प्स्प्1-2: 90 ) महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिधर्मा न भवन्ति. कतमे विंशतिः? यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहो निमित्तसंज्ञा हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः, आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातुकाध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्मनिश्रयदृष्ट्यभिनिवेशः संघनिश्रयदृष्ट्यभिनिवेशः शीलनिश्रयदृष्ट्यभिनिवेशः शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति, इमे सुभूते विंशतिधर्मा बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति.

तेन विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः. कतमे विंशतिः? यद् उत शून्यतापरिपूरिता, आनिमित्तसाक्षात्क्रिया, अप्रणिहितज्ञानं, त्रिमण्डलपरिशुद्धिः, कृपाकारुण्यं च सर्वसत्त्वेषु तेष्व् अनवमन्यना, सर्वधर्मसमतादर्शनं तत्र चानभिनिवेशः, भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनयनिर्देशः सर्वधर्माणां कल्पनासमुद्घातः संज्ञादृष्टिविवर्तः क्लेशविवर्तः शमथनिध्यप्तिर् विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता अनुनयस्याभूमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभावसंदर्शनम्. इमे विंशतिधर्मा बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परिपूरयितव्याः.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत सर्वसत्त्वचित्तानुप्रवेशो ऽभिज्ञाविक्रीडनं बुद्धक्षेत्रदर्शनन् तेषां च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्धकाययथाभूतप्रत्यवेक्षणतया. इमे सुभूते चत्वारो धर्मा बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन परिपूरयितव्याः.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत इन्द्रियपरापरज्ञानं, बुद्धक्षेत्रपरिशोधनं, मायोपमस्य ( प्स्प्1-2: 91 ) समाधेर् अभीक्ष्णं समापत्तिर्, यथायथा च सत्त्वानां कुशलमूलनिष्पत्तिस् तथातथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनतया. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः. कतमे द्वादश? यद् उत अनन्तप्रणिधानपरिग्रहः, स यथायथा प्रणिदधाति तथातथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगरुतज्ञानं प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसंपत् कुशलसंपद् जातिसंपद् गोत्रसंपत् परिवारसंपद् जन्मसंपन् नैष्क्रम्यसंपद् बोधिवृक्षसंपत् सर्वगुणपरिपूरणसंपत्. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः.
दशम्यां पुनः सुभूते बोधिसत्त्वभूमौ वर्तमानो बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यः.
सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म?
भगवान् आह: या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म? यद् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर् अप्रमाणाभिनिर्हरणा मैत्रीकरुणामुदितोपेक्षाणाम्, इदम् उच्यते सर्वसत्त्वसमचित्ततापरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म? यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति, इदम् उच्यते त्यागपरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म? ( प्स्प्1-2: 92 ) यानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि सर्वाकारज्ञतायां समादापयन्ति, तेषां मित्राणां सेवना भजना पर्युपासना शुश्रूषा, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तेन मनसिकारेण धर्मंपर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म? यत् सर्वजातिष्व् अव्यवकीर्णो ऽभिनिष्क्रामति तथागतशासने प्रव्रजितस्य न चास्य कश्चिद् अन्तरायो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म? यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध मनसिकारेण विरहितो भवति, यावत् सर्वाकारज्ञतानुप्राप्तो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म? यद् बोधिसत्त्वो महासत्त्वः संमुखीभूतस्य तथागतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति, यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं निदानम् अवदानं गाथा वैपुल्याद्भुतधर्मोपदेशाः, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म? यद् उत यथा वादि तथा कारिता, इदं बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म.
इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि.
तत्र सुभूते कतमानि बोधिसत्त्वस्य महासत्त्वस्य द्वितीयायां भूमौ वर्तमानस्याष्टौ परिकर्माणि? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् ( प्स्प्1-2: 93 ) अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थनकरा धर्मास् तेषाम् अमनसिकारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् अल्पम् अपि कृतम् आ संसारान् न नाशयति प्राग् एव बहु, इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्? यत् सर्वसत्त्वानाम् अन्तिके ऽव्यापादाविहिंसाचित्तता, इदं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता? यत् सर्वसत्त्वपरिपाचनता, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरत एवं भवति, एकैकस्य सत्त्वस्यार्थायाहङ् गङ्गानदीवालुकोपमान् कल्पान् निरये पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति, एवम् एकैकस्य कृतशः सत्त्वस्य य उत्साहो यो ऽपरिखेदो यम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः,
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्? यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्दधानता? यद् गुरूणाम् अन्तिके शास्तृसंज्ञा, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रुषाश्रद्दधानता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः? या अनन्यकर्मतया पारमितापर्येषणता, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता? यत् किंचिद् बुद्धैर् भगवद्भिर् भाषितम् इह वा लोकधातौ समन्ताद् वा दश दिशि लोके तत् सर्वम् आराधयिष्यामीति या अतृप्तता, इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता? यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयति, स तेन ( प्स्प्1-2: 94 ) धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकाङ्क्षति, इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना? यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयनात्मपरिचित्तं परिशोधयति तेषां कुशलमूलानां या परिणामना, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता? या कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः, सत्त्वानांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च परिपूरयति, इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्? या सर्वश्रावकप्रत्येकबुद्धचित्तजुगुप्सनता, इदं बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता? या सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता, इयं बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता? यद् बोधिसत्त्वो महसत्त्वो बोधिम् अपि नेच्छति, इयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः? यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता? या गम्भीरेषु धर्मेषु निध्यप्तिक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता? यः सर्वशिक्षाणाम् अप्रचारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता? यः कामचित्तस्यानुत्पादः, इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः? यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता? या अध्यात्मिकबाह्यानां धर्माणाम् अग्रहणता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता? या यद् विज्ञानस्थितिष्व् अस्य चित्तं नावलीयते, इयं बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता? या सर्ववस्तूनाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता? या बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमणता उपपादुकता प्रतिलाभमुण्डकाषायप्रावरणता, इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता? यद् भिक्षुणा भिक्षुण्या वा सह अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्? इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं, यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं त एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्, इदं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम्? यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता कथा स्यात् तत् प्रतिसंयुक्तं वा चित्तोत्पादम् उत्पादयेन् न तत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, इयं बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानपरिवर्जनता.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या? या आध्यात्मिकानां धर्माणाम् असमनुपश्यना इयं ( प्स्प्1-2: 96 ) बोधिसत्त्वस्य महासत्त्वस्य आत्मोत्कर्षणपरिवर्जनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता? यद् उत बाह्यानां धर्माणाम् असमनुपश्यना, इयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः? तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः? तथा हि स न कञ्चिद् धर्मं समनुपश्यति, कुतः पुनर् अधिकं येनाधिमंस्यते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः.
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः? तथा हि तद् वस्तु न समनुपश्यति यत्र स्तम्भम् उत्पादयेद् एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भो नोत्पादयितव्यः.
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः? सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः.
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या? तथा हि संदेहापगतात् सर्वधर्मान् समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या.
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या? तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहाः परिवर्जयितव्याः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिपूरयितव्याः? यद् उत षट् पारमिता दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इमाः षट् पारमिताः परिपूरयितव्याः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिवर्जयितव्याः? यद् उत श्रावकचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा ( प्स्प्1-2: 97 ) हि नैष मार्गो बोधये, प्रत्येकबुद्धचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, परितसनाचित्तं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकं दृष्ट्वा नावलीनचित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, सर्वस्वम् अपि परित्यज्य न दुर्मनस्को भवति. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकविक्षेपो न कर्तव्यः. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया आत्मा न संविद्यते एवं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः, एवं सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् एते अत्यन्ततया न संविद्यन्ते, एवं सत्त्वजीवपुद्गलग्राहो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन उच्छेदग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न कश्चिद् धर्म उच्छिद्यते, अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदेः, एवम् उच्छेदग्राहो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शास्वतग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि यो धर्मो नोत्पद्यते स न शाश्वती भवति, एवं शाश्वतग्राहो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा नोत्पादयितव्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते, एवं निमित्तसंज्ञा नोत्पादयितव्या.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या. तत् कस्य हेतोः? तथा हि स तां दृष्टिं न समनुपश्यति, एवं हेतुदृष्टिर् न कर्तव्या, एवं स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि ते धर्माः स्वभावेन न संविद्यन्ते, एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वन त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि त्रैधातुकस्वभावो न संविद्यते, एवं त्रैधातुके ऽभिनिवेशो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके ऽध्यवसानं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि तद् वस्तु नोपलभ्यते, एवं त्रैधातुके ऽध्यवसानं न कर्तव्यम्.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके आलयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि निःस्वभावत्वाद् एवं त्रैधातुके आलयो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धधर्मसंघनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न बुद्धधर्मसंघदृष्टिनिश्रयाद् बुद्धधर्मसंघदर्शनं, एवं बुद्धधर्मसंघदृष्टिनिश्रयो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलदृष्टिनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं शीलदृष्टिनिश्रयो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विवादो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः स्वभावेन शून्या न शून्यतया, एवं शून्यतायां विवादो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः शून्या न शून्यता शून्यतां विरोधयति, एवं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या? स्वलक्षणशून्यताम् उपादाय, परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिर्, एवं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य आनिमित्तसाक्षात्क्रिया? यद् उत सर्वनिमित्तानाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्? यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः? यद् उत दश कुशलकर्मपथपरिशुद्धिर् एवं बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या? यो महाकरुणायाः प्रतिलाभः, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः करणीया.
तत्र कथं बोधिसत्त्वेन मःआसत्त्वेन सर्वसत्त्वा नावमन्तव्याः? यद् उत मैत्रीपरिपूर्या, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वा नावमन्तव्याः.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनं यद् उतानुत्क्षेपो ऽप्रक्षेपः सर्वधर्माणाम् इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम्.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः? यः सर्वधर्माणाम् अप्रतिवेधः, अयं बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः? या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय क्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्? यन् नामरूपानुत्पादज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानं.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः? या अद्वयसमुदाचारता अयं बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः? या सर्वधर्माणां कल्पना अयं बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः? या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता अयं बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः? यः सर्ववासनानुसंधिक्लेशोत्सर्गः, अयं बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः,

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः? यत् सर्वाकारज्ञताज्ञानम् इयं बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः,
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता? या त्रैधातुके ऽनभिरतिः, इयं बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्? यो ( प्स्प्1-2: 100 ) बुद्धचक्षुःप्रतिलम्भः, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता? या षड् आयतनिका उपेक्षा, इयं बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्? यद् एकबुद्धक्षेत्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते, न चास्य बुद्धक्षेत्रे संज्ञोत्पद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्? यद् यथापर्षन् मण्डले आत्मभावदर्शनम्, इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः? यद् एकचित्तेन सर्वसत्त्वचित्तचरितज्ञानम्, अयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना? याभिर् अभिज्ञाभिर् विक्रीडमानो बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति, इयं बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता? या त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिमूर्तिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता, इयं बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता? या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता? या धर्मकाययथाभूतप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता,
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता? या दशसु बलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता, इयं बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता? ( प्स्प्1-2: 101 ) या सर्वसत्त्वचित्तपरिशोधनता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः? यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो भवति, अयं बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः? या बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिर्, इयं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः? यद् बोधिसत्त्वो महासत्त्वो यथायथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथातथा संचिन्तयात्मभावं परिगृह्णाति, अयं बोधिसत्त्वस्य महासत्त्वस्यात्मभावपरिग्रहः.
तत्र कथं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्? यद् बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिधिं प्रणिदधाति तथातथा समृध्यते, इदं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्.
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्? यद् बोधिसत्त्वो महासत्त्वो निरुक्तिप्रतिसंविदा देवादीनां रुतं प्रतिसंविध्यति, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्.
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्? यद् बोधिसत्त्वो महासत्त्वः प्रतिभानप्रतिसंविदा परिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति, इदं बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत्? इह बोधिसत्त्वो महासत्त्वः सर्वासु जातिषु औपपादुक उपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रन्तिसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वकुलेषु प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्? यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु वा प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्? यद् बोधिसत्त्वो ( प्स्प्1-2: 102 ) महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्व अभूवंस् तत्र गोत्रे प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्? यज् जातमात्र एव बोधिसत्त्वो महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति, तांश् च सर्वान् षड् विकारं कम्पयति, इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्? यद् बोधिसत्त्वो महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभिनिष्क्रामति गृहात्, इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैडूर्यमयो भवति, सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पाङ् गन्धो ऽवभासश् चानन्तान् लोकधातून् अवभासेन स्फुरति, इयं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्? या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरिशुद्धिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्.
तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितः संस्तथागत एवेति वक्तव्यः? यदा बोधिसत्त्वस्य महासत्त्वस्य दशपारमिताः परिपूर्णा भवन्ति, यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्णा भवन्ति, सर्वाकारज्ञताज्ञानं च सर्ववासनानुसंधिक्लेशप्रहाणं भवति, महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परं तथागत एवेति वक्तव्यः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः? यद् बोधिसत्त्वो महासत्त्व उपायकौशल्येन सर्वासु पारमितासु चरन् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्यसमापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु ( प्स्प्1-2: 103 ) चरन् गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनूभूमिं वीतरागभूमिं कृतावीभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिं बोधिसत्त्वभूमिं बोधिसत्त्वो महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अतिक्रम्य बुद्धभूमौ प्रतिष्ठते, इयं बोधिसत्त्वस्य महासत्त्वस्य दशमी भूमिः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो भवति.
इति भूमिसंभारः
यत् पुनः सुभूतिर् एवम् आह, कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् निर्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन. तत् कस्य हेतोः? तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. तत् कस्य हेतोः? न हि सुभूते ऽलक्षणौ धर्मौ निर्यातौ वा निर्यातो वा निर्यास्यतो वा धर्मधातोः स सुभूते निर्याणम् इच्छेत्, तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद्, एवं भूतकोटेर् अचिन्त्यधातोर् आकाशधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्यस निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्.
रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न वेदनाशून्यता न संज्ञाशून्यता न संस्कारशून्यता न विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः?
तथा हि सुभूते रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यं,
चक्षुःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं श्रोत्रशून्यताया घ्राणशून्यताया जिह्वाशून्यतायाः कायशून्यताया मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद्यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं रूपशून्यतायाः शब्दशून्यताया गन्धशून्यताया रसशून्यतायाः स्पर्शशून्यताया धर्मशून्यतायाः,
चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाश्
चक्षुःसंस्पर्शशून्यताया श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाश्
चक्षुःसंस्पर्शजवेदयितशून्यतायाः श्रोत्रसंस्पर्शजवेदयितशून्यताया घ्राणसंस्पर्शजवेदयितशून्यताया जिह्वासंस्पर्शजवेदयितशून्यतायाः कायसंस्पर्शजवेदयितशून्यताया मनःसंस्पर्शजवेदयितशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति,

न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्पर्शशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
न हि सुभूते चक्षुःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति, न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शजवेदयितशून्यता न घ्राणसंस्पर्शजवेदयितशून्यता न जिह्वासंस्पर्शजवेदयितशून्यता न कायसंस्पर्शजवेदयितशून्यता न ( प्स्प्1-2: 105 ) मनःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं, एवं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यो धर्मा धर्मैः शून्याः,
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं,
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः,
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या, श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या, घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या, जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या, कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या, मनःसंस्पर्शजा वेदना मनःसंस्पर्शजया वेदनया शून्या.
स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, विस्तरेण कर्तव्यम्, एवं मरीच्या मायायाः प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्य स्वभवस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न मरीच्याः स्वभावो न मायायाः स्वभावो न प्रतिश्रुत्कायाः स्वभावो न प्रतिभासस्य स्वभावो न प्रतिबिम्बस्य स्वभावो न गन्धर्वनगरस्य स्वभावो न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यो, मरीचिस्वभावो मरीचिस्वभावेन शून्यः, मायास्वभावो मायास्वभावेन शून्यः, प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः, प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः, ( प्स्प्1-2: 106 ) प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः, गन्धर्वनगरस्वभावः गन्धर्वनगरस्वभावेन शून्यः, तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः.
इति दर्शनमार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो दानपारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः तथा हि यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दानपारमितास्वभावो दानपारमितास्वभावेन शून्यः, शीलपारमितास्वभावः शीलपारमितास्वभावेन शून्यः, क्षान्तिपारमितास्वभावः क्षान्तिपारमितास्वभावेन शून्यः, वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः, ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः, प्रज्ञापारमितास्वभावः प्रज्ञापारमितास्वभावेन शून्यः.
अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं यावद् अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि यो ऽध्यात्मशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तथा हि यो बहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तथा हि यो ऽध्यात्मबहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं यावद् यो ऽभावस्वभावशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतयाशून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता ( प्स्प्1-2: 107 ) यावद् अभावस्वभावशून्यतया शून्या.
स्मृत्युपस्थानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि.
सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि.

ऋद्धिपादानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य ऋद्धिपादानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते ऋद्धिपादा ऋद्धिपादैः शून्याः.
इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते इन्द्रियाणि इन्द्रियैः शून्यानि,
बलानां स सुअभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बलानि बलैः शून्यानि.
बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तत् कस्य हेतोः? तथा हि सुभूते बोध्यङ्गानि बोध्यङ्गैः शून्यानि.
मार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते मार्गो मार्गेण शून्यः.
एवम् अप्रमाणध्यानारूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् ( प्स्प्1-2: 108 ) यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिस्वभावेन शून्यः.
दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतबलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दशतथागतबलानि दशतथागतबलैः शून्यानि.
चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चत्वारि वैशारद्यानि चतुर्भिर् वैशारद्यैः शून्यानि.
चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चतस्रः प्रतिसंविदश् चतसृभिः प्रतिसंविद्भिः शून्याः.
अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽष्टादशावेणिकबुद्धधर्मस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः.
इति दर्शनमार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः
अर्हतः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अर्हत्स्वभावो ऽर्हतः स्वभावेन शून्यः.
प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः प्रत्येकबुद्धस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां ( प्स्प्1-2: 109 ) स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः.
बोधिसत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः.
तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते तथागतस्वभावस् तथागतस्वभावेन शून्यः.
स्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः.
एवं सकृदागामिफलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येकबुद्धत्वस्य यः स्वभावो मार्गज्ञतायायः स्वभावः सर्वाकारज्ञताया यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञतास्वभावेन शून्यः.
इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः
नाम्नः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं निमित्तस्य संकेतस्य व्यवहारस्य प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो नाम्नः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः. एवं संकेतस्ययः स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? ( प्स्प्1-2: 110 ) तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः.
अनुत्पादस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः.

एवम् अनिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनभिसंस्कारस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः.
एवं हि सुभूते न महायानं त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, अचलितं तद् यानम्.
इति दर्शनमार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः
यत् पुनः सुभूतिर् एवम् आह, क्व तद् यानं स्थास्यतीति, न तद् यानं क्वचित् स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अस्थिताः सर्वधर्माः, अपि तु सुभूते अस्थानं न स्थानयोगेन तद् यानं स्थास्यति, तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः, एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं, तद्यथापि नाम सुभूते ऽनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न स्थितो नास्थितः, एवम् एव सुभूते तन् महायनं न स्थितं नास्थितं, तथा हि सुभूते धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि सुभूते धर्मधातुस्वभावः स्थितो वा अस्थितो व. तत् कस्य हेतोः? तथा हि सुभूते धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अभिसंस्कारो ऽनभिसंस्कारेण शून्यः. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वा अस्थितो वा. तत् कस्य हेतोः? तथा हि सुभूते अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः, एवं हि सुभूते तद् यानं न क्वचित् स्थास्यति, अस्थितम् अस्थानयोगेन अचाल्ययोगेन.
इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
यत् पुनः सुभूतिर् एवम् आह, कस् तेन यानेन निर्यास्यतीति, न कश्चित् तेन यानेन निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते यच् च तद् यानं येन च निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते ( प्स्प्1-2: 111 ) धर्मा न संविद्यन्ते, एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय, एवं यावत् पश्यकस्यात्यन्तविशुद्धिताम् उपादाय, धर्मधातुर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्कन्धधात्वायतनानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, प्रतीत्यसमुत्पादो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, दानपारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं दश तथागतबलानि नोपलभ्यन्ते चत्वारि वैशारद्यानि नोपलभ्यन्ते चतस्रः प्रतिसंविदो नोपलभ्यन्ते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, सकृदागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अनागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपत्तिफलन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागामिफलन् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय, अनागामिफलन् नोपलभ्यते, अर्हत्त्वन् नोपलभ्यते, प्रत्येकबोधिर् नोपलभ्यते, तथागतत्वन् नोपलभ्यते, सर्वाकारज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रमुदिताभूमिर् नोपलभ्यतेअत्यन्तविशुद्धिताम् उपादाय, एवं विमला प्रभाकरी अर्चिष्मती ( प्स्प्1-2: 112 ) सुदुर्जया अभिमुखी दूरङ्गमा अचला साधुमती धर्ममेघा भूमिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, पूर्वान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अपरान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्युत्पन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अगतिर् नोपलभ्यते गतिर् नोपलभ्यते स्थितिर् नोपलभ्यते च्युतिर् नोपलभ्यते उपपत्तिर् नोपलभ्यते हानिर् नोपलभ्यते वृद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
कस्यानुपलब्ध्या नोपलभ्यते? धर्मधातोर् अनुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते, अनुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते अभिसंस्कारः, स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि, प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः, दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता, अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यातमसून्यता, बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते, अध्यात्मबहिर्धाशून्यता, एवं यावद् अभावस्वभावशून्यतानुपलब्ध्या अभावस्वभावशून्यता नोपलभ्यते, स्मृत्युपस्थानानुपलब्ध्या स्मृत्युपस्थानानि नोपलभ्यन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुपलब्ध्यासम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते, एवं दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मानुपलब्ध्या अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते.

इति भावनामार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः
स्रोतआपन्नः स्रोतआपन्नानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते स्रोतआपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागाम्य् अनागाम्य् अर्हन्न् अर्हदनुपलब्ध्या नोपलभ्यते, प्रत्येकबुद्धः प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते, यावत् तथागतस् तथागतानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
इति भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः
स्रोतआपत्तिफलं स्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते, एवं सकृदागामिफलम् आनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानुपलब्ध्या नोपलभ्यते. एवं प्रमुदिता भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, विमलाभूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, प्रभाकली भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अर्चिष्मती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, सुदुर्जया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अभिमुखी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, दूरङ्गमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अचला भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, साधुमती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, धर्ममेघा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
पुनर् अपरं सुभूते दश भूमयो भूम्यनुपलब्ध्या नोपलभ्यन्ते. कतमा दश? शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिः वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः.
अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते, बहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् दशमी भूमिर् अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते, बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया दशमी भूमिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते, बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, एवं यावद् अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति.
इति भावनामार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः
इत्य् उक्ता संभारप्रतिपत्तिः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महायानं महायानम् इतीदं भगवन्न् उच्यते, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति, आकाशसमं तद् यानं, तद्यथापि नाम भगवन्न् आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. एवं हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं, तद्यथापि नाम भगवन् आकाशस्य नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते, एवम् एवास्य भगवन् महायानस्य नैवागम उपलभ्यते न निर्गमो न स्थानम् उपलभ्यते, तद्यथापि नाम भगवन्न् आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्यवसमताम् उपादाय. एवम् एव भगवन्न् अस्य महायानस्य न पूर्वान्तो नापरान्तो न मध्य उपलभ्यते, अध्वसमताम् उपादाय, एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते.
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इमाः षट् पारमिता, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि शूरङ्गमः समाधिर् विस्तरेण कार्यः, यावद् असङ्गाकाशविमुक्तिनिरुपलेपः समाधिः, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता, यावद् अभावस्वभावशून्यता, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य ( प्स्प्1-2: 115 ) महायानम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
यत् पुनः सुभूतिर् एवम् आह, सदेवमानुषासुरं लोकम् अभिभूय तद् यानं निर्यास्यतीति, कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू रूपधातुर् आरूप्यधातुः
सचेत् सुभूते कामधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,
सचेत् सुभूते रूपधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,

सचेत् सुभूते आरूप्यधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते रूपं तथताभविष्यद् अवितथता अनन्यतथता ( प्स्प्1-2: 116 ) अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं वेदना संज्ञा संस्काराः,
सचेत् सुभूते विज्ञानं तथताभविश्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते चक्षुस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुअरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रं घ्राणं जिह्वा कायः,
सचेत् सुभूते मनस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते रूपं तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय ( प्स्प्1-2: 117 ) निर्यास्यति, एवं शब्दगन्धरसस्पर्शाः,
सचेत् सुभूते धर्मस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते चक्षुर्विज्ञानं तथता सदेवमानुषासुरं भविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं,
सचेत् सुभूते मनोविज्ञानं तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते चक्षुःसंस्पर्शस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः संदर्शितो अनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः,
सचेत् सुभूते मनःसंस्पर्शस् तथता अभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो ( प्स्प्1-2: 118 ) ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना,
सचेत् सुभूते मनःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मिणी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं तथता भूतकोटिः.
सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्नास्यति.
सचेत् सुभूते दानपारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं शीलपारमिता क्षान्तिपारमिता ( प्स्प्1-2: 119 ) वीर्यपारमिता ध्यानपारमिता,
सचेत् सुभूते प्रज्ञापारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते बहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
एवं यावत् सचेत् सुभूते अभावस्वभावशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अभावस्वभावशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चत्वारि स्मृत्युपस्थानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
एवं चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि.
सचेत् सुभूते आर्याष्टाङ्गमार्गो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आर्याष्टाङ्गो मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय ( प्स्प्1-2: 120 ) निरयास्यत्, यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
एवं दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः.
सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
इत्य् अग्रतानिर्याणम्
सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
एवं स्रोतआपन्न्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः.
सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते गोत्रभूमिर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते
गोत्रभूमिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः.
सचेत् सुभूते बुद्धो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
इति प्रहाणनिर्याणम्
सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नैव बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्, यस्मात् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति, एवं महायानं सदेवनानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्, यस्मात् सुभूते द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो नभावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभिभवन्ति.
सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो भावो ऽभविष्यन् नाभावो नैव तथगतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेनास्फारिष्यत्, यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फारति.
सचेत् सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नैव तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् ( प्स्प्1-2: 122 ) लोकधातून् स्वरेणाभिव्यज्ञापयिष्यत्, यस्मात् तर्हि सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अप्रमेयसंख्येयान् लोकधातून् स्वरेणाभिविज्ञपयति.
सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं भावो ऽभविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्, अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण, यस्मात् तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् अभावो न भावस् तस्मात् तथगतेन त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तितम् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण.
सचेत् सुभूते सत्त्वा भावो ऽभविष्यन् नाभावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन् यस्मात् तर्हि सुभूते सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति.
इत्य् अधिगमनिर्याणम्
इति त्रिविधम् उद्देशनिर्याणम्

यत् पुनः सुभूतिर् एवम् आह, आकाशसमं तद् यानम् इति, एवम् एतत् सुभूते एवम् एतत्, आकाशसमं तद् यानं, यथाकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, एवम् एव सुभूते तस्य यानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते,
तद्यथापि नाम सुभूते आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फाटिकरजतवर्णम्, एवम् एव सुभूते तन् महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न माञ्जिष्ठं न स्फाटिकरजतवर्णं, तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नं, एवम् एव सुभूते तन् महायानं नातीतं नानागतं न ( प्स्प्1-2: 123 ) प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिः, एवम् एव सुभूते तस्य महायानस्य न हानिर् न वृद्धिस् तेनोच्यते, आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानं, एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते, आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं, एवम् एव सुभूते तस्य महायानस्यनोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं, एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातं, एवम् एव सुभूते तन् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं, एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्मि, एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्मि तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं, एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः, एवम् एव सुभूते तत्र महायाने न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो ( प्स्प्1-2: 124 ) न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिः, एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं, एवम् एव सुभूते तत्र महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं तेनोच्यते आकाशसमं तद् यानम् इति,

तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः, एवम् एव सुभूते तत्र महायानेन श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तं, एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तंन विसंयुक्तं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं, एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं, एवम् एव सुभूते तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न विविक्तं नाविविक्तं नालोको नान्धकारः, एवम् एव सुभूते तन् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न लभ्यते नोपलभ्यते, एवम् एव सुभूते तन् महायानं न लभ्यते नोपलभ्यते तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः, एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारस् तेनोच्यते आकाशसमं तद् यानम्.
इति समतानिर्याणम्
यत् पुनः सुभूतिर् एवम् आह, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाश इति, एवम् एतत् सुभूते एवम् एतत्, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चाप्रमेयं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंख्येयासत्ता वेदितव्या,
एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अपरिमाणासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् ( प्स्प्1-2: 126 ) अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंस्कृतासत्ता वेदितव्या, संस्कृतासत्तयाप्रमेयासत्ता वेदितव्या, अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या, असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या, अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यश् च तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया भूतकोट्यसत्ता वेदितव्या, भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च भूतकोटिर् यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या, अचिन्त्यधात्वसत्तया रूपस्कन्धासत्ता वेदितव्या, रूपस्कन्धासत्तया वेदनासंज्ञासंस्कारविज्ञानस्कन्धासत्ता वेदितव्या, विज्ञानस्कन्धासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता ( प्स्प्1-2: 127 ) वेदितव्या, जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या, चक्षुरसत्तया श्रोत्रघ्राणजिह्वाकायमनो ऽसत्ता वेदितव्या, मनो ऽसत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.

पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया दानपारमितासत्ता वेदितव्या, दानपारमितयासत्तया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्ता वेदितव्या, प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतासत्ता वेदितव्या, अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या, स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितया, सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या, ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या, इन्द्रियासत्तया बलासत्ता वेदितव्या, बलासत्तया बोध्यङ्गासत्ता वेदितव्या, बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या, मार्गासत्तया अप्रमाणासत्ता वेदितया, ( प्स्प्1-2: 128 ) अप्रमाणासत्तया ध्यानासत्ता वेदितव्या, ध्यानासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या, आरूप्यसमापत्त्यसत्तया प्रतिसंविदसत्ता वेदितव्या, प्रतिसंविदसत्तया दशबलासत्ता वेदितव्या, दशबलासत्तया वैशारद्यासत्ता वेदितव्या, वैशारद्यासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या, आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया गोत्रभूम्यसत्ता वेदितव्या, गोत्रभूम्यसत्तया अष्टमकभूम्यसत्ता वेदितव्या, अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या, दर्शनभूम्यसत्तया तनूभूम्यसत्ता वेदितव्या, तनूभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या, वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या, कृताविभूम्यस्त्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्रोतआपन्नासत्ता वेदितव्या, स्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या, सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या, अनागाम्यसत्तया अर्हदसत्ता वेदितव्या, अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या, प्रत्येकबुद्धासत्तया यावद् आकाशमहायानाप्रमेयासंख्येयापरिमाणसर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया श्रावकयानासत्ता वेदितव्या, श्रावकयानासत्तया ( प्स्प्1-2: 129 ) प्रत्येकबुद्धयानासत्ता वेदितव्या, प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या, सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया यावत् सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
तद्यथापि नाम सुभूते आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
इति सत्त्वार्थनिर्याणम्
यद् अपि सुभूतिर् एवम् आह, नापि तस्य महायानस्य आगतिर् दृश्यते नापि गतिर् न स्थानं दृश्यत इति. एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते नापि गतिर् न स्थानं दृश्यते. तत् कस्य हेतोः? अचला हि सुभूते सर्वधर्मास् ते न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति. तत् कस्य हेतोः? न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपतथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपस्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनायाः स्वभावः न संज्ञायाः स्वभावो न संस्काराणां स्वभावो न सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनाया लक्षणं न संज्ञाया लक्षणं न संस्काराणां लक्षणं न सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति ( प्स्प्1-2: 130 ) न क्वचिद् गच्छति न क्वचित् तिष्ठति,

न सुभूते चक्षुषः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न सुभूते विज्ञानधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न धर्मधातोस् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न तथतायास् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न भूतकोटेस् तथता न भूतकोटेः स्वभावो न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते अचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोस् तथता नाचिन्त्यधातोः स्वभावो नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दानपारमितायास् तथता न दानपारमितायाः स्वभावो न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न प्रज्ञापारमितायस् तथता न प्रज्ञापारमितायाः स्वभावो न प्रज्ञापारमिताया लक्षणं कुतश्चिद् ( प्स्प्1-2: 131 ) आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न स्मृत्युपस्थानानां तथता न स्मृत्युपस्थानानां स्वभावो न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां नेन्द्रियाणां न बलानां न बोध्यङ्गानां नार्याष्टाङ्गस्य मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नार्याष्टाङ्गस्य मार्गस्य तथता नार्याष्टाङ्गस्य मार्गस्य स्वभावो नार्याष्टाङ्गस्य मार्गस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,

न सुभूते अप्रमाणध्यानारूप्यसमापत्तीणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाप्रमाणध्यानारूप्यसमापत्तीणां तथता नाप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो नाप्रमाणध्यानारूप्यसमापत्तीणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दशानां तथागतबलानां तथता न दशानां तथागतबलानां स्वभावो न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न चतुर्णां वैशारद्यानां न चतसृणां प्रतिसंविदां न षण्णाम् अभिज्ञानां न सुभूते अष्टादशानाम् आवेणिकानां बुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न बोधेस् तथता न बोधेः स्वभावो न बोधेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते असंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नासंस्कृतस्य तथता नासंस्कृतस्य स्वभावो नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति.
इत्य् अनाभोगनिर्याणम्
यद् अपि तत् सुभूतिर् एवम् आह, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते, एवम् एतत् सुभूते एवम् एतत्, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते. तत् कस्य हेतोः? तथा हि सुभूते अतीतो ऽध्वा अतीतेनाध्वना शून्यः, अनागतो ऽध्वा अनागतेनाध्वना शून्यः, प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेनाध्वना शून्यः, त्र्यध्वसमता त्र्यध्वसमतया शून्या, महायानं महायानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः.
न सुभूते शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षड् वा सप्त वा अष्ट वा नव वा दश वा तस्मात् त्र्यध्वसमतया समम् इदं यानं बोधिसत्त्वस्य महासत्त्वस्य, नापि तत्र समम् उपलभ्यते न विषमं, नापि तत्र राग उपलभ्यते न विरागः, न दोष उपलभ्यते नादोषः, न मोह उपलभ्यते नामोहः, न नाम उपलभ्यते नानाम, यावन् न कुशलम् उपलभ्यते नाकुशलं, न सास्रवम् उपलभ्यते नानास्रवं, न सावद्यम् उपलभ्यते नानवद्यं, न क्लेश उपलभ्यते नाक्लेशः, न क्लेशक्षय उपलभ्यते नाक्लेशक्षयः, न लौकिकम् उपलभ्यते न लोकोत्तरं, न संक्लेश उपलभ्यते न व्यवदानं, न संसार उपलभ्यते न निर्वाणं, नाप्य् अत्र नित्यम् उपलभ्यते नानित्यं, न सुखम् उपलभ्यते न दुःखं, नात्मा उपलभ्यते नानात्मा, न शान्तम् उपलभ्यते नाशान्तं, न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः, न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः, नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नोपलभ्यते, अतीतं सुभूते रूपम् अतीतेन रूपेण शून्यम्, अनागतं रूपम् अनागतेन रूपेण शून्यं, प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यम्. एवम् अतीता वेदना संज्ञा संस्काराः, अतीतं विज्ञानम् अतीतेन विज्ञनेन शून्यम्, अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यं, प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्. तत् कस्य हेतोः?
न शून्यतायाम् अतीतं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलप्स्यते,
न शून्यतायाम् अतीता वेदना उपलभ्यते शून्यतैव तावच् छून्या ( प्स्प्1-2: 133 ) शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता वेदना उपलप्स्यते,
न शून्यतायाम् अतीता संज्ञा उपलभ्यते, शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता संज्ञा उपलप्स्यते,
न शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलप्स्यन्ते,
न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलप्स्यते,
एवं न शून्यतायाम् अनागतं रूपं वेदना संज्ञा संस्काराविज्ञानम् उपलभ्यते.
न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संस्कारा उपलप्स्यन्ते,
न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते.
न शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते,
न शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलप्स्यते.
पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते दानपारमिता नोपलभ्यते, प्रत्युत्पन्नतो ऽपि सुभूते दानपारमिता नोपलभ्यते, त्र्यध्वसमतया दानपारमिता नोपलभ्यते, न सुभूते त्र्यध्वसमतायाम् अतीतो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते,
एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु शीलपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु क्षान्तिपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु वीर्यपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु ध्यानपारमिता नोपलभ्यते,

पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते, त्र्यध्वसमतया प्रज्ञापारमिता नोपलभ्यते, न सुभूते समतायाम् अतीतो ऽध्वा उपलभ्यते नानागतो न प्रत्युत्पन्नो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना प्रज्ञापारमितोपलप्स्यते.
पुनर् अपरं सुभूते पूर्वान्तापरान्तमध्येषु स्मृत्युपस्थानानि नोपलभ्यन्ते त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते, न सुभूते समतायाम् अतीतानागतप्रत्युत्पन्नो ऽध्वा नोपलभ्यन्ते, समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते,
एवं सम्यक्प्रहाणाब्नि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, ऋद्धिपादाः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, इन्द्रियाणि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बोध्यङ्गानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, आर्याष्टाङ्गमार्गः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, दश तथागतबलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चत्वारि वैशारद्यानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चतस्रः प्रतिसंविदः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अष्टादशावेणिका बुद्धधर्माः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, त्र्यध्वसमतया आवेणिकबुद्धधर्मा नोपलभ्यन्ते, न सुभूते समतायां ( प्स्प्1-2: 135 ) अतीतानागतप्रत्युत्पन्नाध्वा उपलभ्यन्ते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते.
पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते, अपरान्ततः पृथग्जनो नोपलभ्यते, प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते, त्र्यध्वसमतया पृथग्जनो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः पूर्वान्ततस् तथागतो नोपलभ्यते, अपरान्ततस् तथागतो नोपलभ्यते, मध्यतस् तथागतो नोपलभ्यते, त्र्यध्वसमतया तथागतो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतया महायानं, अत्र स्थितो बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभवन् सर्वाकारज्ञतायां निर्यास्यति.
इत्य् अन्तनिर्याणम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: साधु साधु भगवन् सुभाषितम् इदं भगवतो बोधिसत्त्वानां महासत्त्वानां महायानम्, अत्र भगवन् महायाने शिक्षमाणैर् अतीते ऽध्वनि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता, अनागता अपि बोधिसत्त्वा महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वाः प्रत्युत्पन्नास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम्,
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वाः सर्वाकारज्ञताम् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च.
अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्: अयं भगवन् सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टव्यं मन्येत.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा हैवाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानम् उपदिशामि.
भगवन् आह: न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि. तत् कस्य हेतोः? तथा हि सुभूते ये केचित् कुशला बोधिपक्षा धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
सुभूतिर् आह: कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति?
भगवान् आह: तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा असंप्रमुषितधर्मता सदोपेक्षाविहारिता, इमे सुभूते कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
यच् च सुभूते महायानं या च ध्यानपारमिता या च वीर्यपारमिताया च क्षान्तिपारमिता या च शीलपारमिता या च दानपारमिता, यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदनाया च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना,

यानि च चत्वारि स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि ये च ऋद्धिपादा यानि चेन्द्रियानि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गो मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या चाध्यात्मशून्यताया च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च यावद् अष्टादशावेणिका बुद्धधर्माः, यश् च तथागतप्रवेदितो धर्मविनयोयश् च धर्मधातुर् या च तथता या च भूतकोटिर् यश् चाचिन्त्यधातुर् यच् च निर्वाणं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. तत् कस्य हेतोः? न हि सुभूते अन्यन् महायानम् अन्या प्रज्ञापारमिता अन्या ध्यानपारमिता अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दानपारमिता, इति हि महायानञ् च प्रज्ञापारमिता ध्यानवीर्यक्षान्तिशीलदानपारमिता चाद्वयम् एतद् अद्वैधीकारं, न सुभूते अन्यन् महायानम् अन्यानि स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं, एवं नान्यन् महायानम् अन्ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा इति हि महायानं च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानं अन्या अप्रमाणध्यानारूप्यसमापत्तय इति हि महायानं चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानम् अन्ये दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा इति हि महायानं च बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि.

इति प्राप्तिनिर्याणम्
सुभूतिर् आह: अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्ततता वेदितव्या, रूपं ( प्स्प्1-2: 138 ) बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्, एवं वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं, न तद् रूपं वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितयाम् अववदिष्याम्य् अनुशासिष्यामि? न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्, सचेद् एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वोनोपैति?
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या?
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानः, असमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
केन कारणेनायुष्मन् सुभूते एवं वदसि, यावद् एव नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तं कतमे ते वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं यच् चानभिनिवृत्तं न तद् रूपं ये ( प्स्प्1-2: 139 ) चानभिनिवृत्ता न वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं, तत् किम् अनभिनिवृत्तम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
केन कारणेनायुष्मन् सुभूते एवं वदसि, न चान्यत्रानभिनिवृत्ते बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्?
केन कारणेनायुष्मन् सुभूते एवं वदसि, सचेद् एवम् उपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् इति?
सुभूतिर् आह: सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वशून्यतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वविविक्ततया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वास्वभावतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, एवम् अपरान्ततो मध्यतश् च वक्तव्यम्. तत् कस्य हेतोः? सत्त्वासत्तया शून्यताविविक्ततास्वभावता पूर्वान्तादीनाम् अनुपलब्धेः, न चान्यत्र सत्त्वासत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारं,
रूपासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, रूपशून्यतया रूपविविक्ततया रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं वेदना संज्ञा संस्कारा विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्.
दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासत्तायां शून्यतायां विविक्ततायाम् ( प्स्प्1-2: 140 ) अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वः, अन्या दानपारमिता अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च षट् पारमिता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्.
एवं ह्य् आयुष्मन् शारिपुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं यावद् अभावस्वभावशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अभावस्वभावशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभावस्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.

पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थनासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अष्टादशवेणिकबुद्धधर्मासत्तायां शून्यतायां विविक्तायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यानि उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता शून्यता विविक्तता अस्वभावता अन्यानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणारूप्यसमापत्तयो ( प्स्प्1-2: 141 ) दशबलवैशारद्यप्रतिसंविदो ऽन्ये ऽष्टादशावेणिका बुद्धधर्मा अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या च स्मृत्युपस्थानासत्ता शून्यता विविक्ता अस्वभावता यावद् यो च अष्टादशावेणिकबुद्धधर्मासत्ता शून्यता विविक्ता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटिविविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यः समाधिर् अन्यद् धारणीमुखम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर् अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्र या च समाध्यसत्ता यावद् या च भूतकोट्यसत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि, सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया बोधिसत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावत् सर्वज्ञासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यः श्रावको ऽन्यः प्रत्येकबुद्धो ऽन्यो बोधिसत्त्वो ऽन्यः सर्वज्ञः, अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्रया च श्रावकासत्ता शून्यता विविक्तता अस्वभावता यावद् या च सर्वज्ञासत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि ( प्स्प्1-2: 142 ) सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
इति प्राप्तिनिर्याणे प्राप्यप्रतिषेधः
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदना संज्ञा संस्कारा, विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मन् शारिपुत्र आकाशसमं, वेदना संज्ञा संस्कारा आकाशसमा, विज्ञानम् आयुष्मन् शारिपुत्र आकाशसमम्. तत् कस्य हेतोः? तद्यथापि नाम आयुष्मन् शारिपुत्र यथा आकाशस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते.
एवम् एवायुष्मन् शारिपुत्र रूपस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते. तत् कस्य हेतोः? रूपशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य नैवपूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. तत् कस्य हेतोः? विज्ञानशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, शून्यतेति च व्यवह्रियते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतित्यसमुत्पादेषु यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मा आयुष्मन् शारिपुत्र आकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामायुष्मन् शारिपुत्र आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते. एवम् एवायुष्मन् शारिपुत्र बुद्धधर्माणां नादिर् नान्तो न मध्यम् उपलभ्यते बुद्धधर्मशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण बुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते इति?
रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र विज्ञानेन शून्यम्. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र शून्यतायां रूपं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते, वेदना संज्ञा संस्कारा, न शून्यतायां विज्ञानं संविद्यते, नापि शून्यतायां बोधिसत्त्वः संविद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.

पुनर् अपरम् आयुष्मन् शारिपुत्र दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, न शुन्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते. अध्यातमशून्यता आयुष्मन् शारिपुत्र अध्यात्मशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या.
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या, धर्मधातुर् धर्मधातुना शून्यः समाधिः समाधिना शून्यो धारणिमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या मार्गाकारज्ञता मार्गाकारज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन तथागतः शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतो विद्यते शून्यतायां बोधिसत्त्वो विद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि ( प्स्प्1-2: 144 ) न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.
यद् अप्य् आयुष्मन् शारिपुत्र आह, केन कारणेनैवं वदसि, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति?
रूपम् आयुष्मन् शारिपुत्र रूपे रूपं न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते,
वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपं वेदना च संज्ञायां न संविद्यते नोपलभ्यते,
संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपे न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयोर् न संविद्यते नोपलभ्यते, रूपं वेदना संज्ञा संस्कारेषु न संविद्यते नोपलभ्यते,
संस्काराः संस्कारेषु न संविद्यते नोपलभ्यन्ते, संस्कारा रूपवेदनासंज्ञासु न संविद्यन्ते नोपलभ्यन्ते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते.
चक्षुर् आयुष्मन् शारिपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते,
श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रं च घ्राणेन संविद्यते नोपलभ्यते,
घ्राणं घ्राने न संविद्यते नोपलभ्यते, घ्राणं चक्षुषि श्रोत्रे च न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणानि जिह्वायां न संविद्यन्ते नोपलभ्यन्ते,
जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यन्ते नोपलभ्यन्ते,
कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यन्ते नोपलभ्यन्ते,
मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु ( प्स्प्1-2: 145 ) न संविद्यते नोपलभ्यते.

रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दगन्धरसस्पर्शधर्मेषु न संविद्यते नोपलभ्यते,
शब्दः शब्दे गन्धे रसे न संविद्यते नोपलभ्यते, शब्दो ऽन्येषु न संविद्यते नोपलभ्यते.
एवं गन्धो गन्धे ऽन्येषु च न संविद्यते नोपलभ्यते, रसो रसे ऽन्येषु च न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से ऽन्येषु च न संविद्यते नोपलभ्यते, धर्मा धर्मेष्व् इतरेषु न संविद्यन्ते नोपलभ्यन्ते.
चक्षुर्विज्ञानं चक्षुर्व्र्ज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते,
एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते.
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते,
एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्सो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते.
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते,
एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते.
स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकेषु बुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, तत्रापीतरे इतरेषु च ते ( प्स्प्1-2: 146 ) न संविद्यन्ते नोपलभ्यन्ते.
अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यतापि यावद् अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यतापि यावद् अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते.
समाधिः समाधौ न संविद्यते नोपलभ्यते, समाधिर् धारणीषु न संविद्यते नोपलभ्यते, धारणी धारण्यां न संविद्यते नोपलभ्यते, धारण्यः समाधौ न संविद्यन्ते नोपलभ्यन्ते.
पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, एवं गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः, सर्वज्ञताभूमिः सर्वज्ञताभूमौ न संविद्यते नोपलभ्यते.
स्रोतआपन्नः स्रोतआपन्नत्वे न संविद्यते नोपलभ्यते, एवं सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वो बोधिसत्त्वत्वे न संविद्यते नोपलभ्यते, तथागतस् तथागतत्वे न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमितायाम् अववादानुशासनी न संविद्यते नोपलभ्यते, अववादानुशासन्यां प्रज्ञापारमिता न संविद्यते नोपलभ्यते, एवं ह्य् आयुष्मन् शारिपुत्र सर्वधर्मासंविद्यमानत्वेन अनुपलम्भेन बोधिसत्त्वो न संविद्यते नोपलभ्यते.
इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, केन कारणेन नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, केन कारनेनायुष्मन् सुभूते एवं वदसि, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तथा ह्य् आयुष्मन् शारिपुत्र नाम दशभ्यो दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति, आगन्तुकम् एतन् नामधेयं तथा हि यद् रूपं यद् वेदना यत् संज्ञा यत् संस्कारा यद् विज्ञानम् इति नामधेयं न तद् रूपं न ( प्स्प्1-2: 147 ) वेदना न संज्ञा न संस्कारा न विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम, तेन कारणेनोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति.
पुनर् अपरम् आयुष्मन् शारिपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमितेति, न च दानपारमितायां नाम न च नाम्नि दानपारमिता, तत् कस्य हेतोः? यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, एवं नामधेयमात्रम् एतद् यद् उत शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता नामधेयमात्रम् एतद् यद् उत प्रज्ञापारमितेति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता, तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मन् नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्त यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्नि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता सर्व एते न संविद्यन्ते नोपलभ्यन्ते.

अनेनायुष्मन् शारिपुत्र पर्यायेण नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, आगन्तुकम् एतच् छारिपुत्र नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति, न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानानि उभयम् एतन् न संविद्यते नोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियानि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणानि ध्यानानि आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न च बुद्धधर्मेषु नाम नाम्नि बुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च बुद्धधर्मा उभयम् एतद् न संविद्यते नोपलभ्यते, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत समाधिर् इति, यावत् सर्वज्ञतेति, न ( प्स्प्1-2: 148 ) च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेनोच्यते यथा आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मेति, आत्मा शारिपुत्र अत्यन्ततया न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र सत्त्वो जीवः पोषः पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः पश्यको न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, वेदना संज्ञा संस्कारा, अत्यन्ततया आयुष्मन् शारिपुत्र विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रं घ्रानं जिह्वा कायो मनः, अत्यन्ततया मनो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति
अत्यन्ततया रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं शब्दगन्धरसस्पृष्टव्यानि, अत्यन्ततयाधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुर्संस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तित् भविष्यति, अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा ( प्स्प्1-2: 149 ) वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्य अभिनिवृत्तिर् भविष्यति, अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया अध्यात्मशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवं अत्यन्ततया बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिर्वृत्तिर् भविष्यति.
अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया समाधयो धारणीमुखानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अनेनायुष्मन् शारिपुत्र पर्यायेण आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मा.
पुनर् अपरं यद् आयुष्मन् शारिपुत्र एवम् आह, अभावस्वभावाः सर्वधर्मा इति, एवम् एतत्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः.
शारिपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः?
सुभूतिर् आह: रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः, ( प्स्प्1-2: 150 ) वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः,
चक्षुषो नास्ति सांयोगिकः स्वभावः, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो नास्ति सांयोगिकः स्वभावः,
एवं रूपशब्दगन्धरसस्पर्शधर्माणां नास्ति सांयोगिकः स्वभावः, चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शस्य श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शजाया वेदनायाः श्रोत्रसंस्पर्शजाया वेदनाया घ्राणसंस्पर्शजाया वेदनाया जिह्वासंस्पर्शजाया वेदनायाः कायसंस्पर्शजाया वेदनाया मनःसंस्पर्शजाया वेदनाया नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शप्रत्ययवेदनाया श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया नास्ति सांयोगिकः स्वभावः, नास्ति दानपारमिताया नास्ति शीलपारमिताया नास्ति क्षान्तिपारमिताया नास्ति वीर्यपारमिताया नास्ति ध्यानपारमिताया नास्ति प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः. अनेनायुष्मन् शारिपुत्र पर्यायेणास्वभावाः सर्वधर्माः. पुनर् अपरम् आयुष्मन् शारिपुत्र अनित्याः सर्वधर्मा न कस्यचिद् विगमेन.

शारिपुत्र आह: कतमे ते आयुष्मन् सुभूते अनित्याः सर्वधर्मा न कस्यचिद् विगमेन?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन, वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखा अनात्मानः शान्ताः शून्या आनिमित्ता अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा निःक्लेशा लोकोत्तरा व्यवदाना असंस्कृताः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यो ऽसंस्कृतः सो ऽभावः क्षयश् चानेनायुष्मन् शारिपुत्र पर्यायेण निःस्वभावाः सर्वधर्मा न कस्यचिद् विगमेन. पुनर् अपरं शारिपुत्राकूटस्था अविनाशिनः सर्वधर्माः.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अकूटस्थाविनाशिनः सर्वधर्माः.

सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं कुशलम् अकुशलं सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् असंस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, अनेनायुष्मन् शारिपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः. यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेन रूपम् अनभिसंस्कृतम् एवं वेदना संज्ञा संस्काराः केन कारणेन विज्ञानम् अनभिसंस्कृतम् इति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनभिनिवृत्तं वेदना संज्ञा संस्कारा विज्ञानम् अनभिनिवृत्तम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्राभिसंस्कर्त्ता नास्ति,
चक्षुर् आयुष्मन् शारिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति, एवं श्रोत्रघ्राणजिह्वाकाया मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति.
पुनर् अपरं शारिपुत्र रूपशब्दगन्धरससंस्पर्शधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते, अनेनायुष्मन् शारिपुत्र पर्यायेण रूपवेदनासंज्ञासंस्कारविज्ञानान्य् अनभिनिवृत्तानि. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन यद् अनभिनिवृत्तं न तद् रूपंन वेदना न संज्ञा न संस्कारा न विज्ञानम् इति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपं प्रकृतिशून्यं, यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, एवं यावत् सर्वधर्माः प्रकृतिशून्या ये च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययस् तेषां नान्यथात्वं प्रज्ञायते.
अनेनायुष्मन् शारिपुत्र पर्यायेण यद् अनभिनिवृत्तं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्.
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति, यथा ह्य् आयुष्मन् शारिपुत्र या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा अनभिनिवृत्तिः, इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेणैवं वदामि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति.
यत् पुनर् आयुष्मन् सारिपुत्र एवम् आह, न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति, इति ह्य् अनभिनिवृत्तिश् च बोधिसत्त्वश् चाद्वयम् एतद् अद्वैधीकारम्.
नान्यत्रानभिनिवृत्ते रूपं समनुपश्यति, नान्यत्रानभिनिवृत्तेर् वेदनां संज्ञां संस्कारान् समनुपश्यति, नान्यत्रानभिनिवृत्तेर् विज्ञनं समनुपश्यति,
इति ह्य् अनभिनिर्वृत्तिश् च रूपं चाद्व्यम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च वेदना संज्ञा संस्काराश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च विज्ञनं चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं घ्राणं जिह्वा कायश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तश् च रूपशब्दगन्धरसस्पर्शधर्माश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रघ्राणजिह्वाकायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दशबलवैशारद्याष्टादशावेणिका बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्मश् चाद्वयम् एतद् अद्वैधीकारम्.
अनेनायुष्मन् शारिपुत्र पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्.
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मान् निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् समनुपश्यति.
अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति, यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये वेदनां संज्ञां संस्कारान् विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति, तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति, एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् ( प्स्प्1-2: 154 ) इति.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमितेयम् इति. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमितेयम् इति, तस्मिन् समये अध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति यावद् अभावस्वभावशून्यतेयम् इति.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये स्मृत्युपस्थनानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानानीमानीति, तस्मिन् समये सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियानि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गो ऽयम् इति, तस्मिन् समये अप्रमाणध्यानारूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समापत्तय इमा इति, तस्मिन् समये दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बुद्धधर्मा इमे इति.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये सर्वसमाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधिधारणीमुखानीमानि. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादं न समनुपश्यति, सप्तत्रिंशद् बोधिपक्षान् धर्मान् न समनुपश्यति पारमिता न समनुपश्यति अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न समनुपश्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपं यो वेदनायाः संज्ञायाः ( प्स्प्1-2: 155 ) संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकरम्. यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुर् यः श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुत्पादो न तन् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न सा अध्यात्मबहिर्धाशून्यता, यो यावद् अभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता, इति हि अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञादशबलवैशारद्यप्रतिसंविदो,
यो भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुत्पादो न ते ऽष्टादशावेणिका बुद्धधर्मा इति हि बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, यस् तथताया आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा ह्य् अनुत्पादो नैको न द्वौ न बहवो न पृथक् तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
यो भगवन् रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः,
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, एवं ( प्स्प्1-2: 156 ) यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पारमितानां व्यायो नताः पारमिता.
यो भगवन्न् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽध्यात्मशून्यतया व्ययो न सा अध्यात्मशून्यता एवं यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न सा ध्यात्मबहिर्धाशून्यता यावद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता इति ह्य् अभावस्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता.
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, इति हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकरम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,

एवं यः सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां यश् चार्याष्टाङ्गस्य मार्गस्य व्ययो न स मार्ग इति हि मार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो मार्गस्य व्ययो न स मार्गः,
एवं यो ऽप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां प्रतिसंविदां वैशारद्यानां दशानां तथागतबलानां यो ऽष्टादशानाम् आवेणिकानां बुद्धधर्माणां व्ययो न ते बुद्धधर्मा इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो बुद्धधर्माणां व्ययो न ते बुद्धधर्माः.
यत् पुनर् भगवन्न् उच्यते, रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यावद् यत् पुनर् उच्यते रूपं यावत् सर्वाकारज्ञतेत्य् ( प्स्प्1-2: 157 ) अद्वयस्यैषा गणना कृता.
इति प्राप्तिनिर्याणे प्राप्यप्रापकसंबन्धप्रतिषेधः
अथ खल्व् आयुष्मन् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, कतम आयुष्मन् सुभूते बोधिसत्त्वः, कतमा प्रज्ञापारमिता, कतमा उपपरीक्षमाणा.
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
कतमेषां धर्माणाम् आकाराञ् जानाति, रूपस्याकाराञ् जानाति न चात्राभिनिविशते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्याकाराञ् जानाति, न चात्राभिनिविशते, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद् बोधिपक्षानां धर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते, एवम् अप्रमाणध्यानारूप्यसमापत्तीनां पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानांबुद्धधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
शारिपुत्र आह: कतमे ते सुभूते सर्वधर्माणाम् आकाराः?

सुभूतिर् आह: यैर् आयुष्मन् शारिपुत्र आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धरसस्प्रष्टव्यधर्मा वा अध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकार्यन्ते इम उच्यन्ते सर्वधर्माणाम् आकाराः.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा प्रज्ञापारमितेति, आरता आरमितैषा आयुष्मन् शारिपुत्र तेनोच्यते प्रज्ञापारमितेति, कुत आरता आरमिता? स्कन्धेभ्यो धातुभ्य आयतनेभ्यः प्रतीत्यसमुत्पदाद् दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया आरता आरमिता, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया आरता आरमिता, स्मृत्युपस्थानेभ्य आरता आरमिता, सम्यक्प्रहाणर्द्धिपदेन्द्रियबलबोध्यङ्गमार्गाद् आरता आरमिता, अप्रमाणध्यानारूप्यसमापत्तिभ्य आरता आरमिता, बलेभ्यो वैशारद्येभ्य आरता आरमिता, प्रतिसंविद्भ्य आवेणिकेभ्यो बुद्धधर्मेभ्य आरता आरमिता, यावत् सर्वज्ञताया आरता आरमिता, एषा तेनोच्यते प्रज्ञापारमितेति.
अनेनायुष्मन् शारिपुत्र पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा उपपरीक्षणेति, इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यमिति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं नित्यम् इत्य् उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तमित्य् उपपरीक्षते.
एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मान् न नित्या इति नानित्या इति उपपरीक्षते, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ताइति उपपरीक्षते.
एवं चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न नित्यं नानित्यम् इति उपपरीक्षते, न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं चक्षुःसंस्पर्शं श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शं न नित्य इति नानित्य इत्य् उपपरीक्षते, न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति ( प्स्प्1-2: 159 ) नाशान्त इति न शून्य इति नाशून्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शपृतत्यया वेदना न नित्या इति नानित्या इत्य् उपपरीक्षते, न सुखा इति न दुःखा इति नात्मा इति नानात्मा इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति न आत्मेति नानात्मेति न शान्ता इति नाशान्ता इति, न शून्या इति नाशुन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरिक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
एवं स्मृत्युपस्थानानि न नित्यानीति नानित्यानीत्य् उपपरीक्षते न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशून्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षते, न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षते,
एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा दशतथागतबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समाधयः सर्वधारणीमुखानि सर्वज्ञता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वओ महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञास्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति.
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपेण, या चायुष्मन् शारिपुत्र शून्यता न तद् रूपं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदना संज्ञा संस्कारा, विज्ञानं शून्यं विज्ञानेन, या चायुष्मन् शारिपुत्र शून्यता न तद् विज्ञानं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो विज्ञानस्यानुत्पादोन तद् विज्ञानम्.

दानपारमिता आयुष्मन् शारिपुत्र दानपारमितया शून्या, या च शून्यता न सा दानपारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, या च शून्यता न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, एवं बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, या च शून्यता न सा अभावस्वभावशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता.
स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानैः शून्यानि, या च शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तयो ( प्स्प्1-2: 161 ) दशबलवैशारद्यप्रतिसंविदः समाधिधारण्यष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता आयुष्मन् शारिपुत्र सर्वाकारज्ञतया शून्या, या च शून्यता न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मन् शारिपुत्र प्रयायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते एवं वदसि, यो रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम् इति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यताबोधिपक्षेसु धर्मेषु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सासर्वाकारज्ञता.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च वेदना या च संज्ञा ये च संस्काराः, यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाशून्यताबोधिपक्षेसु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यावेणिकबुद्धधर्मसमाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञतायच् चाद्वैधीकारं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपम्, एवं वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु बोधिपक्षेसु धर्मेष्व् अभिज्ञापारमिताप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु समाधिधारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् इदम् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृतेति, वेदना संज्ञा संस्काराः, यद् इदम् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृतेति, यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृतेति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्यद् रूपम्, अनुत्पाद एव रूपं, रूपम् एवानुत्पादः, वेदना संज्ञा ( प्स्प्1-2: 162 ) संस्कारा, नान्यो ऽनुत्पादो ऽन्यद् विज्ञानं, विज्ञानम् एवानुत्पादो ऽनुत्पाद एव विज्ञानम्, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषुपारमितासु बोधिपक्षेसु धर्मेषु सर्वशून्यतास्व् अप्रमाणध्यानारूप्यसमापत्तिषु अभिज्ञासु बलेषु वैशारद्येषु प्रतिसंवित्सु आवेणिकेषु बुद्धधर्मेषु समाधिधारणीमुखेषु तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता अनुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैवानुत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
पुनर् अपरम् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूपस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय,
आत्मनो ऽनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमनवकारकवेदकजानकपश्यकस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
दानपारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
अध्यात्मशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
स्मृत्युपस्थानानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तीनां दशबलवैशारद्यप्रतिसंवित्समाधिधारणीमुखाष्टादशावेणिकबुद्धधर्माणां सर्वाकारज्ञताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
पृथग्जनस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् ( प्स्प्1-2: 163 ) अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं स्रोतआपन्नस्य स्रोतआपन्नधर्माणां सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम् अर्हतो ऽर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्धधर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय.

शारिपुत्र आह: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि तथा रूपम् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्ता समस्ता स्कन्धा अनुत्पादो धातवो ऽनुत्पाद आयतनान्य् अनुत्पादः प्रतीत्यसमुत्पादो ऽप्य् अनुत्पादः पारमितानुत्पादः सर्वशून्यतानुत्पादः सप्तत्रिंशद् बोधिपक्षा धर्मा अनुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽनुत्पादः, समाधिधारणीमुखानि अनुत्पादो दशबलवैशारद्यप्रतिसंविदो ऽनुत्पादः, अष्टादशावेणिका बुद्धधर्मा अनुत्पादः सर्वाकारज्ञता अनुत्पादः पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादः, एवं स्रोतआपन्नः स्रोतआपन्नधर्माः सकृदागामीसकृदागामिधर्माः अनागामी अनागामिधर्मा अर्हन्न् अर्हद्धर्मा प्रत्येकबुद्धः प्रत्येकबुद्धधर्मा बोधिसत्त्वो बोधिसत्त्वधर्मा बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादः.
यदि चायुष्मन् सुभूते रूपम् अप्य् अनुत्पादो यावद् बुद्धधर्मा अप्य् अनुत्पादः, नन्व् आयुष्मन् सुभूते प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्धयानिकेन प्रत्येकबुद्धबोधिः, बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति, पञ्चानाञ् च गतीनां भेदो न भविष्यति, प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन पञ्चविधा बोधिः.
यदि चायुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किम् अर्थं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, सकृदागामिना रागदोषमोहानां तनुतायै मार्गो भावयितव्यः, अनागामिना पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, अर्हता पञ्चोर्ध्वभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये मार्गो भावयितव्यः, किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति, यानि तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति, किं कारणं तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, ( प्स्प्1-2: 164 ) किं कारणं तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितम्?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभिसमयं,
नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं, नानागामिनं नानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं,
नाहम् आयुष्मन् शारिपुत्रेच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न हि शक्य आयुष्मन् शारिपुत्र दुष्करसंज्ञायां स्थित्वा अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां जनयित्वा शक्यो ऽप्रमेयाणाब्म् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवंचित्तम् उत्पादयितव्यं, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा, एवं सर्वेष्व् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवंसंज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां भविष्यति. तत् कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते.
नाहम् आयुष्मन् शारिपुत्रानुत्पादे तथगतम् इच्छामि, नाप्य् अनुत्तरां सम्यक्संबोधिं, नापि धर्मचक्रप्रवर्तनं, नापीच्छाम्य् अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्.

मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc