भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 2140

नाध्यात्मशून्यतायाम् अभिनिवेक्ष्यते, न बहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, नाध्यात्मबहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृतशून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वलक्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्यतायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यतायाम् अभिनिवेक्ष्यते.
न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्वपरिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा न संविद्यन्ते यस् चाभिनिविशेत येन चाभिनिविशेत यत्र चाभिनिविशेत.
इति समुदये ऽन्वयज्ञानक्षान्तिः
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनभिनिविष्टः सर्वधर्मेषु दानपारमितया विवर्धते, शीलपारमितया ( प्स्प्1-1: 131 ) विवर्धते, क्षान्तिपारमितया विवर्धते, वीर्यपारमितया विवर्धते, ध्यानपारमितया विवर्धते, प्रज्ञापारमितया विवर्धते, बोधिसत्त्वनियामम् अवक्रामति.
इति समुदये ऽन्वयज्ञानम्
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अविनिवर्तनीयां भूमिम् अवक्रामति.
इति निरोधे धर्मज्ञानक्षान्तिः
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति, अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, सत्त्वांश् च परिपाचयति, बुद्धांश् च भगवतः सत्करोति गुरुकरोति मानयति पूजयति तेनैव कुशलमूलेन तेषां बुद्धानां भगवतां चान्तिक उपपद्यते, धर्मं च शृणोति श्रुताश् चास्य धर्मा न जातूच्छेत्स्यन्ते यावदा बोधिमण्डाद् इति धारणीमुखानि प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
इति निरोधे धर्मज्ञानम्
तत् किं मन्यसे सुभूते यद् उच्यते बोधिसत्त्वो महासत्त्व इत्य् अपि तु रूपं बोधिसत्त्व इति, वेदना बोधिसत्त्व इति, संज्ञा बोधिसत्त्व इति, संस्कारा बोधिसत्त्व इति, विज्ञानं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति, अन्यत्र वेदनाया बोधिसत्त्व इति, अन्यत्र संज्ञाया बोधिसत्त्व इति, अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति, अन्यत्र विज्ञानाद् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति, वेदनायां बोधिसत्त्व इति, संज्ञायां बोधिसत्त्व इति, संस्कारेषु बोधिसत्त्व इति, विज्ञाने बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते बोअधिसत्त्वे रूपम् इति, बोधिसत्त्वे वेदनेति, बोधिसत्त्वे संज्ञेति, बोधिसत्त्वे संस्कारा इति, बोधिसत्त्वे विज्ञानम् इति?
तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति, अवेदनो बोधिसत्त्व ( प्स्प्1-1: 132 ) इति, असंज्ञो बोधिसत्त्व इति, असंस्करो बोधिसत्त्व इति, अविज्ञनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को बोधिसत्त्व इति,
श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति,
घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाद् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति,
जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वाजिह्वो बोधिसत्त्व इति,
कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति,
मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनस्को बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्वो ऽन्यत्र शब्दाच् छब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो ऽशब्दो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो ऽगन्धो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो ऽरसो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते स्प्रष्टव्यं बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यात् स्प्रष्टव्ये बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यम् अस्प्रष्टव्यो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो ऽधर्मो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो ( प्स्प्1-1: 133 ) ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानिबोधिसत्त्वो ऽन्यत्र एभ्य एषु ऽ; सः, एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानैर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना मनोधर्ममनोविज्ञानैर् बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृब्थिवीधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्वो ऽन्यत्राब्धातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे ऽब्धातुर् अनब्धातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्राकाशधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति?

सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्याया अविद्यायां बोधिसत्त्वो बोधिसत्त्वे ऽविद्यानविद्यो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपान् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपम् अनामरूपो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्वो ऽन्यत्र षडायतनात् षडायतने बोधिसत्त्वो बोधिसत्त्वे षडायतनम् अषडायतनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्से बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदनावेदनो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णातृष्णो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानो बोधिसत्त्व इति,
तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
इति निरोधे ऽन्वयज्ञानक्षान्तिः
भगवान् आह: तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथतायाः संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथतायाः संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथतो बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु स्कन्धेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे स्कन्धतथता अस्कन्धतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या चक्षूरूपचक्षुर्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षूरूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञानतथता अचक्षूरूपचक्षुर्विज्ञानतथतो बोधिसत्त्व इति?
एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञनतथताया मनोधर्ममनोविज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र मनोधर्ममनोविज्ञानतथताया मनोधर्ममनोविज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे न्मनोधर्ममनोविज्ञानतथता अमनोधर्ममनोविज्ञानतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवीधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्राब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथतो बोधिसत्त्व इति.
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या आकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथताया आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह:
तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथताया विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अन्विज्ञानधातुतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथताया धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथतो बोधिसत्त्व इति?

सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते या चक्षुस्तथता सा बोधिसत्त्वो ऽन्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता अचक्षुस्तथतो बोधिसत्त्व इति. एवं या श्रोत्रतथताघ्राणतथताजिह्वातथताकायतथता,
तत् किं मन्यसे सुभूए या मनस्तथता सा बोधिसत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता अमनस्तथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति? एवं याः शब्दगन्धरसस्प्रष्टव्यधर्मतथताः सा बोधिसत्त्वो ऽन्यत्र शब्दगन्धरसस्प्रष्टव्यधर्मतथताभ्यः शब्दगन्धरसस्प्रष्टव्यधर्मतथतासु बोधिसत्त्वो बोधिसत्त्वे शब्दगन्धरसस्प्रष्टव्यधर्मतथता अशब्दगन्धरसस्प्रष्टव्यधर्मतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: यदि सुभूते व्यस्तेष्व् आयतनेषु न बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतनतथता ( प्स्प्1-1: 138 ) अनायतनतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते या अविद्यातथता सा बोधिसत्त्वो ऽन्यत्राविद्यातथता या अविद्यातथताया अविद्यातथतायां बोधिसत्त्वो बोधिसत्त्वे अविद्यातथता अनविद्यातथतो बोधिसत्त्व इति?
एवं या संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता,
तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्वो ऽन्यत्र जरामरणतथताया जरामरणतथतायां बोधिसत्त्वो बोधिसत्त्वे जरामरणतथता अजरामरणतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता सा बोधिसत्त्वो ऽन्यत्र प्रतीत्यसमुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथतो बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायैवं वदसि: न रूपं बोधिसत्त्व इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न रूपाणि न शब्दा न गन्धा न रसा न स्प्रष्टव्या न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा नकायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकायविज्ञानं न मनोधर्ममनोविज्ञानं, नाविद्या एवं न संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति, यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति, न रूपतथता बोधिसत्त्व इति, न वेदनातथता न संज्ञातथता न संस्कारतथता न ( प्स्प्1-1: 139 ) विज्ञानतथता यावन् न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथतानाकाशधातुतथता न विज्ञानधातुतथता,
न चक्षुस्तथता न श्रोत्रतथता न घ्राणतथता न जिह्वातथतान कायतथता न मनस्तथता,
न रूपतथता न शब्दतथता न गन्धतथता न रसतथतान स्प्रष्टव्यतथता न धर्मतथता,
न चक्षूरूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्ममनोविज्ञानतथता,
नाविद्यातथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता नोपादानतथता न भवतथता न जातितथता न जरामरणतथता यावन् न स्कन्धधात्वायतनतथता न प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति.
सुभूतिर् आह: अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते. तत् कुतः पृथिवीधातु बोधिसत्त्वो भविष्यति, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, एवं शब्दो गन्धो रसः स्पर्शो धर्मो बोधिसत्त्वो भविष्यति, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतश् चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति, एवं श्रोत्रशब्दश्रोत्रविज्ञनानि घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि ( प्स्प्1-1: 140 ) कायस्प्रष्टव्यकायविज्ञानानि, मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्य्ते नोपलभ्यते, तत् कुतो ऽविद्या बोधिसत्त्वो भविष्यति. एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतः पुनर् अस्य रूपतथतोपलप्स्यते, वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथतोपलप्स्यते.
अत्यन्ततय भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य पृथिवीधातुतथतोपलप्स्यते, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुतथतोपलप्स्यते.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य रूपतथतोपलप्स्यते, एवं शब्दगन्धरसस्प्रष्टव्यधर्मतथतोपलप्स्यते, एवं चक्षुस्तथता श्रोत्रतथता घ्राणतथता जिह्वातथता कायतथता मनस्तथतोपलप्स्यते, एवं चक्षूरूपचक्षुर्विज्ञानतथतोपलप्स्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञानतथता मनोधर्ममनोविज्ञानतथतोपलप्स्यते.
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्याविद्यातथतोपलप्स्यते, एवं संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता जरामरणतथतोपलप्स्यते.

एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेष्व् अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते, नैतत् स्थानं विद्यते.
भगवान् आह: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्.
इति निरोधे ऽन्वयज्ञानम्
भगवान् आह: तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, रूपसुखताया रूपदुःखताया रूपात्मताया रूपानात्मताया रूपशान्तताया रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते वेदनानित्यताया वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, वेदनासुखताया वेदनादुःखताया वेदनात्मताया वेदनानात्मताया वेदनाशान्तताया वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संज्ञानित्यताया संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञानात्मताया संज्ञाशान्तताया संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते संस्कारनित्यताया संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संस्कारसुखतायाः संस्कारदुःखतायाः संस्कारात्मतायाः संस्कारानात्मतायाः संस्कारशान्ततायाः संस्काराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते विज्ञाननित्यताया विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञाननात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
तत् किं मन्यसे सुभूते रूपशून्यताया रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति? एवं वेदना संज्ञा संस्काराः,
तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्तताया ( प्स्प्1-1: 142 ) विज्ञानानिमित्तताया विज्ञानप्रणिहितताया विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति?

सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि: न रूपस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न वेदनाया नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न संज्ञाया नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
न संस्कारानां नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्कारानां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं ( प्स्प्1-1: 143 ) बोधिसत्त्व इति,
न विज्ञानस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति.
सुभूतिर् आह: अत्यन्ततया भगवन् रूपं न विद्यते नोपलभ्यते, कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्तया भगवन् वेदना न विद्यते नोपलभ्यते, कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्ततया भगवन् संज्ञा न विद्यते नोपलभ्यते, कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्ततया भगवन् संस्कारा न विद्यन्ते नोपलभ्यन्ते, कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्ततया भगवन् विज्ञानं न विद्यते नोपलभ्यते, कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति.
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति, एवं वेदना संज्ञा संस्काराः,
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति,
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं ( प्स्प्1-1: 144 ) नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति.
भगवान् आह: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलभमानेन वेदनाधिवचनम् अनुपलभमानेन संज्ञाधिवचनम् अनुपलभमानेन संस्काराधिवचनम् अनुपलभमानेन विज्ञानाधिवचनम् अनुपलभमानेन.
रूपस्य नित्यानित्याधिवचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
वेदनाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
संज्ञाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
संस्काराणां नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
विज्ञानस्य नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन ( प्स्प्1-1: 145 ) शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति मार्गे धर्मज्ञानक्षान्तिः
यद् अपि सुभूते एवं वदसि, नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, न हि सुभूते धर्मो धर्मधातुं समनुपश्यति, नापि धर्मधातुर् धर्मं समनुपश्यति.
इति मार्गे धर्मज्ञानम्
न सुभूते रूपधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातू रूपधातुं समनुपश्यति,
न सुभूते वेदनाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् वेदनाधातुं समनुपश्यति,
न सुभूते संज्ञाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति,
न सुभूते संस्कारधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संस्कारधातुं समनुपश्यति,
न सुभूते विज्ञानधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति,
न चक्षुर्धातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुश् चक्षुर्धातुं समनुपश्यति,
न श्रोत्रधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुः श्रोत्रधातुं समनुपश्यति,

न घ्राणधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् घ्राणधातुं समनुपश्यति,
न जिह्वाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति,
न कायधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् कायधातुं समनुपश्यति,
न मनोधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् ( प्स्प्1-1: 146 ) मनोधातुं समनुपश्यति.
इति मर्गे ऽन्वयज्ञानक्षान्तिः
न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति, नाप्य् असंस्कृतधातुः संस्कृतधातुं समनुपश्यति.
इति मार्गे ऽन्वयज्ञानम्
इति दर्शनमार्गाववादः
न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं, नाप्य् असंस्कृतव्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्.

एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति, असमनुपश्यन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न चास्य क्वचिद् धर्मचित्तम् अवलीयते, न विप्रतिसारी भवति मानसम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति.
चक्षुर् न समनुपश्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपश्यति, मनो न समनुपश्यति.
रूपाणि न समनुपश्यति, शब्दान् न समनुपश्यति, गन्धान् न समनुपश्यति, रसान् न समनुपश्यति, स्प्रष्टव्यान् न समनुपश्यति, धर्मान् न समनुपश्यति.
पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं न समनुपश्यति.
अविद्यां न समनुपश्यति, संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् न समनुपश्यति.
रागं न समनुपश्यति, द्वेषं न समनुपश्यति, मोहं न समनुपश्यति.
आत्मानं न समनुपश्यति, सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजनकपश्यकान् न समनुपश्यति.
कामधातुं न समनुपश्यति, रूपधातुं न समनुपश्यति, आरूप्यधातुं न समनुपश्यति, आकाशधातुं न समनुपश्यति. ( प्स्प्1-1: 147 ) श्रावकं न समनुपश्यति, प्रत्येकबुद्धं न समनुपश्यति, बोधिसत्त्वं न समनुपश्यति, श्रावकधर्मान् न समनुपश्यति, प्रत्येकबुद्धधर्मान् न समनुपश्यति, बोधिसत्त्वधर्मान् न समनुपश्यति, बुद्धं न समनुपश्यति, बुद्धधर्मान् न समनुपश्यति, बोधिं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति, सर्वधर्मान् असमनुपश्यन्, नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते?
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्?
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुं च नोपलभते न समनुपस्यति, एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मान् उपलब्ध्य प्रज्ञापारमितायां चरितव्यम्.
सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते न समनुपश्यति, तञ् च बोधिसत्त्वं, तच् च बोधिसत्त्वनाम, तच् च बोधिचित्तं नोपलभते न समनुपश्यति, एष एव बोधिसत्त्वस्य महासत्त्वस्याववादः प्रज्ञापारमितायाम् एषैवानुशासं.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां शिक्षितव्यम्, संस्कारान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन ( प्स्प्1-1: 148 ) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
चक्षुः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, स्पर्शं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, धर्मं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
चक्षुर्विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनोविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
चक्षुःसंस्पर्शं चक्षुःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रसंस्पर्शं श्रोत्रसंस्पर्शजां वेदनां, घ्राणसंस्पर्शं घ्राणसंस्पर्शजां वेदनां, जिह्वासंस्पर्शं जिह्वासंस्पर्शजां वेदनां, कायसंस्पर्शं कायसंस्पर्शजां वेदनां, मनःसंस्पर्शं मनःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन ( प्स्प्1-1: 149 ) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
रागद्वेषमोहान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्, एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं व्यापादं रूपरागम् आरूप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्.
पुनर् अपरं चतुरो योगान् ओघान् ग्रन्थान् उपादानानि चतुरो विपर्यासान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्.
दशाकुशलान् कर्मपथान् प्रहातुकामेन, दशकुशलान् कर्मपथान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.

चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर् ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्यष्टाङ्गमार्गं चतस्रः प्रतिसंविदश् चत्वारि वैशारद्यानि षड् अभिज्ञा दश तथागतबलानि अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
सिंहविक्रीडितं समाधिं, सिंहविजृम्भितं समाधिं, सर्वधारणीमुखं समाधिं, शूरङ्गमं समाधिं, रत्नमुद्रं समाधिं, चन्द्रप्रभं समाधिं, चन्द्रध्वजकेतुं समाधिं, सर्वधर्ममुद्रागतं समाधिं, अवलोकितमुद्रं समाधिं, धर्मधातुनियतं समाधिं, नियतध्वजकेतुं समाधिं, वज्रोपमं समाधिं, सर्वधर्मप्रवेशमुखं समाधिं, समाधिराजं समाधिं, गगनगञ्जमुद्रं समाधिं, बलविशुद्धं समाधिं, समुद्गतं समाधिं, सर्वधर्मनिरुक्तिनियतप्रवेशं समाधिं, सर्वधर्मज्ञानमुद्राप्रवेशं समाधिं, सर्वधर्ममुद्राधारणीमुखं समाधिं, सर्वधर्मासंप्रमोषं समाधिं, सर्वधर्मसमवसरणाकारमुद्रं ( प्स्प्1-1: 150 ) समाधिं, आकाशावस्थितं समाधिं, त्रिमण्डलपरिशुद्धिं समाधिं, अच्युतानुगामिन्यभिज्ञां समाधिं, पात्रगतं समाधिं, ध्वजाग्रकेयूरं समाधिं, सर्वक्लेशनिर्दहनं समाधिं, चतुर्मारबलविकरणं समाधिं, ज्ञानोल्कां समाधिं, दशबलोद्गतं समाधिं, आकाशासंगनिरुक्तिनिरूपलेपं नाम समाधिं, एतानि चान्यानि च समाधिमुखानि प्रतिलब्धुकामेअ न भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अभिप्रायं परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णैर् नापायेषूपपद्यते, न हीनकुलेषूपपद्यते, न च श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति, न च बोधिसत्त्वमूर्धामं वा पतति प्रज्ञापारमितायां शिक्षितव्यम्.
शारिपुत्र आह: कथं चायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धामं पतति?
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः षट्सु पारमितासु चरन्न् उपायकौशलम् अजानन् शून्यतानिमित्ताप्रणिहितान् समाधीन् आगम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्यामम् अवक्रामति, अयम् उच्यते बोधिसत्त्वमूर्धामः.
शारिपुत्र आह: केन कारणेन आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यायम् आमः?
सुभूतिर् आह: आम इत्य् आयुष्मन् शारिपुत्र उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मतृष्णा.
इति भावनामार्गाववादः
इत्य् उक्तो ऽववादः
शारिपुत्र आह: कतमा आयुष्मन् सुभूते धर्मतृष्णा?
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न ( प्स्प्1-1: 151 ) संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, रूपं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, विज्ञानं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य आनुलोमिकी धर्मतृष्णा आमः.
इति दुःखसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति, एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति, एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति, एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं दुःखं परिज्ञेयम् अनेन दुःखं परिज्ञेयम् इति, एवं समुदयः प्रहातव्यो ऽनेन समुदयः प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजानीते.
इति समुदयसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति, एवं मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति, अयं संक्लेश इदं व्यवदानम् इति, इमे धर्माः सेवितव्या इमे धर्मा न सेवितव्या इति, इह चरितव्यम् इह न चरितव्यम्, अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः, इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा, इयं बोधिसत्त्वस्य दानपारमिता, इयं बोधिसत्त्वस्य शीलपारमिता, इयं बोधिसत्त्वस्य क्षान्तिपारमिता, इयं बोधिसत्त्वस्य वीर्यपारमिता, इयं बोधिसत्त्वस्य ध्यानपारमिता, इयं बोधिसत्त्वस्य प्रज्ञापारमिता, इयं बोधिसत्त्वस्य न दानपारमिता, इयं बोधिसत्त्वस्य न शीलपारमिता, इयं बोधिसत्त्वस्य न क्षान्तिपारमिता, इयं बोधिसत्त्वस्य न वीर्यपारमिता, इयं बोधिसत्त्वस्य न ध्यानपारमिता, इयं बोधिसत्त्वस्यन प्रज्ञापारमिता, इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. अयं बोधिसत्त्वस्य मूर्धामः.
सचेद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः.
शारिपुत्र आह: कतमः पुनर् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य न्यामः?

सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति, न शून्यताशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, न शून्यताशून्यतया महाशून्यतां समनुपश्यति, न महाशून्यतया शून्यताशून्यतां समनुपश्यति, न महाशून्यतया परमार्थशून्यतां समनुपश्यति, न परमार्थशून्यतया महाशून्यतां समनुपश्यति, न परमार्थशून्यतया संस्कृतशून्यतां समनुपश्यति, न संस्कृतशून्यतया परमार्थशून्यतां समनुपश्यति, न संस्कृतशून्यतया असंस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया संस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया अत्यन्तशून्यतां समनुपश्यति, नात्यन्तशून्यतया असंस्कृतशून्यतां समनुपश्यति, नात्यन्तशून्यतया अनवराग्रशून्यतांसमनुपश्यति, नानवराग्रशून्यतया अत्यन्तशून्यतां समनुपश्यति, नानवराग्रशून्यतया अनवकारशून्यतां समनुपश्यति, नानवकारशून्यतया अनवराग्रशून्यतां समनुपश्यति, नानवकारशून्यतया प्रकृतिशून्यतां समनुपश्यति, न प्रकृतिशून्यतया अनवकारशून्यतां समनुपश्यति, न प्रकृतिशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया प्रकृतिशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया स्वलक्षणशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया अनुपलम्भशून्यतां समनुपश्यति, नानुपलम्भशून्यतया स्वलक्षणशून्यतां समनुपश्यति, नानुपलम्भशून्यतया अभावस्वभावशून्यतां समनुपश्यति, नाभावस्वभावशून्यतया अनुपलम्भशून्यतां ( प्स्प्1-1: 153 ) समनुपश्यति, नाभावस्वभावशून्यतया भावशून्यतां समनुपश्यति, न भावशून्यतया अभावस्वभावशून्यतां समनुपश्यति, न भावशून्यतया अभावशून्यतां समनुपश्यति, नाभावशून्यतया भावशून्यतां समनुपश्यति, नाभावशून्यतया स्वभावशून्यतां समनुपश्यति, न स्वभावशून्यतया अभावशून्यतां समनुपश्यति, न स्वभावशून्यतया परभावशून्यतां समनुपश्यति, न परभावशून्यतया स्वभावशून्यतां समनुपश्यति.
अयं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः
इति निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्. यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यं, वेदना संज्ञा संस्कारा विज्ञानं ज्ञातव्यं न च तेन मन्तव्यं, चक्षुर् ज्ञातव्यम् एवं श्रोत्रं घ्राणं जिह्वा कायो मनोज्ञातव्यं न च तेन मन्तव्यं, शब्दगन्धरसस्प्रष्टव्यधर्मा ज्ञातव्या न च तैर् मन्तव्यं, दानपारमिता ज्ञातव्या शीलपारमिता ज्ञातव्या क्षान्तिपारमिता ज्ञातव्या वीर्यपारमिता ज्ञातव्या ध्यानपारमिता ज्ञातव्या प्रज्ञापारमिता ज्ञातव्या न च ताभिर् मन्तव्यं, एवं पञ्चाभिज्ञाः पञ्च चक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यं, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्या न च तैर् मन्तव्यम्.
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बोधिचित्तं नाम ज्ञातव्यम् असमचित्तं नामोदारचित्तं नाम ज्ञातव्यं न च तेन मन्तव्यम्. तत् कस्य हेतोः? तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा.
शारिपुत्र आह: का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता?
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं, न द्वेषेण मोहेन संयुक्तं न विसंयुक्तं, न पर्युत्थानैः संयुक्तं न विसंयुक्तं, नावरणैः संयुक्तं न ( प्स्प्1-1: 154 ) विसंयुक्तं, नानुशयैः संयुक्तं न विसंयुक्तं, न संयोजनैः संयुक्तं न विसंयुक्तं, न दृष्टिकृतैः संयुक्तं न विसंयुक्तं, न श्रावकप्रत्येकबुद्धचित्तैः संयुक्तं न विसंयुक्तम्. इयं शारिपुत्र चित्तस्य प्रभास्वरता.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तम्?
सुभूतिर् आह: किं पुनर् आयुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा?
शारिपुत्र आह: न खल्व् आयुष्मन् सुभूते.
सुभूतिर् आह: सचेद् आयुष्मन् शारिपुत्र तत्राचित्ततायाम् अस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, अपि नु ते युक्त एष पर्यनुयोगः, यद् आयुष्मन् शारिपुत्र एवम् आह, अस्ति तच् चित्तं यच् चित्तम् अचित्तम् इति.
शारिपुत्र आह: का पुनर् एषा आयुष्मन् सुभूते अचित्तता?
सुभूतिर् आह: अविकारा आयुष्मन् शारिपुत्र अविकल्पा अचित्तता या सर्वधर्माणां धर्मता, इयम् उच्यते अचित्तता.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव तच् चित्तम् अविकारम् अविकल्पं तथैव रूपम् अप्य् अविकारम् अविकल्पं, वेदनाप्य् अविकारा अविकल्पा संज्ञाप्य् अविकारा अविकल्पा संस्कारा अप्य् अविकारा अविकल्पा विज्ञानम् अप्य् अविकारम् अविकल्पं, एवम् एव चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् अविकारो ऽविकल्पः, श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् अविकारो ऽविकल्पः, घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् अविकारो ऽविकल्पः, जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् अविकारो ऽविकल्पः, कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् अविकारो ऽविकल्पः, मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् अविकारो ऽविकल्पः. एवम् आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविद्बलावेणिका बुद्धधर्मा यावद् अनुत्तरा सम्यक्संबोधिर् अविकारा अविकल्पा.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथैव चित्तम् अविकारम् ( प्स्प्1-1: 155 ) अविकल्पं तथैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाबोधिपक्ष्या धर्मा दशतथागतबलवैशारद्याष्टादशावेणिकबुद्धधर्मा यावद् अनुत्तरा सम्यक्संबोधिः.
शारिपुत्र आह: साधु साधु आयुष्मन् सुभूते तद्यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो नामिषदायादः प्रत्यक्षचक्षुधर्मेषु कायसाक्षी यथापि नामाग्रारो ऽरणाविहारिणां भगवता अग्रतायां निर्दिष्टस्यायम् उपदेशः.
एवम् आयुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, अतश् च बोधिसत्त्वो महसत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽविरहितश् च प्रज्ञापारमितया वेदितव्यः.
इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः

श्रावकभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
प्रत्येकबुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
बोधिसत्त्वभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
बुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महासत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्.
इति सर्वेषां हेतुत्वविशेषः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो ऽहं भगवन् न बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न ( प्स्प्1-1: 156 ) समनुपश्यामि. तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं वस्तु न विन्दामि नोपलभे न समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वध्हर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, वेदनाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संज्ञाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संस्काराणाम् अहं भगवन्न् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि, विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ्च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति?
अनेन भगवन् पर्यायेण तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
चक्षुषो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वाया अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनसो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.
अपि तु खलु पुनर् भगवन् यद् अपि तद् रूपं नाम वेदना नाम संज्ञा नाम संस्कारा नाम विज्ञानं नाम चक्षुः श्रोत्रं घ्राणं ( प्स्प्1-1: 157 ) जिह्वा कायो मन इति नाम, एतानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि. तत् कस्य हेतोः? अविद्यमानत्वेन तेषां नामधेयानां, एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवन् रूपशब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुर्विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवं श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवंश् चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्न् अनुपलम्भमानः कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रसंस्पर्शस्याहं भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वासंस्पर्शस्याहं भगवन् यावद् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनःसंस्पर्शस्याहं भगवन् यावन् मनःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, ( प्स्प्1-1: 158 ) पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् आयञ् च व्ययञ् च न सनुपश्यामि नोपलभे.
एवम् अविद्या यावज् जरामरणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवम् अविद्यानिरोधस्य यावज् जरामरणनिरोधस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, रागद्वेषमोहानाम् अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, पर्युत्थानावरणानुशयसंयोजनदृष्टिकृतानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.

दानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शीलपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, क्षान्तिपारमिताया अहं भगवन्न् आयञ् चव्ययञ् च नोपलभे न समनुपश्यामि, वीर्यपारमिताया अहं भगवन्नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि, ध्यानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, प्रज्ञापारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
आत्मनो ऽहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
स्मृत्युपस्हानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सम्यक्प्रहाणर्द्धिपादेनद्रियबलबोध्यङ्गमार्गस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शून्यताया आनिमित्तस्याप्रणिहितस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानुस्मृतेर् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च ( प्स्प्1-1: 159 ) व्ययञ् च नोपलभे न समनुपश्यामि, पञ्चानां चक्षुषाम् अभिज्ञानां वैशारद्यानां दशानां तथागतबलानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, अष्टादशानाम् आवेणिकानाम् अहं भगवन् बुद्धधर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं मायोपमानां प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपामानां मरीच्युपमानां उदकचन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्य अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं धर्मधातोस् तथताया भूतकोटेर् धर्मस्थितिताया धर्मनियामताया अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
एवं कुशलानाम् अकुशलानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निःक्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां व्यवदानानां संसारिकाणां नैर्वाणिकानाम् अहं भगवन् धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, भगवतो ऽप्य् अहं भगवन् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि.
पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धनां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् ( प्स्प्1-1: 160 ) अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, दक्षिणपश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, अधो दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामायञ् च व्ययञ् च नोपलंभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.

अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् सर्वधर्मतथतायाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
इति मध्योष्मगतस्यालम्बनाकारविशेषः
यापीयं भगवन् धर्मसांकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति, सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा यावद् आवेणिकेन वा बुद्धधर्मेण, यावद् एवैषा धर्मप्रज्ञप्तिः, तद्यथापि नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयं, तद्यथापि नाम भगवन् पृथिव्याप्तेजोवाय्वाकाशं नाम न केनचिद् ( प्स्प्1-1: 161 ) वचनीयम्, तद्यथापि नाम भगवन् शीलम् इति समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञा अनदर्शनम् इति नाम न केनचिद् वचनीयं, स्रोतआपन्न इति नाम न केनचिद् वचनीयं, सकृदागामीति, अनागामीति, अर्हन्न् इति, प्रत्येकबुद्ध इति, यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध इति तथतेति बुद्धधर्म इति नाम न केनचिद् वचनीयं, कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा दुःखेनवा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेनवा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति.
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सचेद् भगवन्न् एवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति, मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नियतं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः सुस्थितो ऽस्थानयोगेन.
इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यं तेन न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, तेन न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, तेन न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, तेन न चक्षुःसंस्पर्शे स्थातव्यन् न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शे न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न घ्राणसंस्पर्शे ( प्स्प्1-1: 162 ) न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न जिह्वासंस्पर्शे न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न कायसंस्पर्शे न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यं, तेन नाविद्यायां स्थातव्यं न संस्कारेषुन विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादाने न भवे न जातौ न जरामरणशोकपरिदेवदुःखदौमनस्योपयासेषु स्थातव्यम्.
तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, वेदनावेदनात्वेन शून्या, संज्ञा संज्ञात्वेन शून्या, संस्काराः संस्कारत्वेन शून्याः, विज्ञानं विज्ञानत्वेन शून्यं, या च भगवन् रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यताशून्यतैव रूपं, या च भगवन् वेदनायाः शून्यता न सा वेदना, न चान्यत्र शून्यताया वेदना, वेदनैव शून्यता शून्यतैव वेदना, या च भगवन् संज्ञायाः शून्यता न सा संज्ञा, न चान्यत्र शून्यतायाः संज्ञा, संज्ञैव शून्यता शून्यतैव संज्ञा, या च भगवन् संस्काराणां शून्यता न ते संस्काराः, न चान्यत्र शून्यतायाः संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम्.
न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् पृथिवीधातुः पृथिवीधातुत्वेन शून्या, या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र शून्यतायाः पृथिवीधातुः, पृथिवीधातुर् एव शून्यता, शून्यतैव पृथिवीधातुः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् विज्ञानधातुत्वेन शून्या, या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता, शून्यतैव ( प्स्प्1-1: 163 ) विज्ञानधातुः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्.

न रूपे स्थातव्यन् न शब्दे न गन्धेन रसे न स्प्रष्टव्ये न धर्मे स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, या च रूपे शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यता शून्यतैव रूपं, तथा हि शब्दः शब्दत्वेन शून्या, या च शब्दशून्यता न स शब्दो, न चान्यत्र शून्यतायाः शब्दः, शब्द एव शून्यता शून्यतैव शब्दः, तथा हि गन्धो गन्धत्वेन शून्यो, या च गन्धशून्यता न स गन्धो, न चान्यत्र शून्यताया गन्धो, गन्ध एव शून्यता शून्यतैव गन्धः, तथा हि रसो रसत्वेन शून्यो, या च रसशून्यता न स रसो, न चान्यत्र शून्यताया रसो, रस एव शून्यता शून्यतैव रसः, तथा हि स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यं, या च स्प्रष्टव्यशून्यता न तत् स्प्रष्टव्यं, न चान्यत्र शून्यतायाः स्प्रष्टव्यं, स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, तथा हि भगवन् धर्मो धर्मत्वेन शून्यो, या च धर्मशून्यता न ते धर्मा, न चान्यत्र शून्यताया धर्मा, धर्मा एव शून्यता शून्यतैव धर्माः.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यम्.
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुश् चक्षुत्वेन शून्यं, या च चक्षुःशून्यता न तच् चक्षुर्, न चान्यत्र शून्यतायाश् चक्षुश्, चक्षुर् एव शून्यता शून्यतैव चक्षुः, तथा हि श्रोत्रं श्रोत्रत्वेन शून्यं या च श्रोत्रशून्यता न तच् छ्रोत्रं, न चान्यत्र शून्यतायाः श्रोत्रं, श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, तथा हि घ्राणं घ्राणत्वेन शून्यं, या च घ्राणशून्यता न तद् घ्राणं, न चान्यत्र शून्यताया घ्राणं, घ्राणम् एव शून्यता शून्यतैव घ्राणं, तथा हि जिह्वा जिह्वात्वेन शून्या, या च जिह्वाशून्यता न सा जिह्वा, न चान्यत्र शून्यताया जिह्वा, जिह्वैव शून्यता शून्यतैव जिह्वा, तथा हि कायः कायत्वेन शून्या, या च कायशून्यता न स कायो, न चान्यत्र शून्यतायाः कायः, काय एव शून्यता ( प्स्प्1-1: 164 ) शून्यतैव कायः, तथा हि भगवन् मनो मनस्त्वेन शून्यं, या च मनःशून्यता न तं मनो, न चान्यत्र शून्यताया मनो, मन एव शून्यता शून्यतैव मनः.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, न चक्षुर्विज्ञाने स्थातव्यं न श्रोत्रविज्ञानेन घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यम्.
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यं, या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं, न चान्यत्र शून्यतायाश् चक्षुर्विज्ञानं, चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यं, या च श्रोत्रविज्ञानशून्यता न तच् छ्रोत्रविज्ञानं, न चान्यत्र शून्यतायाश् श्रोत्रविज्ञानं, श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, तथा हि घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यं, या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं, न चान्यत्र शून्यताया घ्राणविज्ञानं, घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यं, या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं, न चान्यत्र शून्यतायाश् जिह्वाविज्ञानं, जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, तथा हि कायविज्ञानं कायविज्ञानत्वेन शून्यं, या च कायविज्ञानशून्यता न तत् कायविज्ञानं, न चान्यत्र शून्यतायाश् कायविज्ञानं, कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, तथा हि मनोविज्ञानं मनोविज्ञानत्वेन शून्यं, या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं, न चान्यत्र शून्यताया मनोविज्ञानं, मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं,
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शेन जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन ( प्स्प्1-1: 165 ) शून्यः, या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः, न चान्यत्र शून्यतायाश् चक्षुःसंस्पर्शश्, चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः, तथा हि भगवन् मनःसंस्पर्शो मनःसंस्पर्शत्वेन शून्यो, या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शो, न चान्यत्र शून्यताया मनःसंस्पर्शो, मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शे न जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम् एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतान तच् चक्षुःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यतायाश्चक्षुःसंस्पर्शप्रत्ययवेदयितं, चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं, तथा हि भगवन् मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च मनःसंस्पर्शप्रत्ययवेदयितं शून्यता न तन् मनःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यम्.

नाविद्यायां स्थातव्यम् एवं यावन् न जरामरणे स्थातव्यम्. तत् ( प्स्प्1-1: 166 ) कस्य हेतोः? तथा हि भगवन्न् अविद्या अविद्यात्वेन शून्या, या चाविद्याशून्यता न साविद्या, न चान्यत्र शून्यताया अविद्या, अविद्यैव शून्यताशून्यतैवाविद्या, एवं संस्काराः संस्कारत्वेन शून्याः विज्ञानं विज्ञानत्वेन शून्यं, नामरूपं नामरूपत्वेन शून्यं, षडायतनं षडायतनत्वेन शून्यं, स्पर्शः स्पर्शत्वेन शून्यः, वेदना वेदनात्वेन शून्या, तृष्णा तृष्णात्वेन शून्या, उपादानम् उपादानत्वेन शून्यं, भवो भवत्वेन शून्यः, जातिर् जातित्वेन शून्या, तथा हि भगवञ् जरामरणं जरामरणत्वेन शून्यं, या च जरा अमरणशून्यता न तज् जरामरणं, न चान्यत्र शून्यताया जरामरणं, जरामरणम् एव शून्यता शून्यतैव जरामरणम्.
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाविद्यायां स्थातव्यं न संस्कारेषु न विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादानेन भवे न जातौ न जरामरणे स्थातव्यम्.
एवं स्कन्धधात्वायतनेषु च कर्तव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्मृत्युपस्थानेषु न स्थातव्यम्. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्मृत्युपस्थानत्वेन शून्यानि, या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि न चान्यत्र शून्यतायाः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न स्मृत्युपस्थानेषु स्थातव्यं, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मत्वेन शून्या या च भगवन्न् आवेणिकबुद्धधर्माणां शून्यता न ते आवेणिकबुद्धधर्मा न चान्यत्र शून्यताया आवेणिका बुद्धधर्मा आवेणिका बुद्धधर्मा एव शून्यता शून्यतैवावेणिका बुद्धधर्माः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु ( प्स्प्1-1: 167 ) न स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन, या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता, न चान्यत्र शून्यताया दानपारमिता, दानपारमितैव शून्यता शून्यतैव दानपारमिता, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन, या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता, न चान्यत्र शून्यतायाः प्रज्ञापारमिता, प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यं, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं, अक्षराभिनिर्हारेषु न स्थातव्यं, एकोदाहारे द्विर् उदाहारे त्रिर् उदाहारे न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् अक्षराणि शून्यान्य् अक्षरस्वभावेन, या च भगवन्न् अक्षरशून्यता न तानि अक्षराणि, न चान्यत्र शून्यताया अक्षराणि, अक्षराण्य् एव शून्यता शून्यतैवाक्षराणि, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाक्षरेषु स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्. तत् कस्य हेतोः? अभिज्ञा एव शून्या अभिज्ञास्वभावेन, या च भगवन्न् अभिज्ञा शून्यता न ता अभिज्ञा, न चान्यत्र शून्यताया अभिज्ञा, अभिज्ञा एवशून्यता शून्यतैवाभिज्ञाः, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनित्यम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनित्यम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि ( प्स्प्1-1: 168 ) रूपानित्यता अनित्यतास्वभावेन शून्या, या च भगवन् रूपानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यम्.
न वेदनानित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि वेदनानित्यतानित्यतास्वभावेन शून्या, या च भगवन् वेदनानित्यताशून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
न संज्ञा अनित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि संज्ञानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संज्ञा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
न संस्कारा अनित्या इति स्थातव्यं, तत् कस्य हेतोः? तथा हि संस्कारानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संस्कारा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैवानित्यता,
न विज्ञानम् अनित्यम् इति स्थातव्यं, तत् कस्य हेतोः? तथा हि विज्ञानानित्यतानित्यतास्वभावेन शून्या, या च भगवन् विज्ञानानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनित्यम् इति स्थातव्यम्.

एवं न रूपं दुःखम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपदुःखता दुःखतास्वभावेन शून्या, या च भगवन् रूपदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं दुःखम् इति स्थातव्यं. न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या या च भगवन् विज्ञानदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि ( प्स्प्1-1: 169 ) भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं दुःखम् इति स्थातव्यम्.
एवं न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् रूपानात्मता शून्यता न सानात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैवशून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् विज्ञानानात्मता शून्यता न सा अनात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैव शून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मेति स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपशान्तता शान्ततास्वभावेन शून्या, या च भगवन् रूपशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या, या च भगवन् विज्ञानशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं शान्तम् इति स्थातव्यम्.
एवं हेतुसमुदयप्रभवप्रत्ययतायां न स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि तथता तथतास्वभावेन शून्या, या च भगवंस् तथतायाः शून्यता न सा तथता, न चान्यत्र तथतायाः शून्यता, तथतैव शून्यता शून्यतैव तथता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन ( प्स्प्1-1: 170 ) प्रज्ञापारमितायां चरता तथतायान् न स्थातव्यम्.
एवं धर्मतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मता धर्मतास्वभावेन शून्या, या च भगवन् धर्मतायाः शून्यता न सा धर्मता, न चान्यत्र धर्मतायाः शून्यता, धर्मतैव शून्यता शून्यतैव धर्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्.
एवं धर्मधातौ न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो, या च भवगवन् धर्मधातोः शून्यता न स धर्मधातुर्, न चान्यत्र धर्मधातोः शून्यता, धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्.
एवं धर्मनियामतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या, या च भगवन् धर्मनियामता शून्यता न सा धर्मनियमता, न चान्यत्र धर्मनियामतायाः शून्यता, धर्मनियामतैव शून्यता शून्यतैव धर्मनियमता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्.

एवं भूतकोट्यां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या, या च भगवन् भूतकोटेः शून्यता न सा भूतकोटिर्, न चान्यत्र भूतकोटेः शून्यता, भूतकोटिर् एव शून्यता शून्यतैव भूतकोतिः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखैः शून्यानि, या च भगवन् धारणीमुखानां शून्यता न तानि धारणीमुखानि, न चान्यत्र धारणीमुखेभ्यः शून्यता, धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे ( प्स्प्1-1: 171 ) तिस्थति रूपाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां संज्ञायां संस्कारेषु, सचेद् विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापारमितां न निर्यास्यति सर्वाकारज्ञतायाम्.
तत् कस्य हेतोः? तथा हि भगवन् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपरिगृहीतम्.
तत् कस्य हेतोः? यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा, यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय.
एवं यावद् भूतकोटिर् अपरिगृहीता. तत् कस्य हेतोः? यश् च भूतकोट्या अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय, सापि प्रज्ञापारमिता अपरिगृहीता प्रकृतिशून्यताम् उपादाय.
एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्माः प्रत्यवेक्षितव्याः, तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो व्युपचारो भवेत्. इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावकप्रत्येकबुद्धैः.
सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, महाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय.
इति मृदुमूर्धगतस्यालम्बनाकारविशेषः
तत् कस्य हेतोः? तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या निमित्तं हि क्लेशः.
कतमत् पुनर् निमित्तम्? रूपं निमित्तं वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं विज्ञानं निमित्तं, चक्षुर् निमित्तं श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तं मनो निमित्तं, रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्पर्शो निमित्तं धर्मो निमित्तं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताइधर्मनियामताभूतकोटिनिमित्तम् अयम् उच्यते क्लेशः.
सचेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्याभविष्यन् नैवेह श्रेणिकः परिव्राजकः शासने श्रद्धाम् अलप्स्यत, अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा? येयं प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुक्तिश् चिन्तना तुलना व्युपपरीक्षणा तच् चानिमित्तयोगेन, एवम् अनिमित्तत उद्ग्रहीतव्या.
अत्र पुनः श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः, सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परीगृहीतवान्.
तत् कस्य हेतोः? तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः परिगृहीतो निमित्तामनसिकारताम् उपादाय.
तत् कस्य हेतोः? तथा हि स नाध्यात्मप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, न बहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति.
तत् कस्य हेतोः? तथा हि स तं धर्मं न समनुपश्यति, यो वा प्रजानीयाद्, यं वा प्रजानीयाद्, येन वा प्रजानीयात्.
तत् कस्य हेतोः? नाध्यात्मरूपस्य तज् ज्ञानं समनुपश्यति नाध्यात्मवेदनायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंज्ञायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंस्काराणां तज् ज्ञानं ( प्स्प्1-1: 173 ) समनुपश्यति, नाध्यात्मविज्ञानस्य तज् ज्ञानं समनुपश्यति.
न बहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, न बहिर्धावेदनाया न बहिर्धासंज्ञाया न बहिर्धासंस्काराणां न बहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति,
नाध्यात्मबहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धावेदनाया नाध्यात्मबहिर्धासंज्ञाया नाध्यात्मबहिर्धासंस्काराणां नाध्यात्मबहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति,
नाप्य् अन्यत्ररूपात् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रवेदनाया, नाप्य् अन्यत्रसंज्ञाया, नाप्य् अन्यत्रसंस्कारेभ्यो, नाप्य् अन्यत्रविज्ञानात् तज् ज्ञानं समनुपश्यति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
अत्र पदपर्याये श्रेणिकः परिव्राजको ऽधिमुक्तः सो ऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञाने धर्मतां प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय, एवम् अधिमुक्तस् तेन न कश्चिद् धर्मः परीगृहीतो निमित्तामनसिकारताम् उपादाय, नाप्य् अनेन कश्चिद् धर्म उपलब्धो यं परिगृहीयाद् वा मुञ्चेद् वा सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय. स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय.
तत् कस्य हेतोः? यः सर्वधर्माणाम् अपरिग्रहो ऽनुत्सर्गः सा प्रज्ञापारमिता, इयम् अपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता अपारपारगताम् उपादाय, यद् रूपं न परिगृह्णाति यद् वेदनां न परिगृह्णाति यत् संज्ञां न परिगृह्णाति यत् संस्कारान् न परिगृह्णाति यद् विज्ञानं न परिगृह्णाति, सर्वधर्मापरिगृहीतताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान्

स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्मनियमतासमाधिमुखधारणीमुखानि, यावत् समधिं न परिगृह्णाति सर्वधर्मापरिगृहीतताम् उपादाय, न चान्तरापरिनिर्वात्य् अपरिपूर्णैः प्रणिधानैर्, यावद् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः.
तत् कस्य हेतोः? तथा हि सर्वधर्मा अधर्मा, यावत् स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका ( प्स्प्1-1: 174 ) बुद्धधर्मा अधर्मा, नापि ते धर्मा नाधर्माः. इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीतताम् उपादाय.
इति मध्यमूर्धगतालम्बनाकारविशेषः
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यम्.
कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किम् एषा प्रज्ञापारमिता? केनैषा प्रज्ञापारमिता?
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपनिध्यायति, तत् किं यो धर्मो न विद्यते नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायाम्.
अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कतमे ते आयुष्मन् सुभूते धर्मा न विद्यन्ते नोपलभ्यन्ते?
सुभूतिर् आह: प्रज्ञापारमिता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, ध्यानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, वीर्यपारमिता न विद्यते नोपलभ्यते, क्षान्तिपारमिता न विद्यते नोपलभ्यते, शीलपारमिता न विद्यते नोपलभ्यते, दानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, महाशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय.
रूपम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, वेदना न विद्यते नोपलभ्यते, संज्ञा न विद्यते नोपलभ्यते, संस्कारा न विद्यन्ते नोपलभ्यन्ते, विज्ञानम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, बहिर्धाशून्यता न विद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यता न विद्यते ( प्स्प्1-1: 175 ) नोपलभ्यते, शून्यताशून्यता न विद्यते नोपलभ्यते, महाशून्यता न विद्यते नोपलभ्यते, परमार्थशून्यता न विद्यते नोपलभ्यते, संस्कृतशून्यता न विद्यते नोपलभ्यते, असंस्कृतशून्यता न विद्यते नोपलभ्यते, अत्यन्तशून्यता न विद्यते नोपलभ्यते, अनवराग्रशून्यता न विद्यते नोपलभ्यते, अनवकारशून्यता न विद्यते नोपलभ्यते, प्रकृतिशून्यता न विद्यते नोपलभ्यते, सर्वधर्मशून्यता न विद्यते नोपलभ्यते, स्वलक्षणशून्यता न विद्यते नोपलभ्यते, अनुपलम्भशून्यता न विद्यते नोपलभ्यते, अभावस्वभावशून्यता न विद्यते नोपलभ्यते, भावशून्यता न विद्यते नोपलभ्यते, अभावशून्यता न विद्यते नोपलभ्यते, स्वभावशून्यता न विद्यते नोपलभ्यते, परभावशून्यता न विद्यते नोपलभ्यते, यावत् सप्तत्रिंशद् बोधिपक्ष्या धर्मा न विद्यन्ते नोपलभ्यन्ते, अभिज्ञा न विद्यन्ते नोपलभ्यन्ते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा न विद्यन्ते नोपलभ्यन्ते, तथता न विद्यते नोपलभ्यते, धर्मता न विद्यते नोपलभ्यते, धर्मे स्थितिता न विद्यते नोपलभ्यते, धर्मनियामता न विद्यते नोपलभ्यते, भूतकोटिर् न विद्यते नोपलभ्यते, बुद्धाप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, यावत् परभावशून्यताम् उपादाय.
सचेत् पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनिध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः.
इत्य् अधिमात्रमूर्धगतालम्बनाकारविशेषः
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया अविरहितो वेदितव्यः?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र विरहितं रूपस्वभावेन, एवं वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन. दानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ( प्स्प्1-1: 176 ) ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन. एवम् अप्रमाणध्यानारूप्यसमापत्तयः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्याष्टादशावेणिका बुद्धधर्मा विरहिता बुद्धधर्मस्वभावेन, भूतकोटिर् अप्य् आयुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन.
शारिपुत्र आह: कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्य स्वभावः? कथं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां स्वभावः? एवं विस्तरेण यावत् कथं भूतकोट्याः स्वभावः?
सुभूतिर् आह: अभाव आयुष्मन् शारिपुत्र रूपस्य स्वभावः, अभावो वेदनायाः, अभावः संज्ञायाः, अभावः संस्काराणाम्, अभावो विज्ञानस्य स्वभावः, अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः, अभावः शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां जातः स्वभावः, अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः.
एवं विस्तरेण यावद् अभावो भूतकोट्याः स्वभावः, तद् अनेन त्वयायुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा रूपं विरहितं रूपस्वभावेन, वेदना विरहिता वेदनास्वभावेन, संज्ञा विरहिता संज्ञास्वभावेन, संस्कारा विरहिताः संस्कारस्वभावेन, विज्ञानं विरहितं विज्ञानस्वभावेन.
एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिस्वभावेन.

पुनर् अपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, वेदना विरहिता वेदनालक्षणेन, संज्ञा विरहिता संज्ञालक्षणेन, संस्कारा विरहिताः संस्कारलक्षणेन, विज्ञानं विरहितं विज्ञानलक्षणेन. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिलक्षणेन, लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभावलक्षणेनापि स्वभावो विरहितः.

शारिपुत्र आह: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यो ह्य् एवम् अत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्.
इति मृदुक्षान्तेर् आलम्बनाकारविशेषः
तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अजाता अनिर्याताः सर्वधर्माः.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अजाता अनिर्याताः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते, वेदना शारिपुत्र शून्या वेदनास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संज्ञा शारिपुत्र शून्या संज्ञास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संस्काराः शारिपुत्र शून्याः संस्कारस्वभावेन तेषां नापि जातिर् नापि निर्याणम् उपलभ्यते, विज्ञानम् आयुष्मन् शारिपुत्र शून्यं विज्ञानस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिः शून्या भूतकोटिस्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नीभवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिं चाधिगच्छति, यथा यथा च कायपरिशुद्धिं च चित्तपरिशुद्धिं च लक्षणपरिशुद्धिं चाधिगच्छति तथा तथा बोधिसत्त्वस्य महासत्त्वस्य रागसहगतं चित्तं नोत्पद्यते दोषसहगतं चित्तं नोत्पद्यते मोहसहगतं चित्तं नोत्पद्यते मानसहगतं चित्तं नोत्पद्यते लोभसहगतं चित्तं नोत्पद्यते कुदृष्टिसहगतं चित्तं नोत्पद्यते स रागचित्तानुत्पादाद् दोषचित्तानुत्पादान् मोहचित्तानुत्पादान् मानचित्तानुत्पादाल् लोभचित्तानुत्पादात् कुदृष्टिचित्तानुत्पादाद् न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औपपादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते, ( प्स्प्1-1: 178 ) सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न तैर् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः.
इति मध्यक्षान्तेर् आलम्बनाकारविशेषः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संज्ञायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मानो ऽनात्मानो वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्, एवं यावद् अभिज्ञासु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत एवं भवति, अहं प्रज्ञापारमितायां चरामीत्य् उपलम्भे चरति, अहं चरामीति चरति निमित्ते चरति.
सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां भावयतीति निमित्त एव स चरति, इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्.
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्?

सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, वेदनाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संज्ञाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संस्कारान् अधितिष्ठति संजानीते ऽधिमुच्यते, विज्ञानम् ( प्स्प्1-1: 180 ) अधितिष्ठति संजानीते ऽधिमुच्यते, स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संज्ञाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संस्कारान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, विज्ञानम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, रूपस्याभिसंस्कारे चरति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याभिसंस्कारे चरति तत् तस्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि.
पुनर् अपरं शारिपुत्र सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः, चक्षुर् अधितिष्ठति संजानीते ऽधिमुच्यते, श्रोत्रं घ्राणं जिह्वां कायञ् मनो ऽधितिष्ठति संजानीते ऽधिमुच्यते, रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, शब्दान् गन्धान् रसान् स्प्रष्टव्यान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते.
सचेत् सप्तत्रिंशद्बोधिपक्षान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, एवं पञ्च चक्षूंषि षड् अभिज्ञाः षट् पारमिताश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दशतथागतबलान्य् अष्टादशवेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धधर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, सर्वान् बुद्धधर्मान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, बुद्धधर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते, जात्या जरया मरणेन च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि.
स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् ( प्स्प्1-1: 181 ) अभिसंभोत्स्यते नेदं स्थानं विद्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः.
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकुशलो वेदितव्यः?
सुभूतिर् आह: य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, वेदना संज्ञा संस्कारान् विज्ञानं नाधितिष्ठति न संजानीते नाधिमुच्यते, एवं यावद् बुद्धधर्मान् नाधितिष्ठति न संजानीते नाधिमुच्यते, स न रूपे चरति न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया न संज्ञाया न संस्काराणां न विज्ञनस्य निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं नित्यम् इति नानित्यम् इति चरति, न रूपं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति चरति, न रूपं शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् इति चरति, न प्रणिहितम् इति नाप्रणिहितम् इति चरति न विविक्तम् इति नाविविक्तम् इति चरति, एवं न वेदना न संज्ञा न संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् इति चरति, न निमित्तम् इति नानिमित्तम् इति चरति न प्रणिहितम् इति नाप्रणिहितम् इति चरति, न विविक्तम् इति नाविविक्तम् इति चरति.
तत् कस्य हेतोः? तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यतायाः रूपं, नान्यत्र रूपाच् छून्यता, रूपम् एव शून्यता शून्यतैवं रूपम्,
या वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता, या विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, नान्यत्र विज्ञानाच् छून्यता, शून्यतैव विज्ञानं विज्ञानम् एव शून्यता.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु पारमितास्व् अभिज्ञासु अप्रमाणध्यानारूप्यसमापत्तिषु बलवैशारद्येषु प्रतिसंवित्सु आवेणिकेषुबुद्धधर्मेषु, यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा,( प्स्प्1-1: 182 ) न चान्यत्र शून्यताया बुद्धधर्माः, नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव शून्यता.
एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकुशलो वेदितव्यः.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स पुनः प्रज्ञापारमितायां चरन् सचेत् कंचिद् धर्मम् उपैति न चरति प्रज्ञापारमितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च न चरति प्रज्ञापारमितायाम्.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते नोपैति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्?
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति. तत् कस्य हेतोः? तथा हि तेन सर्वधर्मा अभावस्वभावा इत्य् अनुगता अनुपात्ताः. सचेद् एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रासम् आपद्यते वेदितव्यम्.
आयुष्मन् शारिपुत्रासन्नीभवत्य् अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाः.
इत्य् अधिमात्रक्षान्तेर् आलम्बनाकारविशेषः
सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञताया अद्वया अद्वैधीकारा सर्वधर्माभावस्वभावताम् उपादाय. अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधिर् बोधिसत्त्वानां महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः सर्वश्रावकप्रत्येकबुद्धैर् अनेनायुष्मन् शारिपुत्र समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते.

शारिपुत्र आह: कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां ( प्स्प्1-1: 183 ) शूरङ्गमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
अस्ति रत्नमुद्रो नाम समाधिः, अस्ति सुचन्द्रो नाम समाधिः, अस्ति चन्द्रध्वजकेतुर् नाम समाधिः, अस्ति सर्वधर्ममुद्रो नाम समाधिः, अस्त्य् अवलोकितमूर्धा नाम समाधिः, अस्ति धर्मधातुनियतो नाम समाधिः, अस्ति नियतध्वजकेतुर् नाम समाधिः, अस्ति वज्रोपमो नाम समाधिः, अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिः, अस्ति समाहितावस्थाप्रतिष्ठानो नाम समाधिः, अस्ति राजमुद्रो नाम समाधिः, अस्ति बलवीर्यो नाम समाधिः, अस्ति सर्वधर्मसमुद्गतो नाम समाधिः, अस्ति निरुक्तिनियतप्रवेशो नाम समाधिः, अस्त्य् असेचनकप्रवेशो नाम समाधिः, अस्ति दिगवलोकनो नाम समाधिः, अस्ति धारणीमुद्रो नाम समाधिः, अस्त्य् असंप्रमुषितो नाम समाधिः, अस्ति समवसरणो नाम समाधिः, अस्त्य् आकाशस्फारणो नाम समाधिः, अस्ति वज्रमण्डलो नाम समाधिः, अस्ति ध्वजाग्रकेतुराजो नाम समाधिः, अस्तीन्द्रकेतुर् नाम समाधिः, अस्ति स्रोतानुगतो नाम समाधिः, अस्ति सिंहविजृम्भितो नामसमाधिः, अस्ति व्यत्यस्तसमापत्तिर् नाम समाधिः, अस्ति रणंजहो नाम समाधिः, अस्ति वैरोचनो नाम समाधिः, अस्त्य् अनिमिषो नाम समाधिः, अस्त्य् अनिकेतस्थितो नाम समाधिः, अस्त्य् अनिश्चितो नाम समाधिः, अस्तिविपुलप्रतिपन्नो नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति वरधर्ममुद्रो नाम समाधिः, अस्ति समन्तावभासो नाम समाधिः, अस्ति शुद्धावासो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति रतिकरो नाम समाधिः, अस्त्य् अजयो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति क्षयापगतो नाम समाधिः, अस्त्य् अनिर्जितो नाम समाधिः, अस्ति विवृतो नाम समाधिः, अस्ति सूर्यप्रदीपो नाम समाधिः, अस्ति चन्द्रविमलो नाम समाधिः, अस्ति शुद्धप्रतिभासो नाम समाधिः, अस्त्य् आलोककरो नाम समाधिः, अस्ति काराकारो नाम समाधिः, अस्ति ज्ञानकेतुर् नाम समाधिः, अस्ति चित्तस्थितिर् नाम समाधिः, अस्ति समन्तावलोको नाम समाधिः, अस्ति सुप्रतिष्ठितो नाम समाधिः, अस्ति रत्नकोटिर् नाम समाधिः, अस्ति वरधर्ममुद्रो ( प्स्प्1-1: 184 ) नाम समाधिः, अस्ति सर्वधर्मसमता नाम समाधिः, अस्ति रतिजहो नाम समाधिः, अस्ति धर्मोद्गतो नाम समाधिः, अस्ति विकिरणो नाम समाधिः, अस्ति सर्वधर्मपदप्रभेदो नाम समाधिः, अस्ति समाक्षरावतारो नाम समाधिः, अस्त्य् अक्षरावतारो नाम समाधिः, अस्त्य् आवरणच्छेदो नाम समाधिः, अस्त्य् अनिगरो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति नामनियतप्रवेशो नाम समाधिः, अस्त्य् अनिकेतचारी नाम समाधिः, अस्ति वितिमिरापगतो नाम समाधिः, अस्ति चारित्रवती नाम समाधिः, अस्त्य् अचलो नाम समाधिः, अस्ति विषमशान्तिर् नाम समाधिः, अस्ति सर्वगुणसंचयो नाम समाधिः, अस्ति निश्चितो नामसमाधिः, अस्ति शुभपुष्पितशुद्धो नाम समाधिः, अस्ति बोध्यङ्गवती नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्त्य् आगमसमो नाम समाधिः, अस्ति सर्वविक्रमणो नाम समाधिः, अस्ति प्रतिच्छेदकरो नाम समाधिः, अस्ति विमतिविकिरणो नाम समाधिः, अस्ति निरधिष्ठानो नाम समाधिः, अस्त्य् एकव्यूहो नाम समाधिः, अस्त्य् आकारानभिनिवेशनिर्हारो नाम समाधिः, अस्त्य् आकारानवकारो नाम समाधिः, अस्ति निरतिशयसर्वभवतलविकिरणो नाम समाधिः, अस्ति संकेतरूतप्रवेशो नाम समाधिः, अस्ति घोषवती नाम समाधिः, अस्ति निरक्षरविमुक्तो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति ज्वलनोल्का नाम समाधिः, अस्ति रक्षानुपरिशोषणो नाम समाधिः, अस्त्य् अनाविलक्षान्तिर् नाम समाधिः,
अस्ति सर्वाकारावतारो नाम समाधिः, अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अस्त्य् अक्षयाकारो नाम समाधिः, अस्ति धारणीपतिर् नाम समाधिः, अस्ति सम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, अस्ति रोषविरोषप्रतिरोषो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति शारवती नाम समाधिः, अस्ति परिपूर्णविमलचन्द्रप्रभो नाम समाधिः, अस्ति विद्युत्प्रभो नाम समाधिः, अस्ति महाव्यूहो नाम समाधिः, अस्ति सर्वलोकप्रभाकरो नाम समाधिः, अस्ति समाधिसमा नाम समाधिः, अस्त्य् अनयविनयनयविमुक्तो नाम समाधिः, अस्त्य् अनुसरणसर्वसमवसरणो नाम समाधिः, अस्त्य् अनिलनियतो नाम समाधिः, अस्ति तथतास्थितनिश्चितो नाम समाधिः, अस्ति कायकलिसंप्रमथनो नाम ( प्स्प्1-1: 185 ) समाधिः, अस्ति वाक्कलिविध्वंसनो नाम समाधिः, अस्ति गगनकल्पो नाम समाधिः, अस्त्य् आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
इमे आयुष्मन् शारिपुत्र समाधयो यैः समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु शिक्ष्यमाणा बोधिसत्त्व महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः.

तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम समाधिः.
एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
इति मृद्वग्रधर्मस्यालम्बनाकारविशेषह्.
अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं सरिपुत्रम् एतद् अवोचत्: व्यकृतो ऽयम् अयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं व्याकुर्वन्ति. य एतैः समाधिभिर् विहरति स समाधिम् अपि न समनुपश्यति, स न च तेन समाधिना मन्यते, अहं समाहित इति, अहं समाधिं समापत्स्ये, अहं समाधिं समापन्नः, अहं समाधिं समापद्ये, सर्व एते विकल्पा बोधिसत्त्वस्य महासत्त्वस्य न विद्यन्ते नोपलभ्यन्ते.
इति मध्याग्रधर्मस्यालंबनाकारविशेषः
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते एषु समाधिषु स्थितो बोधिसत्त्वो महासत्त्वो व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः?
सुभूतिर् आह: नो हीदम् आयुष्मन् शारिपुत्र. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व एव समाधिः समाधिर् एव बोधिसत्त्वः.
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते नान्यः समाधिः, नान्यो बोधिसत्त्वः, समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय. तत् किं शक्यः स समाधिर् दर्शयितुम्?
सुभूतिर् आह: न ह्य् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते स कुलपुत्रस् तं समाधिं संजानीते?
सुभूतिर् आह: नायुष्मन् शारिपुत्र स कुलपुत्रस् तं समाधिं संजानीते.
शारिपुत्र आह: कथं न संजानीते?
सुभूतिर् आह: यथा न विकल्पयति.
शारिपुत्र आह: कथं न विकल्पयति?
सुभूतिर् आह: अविद्यमानत्वेन सर्वधर्माणाम् एवं तं समाधिं न विकल्पयति, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो न संजानीते.
शारिपुत्र आह: कथं न संजानीते?
सुभूतिर् आह: अविकल्पत्वेन तस्य समाधेर् बोधिसत्त्वो महासत्त्वो न संजानीते.
इत्य् अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्, साधु साधु सुभूते यथापि नाम ते मया अरणाविहारिणाम् अग्रतायां निर्दिष्टस्य निर्देशः.
एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्सितव्यम्. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमिअतायां शिक्षितव्यम्.
एवं सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां ( प्स्प्1-1: 187 ) शिक्षते, अनुपलम्भयोगेन,
यावद् विस्तरेण सप्तत्रिंशद्बोधिसपक्षेषु धर्मेषु शिक्षते, अनुपलम्भयोगेन, यावद् अप्रमाणध्यनारूप्यसमापत्तिषु सिक्षते, अनुपलम्भयोगेन, दशबलचतुर्वैशारद्याष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षते, अनुपलम्भयोगेन.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
शारिपुत्र आह: किम् इति भगवन् नोपलभते.
भगवान् आह: आत्मानं शारिपुत्र नोपलभते, यावत् सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
दुःखं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, समुदयं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, निरोधं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, मार्गं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
कामधातुं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, रूपधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, आरूप्यधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय,
स्मृत्युपस्थानसम्यक्प्रहानर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय, पारमिता नोपलभते अत्यन्तविशुद्धिताम् उपादाय, दशबलचतुर्वैशारद्याष्टादशावेणिकान् बुद्धधर्मान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
स्रोतआपन्नं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, अनागामिनं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अर्हन्तं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बुद्धं ( प्स्प्1-1: 188 ) नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
शारिपुत्र आह: का पुनर् भगवन् विशुद्धिः?
भगवान् आह: अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो विशुद्धिर् इत्य् उच्यते.
इति सामान्येन विकल्पसंप्रयोगाधिकारह्.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमेषु धर्मेषु शिक्षते?
भगवान् आह: एवं शिक्षामाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद् धर्मे शिक्षते. तत् कस्य हेतोः? नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः.
शारिपुत्र आह: कथं भगवन्न् एते धर्माः संविद्यन्ते?
भगवान् आह: यथा न संविद्यन्ते तथा संविद्यन्ते, एवम् असंविद्यमानास् तेनोच्यन्ते ऽविद्येति.
इत्य् उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः

शारिपुत्र आह: केन कारणेनोच्यते असंविद्यमाना अविद्येति.
भगवान् आह: रूपं शारिपुत्र न संविद्यते, अध्यात्यशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानं शारिपुत्र न संविद्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय.
इति तत्रैव द्वितीयो रूपादिस्कन्धविकल्पः
तत्र बाला अविद्यायां तृष्णायां चाभिनिविष्टाः, तैर् अविद्यां तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्याम् अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति, यथा धर्मा न संविद्यन्ते, ते तान् धर्मान् कल्पयित्वा नामरूपे अभिनिविष्टाः, यावद् बुद्धधर्मेष्व् ( प्स्प्1-1: 189 ) अभिनिविष्टाः.
इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः
ते धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति न पश्यन्ति, किं न जानन्ति न पश्यन्ति?
रूपं न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं न जानन्ति न पश्यन्ति, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न जानन्ति न पश्यन्ति, यावद् अष्टादशावेणिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति, तेन ते बाला इति संख्यां गच्छन्ति.
इति तत्रैव चतुर्थो ऽन्तद्वयसक्तिविकल्पः
ते अविद्यातृष्णाप्रत्ययं न जानन्ति न पश्यन्ति. किं न जानन्ति न पश्यन्ति? रूपं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं रूपं व्यवदानम् इति न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं विज्ञानं व्यवदानम् इति न जानन्ति न पश्यन्ति, ते न निर्यास्यन्ति. कुतो न निर्यास्यन्ति? कामधातोर् न निर्यास्यन्ति, रूपधातोर् न निर्यास्यन्ति, आरूप्यधातोर् न निर्यास्यन्ति, श्रावकप्रत्येकबुद्धधर्मेभ्यो न निर्यास्यन्ति.
इति तत्रैव पञ्चमः संक्लेशव्यवदानाज्ञानविकल्पः
ते न श्रद्दधति. किम् इति न श्रद्दधति? रूपं रूपेण शून्यम् इति न श्रद्दधति, यावद् बोधिर् बोध्यात्मना शून्येति न श्रद्दधति.
ते न प्रतिष्ठन्ते. किम् इति न प्रतिष्ठन्ते? दानपारमितायां न प्रतिष्ठन्ते, शीलपारमितायां न प्रतिष्ठन्ते, क्षान्तिपारमितायां न प्रतिष्ठन्ते, वीर्यपारमितायां न प्रतिष्ठन्ते, ध्यानपारमितायां न प्रतिष्ठन्ते, प्रज्ञापारमितायां न प्रतिष्ठन्ते, अविनिवर्तनीयभूमौ न प्रतिष्ठन्ते, यावद् बुद्धधर्मेषु न प्रतिष्ठन्ते, अनेन कारणेन बाला इत्य् उच्यन्ते.
ते अभिनिविष्टाः. किम् इति अभिनिविष्टाः? रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् अभिनिविष्टाः, चक्षुषि श्रोत्रे घ्राणे जिह्वायां काये मनस्य् अभिनिविष्टाः, स्कन्धधात्वायतनेष्व् अभिनिविष्टाः, रागद्वेषमोहेष्व् अभिनिविष्टाः, दृष्टिकृतेष्व् अभिनिविष्टाः, यावद् बोधाव् अभिनिविष्टाः.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः ( प्स्प्1-1: 190 ) प्रज्ञापारमितायां न शिक्षते, सर्वाकारज्ञतायां न निर्यास्यति.
शारिपुत्र आह: किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्?
भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते, ध्यानपारमितां कल्पयत्य् अभिनिविशते, वीर्यपारमितां कल्पयत्य् अभिनिविशते, क्षान्तिपारमितां कल्पयत्य् अभिनिविशते, शीलपारमितां कल्पयत्य् अभिनिविशते, दानपारमितां कल्पयत्य् अभिनिविशते.
एवम् अप्रमाणध्यनारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते, स्मृत्युपस्थानं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् कल्पयत्य् अभिनिविशते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान्बुद्धधर्मान् कल्पयत्य् अभिनिविशते, यावत् सर्वधर्मान् सर्वाकारज्ञतां कल्पयत्य् अभिनिविशते. अनेन शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्.
इति तत्रैव षष्ठ आर्यमार्गप्रतिष्ठानविकल्पः
शारिपुत्र आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते यथा शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति?
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति.
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां नोपलभते न समनुपश्यति, यावद् बोधिं सर्वाकारज्ञतां नोपलभते न समनुपश्यति.
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन.
इति तत्रैव सप्तम उपलम्भविकल्पः
शारिपुत्र आह: कस्यानुपलम्भयोगेन?
भगवान् आह: आत्मानं शारिपुत्र नोपलभते न समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं यावत् सर्वाकारज्ञतां नोपलभते न समनुपश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
इति तत्रैवाष्टम आत्मादिविकल्पः
अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः.
इति तत्रैव नवमो विशुद्ध्युत्पादादिविकल्पः
इति प्रथमो ग्राह्यविकल्पः
सो ऽनुपायकुशलो रूपं कल्पयत्य् अभिनिविशते, यावद् विज्ञानं कल्पयत्य् अभिनिविशते.
इति मूर्धगतविकल्पसंप्रयोगे प्रथमो राश्यर्थविकल्पः
चक्षुः कल्पयत्य् अभिनिविशते, एवं यावन् मनः, रूपं कल्पयत्य् अभिनिविशते, एवं यावद् धर्मान्.
इति तत्रैव द्वितीय आयद्वारार्थविकल्पः
चक्षूरूपचक्षुर्विज्ञानधातून् कल्पयत्य् अभिनिविशते, एवं यावन् मनोधर्ममनोविज्ञानधातून्.
इति तत्रैव तृतीयो गोत्रार्थविकल्पः
अविद्यां कल्पयत्य् अभिनिविशते, एवं यावज् जरामरणम्.
इति तत्रैव चतुर्थ उत्पादार्थविकल्पः

सो ऽध्यात्मशून्यतां बहिर्धाशून्यतां अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां कल्पयत्य् अभिनिविशते.
इति तत्रैव पञ्चमः शून्यतार्थविकल्पः
षट्पारमिताः कल्पयत्य् अभिनिविशते.
इति तत्रैव षष्टः पारमितार्थविकल्पः
सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् कल्पयत्य् अभिनिविशते.
इति तत्रैव सप्तमो दर्शनमार्गविकल्पः
स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते.
इति तत्रैवाष्टमो भावनामार्गविकल्पः
स दशतथागतबलानि यावत् सर्वाकारज्ञतां कल्पयत्य् ( प्स्प्1-1: 192 ) अभिनिविशते.
इति तत्रैव नवमः शैक्षमार्गविकल्पः
इति द्वितीयो ग्राह्यविकल्पः
आत्मानं शारिपुत्र नोपलभते, एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं मानवं कारकं वेदकं जानकं पश्यकं नोपलभते. तत् कस्य हेतोः? अत्यन्ततया ह्य् आत्मा न विद्यते नोपलभते.
इति क्षान्तिगतविकल्पसंप्रयोगे प्रथमः स्वतन्त्रात्मकविकल्पः
रूपं शारिपुत्र नोपलभते, यावद् विज्ञानं नोपलभते.
इति तत्रैव द्वितीय एकात्मविकल्पः
चक्षुः शारिपुत्र नोपलभते, एवं यावन् मनः, रूपं नोपलभते, एवं यावद् बुद्धधर्मान् नोपलभते.
इति तत्रैव तृतीयः कारणात्मविकल्पः
चक्षूरूपचक्षुर्विज्ञानानि शारिपुत्र नोपलभते, यावन् मनोधर्ममनोविज्ञानानि नोपलभते.
इति तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः
प्रतीत्यसमुत्पादं शारिपुत्र नोपलभते, यावद् आरूप्यधातुं नोपलभते.
इति तत्रैव पञ्चमः संक्लेशाधारात्मविकल्पः
प्रथमं ध्यानं नोपलभते, यावद् आरूप्यसमापत्तीर् नोपलभते.
इति तत्रैव षष्टो वैराग्याधारात्मविकल्पः
आर्यसत्यानि नोपलभते.
इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः
अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीर् नोपलभते.
इति तत्रैवाष्टमो भावनाधारात्मविकल्पः
दशबलानि नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते, कथं नोपलभते? आत्मत्वेन. तत् कस्य हेतोः? आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय.
इति तत्रैव नवमः कृतार्थताधारात्मविकल्पः
इति प्रथमो ग्राहकविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् पृच्छेत् किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन् निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, यावत् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावत् सर्वाकारज्ञतायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वाकारज्ञतां प्राप्स्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्?
भगवान् आह: तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः, तत् किं मन्यसे सुभूते, अन्यद् रूपम् अन्या माया, अन्या वेदना अन्या संज्ञा अन्ये संस्काराः, अन्यद् विज्ञानम् अन्या माया?
सुभूतिर् आह: नो भगवन्.
इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुः, अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायः, अन्या माया अन्यन् मनः, अन्या माया अन्यद् रूपं, अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यः, अन्या माया अन्ये धर्माः.
सुभूतिर् आह: नो भगवन्. इति तत्रैव द्वितीय आयतनप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षूरूपचक्षुर्विज्ञानं, अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञनं घ्राणगन्धघ्राणविज्ञानं, जिह्वारसजिह्वाविज्ञानं, कायस्प्रष्टव्यकायविज्ञानं, अन्या माया अन्यन् मनोधर्ममनोविज्ञानम्, अन्या माया अन्यश् चक्षुःसंस्पर्शः, अन्या माया अन्यः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो ( प्स्प्1_2: 2 ) जिह्वासंस्पर्शः कायसंस्पर्शः, अन्या माया अन्यो मनःसंस्पर्शः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा?
सुभूतिर् आह: नो भगवन्.

भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा? सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः पृथिवीधातुः, अन्या माया अन्यो ऽब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुः, अन्या माया अन्यो विज्ञानधातुः?
सुभूतिर् आह: न भगवन्न् अन्यः पृथिवीधातुर् अन्या माया, पृथिवीधातुर् एव माया मायैव पृथिवीधातुः, न भगवन्न् अन्यो ऽब्धातुर् अन्या माया, अब्धातुर् एव माया मायैवाब्धातुः, न भगवन्न् अन्यस् तेजोधातुर् अन्या माया, तेजोधातुर् एव माया मायैव तेजोधातुः, न भगवन्न् अन्यो वायुधातुर् अन्या माया, वायुधातुर् एव माया मायैव वायुधातुः, न भगवन्न् अन्य आकाशधातुर् अन्या माया, आकाशधातुर् एव माया मायैव आकासधातुः, न भगवन्न् अन्यो विज्ञानधातुर् अन्या माया, विज्ञानधातुर् एव माया मायैव विज्ञानधातुः.
इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः प्रतीत्यसमुत्पादः?
सुभूतिर् आह: न भगवन्न् अन्या अविद्या अन्या माया, अविद्यैव माया मायैवाविद्या, न भगवन्न् अन्ये संस्कारा अन्या माया, संस्कारा एव माया मायैव संस्काराः, न भगवन्न् अन्यद् विज्ञानम् अन्या माया, विज्ञानम् एव माया मायैव विज्ञानं, न भगवन्न् अन्यं नामरूपम् अन्या माया, नामरूपम् एव माया मायैव नामरूपं, न भगवन्न् अन्यत् षडायतनम् अन्या माया, षडायतनम् एव माया मायैव षडायतनं, ( प्स्प्1-2: 3 ) न भगवन्न् अन्यः स्पर्शो ऽन्या माया, स्पर्श एव माया मायैव स्पर्शः, न भगवन्न् अन्या वेदना अन्या माया, वेदनैव माया मायैव वेदना, न भगवन्न् अन्या तृष्णा अन्या माया, तृष्णैव माया मायैव तृष्णा, न भगवन्न् अन्यद् उपादानम् अन्या माया, उपादानम् एव माया मायैव उपादानं, न भगवन्न् अन्यो भवो ऽन्या माया, भव एव माया मायैव भवः, न भगवन्न् अन्या जातिर् अन्या माया, जातिर् एव माया मायैव जातिः, न भगवन्न् अन्यज् जरामरणम् अन्या माया, जरामरणम् एव माया मायैव जरामरणम्.
इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या शून्यता अन्या माया अन्यद् आनिमित्तम् अन्या माया अन्यद् अप्रणिहितम्.
सुभूतिर् आह: नो भगवन्.
इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या ध्यानारूप्यसमापत्तयः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्याः सर्वशून्यताः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यानि दशबलानि, अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या बोधिः?
सुभूतिर् आह: न भगवन्न् अन्या माया अन्यद् रूपं, रूपम् एव भगवन् माया मायैव भगवन् रूपं, न भगवन्न् अन्या माया अन्या वेदना, वेदनैव भगवन् माया मायैव भगवन् वेदना, न भगवन्न् ( प्स्प्1-2: 4 ) अन्या माया अन्या संज्ञा, संज्ञैव भगवन् माया मायैव भगवन् संज्ञा, न भगवन्न् अन्या माया अन्ये संस्कारः, संस्कारा एव भगवन् माया मायैव भगवन् संस्काराः, न भगवन्न् अन्या माया अन्यद् विज्ञानं, विज्ञानम् एव भगवन् माया मायैव भगवन् विज्ञानम्.
न भगवन्न् अन्यच् चक्षुर् अन्या माया, न भगवन्न् अन्यद् रूपम् अन्या माया, न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया, न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
न भगवन्न् अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया, न भगवन्न् अन्यन् मनो ऽन्या माया, न भगवन्न् अन्ये धर्मा अन्या माया, न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया, न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यन् मनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
न भगवन्न् अन्या माया अन्ये बोधिपक्ष्या धर्माः, बोधिपक्ष्या धर्मा एव भगवन् माया मायैव भगवन् बोधिपक्ष्या धर्माः,
न भगवन्न् अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः, अष्टादशावेणिका बुद्धधर्मा एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः, न भगवन्न् अन्या माया अन्या बोधिः, बोधिर् एव भगवन् माया मायैव भगवन् बोधिः.
भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु मायाया उत्पादो वा निरोधो वा?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, मायायाः संक्लेशो वा व्यवदानं वा?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य नोत्पादो न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते? ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षते? अप्रमाणध्यानारूप्यसमापत्तिषु शिक्षते? सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु ( प्स्प्1-2: 5 ) शिक्षते? सर्वज्ञतायां निर्यास्यति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति. पञ्चसूपादानस्कन्धेषु?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा उपलभ्यते?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न मनो न मनस्कर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, अनुपलम्भयोगेन.

सुभूतिर् आह: एवं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्संबोधौ, तत् कस्य हेतोः? तथा हि भगवन् स एव मायापुरुषो वेदितव्यः, यद् उत पञ्चोपादानस्कन्धाः.
भगवान् आह: तत् किं मन्यसे सुभूते, अपि त्व् अमी पञ्चोपादानस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः. एवं स्वप्नोपमाः पञ्चस्कन्धाःस्वप्नश् चाभावस्वभावो नोपलभ्यते, तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते.
भगवान् आह: तत् किं मन्यसे सुभूते प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः, प्रतिभासोपमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाप्रतिश्रुत्का, एवं प्रतिभासो निर्मितकं प्रतिबिम्बं तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते, तथा हि भगवन् मायोपमं रूपं मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं विज्ञानं, यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते चाध्यात्मशून्यतया नोपलभ्यन्ते, बहिर्धाशून्यतया नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते, यावद् अभावस्वभावशून्यतया नोपलभ्यन्ते. सचेद् एवं भगवन् भाष्यमाणो यो बोधिसत्त्वो महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, वेदितव्यम् अयं भगवन् निर्यास्यति सर्वज्ञतायां निर्यास्यति मार्गज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति.
इति तत्रैव नवमो ऽशैक्षमार्गप्रज्ञप्तिविकल्पः
इति द्वितीयो ग्राहकविकल्पः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा खलु भगवन् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा अवलीयेत संलीयेत विप्रतिसारी भवेत्, उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
भगवान् आह: सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेद् उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं यत्र चरन् बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते, वेदना सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संज्ञासर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संस्काराः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते, विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन ( प्स्प्1-2: 7 ) चित्तेनानित्यम् इति प्रत्यवेक्षते न चोपलभते, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते, वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं दुःखम् इति प्रत्यवेक्षते न चोपलभते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते, रूपम् अनात्मेति रूपं शान्तम् इति रूपं विविक्तम् इति रूपं शून्यम् इति रूपम् आनिमित्तम् इति रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं शून्यम् इति प्रत्यवेक्षते न चोपलभते, विज्ञानम् अनात्मेति विज्ञानं शान्तम् इति विज्ञानं विविक्तम् इति विज्ञानं शून्यम् इति विज्ञानम् आनिमित्तम् इति विज्ञानम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यान् धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अपरामर्षणता इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणारोचनप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां अनुत्सृष्टिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, या च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वा कुशलानां धर्माणाम् इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपम्, न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना, न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा, न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः, न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
एवं न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः, न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यताशून्यतैव घ्राणं, न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यताशून्यतैव जिह्वा, न कायशून्यतया कायः शून्यः काय एव शून्यताशून्यतैव कायः, न मनःशून्यतया मनः शून्यं मन एव शून्यताशून्यतैव मनः.
एवं न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं, न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः, न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः, न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः, न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, न धर्मशून्यतया धर्माः शून्याःधर्मा एव शून्यता शून्यतैव धर्माः.

एवं न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्.
एवं न चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शशून्यतया शून्यश् चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं न श्रोत्रघ्राणजिह्वाकायाः, न मनःसंस्पर्शो मनःसंस्पर्शशून्यतया शून्यो ( प्स्प्1-2: 9 ) मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
एवं न चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैवश्रोत्रसंस्पर्शप्रत्ययवेदयितं, न घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितं, न जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्, न कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितं, न मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, न मार्गशून्यतया मार्गः शून्यो मार्ग एव शून्यता शून्यतैव मार्गः, न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्या बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
इत्य् उपायकौशलं प्रथमः संपरिग्रहः
सुभूतिर् आह: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्नापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, ( प्स्प्1-2: 10 ) तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञा संस्कारा, विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य रूपं दुःखम् इति धर्मं देशयन्ति, रूपम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञासंस्काराः, यान्य् अस्य विज्ञानं दुःखम् इति धर्मं देशयन्ति विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, ( प्स्प्1-2: 11 ) अन्यत्र सर्वाकारज्ञतायाः, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.

एवं श्रोत्रविज्ञानं श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणविज्ञानं घ्राणसंस्पर्शो घ्राणसंस्पर्शप्रत्ययवेदयितं, जिह्वाविज्ञानं जिह्वासंस्पर्शो जिह्वासंस्पर्शप्रत्ययवेदयितं, कायविज्ञानं कायसंस्पर्शः कायसंस्पर्शप्रत्ययवेदयितं, मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यानीति धर्मं देशयन्ति, दुःखानीति अनात्मानीति शान्तानीति विविक्तानीति शून्यानीति आनिमित्तानीति अप्रणिहितानीति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गो ऽनित्य इति धर्मं देशयन्ति, दुःख इति अनात्मेति शान्त इति विविक्त इति शून्य इति आनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् ( प्स्प्1-2: 12 ) चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति, तच् चानुपलम्भयोगेन तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवं वैशारद्यानि प्रतिसंविदो दशतथागतबलानि अष्टादशावेणिका बुद्धधर्मा अप्य् अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलनि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि, यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो भविष्यति पापमित्रहस्तगतश् च भविष्यति, य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रसिष्यति संत्रसिष्यति संत्रासम् आपत्स्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञापारमितां भावयति उपलभते, तया च प्रज्ञापारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानपारमितां भावयति उपलभते, तया च ध्यानपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यपारमितां भावयति उपलभते, तया च वीर्यपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः क्षान्तिपारमितां भावयति उपलभते, तया च क्षान्तिपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितां भावयति उपलभते, तया च शीलपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानपारमितां भावयति उपलभते, तया च दानपारमितया मन्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां ( प्स्प्1-2: 13 ) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अध्यात्मशून्यम् इति मनसिकरोति, रूपं बहिर्धाशून्यम् इति मनसिकरोति, रूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् रूपम् अभावस्वभावशून्यम् इति मनसिकरोति, एवम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदना संज्ञा संस्कारा विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां चाध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभिर् मन्यते उपलम्भयोगेन.
चक्षुर् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन. एवं रूपशब्धगन्धरसस्प्रष्टव्यधर्मेषु कर्त्तव्यं, यावच् चक्षुर्विज्ञानंश्रोत्रघ्राणजिह्वाकायमनोविज्ञानं, एवं चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन.
एवम् अविद्या यावज् जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शूअन्यता उपलभते, तेभिर् मन्यते उपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां ( प्स्प्1-2: 14 ) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्मृत्युपस्थानानि भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् अप्रमाणानि ध्यानानि आरूप्यसमापत्तीः, अभिज्ञाः प्रतिसंविदो दशतथागतबलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति तांश् च बुद्धधर्मान् उपलभते तैश् च मन्यते उपलम्भयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रपरिगृहीतो भवति, येन पापमित्रपरिग्रहेणेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते?

भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य यः प्रज्ञापारमिताया विवेचयति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया विवेचयति, नात्र शिक्षितव्यम् इति नैतत् तथागतेनार्हता सम्यक्संबुद्धेन भाषितम् इति कविकृतान्य् एतानि काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परेभ्यो देशयितव्यानि, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्माण्य् उपदिशति, न मारदोषान् आचष्टे, इति हि मारः पापीयान् बुद्धवेषेण विवेचयति बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं ब्रवीति: किं ते कुलपुत्र प्रज्ञापारमितया भावितया? किं ते ध्यानपारमितया भावितया? किं ते वीर्यपारमितया भावितया? किं ते क्षान्तिपारमितया भावितया? किं ते शीलपारमितया भावितया? किं ते दानपारमितया भावितया? इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेशम् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति, इमान्य् एवंरूपाणि ( प्स्प्1-2: 15 ) मारकर्माणि चाख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वक्ष्यति; न ते कुलपुत्र किंचिद् बोधिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; चक्षुः कुलपुत्र शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः शून्यम् आत्मना चात्मीयेन च, रूपं शून्यम् आत्मना चात्मीयेन च, एवं शब्दो गन्धो रसः स्प्रष्टव्यानि धर्माः शून्या आत्मना चात्मीयेन च, चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च, चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च, चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, दानपारमिता शून्या आत्मना चात्मीयेन च, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या आत्मना चात्मीयेन च, स्मृत्युपस्थानानि शून्यानि आत्मना चात्मीयेन च, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेनच, किं करिष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, एवं समन्ताद् दश दिशः शून्या ( प्स्प्1-2: 16 ) बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यन्ति, इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्राणि वेदितव्यानि.
पुनर् अपरं सुभूते मारः पापीयान् श्रमणवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेक्ष्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् अनुशासिष्यति अववदिष्यति, य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेचयिष्यति, स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गे नियोजयिष्यति शून्यतायाम् आनिमित्ते ऽप्रणिहिते नियोजयिष्यति, इमान्य् एवंरूपान् धर्मान् साक्षात्कृत्वा श्रावकभूमिं साक्षात्कुरुष्व, किं ते करिष्यत्य् अनुत्तरां सम्यक्संबोधिं य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति; एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व सकृदागामिफलसाक्षात्क्रियायै अनागामिफलसाक्षात्क्रियायै अर्हत्त्वफलसाक्षात्क्रियायै योगम् आपद्यस्व किं ते ऽनुत्तरया सम्यक्संबोध्या अभिसंबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरता हस्तच्छेदाः पादच्छेदाश् चानुभवितव्याः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्यम् इति देशयिष्यत्य् उपलम्भयोगेन, रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् ( प्स्प्1-2: 17 ) इति देशयिष्यत्य् उपलम्भयोगेन, विज्नानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, एवं यावत् स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यानि आनिमित्तानि अप्रणिहितानीति देशयिष्यत्य् उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽनित्यो दुःखो ऽनात्मकः शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहित इति देशयिष्यत्य् उपलम्भयोगेन, यावद् बुद्धधर्मा अपि अनित्या दुःखा अनात्मकाः शान्ता विविक्ताः शून्या आनिमित्ता अप्रणिहिता इति देशयिष्यत्य् उपलम्भयोगेन, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्.
इति कल्याणमित्रद्वितीयसंपरिग्रहः
इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्
सुभूतिर् आह: बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते, बोधिसत्त्व इति भगवन् कः पदार्थः?
भगवान् आह: अपदार्थः सुभूते बोधिसत्त्वपदार्थः. तत् कस्य हेतोः? न हि सुभूते बोधेर् उत्पादो ऽस्तिता वा नास्तिता वा विद्यते वोपलभ्यते, तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः.
इति गोत्रस्वरूपम्
तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते स्वप्नस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिंबस्य गन्धर्वनगरस्य निर्मितस्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् उष्मगताधारः
तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथतायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामतायाः सत्यतायाः पदं न विद्यते नोपलभ्यते, एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते.
इति मूर्धगताधारः
तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः,
तद्यथापि नाम सुभूते मायापुरुषस्य विज्ञानस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रघ्राणजिह्वाकायाः,
तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्माणां पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुरूपचक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानघ्राणगन्धघ्राणविज्ञानजिह्वारसजिह्वाविज्ञानकायस्प्रष्टव्यकायविज्ञानपदार्थः, ( प्स्प्1-2: 19 )
तद्यथा ऽपि नाम सुभूते मायापुरुषस्य मनोधर्ममनोविज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति क्षान्तिगताधारः
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मबहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, यावद् विस्तरेण,
तद्यथापि नाम सुभूते मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य पारमितासु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अप्रमाणेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्कन्धेषु धातुषु आयतनेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् अग्रधर्मगताधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य ( प्स्प्1-2: 20 ) महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,

तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदना संज्ञा संस्कारा विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,

तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रघ्राणजिह्वाकायमनःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्ष्यधर्मबलवैशारद्यावेणिकबुद्धधर्मेषु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते असंस्कृतधातौ संस्कृतधातुपदं न विद्यते नोपलभ्यते, संस्कृतधाताव् असंस्कृतधातुपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति दर्शनमार्गाधारः
तद्यथापि नाम सुभूते अनुत्पादपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते अनिरोधानभिसंस्काराप्रादुर्भावानुपलम्भासंक्लेशपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां, विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते व्यस्तसमस्तानां स्कन्धानां धातूनाम् आयतनानां प्रत्यीत्यसमुत्पादस्य उत्पादपदार्थो न विद्यते नोपलभ्यते, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवं सप्तत्रिंशद् बोधिपक्ष्यधर्मा प्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पादपदार्थो न विद्यते नोपलभ्यते, एवं यावद् व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते आवेणिकानां बुद्धधर्माणां यावत् संक्लेशव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां,
तद्यथापि नाम सुभूते विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेष्व् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते स्मृत्युपस्थानाम् अत्यन्तविशुद्धत्वान्निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ पदं न विद्यते नोपलभ्यते, आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ताम् उपादाय, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति भावनामार्गाधारः
तद्यथापि नाम सुभूते आदित्यस्योदागच्छतः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति प्रतिपक्षाधारः
तद्यथापि नाम सुभूते कल्पोद्दाहे वर्तमाने सर्वसंस्कारे ( प्स्प्1-2: 23 ) पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति विपक्षप्रहानाधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न विद्यते नोपलभ्यते, तथागतप्रज्ञायां दौष्प्रज्ञपदं न विद्यते नोपलभ्यते, तथागतविमुक्ताव् अविमुक्तिपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यविमुक्तिज्ञानदर्शने विमुक्तिज्ञानदर्शनपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.

इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः
तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति प्रज्ञाकरुणाधारः
तद्यथापि नाम सुभूते श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् असाधारणगुणाधारः
तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्मणां ( प्स्प्1-2: 24 ) देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति परार्थानुक्रमाधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूअते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्वपदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः, सर्वधर्माणां हि सुभूते बोधिसत्त्वेन महासत्त्वेन असक्ततायाम् असद्भूततायां शिक्षितव्यं, अकल्पनताम् अकल्पनतां चोपादाय, सर्वधर्माश् च सुभूते बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः.
इत्य् अनाभोगे प्रवृत्तज्ञानाधारः
इत्य् उक्तः प्रतिपत्त्याधारः
सुभूतिर् आह: कतमे भगवन् सर्वधर्माः? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असद्भूततायां शिक्षितव्यम्? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः?
भगवान् आह: सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृताश् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च साधारणाश् चासाधारणाश् च, इमम् उच्यन्ते सुभूते सर्वधर्मा यत्र बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं, इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः.
इत्य् आलम्बनस्वरूपम्
सुभूतिर् आह: कतमे भगवन् कुशला लौकिका धर्माः.

भगवान् आह: कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता पित्रेयता श्रामण्यता ब्राह्मण्यता कुले ज्येष्ठापचायिता, दानम् अयं पुण्यक्रियावस्तु शीलम् अयं पुण्यक्रियावस्तु, भावनाम् अयं पुण्यक्रियावस्तु, वैयावृत्यसहगतम् उपायकौशलं, दशकुशलाः कर्मपथाः, लौकिक्यो नवसंज्ञा, आध्मातकसंज्ञा विपडुमकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा ( प्स्प्1-2: 25 ) अस्थिसंज्ञा विदग्धकसंज्ञा, लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, लौकिक्यः पञ्चाभिज्ञाः, लौकिक्यो दशानुस्मृतयः, यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिर् उद्वेगानुस्मृतिः, इम उच्यन्ते कुशला लौकिकाधर्माः
सुभूतिर् आह: कतमे भगवन् लौकिका अकुशला धर्माः?
भगवान् आह: प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापो ऽभिध्या व्यापादो मिथ्यादर्शनं दशाकुशलाः कर्मपथाः, क्रोधोपनाहौ म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः, इम उच्यन्ते लौकिका अकुशला धर्माः
सुभूतिर् आह: कतमे भगवन्न् अव्याकृता धर्माः?
भगवान् आह: अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म, अव्याकृतं मनःकर्म, अव्याकृतानि चत्वारि महाभूतानि, अव्याकृतानि पञ्चेन्द्रियाणि, अव्याकृतानि षड् आयतनानि, अव्याकृतानि अरूप्याणि स्कन्धधात्वायतनानि, अव्याकृता विपाकाः, सर्व इम उच्यन्ते अव्याकृताधर्माः
सुभूतिर् आह: कतमे भगवन् लौकिकाः कुशला धर्माः?
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये लौकिका धर्माः, इम उच्यन्ते लौकिकाः कुशला धर्माः
सुभूतिर् आह: कतमे भगवन् लोकोत्तराः कुशला धर्माः?
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः, शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम्, अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं, सवितर्कः सविचारः समाधिः, अवितर्कः सविचारः समाधिः, अवितर्को ऽविचारः समाधिः, विद्याविमुक्तिः स्मृतिः संप्रजन्यं योनिशोमनस्कारः, अष्टौ विमोक्षाः कतमे अष्टौ? रूपी रूपाणि पश्यति, ( प्स्प्1-2: 26 ) अयं प्रथमो विमोक्षः, अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति, अयं द्वितीयो विमोक्षः, शुभतायाम् अधिमुक्तो भवति, अयं तृतीयो विमोक्षः, सर्वशो रूपसंज्ञानां समतिक्रमात्, प्रतिघसंज्ञानाम् अस्तङ्गमात्, नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति, अयं चतुर्थो विमोक्षः, सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, अयं पञ्चमो विमोक्षः, सर्वशो विज्ञानानन्त्यायतनसमतिक्रमात्, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, अयं षष्ठो विमोक्षः, सर्वश आकिञ्चन्यायतनसमतिक्रमात्, नैव संज्ञानासंज्ञायतनम् उपसंपद्य विहरति, अयं सप्तमो विमोक्षः, सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, अयम् अष्टम् विमोक्षः, इम अष्टौ विमोक्षाः.
नवानुपूर्वविहारसमापत्तयः, चत्वारि ध्यानानि, विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयते यत् तदार्या आचक्षते उपेक्षकः स्मृतिमांश् चसुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति, सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशमिति आकाशानन्त्यायतनम् उपसंपद्य विहरति, स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, एता नवानुपूर्वविहारसमापत्तयः.
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते लोकोत्तराः कुशलधर्माः.
सुभूतिर् आह: कतमे भगवन् सास्रवा धर्माः?
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, इम उच्यन्ते सास्रवा धर्माः.
सुभूतिर् आह: कतमे भगवन् अनास्रवा धर्माः?
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते अनास्रवाधर्माः.
सुभूतिर् आह: कतमे भगवन् संस्कृता धर्माः?
भगवान् आह: कामधातू रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः, सप्तत्रिंशद् बोधिपक्षादयो धर्माः, इम उच्यन्ते संस्कृता धर्माः.
सुभूतिर् आह: कतमे भगवन्न् असंस्कृता धर्माः?
भगवान् आह: येषां धर्माणां नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः, इम उच्यन्ते असंस्कृता धर्माः.
सुभूतिर् आह: कतमे भगवन् साधारणा धर्माः?
भगवान् आह: चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः, इम उच्यन्ते साधारणा धर्माः.
सुभूतिर् आह: कतमे भगवन्न् असाधारणा धर्माः?
भगवान् आह: सप्तत्रिंशद् बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते असाधारणा धर्माः.

तत्र बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या, अद्वययोगेन च सर्वधर्मा अवबोद्धव्याः, अवकल्पनताम् अनवकल्पनतां चोपादाय.
इत्य् उक्तं प्रतिपत्त्यालम्बनम्
सुभूतिर् आह: यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते? भगवान् आह: इह सुभूते महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति, तेन कारणेन सुभूते बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
सुभूतिर् आह: कतमे भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति?
भगवान् आह: महासत्त्वराशिर् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय यावद् अविनिवर्तनीय इति, अयं स महान् सत्त्वराशिः महासत्त्वनिकायः, अस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति, तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन वज्रोपमं चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः.
सुभूतिर् आह: कतमो भगवन् वज्रोपमश् चित्तोत्पादः?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, अपरिमिते मया संसारे सन्नाहं सन्नह्य सर्वस्वपरित्यागिना भवितव्यं, सर्वसत्त्वानाम् अन्तिके मया समचित्तता उत्पादयितव्या, सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः, सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः, अव्यवकीर्णेन मया सर्वाकारज्ञताचित्तेन षट्सु पारमितासु चरितव्यं, सर्वत्रानुगतायां सर्वधर्मप्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्, एकतयाभिनिर्हारो मया सर्वधर्माणां प्रतिबोद्धव्यः, यावत् पारमिताभिनिर्हारप्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यं, सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, दशबलवैशारद्यावेणिकबुद्धधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां ( प्स्प्1-2: 29 ) कारयिष्यति, तच् चानुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति, तेषाम् अहम् अर्थाय तां दुःखां वेदनां वेदयेयं तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्, एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, एतेनोपायेन सर्वसत्त्वानां कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयं, अयं सुबूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो येन महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्वसत्त्वानाम् अग्रता कारयितव्या, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यत् प्रथमचित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति, न दोषचित्तम् उत्पादयति, न मोहचित्तम् उत्पादयति, न विहिंसाचित्तम् उत्पादयति, न श्रावकचित्तम् उत्पादयति, न प्रत्येकबुद्धचित्तम् उत्पादयति, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिष्यति, तेन च चित्तेन न मन्यते.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन अकम्प्यचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणता यः सर्वसत्त्वानाम् अपरित्यागः, तेन च न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता. एवं हि सुभूते बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अग्रतां कारयिष्यति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मारागेण भवितव्यं धर्मरतेन धर्मारामतायोगम् अनुयुक्तेन भवितव्यं, तत्र कतमो धर्मो? यद् उत सर्वधर्माणाम् असंभेदः, अयम् उच्यते धर्मः, तत्र कतमा धर्मरतिर्? या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः, तत्र कतमा धर्मारामता? या तस्य धर्मस्य भावना बहुलीकरणता, इयम् उच्यते धर्मारामता. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसम्वित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन, एतेषु सुभूते धर्मेषु स्थित्वा बोधिसत्तेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या, तेनोच्यते बोधिसत्त्वो महासत्त्वः.
इति सर्वसत्त्वाग्रताचित्तमहत्त्वम्
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.

भगवान् आह: प्रतिभातु ते शारिपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
शारिपुत्र आह: आत्मदृष्टेर् भगवन् सत्त्वदृष्टेर् जीवदृष्टेर् जन्तुदृष्टेर् पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकदृष्टेर् ( प्स्प्1-2: 31 ) च्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्षधर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरिशोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्तनदृष्टेर् इति, आसां सर्वासां दृष्टीनां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
सुभूतिर् आह: केन कारणेनायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति, वेदनासंज्ञासंस्कारविज्ञानदृष्टिर् भवति?
शारिपुत्र आह: इहायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवति, स रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं विस्तरेण व्यस्तसमस्तं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षराप्रमाणध्यानारूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन.
इति प्रहाणमहत्त्वम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
भगवान् आह: प्रतिभातु ते सुभूते.
सुभूतिर् आह: यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः. तत् कस्य हेतोः? तथा हि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति.
शारिपुत्र आह: कतमद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः?
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति, न हानिं न वृद्धिं नागतिं न गतिं न संक्लेशं न व्यवदानं यत्र चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न वृद्धिर् नोत्पादो न निरोधः, तच् च न श्रावकचित्तं न प्रत्येकबुद्धचित्तम्, इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः.
शारिपुत्र आह: यद् आयुष्मान् सुभूतिर् एवम् आह, तत्रापि श्रावकप्रत्येकबुद्धचित्ते ऽसक्त इति, नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तं, यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावज् जरामरणम् अप्य् असक्तं, एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽप्य् असक्ताः, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अप्य् असक्ताः.
शारिपुत्र आह: यद् अप्य् आयुष्मान् सुभूतिर् इदम् आह, यद् अपि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नम् इति, नन्व् आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, ननु सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: रूपम् अपि सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् आयुष्मन् सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् ( प्स्प्1-2: 33 ) उपादाय, यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
शारिपुत्र आह: यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह, अचित्तत्वात् तत्रापि चित्ते असक्त इति, नन्व् आयुष्मन् सुभूते ऽरूपे ऽपि रूपम् असक्तम् अवेदनायाम् अपि वेदना असक्तासंज्ञायाम् अपि संज्ञा असक्तासंस्कारेष्व् अपि संस्कारा असक्ताविज्ञाने ऽपि विज्ञानम् असक्तम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: नन्व् आयुष्मन् सुभूते ऽस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् असक्तानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाबलवैशारद्यानि यावद् आवेणिकबुद्धधर्मेष्व् अपि आवेणिकबुद्धधर्मा असक्ताः.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि, रूपे ऽप्य् आयुष्मन् शारिपुत्र रूपम् असक्तं वेदना संज्ञा संस्कारा विज्ञाने ऽपि विज्ञानम् असक्तम्, एवं व्यस्तसमस्ता अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयः, पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदः, आवेणिकेषु बुद्धधर्मेष्व् आवेणिका बुद्धधर्मा असक्ताः, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्वधर्मानुपलम्भयोगेन.
इत्य् अधिगममहत्त्वम्
इत्य् उक्तः प्रतिपत्त्युद्देशः
पूर्णो मैत्रायणीपुत्र आह: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
भगवान् आह: प्रतिभातु ते पूर्ण.
पूर्ण आह: महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः स सत्त्वो महायानसमारूढः स सत्त्वस् तेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
शारिपुत्र आह: कियता अयुष्मन् पूर्ण बोधिसत्त्वो महसत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?

पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति, अपि तु सर्वसत्त्वानां कृतेन दानपारमितायां स्थित्वा दानं ददाति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वो महासन्नाहं संनह्यते, इयतः सत्त्वान् परिनिर्वापयिष्यामि, इयतः सत्त्वान् न परिनिर्वापयिष्यामीति, इयतः सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि, इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्यामीति, अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहं संनह्यते, एवं चास्य भवति, आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामीति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि, सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति, एवम् अप्रमाणध्यानारूप्यसमापत्तीः, आत्मना च भावयिष्यामि सर्वसत्त्वांश् च तासु प्रतिष्ठापयिष्यामीति, यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशारद्याष्टादशावेणिकेषु बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठापयिष्यामीति, इयतायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति प्रतिपत्तिस्वरूपम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यावद् दानस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये निर्यातना, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो दानपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ( प्स्प्1-2: 35 ) ददतः शीलपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां क्षमणा रोचना व्युपपरीक्षणा, अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो क्षान्तिपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तस्यानवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या मायाकृतसंज्ञोपस्थिता नैव दायकम् उपलभते न प्रतिग्राहकं न देयं, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट् पारमिता न निमित्तीकरोति नोपलभते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति.
इति दानपारमितासन्नाहषट्कं प्रथमम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति सर्वसत्त्वसाधारणं कृत्वा अनुत्त्रायै सम्यक्संबोधये परिणामयत्य् अनुपलम्भयोगेन, इयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमेः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या धर्माणां क्षमणा रोचना व्युपपरीक्षणा, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता अनवलीनता, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता.

पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो यच् छ्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य सर्वसत्त्वसाधारणी कृतस्यानुत्तरायै सम्यक्संबोधये परिणामना, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थिता भवति, तच् च शीलं न मन्यते नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितयां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति शीलपारमितासन्नाहषट्कं द्वितीयम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, ( प्स्प्1-2: 37 ) इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता, एवं क्षान्तिपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमुदानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् चकुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता, एवं वीर्यपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुसलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां ( प्स्प्1-2: 38 ) चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता, एवं ध्यानपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति ध्यानपारमितासन्नाहषट्कं पञ्चमम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता, एवं प्रज्ञापारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनैताः षट् ( प्स्प्1-2: 39 ) पारमिता न निमित्तीकरोति नोपलभते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति, एवं च पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा षट् पारमिताः परिपूरयति.
इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते न च ध्यानान्य् आस्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते, एवम् अप्रमाणानि चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते न च तासां वशेनोपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलगता प्रज्ञापारमिता वेदितव्या.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्करोति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलसन्नाहः.

एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते बोधिसत्त्वो महासत्त्व इति, एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयन्ति वर्णम् उदीरयन्ति नामधेयं परिकीर्तयमानास् तस्य बोधिसत्त्वस्य महासत्त्वस्य शब्दम् अनुश्रावयन्ति घोषम् उदीरयन्ति, अमुष्मिन् लोकधातुप्रसरे बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
इति सन्नाहषट्कोपसंहारः
इत्य् उक्ता सन्नाहप्रतिपत्तिः
शारिपुत्र आह: कियत् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो महायानसमारूढो भवति?
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् ( प्स्प्1-2: 40 ) उपसंपद्य विहरति, एवं द्वितीयं तृतीयं चतुर्थं ध्यानं, एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, इमानि बोधिसत्त्वस्य महासत्त्वस्य ध्यानारूप्याणि यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन्न् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां वाच्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते, यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति, स एता ध्यानारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसिकरोति, प्रज्ञापारमितायां चरंस् तानि च कुशलमूलान्य् अन्यानि च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट् पारमितासु चरन् महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
इति ध्यानारूप्यसमापत्तिव्युत्थानप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यत् सर्वाकारज्ञताप्रतिसंयुक्तं मनसिकारम् उत्पाद्य क्लेशानां ध्वंसनाय सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता,
यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमं ध्यानम् आक्रामति देशयति, तत्र च प्रथमे ध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता,
यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् ( प्स्प्1-2: 41 ) मनसिकारैर् ध्यानारूप्यैर् विहरत एवं भवति, सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति, यावत् तेषां मनसिकाराणां क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति वीर्यं च न स्रंसयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता,
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानारूप्यसमापत्तीश् च समापद्यते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता,
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमध्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण आनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इति षट्पारमिताप्रस्थानम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वाकारं सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति, सर्वाकारं शून्यतानिमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति, सर्वाकारं बलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति.
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.

इत्य् आर्यमार्गप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसंपद्य विहरति, यावद् दश दिशः स्फुरित्वोपसंपद्य विहरति, एवं करुणासहगतेन मुदितासहगतेन उपेक्षासगतेन चित्तेनविपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं, एकां दिशं स्फुरित्वोपसंपद्य ( प्स्प्1-2: 42 ) विहरति, यावद् दश दिशः स्फारित्वोपसंपद्य विहरति. इमान्य् उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्याप्रमाणानि.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महसत्त्वो मैत्रीसमाधिं समापद्यते मया सर्वसत्त्वास् त्रातव्या इति निर्णामयति, करुणां च समाधिं समापद्यते क्लीबकारुण्यतां च सत्त्वेषु निर्णामयति, मुदितां च समाधिं समापद्यते अहम् एव मोदयिष्यामीति सत्त्वेषु निर्णामयति, उपेक्षां च समाधिं समापद्यते आस्रवक्षयं च सत्त्वेषु निर्णामयति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो दानपारमिता,
यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते व्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता,
यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति, आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः क्षान्तिपारमिता,
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसंपदे, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता,
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीश् च समापद्यते, न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते, न च ता आस्वादयति न च ताभिः संह्रियते, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ध्यानपारमिता,
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते, न च श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्व्स्य माहायानम्.
इत्य् अप्रमाणप्रस्थानम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्, यद् अध्यात्मशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् बहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यावद् अभावस्वभावशून्यतायां ज्ञानं न चोपलम्भयोगेन. इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वधर्मेषु न शिक्षिष्यते चित्तं समाहितं तज् ज्ञानम्. इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अस्य न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति, न दुःखम् इति नादुःखम् इति, न सुखम् इति नासुखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति ज्ञानं प्रवर्तते. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते, अनागते ऽध्वनि ज्ञानं न प्रवर्तते, प्रत्युत्पन्ने ऽध्वनि ज्ञानं न प्रवर्तते, न चास्य त्रिष्व् अध्वस्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न कामधातौ ज्ञानं प्रवर्तते न रूपधातौ ज्ञानं प्रवर्ततेनारूप्यधातौ ज्ञानं प्रवर्तते, न चास्य कामरूपारूप्यधाताव् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते, न सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्यलौकिकलोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेष्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य ( प्स्प्1-2: 44 ) महासत्त्वस्य महायानम्.
इत्य् अनुपलम्भयोगेन प्रस्थानम्
शारिपुत्र आह: कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते?
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमिताम् आरोहति, स नैव दानपारमिताम् उपलभते न दायकं न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वोदानपारमितासमारूढ इत्य् उच्यते, एवं शीलपारमितासमारूढः क्षान्तिपारमितासमारूढो वीर्यपारमितासमारूढो ध्यानपारमितासमारूढः प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैवप्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितासमारूढ इत्य् उच्यते.
इति त्रिमण्डलपरिशुद्धिप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन शून्यतानिमित्ताप्रणिहितसमाधीन् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.

पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं संजानाति, व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व इति सत्त्वानुपलब्धिताम् उपादाय, इदम् अपि नाममात्रं यद् उत रूपं रूपानुपलब्धिताम् उपादाय, वेदना संज्ञा संस्काराः, नाममात्रम् इदं यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत चक्षुश् चक्षुषो ( प्स्प्1-2: 45 ) ऽनुपलब्धिताम् उपादाय, एवं श्रोत्रं घ्राणं जिह्वा कायो नाममात्रम् इदं यद् उत मनो मनसो ऽनुपलब्धिताम् उपादाय, एवं व्यस्तसमस्ताः स्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादः सप्तत्रिंशद् बोधिपक्ष्या धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, नाममात्रम् इदं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत बुद्धधर्माबुद्धधर्मानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत तथता धर्मधातुश् च धर्मनियामता च भूतकोटिश् च भूतकोट्यनुपलब्धिताम् उपादाय, नाममात्रं यद् उत बोधिर् बुद्धश् च बुद्धानुपलब्धिताम् उपादाय. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
इत्य् उद्देशप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिर् अत्रान्तरे बोधिसत्त्वो महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति गुरुकरोति मानयति पूजयति, यो यस्य बुद्धस्य औपयिकपूजासत्कारविधिस् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति, यद् उत इदम् एव महायानम्, स तत्र बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति, न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते, सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोत्य् अर्थकरणाय तादृशम् आत्मभावं संचिन्त्य परिगृह्णाति, स न जातु तेन महायानेन विरहितो भवति, यावत् सर्वाकारज्ञताम् अनुप्राप्नोति.
इत्य् अभिज्ञाप्रस्थानम्
सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, अप्रवर्तनीयं सर्वश्रावकप्रत्येकबुद्धैर् देवनागयक्षगन्ध्र्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यासुरेण लोकेन, तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति ( प्स्प्1-2: 46 ) यशः प्रकाशयन्ति, एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति, एषामुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
इति सर्वाकारज्ञताप्रस्थानम्
इत्य् उक्ता प्रस्थानप्रतिपत्तिः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महासन्नाहसन्नद्धो महासन्नाहसन्नद्ध इति भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं शीलपारमितासन्नाहं क्षान्तिपारमितासन्नाहं वीर्यपारमितासन्नाहं ध्यानपारमितासन्नाहं प्रज्ञापारमितासन्नाहं सन्नह्यते, स्मृत्युपस्थानसन्नाहं सन्नह्य, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसन्नाहंसन्नह्य, अप्रमाणध्यानारूप्यसमापत्तिसन्नाहं सन्नह्य, अध्यात्मशून्यतासन्नाहं सन्नह्य, बहिर्धाशून्यतासन्नाहं सन्नह्य, अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य, यावद् अभावस्वभावशून्यतासन्नाहं सन्नह्य, अभिज्ञाबलसन्नाहं सन्नह्य, वैशारद्यसन्नाहं सन्नह्य, प्रतिसंवित्सन्नाहं सन्नह्य, अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य, सर्वाकारज्ञतासन्नाहं सन्नह्य, बुद्धविग्रहसन्नाहं सन्नह्य, त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरति च, षड् विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व ( प्स्प्1-2: 47 ) एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति, एवं तिर्यग्योनितो यमलोकतो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति च देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फरति च षड् विकारं कम्पयति च सर्वेषु नैरयिक भवनेषु च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुध्हान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं तिर्यग्योनिभ्यो यमलोकेभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.

तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो निरयांस् तिर्यग्योनियमलोकं च निर्मिमीते निर्माय तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति, ततस् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देवमनुष्येषूपपद्येरन्, अपि तु सुभूते तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन असंख्येयेष्व् अप्रमेयेष्व् अप्रमाणेषु लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो भवति. तत् कस्य ( प्स्प्1-2: 48 ) हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय.
एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति करुणासंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रं महासाहस्रं लोकधातुं वैडूर्यम् अयं निर्मिमीते वैडूर्यम् अयं निर्माय चक्रवर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति, एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासनप्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवाडशङ्खशिलामुक्ताभरणानि यावद् अन्यतरान्यतरं परिष्कारं ददाति, सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्यतरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः पारमिताभिर् विरहिता भवन्ति यवाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्यतरान्यतरं परिष्कारन् तद् अर्थिकेभ्यो दद्यात्. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा मानुष्यकाः परिष्कारा दत्ता भवन्ति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.

मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc