भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 121140

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो न कायेन न चित्तेन वीर्यं स्रसयति, सर्वसत्त्वा मयोत्तारयितव्याः संसारतः अमृते धातौ प्रतिष्ठापयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते द्वितीयं ध्यानं समापद्यते तृतीयं ध्यानं समापद्यते चतुर्थं ध्यानं समापद्यते, न च श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वाध्यालम्बते ऽन्यत्र चास्यैवं भवति, इह मया ध्यानपारमितायां स्थित्वा सर्वसत्त्वाः संसाराद् उत्तारयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो न कञ्चिद् धर्मं संस्कृतं वासंस्कृतं वा पश्यति, न निमित्तन् नानिमित्तं पश्यति, न कस्यचिद् धर्मस्यास्ति त्वं वा नास्ति त्वं वा पश्यत्य् अन्यत्र सर्वधर्मतथतान् न व्यतिवर्तन्ते, तया च प्रज्ञापारमितयोपायकौशल्येन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य (प्स्प्_5:87) प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा यद्य् आक्रोशयेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि चाच्छिद्युस् तत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति, दातव्यं मयैतेषां सत्त्वानां दानं, न मयैतेषां सत्त्वानां दानं न दातव्यं, स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकानां ददाति, पानं पानार्थिकानां ददाति, यानं यानार्थिकानां ददाति, शयनासनवस्त्रहिरण्यसुवर्णमणिमुक्तावैडूर्यमरकतशंखशिलाप्रवालवज्रेन्द्रनीलसर्वरत्नग्लानप्रत्ययभैषज्यपरिष्कारादीनि ददाति यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो न्महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषन्णो ऽत्रान्तरे न कश्चित् सत्त्वो जीविताद् व्यपरोपितो न दैहिकी बोध्यङ्गताघातदोषक्रिया वा उत्पादिता, नादत्तम् आददाति, न काममिथ्याचारी भवति, न मृषावाग् भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न चास्य स्रावकप्रत्येकबुद्धभूमौ चित्तं क्रामति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां (प्स्प्_5:88) स्थित्वा वीर्यं स व्यञ्जनयति, नाहं योजनं वा गत्वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटी नियुतशतसहस्रं वा, लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुनियुतशतसहस्रं वा लोकधातुकोटीं वा लोकधातुकोटीशतं वा लोकधातुकोटीसहस्रं वा लोकधातुकोटीशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा तत्रान्तश एकसत्त्वम् अपि शरणगमनशिक्षापदेषु न प्रतिष्ठापयेयं स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वफले वा न प्रतिष्ठापयेयं प्रत्येकबोधौ वा न प्रतिष्ठापयेयम् अनुत्तरायां वा सम्यक्संबोधौ न प्रतिष्ठापयेयं, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षानतिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति, चतुर्थं ध्यानम् उपसंपद्य विहरति, उत्पन्नोत्पन्नांश् चित्तचेतसिकान् धर्मान् कुशलमूलोपसंहितान् सर्वसत्त्वेषु साधारणान् कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति, यथा ध्यानानि च ध्यानाङ्गानि च तस्मिन् समये नोपलभते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा तस्मिन् समये धर्मे धर्मानुपश्यी विहरति, विविक्तविहारेण वा शान्ताकारेण वाक्षयाकारेण वा न च तां धर्मतां साक्षात्करोति, यावच् च न बोधिमण्डे निषण्णो भवति, तत्र च निषद्य (प्स्प्_5:89) सर्वाकारज्ञताम् अनुप्राप्स्यति, उत्थाय धर्मचक्रं प्रवर्तयिष्यति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति, तथा च परिगृह्णाति यथा नोद्गृह्णाति तावन् नोत्सृजति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा कायेन चित्तेन चरन् न निक्षिपति, अवश्यञ् चैव मयानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, न मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिः, सत्त्वानां च कृतेन योजनं वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटीनियुतशतसहस्रं वा लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा वीर्यपारमितायां स्थित्वान्तश एकसत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, सचेद् बोधिसत्त्वयानिकं पुद्गलं लभेत तं बोधिचर्यासु प्रतिष्ठापयति. श्रावकयानिकं पुद्गलं श्रावकत्वाय प्रतिष्ठापयति, प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबोधौ प्रतिष्ठापयत्य्, अन्तश एकसत्त्वम् अपि दशकुशलेषु कर्मपथेषु समादापयति, स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. स तत् कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
(प्स्प्_5:90)
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्ड एतस्मिन्न् अन्तरे, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातप्रतिविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना चादत्तादानात् प्रतिविरतो भवति, परांश् चादत्तादानप्रतिविरतौ समादापयति, अदत्तादानविरतेश् च वर्णं भाषते, ये चान्ये ऽदत्तादानात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च काममिथ्याचारात् प्रतिविरतो भवति, परांश् च काममिथ्याचारप्रतिविरतौ समादापयति, काममिथ्याचारविरतेश् च वर्णं भाषते, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मृषावादात् प्रतिविरतो भवति, परांश् च मृषावादविरतौ समादापयति, मृषावादविरतेश् च वर्णं भाषते, ये चान्ये मृषावादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च परुषवचनात् प्रतिविरतो भवति, परांश् च परुषवचनविरतौ समादापयति, परुषवचनविरतेश् च वर्णं भाषते, ये चान्ये परुषवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च पिशुनवचनात् प्रतिविरतो भवति, परांश् च पिशुनवचनविरतौ समादापयति, पिशुनवचनविरतेश् च वर्णं भासते, ये चान्ये पिशुनवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाबद्धप्रलापात् प्रतिविरतो भवति, परांश् चाबद्धप्रलापविरतौ समादापयति, अबद्धप्रलापविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽबद्धप्रलापात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाभिध्यायाः प्रतिविरतो भवति, परांश् चाभिध्याविरतौ समादापयति, अभिध्याविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च व्यापादात् प्रतिविरतो भवति, परांश् च व्यापादविरतौ समादापयति, व्यापादविरतेश् च वर्णं भाषते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, (प्स्प्_5:91) ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. स तया शीलपारमितया न कामधातुं प्रार्थयति, न रूपधातुं प्रार्थयति, नारूप्यधातुं प्रार्थयति, न श्रावकभूमिं प्रार्थयति, न प्रत्येकबुद्धभूमिं प्रार्थयति, अन्यत्र तत् कुशलमूलं सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य मनुष्यभूतो वामनुष्यभूतो वा चित्तविक्षेपं वा कुर्याद् अङ्गप्रत्यङ्गानि च्छित्वा आदाय गच्छेत्, तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां स्थितस्य नैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा हरति वा, ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा येषाम् एवाहम् अर्थाय कायं परिहरामि, ते चैवागम्याङ्गप्रत्यङ्गानि च्छित्वा गच्छन्ति, धर्मता चास्य प्रकृत्या सुमनसिकृता भवति, तानि च कुशलमूलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्व सत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न (प्स्प्_5:92) प्रतिसंवेदयति यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वसत्त्वेषु सुखसंज्ञामनसिकाराद् मैत्रीम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु दुष्खसंज्ञामनसिकारात् करुणाम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु प्रमुदितासंज्ञामनसिकाराद् मुदिताम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु सुखदुःखसंज्ञामनसिकाराद् उपेक्षाम् अप्रमाणाम् उपसंपद्य विहरति. स रूपे औदारिकसंज्ञायाः प्रहाणाद् आकाशसंज्ञायाश् च मनसिकाराद् आकाशानन्त्यायतनम् उपसंपद्य विहरति, स विज्ञाने शान्तसंज्ञाया मनसिकाराद् विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स आकिंचन्यायतनेषु शान्तसंज्ञामनसिकाराद् आकिंचन्यायतनम् उपसंपद्य विहरति, स नैवसंज्ञानासंज्ञायाः शान्तसंज्ञाया मनसिकाराद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तेषाम् अप्रमाणानाञ् चारूप्यसमापत्तीनां च विपाकन् न प्रतिगृह्णात्य्, अन्यत्र यत्र सर्वसत्त्वानाम् अर्थे कर्तव्यः, तत्रोपपद्यते स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकुरुते कुशलमूलावरोपनतया, तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा न दानपारमितान् द्रव्यतः समनुपश्यति न भावतो न निमित्ततो न शीलपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न क्षान्तिपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न वीर्यपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न
(प्स्प्_5:93) ध्यानपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न प्रज्ञापारमितां द्रव्यतः समनुप्सश्यति न भावतो न निमित्ततः. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गं न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, आर्यसत्याप्र्माणध्यानारूप्यसमापत्तीर् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, दशबलविशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वाकारज्ञतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. स एवं पश्यन् न क्वचिद् धर्मनिकेतं करोति, स यथा वादी तथा कारी च भवति, स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्सकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् (प्स्प्_5:94) चतुर्थं ध्यानम् उपसंपद्य विहरति. एवम् आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिम् आकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, तत्र ध्यानपारमितायां स्थितो ऽविक्षिप्तमानसस् तेषां सत्त्वानाम् आमिषदानं धर्मदानं च ददाति, परांश् चामिषदाने धर्मदाने च समादापयति, आमिषदानस्य धर्मदानस्य च वर्णं भाषते, ये ऽपि चान्ये आमिषदानं धर्मदानञ् च ददाति, तेषां च वर्णवादी भवति समनुज्ञः. तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति?

भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते, न दोषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न विचिकित्सासहगतं चित्तम् उत्पद्यते, अन्यत्र सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् विअहरति तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते, बुद्ब्दोपमां वेदनां प्रत्यवेक्षते, मरीच्युपमां संज्ञां प्रत्यवेक्षते, कदल्युपमान् संस्कारान् प्रत्यवेक्षते, मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चस्कन्धेष्व् असारकसंज्ञा प्रत्युपस्थिता भवति, तस्यैवं (प्स्प्_5:95) प्रत्यवेक्षमाणस्यैवं भवति, कस्य वा रूपं, कस्य वा वेदना, कस्य वा संज्ञा, कस्य वा संस्काराः, कस्य वा विज्ञानं, तस्यैवं प्रत्यवेक्षमाणस्यैवं भवति, को वात्राक्रुष्यते वा परिभाष्यते वा, आक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा न व्यापाद उत्पद्यते. स तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलमूलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखञ् च काये न प्रतिसंवेदयति, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स ध्यानानां ध्यानाङ्गानां निमित्तं न गृह्णाति, स एवं समाहितचित्तो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभौ शब्दौ शृणोति दिव्यञ् च मानुष्यकञ् च, स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं प्रजानाति, विस्तरेण यावद् अनुत्तरं चित्तम् इति यथाभूतं प्रजानात्य्, अनेकविधं पूर्वनिवासम् अनुस्मरति, विस्तरेण यावद् दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावद् यथाकर्मोपगान् सत्त्वान् पश्यति, स इह पञ्चस्व् अभिज्ञासु प्रतिष्ठाय बुद्धक्षेत्रेण बुद्धक्षेत्रं गच्छति, बुद्धान् भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकरोति कुशलमूलान्य् अवरोपयति, बुद्धक्षेत्रञ् च परिशोधयति, तानि (प्स्प्_5:96) च कुशलमुलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि नोपलभते, दानपारमितां नोपलभते, शीलपारमितां नोपलभते, क्षान्तिपारमितां नोपलभते, वीर्यपारमितां नोपलभते, ध्यानपारमितां नोपलभते, प्रज्ञापारमितां नोपलभते, स्मृत्युपस्थानानि नोपलभते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् नोपलभते, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् नोपलभते, संस्कृतधातुन् नोपलभते, असंस्कृतधातुन् नोपलभते, अनुपलभमानो नाभिसंस्करोत्य्, अनभिसंस्कुर्वाणो नोत्पादयत्य्, अनुत्पादयमानो न निरोधयति. तत् कस्य हेतोः? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मस्थितिता धर्मनियामता सा नैवोत्पद्यते न निरुध्यते, सो ऽविक्षिप्तचित्तसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिपूरयति?
(प्स्प्_5:97)

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माः शून्या इति समनुपश्यति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माः शून्या इति समनुपश्यति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यताध्यात्मशून्यतेति नोपलभते, बहिर्धाशून्यता बहिर्धाशून्यतेति नोपलभते अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतेति नोपलभते, यावद् अभावशून्यता यावद् अभावस्वभावशून्यतेति नोपलभते. स आसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपन् नोपलभते शून्यम् इति वा अशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं नोपलभते शून्यम् इति वा अशून्यम् इति वा, स्कन्धधात्वायतनानि नोपलभते शून्यानीति वा अशून्यानीति वा, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि वा नोपलभते शून्यानीति वा अशून्यानीति वा, सर्वपारमिता नोपलभते शून्या इति वा अशून्या इति वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभते शून्या इति वा अशून्या इति वा, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नोपलभते सून्या इति वा अशून्या इति वा, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते शून्यानीति वा अशून्यानीति वा, शून्यतानिमित्ताप्रणिहितानि नोपलभते शून्यानीति वा अशून्यानीति वा, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा नोपलभते शून्या इति वा अशून्या इति वा, अनुत्तरा सम्यक्संबोधिर् नोपलभते शून्येति वा अशून्येति वा, संस्कृतो वा धातुर् असंस्कृतो वा धातुर् नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो यद्यद् एव दानन् ददात्य् अन्नं वा पानं वा शयनं वा आवसथं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा वस्त्रं वा सुवर्णं वा रूप्यं वा मणिमुक्ताशङ्खशिलाप्रवालादीनि वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाका वा यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति. स तद् दानं शून्यम् इत्य् अशून्यम् इति नोपलभते, यो वा ददाति यस्यैवा ददाति तद् अपि शून्यम् इति अशून्यम् इति नोपलभते, तस्य मात्सर्यचित्तस्य चोद्ग्रहचित्तस्य वावकाशो न भवति. तत् कस्य हेतोः? सर्व एते धर्माः प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य (प्स्प्_5:98) विकल्पा एव भवन्ति, प्रथमचित्तोत्पदम् उपादाय यावद् बोधिमण्डनिषण्णस्य यथा चैव तथागतस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वोद्ग्रहचित्तं वोत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मात्सर्यचित्तं वा उद्ग्रहचित्तं वा नोपपद्यते, एवम् एव सुभूते बोधिसत्त्वानां महासत्त्वानां शास्ता यद् उत प्रज्ञापारमिता, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिगृह्णाति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्त्वः प्रज्ञापारमितायां स्थित्वा न श्रावकप्रत्येकबुद्धभूमिचित्तानाम् अवकाशं ददाति. तत् कस्य हेतोः? तथा हि स श्रावकप्रत्येकबुद्धभूमिन् नोपलभते, तद् अपि चित्तन् नोपलभते, यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति, स प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषदनात्, प्राणातिपातप्रहाणाय चित्तम् उत्पादयति, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् परुषवचनात् पिशुनवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादात्, मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भासते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कश्चिद् धर्मं परामृशति श्रावकत्वं वा प्रत्येकबुद्धत्वं वा, प्राग् एवान्यद् वा तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा (प्स्प्_5:99) परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्यानुलोमिकी क्षान्तिर् उत्पद्यते, तस्यैवं भवति, इह न कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा म्रियते वा आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा तस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य यदि सर्वसत्त्वा आगम्याक्रोषयुर् वा परिभाषेरन् वा लोष्टदण्डशस्त्रप्रहारान् दद्युश् च्छिद्युर् भिद्युर् वा, तत्र चास्यैवं भवति, अहो धर्माणां धर्मता, न इह कश्चिद् धर्म आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा, स तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिनमयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगर्ह्नाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा चतुर्भिर् ऋद्धिपादैर् उपायकौशल्येन समन्वागतः कायिकञ् च चैतसिकञ् च वीर्यं संजनय्यान्यं लोकधातुम् अपि गत्वा, लोकधातुशतम् अपि गत्वा, लोकधातुसहस्रम् अपि गत्वा लोकधातुशतसहस्रम् अपि गत्वा लोकधातुकोटीनियुतशतसहस्रम् अपि गत्वा सत्त्वानां धर्मं देशयति. दानपारमितायां प्रतिष्ठापयति, शीलपारमितायां प्रतिष्ठापयति, क्षान्तिपारमितायां प्रतिष्ठापयति, वीर्यपारमितायां प्रतिष्ठापयति, ध्यानपारमितायां प्रतिष्ठापयति, प्रज्ञापारमितायां प्रतिष्ठापयति. सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति प्रत्येकबोधौ प्रतिष्ठापयति, यावद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, तथा च प्रतिष्ठापयति, यथा न संस्कृते धातौ प्रतिष्ठापयति, नासंस्कृते धातौ प्रतिष्ठापयति तच् च कुशलमूलं सर्वसत्त्वेषु (प्स्प्_5:100) सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा, तथागतसमाधिं स्थापयित्वा, यावन्तः केचित् समाधयः श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा तान् सर्वान् समापद्यते च व्युत्तिष्ठते च, समाधौ स्थित्वा अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमान् अष्टौ विमोक्षान्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मं रूपसंज्ञी बहिर्धारूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शून्यत्वेनाधिमुक्तः शून्यत्वे चाधिमुक्तो भवत्य् अयं तृतीयो विमोक्षः. सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पञ्चमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इतीमान् अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च, तत्र समाधौ स्थित्वा नवानुपूर्वविहारसमापत्तिईर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमा नवानुपूर्वविहारसमापत्तीर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं (प्स्प्_5:101) सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेश् च विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं काये न प्रतिसंवेदयते, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धिं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रयात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. एवम् इमा नवानुपूर्वविहारसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च, इमान् अष्ट विमोक्षान् इमाश् च नवानुपूर्वविहारसमापत्तीर् विभङ्गं कृत्वा इमं सिंहविजृम्भितं नाम समाधिं समापद्यते, तत्र च समाधौ स्थित्वा द्वादशाङ्गप्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते. कतमानि द्वादशाङ्गानि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽविद्याप्रत्ययाः संस्कारा इति प्रत्यवेक्षते, एवं संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपम्ब् नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवो, भवप्रत्यया जातिः, जातिप्रत्ययं जरामरणं, जरामरणप्रत्ययाः शोकपरिदेवदुःखदौर्मनस्योपायासा इति प्रत्यवेक्षते. एवम् अस्य केवलस्य महतो दुष्खस्कन्धस्य लोके समुदयो भवतीति प्रत्यवेक्षते. जरामरणे तस्मिन्न् असति शोकपरिदेवदुष्खदौर्मनस्योपायासा न भवन्तीति प्रत्यवेक्षते, एवं जाताव् असत्यां जरामरणन् न भवति, भवे ऽसति जातिर् न भवति, उपादाने ऽसति भवो न भवति, तृष्णायाम् असत्याम् उपादानन् (प्स्प्_5:102) न भवति, वेदनायम् असत्यां तृष्णा न भवति, स्पर्शे ऽसति वेदना न भवति, षडायतने ऽसति स्पर्शो न भवति, नामरूपे ऽसति षडायतनन् न भवति, विज्ञाने ऽसति नामरूपन् न भवति, संस्कारेष्व् असत्सु विज्ञानन् न भवति, अविद्यायाम् असत्यां संस्कारा न भवन्तीति प्रत्यवेक्षते. एवम् अस्य केवलस्य महता दुष्खस्कन्धस्य लोके निरोधो भवतीति प्रत्यवेक्षते. एवम् इमं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. इत्य् उक्तो दर्शनमार्गः

कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य सिंहविजृम्भितः समाधिर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. एवं द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति चतुर्थं ध्यानम् उपसंपद्य विहरति, आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिं आकिंचन्यायतनसमापत्तिन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थायाकिंचन्यायतनसमापत्तिं समापद्यते, आकिंचन्यायतनसमापत्तेर् व्युत्थाय विज्ञानानन्त्यायतनसमापत्तिं समापद्यते, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थायाकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थाय चतुर्थं ध्यानम् उपसंपद्यते, चतुर्थाद् ध्यानाद् व्युत्थाय तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थाय द्वितीयं ध्यानं समापद्यते, द्वितीयाद् ध्यानाद् व्युत्थाय प्रथमं ध्यानं समापद्यते. स इमं सिंहविजृम्भितं समाधिं विभङ्गं कृत्वावस्कन्दकं समाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्यावस्कन्दकः समाधिर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं (प्स्प्_5:103) पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, प्रथमाद् ध्यानाद् व्युत्थितो द्वितीयं ध्यानं उपसंपद्य विहरति, द्वितीयाद् ध्यानाद् व्युत्थितस् तृतीयं ध्यानम् उपसंपद्य विहरति, तृतीयाद् ध्यानाद् व्युत्थितश् चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थ्याद् ध्यानाद् व्युत्थित आकाशानन्त्यायतनसमापत्तिम् उपसंपद्य विहरति, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो विज्ञानानन्त्यायतनसमापत्तिम् उपसंपद्य विहरति, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थित आकिंचन्यायतनसमापत्तिम् उपसंपद्य विहरति, आकिंचन्यायतनसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितः संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. निरोधसमापत्तेर् व्युत्थितः प्रथमं ध्यानं समापद्यते, प्रथमाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो द्वितीयं ध्यानं समापद्यते द्वितीयाद् ध्यानाद् व्युत्थितो निरोधसमापित्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितस् तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितश् चतुर्थं ध्यानं समापद्यते, चतुर्थाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थित आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो विज्ञानानन्त्यायतनसमापत्तिं समापद्यते, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थित आकिंचन्यायतनसमापत्तिं समापद्यते, आकिंचन्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञासंज्ञायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतानसमापत्तिं समापद्यते नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् (प्स्प्_5:104) विज्ञनानन्त्यायतनसमापत्तिं समापद्यते, विज्ञनानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताच् चतुर्थं ध्यानं समापद्यते, चतुर्थाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्तात् तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् द्वितीयं ध्यानं समापद्यते, द्वितीयाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्तात् प्रथमं ध्यानं समापद्यते, प्रथमाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठति. स इहावस्कन्दके समाधौ स्थित्वा सर्वधर्मसमताम् अनुप्राप्नोति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽवस्कन्दकसमापत्तिं समापद्यते च व्युत्तिष्ठते च.
इत्य् उक्तो भावनामार्गः
सुभूतिर् आह: बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतेन मे संक्षिप्तेन च विस्तरेण च धर्मा भाषिताः, तत्र बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनेमाः षट् पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्याः पर्यवाप्य यावद् वाचा परिजिताः कर्तव्या यावद् वाचा परिजिताः कृत्वा मनसा प्रत्यवेक्षितव्या, तथा च चित्तचेतसिका धर्मा न प्रवर्तन्ते, अस्मिन् पुनः संक्षेपविस्तरे शिक्षमाणो बोधिसत्त्वो महासत्त्वः षण्नां पारमितानां सर्वधर्माणाञ् च संक्षेपविस्तरं ज्ञास्यति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां (प्स्प्_5:105) संक्षेपविस्तरं ज्ञास्यति?

भगवान् आह: रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा संक्षिप्तविस्तरञ् च तथतां जानानः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य वा प्रतीत्यसमुत्पादाङ्गानां वा संक्षिप्तविस्तरं तथतां जानानः, एवं सर्वपारमितानां वा सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां वा सर्वाकारज्ञताया वा संक्षिप्तविस्तरं तथतां जानानः, सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
सुभूतिर् आह: कतमा सा भगवंस् तथता?
भगवान् आह: यस्यास् तथताया नोत्पादः प्रज्ञायते, न स्थितिर् नान्यथात्वं प्रज्ञायते इयं सा तथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. एवं भूतकोटिं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
सुभूतिर् आह: कतमा सा भगवन् भूतकोटिः?
भगवान् आह: अकोटिर् भूतकोटिर् अत्र कोट्यां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति, एवं धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
सुभूतिर् आह: कतमो ऽसौ भगवन् धर्मधातुः?
भगवान् आह: आकाशधातुर् धर्मधातुर् यस्य धातोर् न च्छेदः प्रज्ञायते न परिच्छेदः. एवं च धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
सुभूतिर् आह: कथं भगवन् सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यम्?
भगवान् आह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः.
सुभूतिर् आह: कतमे भगवन् सर्वधर्मा ये न संयुक्ता न विसंयुक्ताः?
भगवान् आह: रूपन् न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्काराः, विज्ञानन् न संयुक्तन् न विसंयुक्तम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न (प्स्प्_5:106) विसंयुक्तानि, एवं यावत् संस्कृतो धातुर् असंस्कृतो धतुर् न संयुक्तो न विसंयुक्तः. तत् कस्य हेतोः? न ह्य् अस्यास्ति स्वभावो यः संयुज्यते वा विसंयुज्यते वा यश् चास्वभावः सो ऽभावो, यश् चाभावः सो ऽभावेन सार्धं न संयुक्तो न विसंयुक्त, एवं बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ज्ञातव्याः.
सुभूतिर् आह: अयं पुनर् भगवन्न् अभिसंक्षेपो बोधिसत्त्वस्य महासत्त्वस्यात्र हि भगवन्न् अभिसंक्षेपपारमितायाम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यावद् दशसु भूमिषु स्थितेनेहैवाभिसंक्षेपे शिक्षितव्यम्, इहैव पुनर् अभिसंक्षेपे शिक्षिमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षेपविस्तरं ज्ञास्यति.
भगवान् आह: तीक्ष्णेन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, ऋद्धीन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, मध्येन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्याप्य् अयं प्रवेशः, कस्यचिन् न प्रवेशः शिक्षितुकामस्य बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, न खलु कुशीदस्यायं प्रवेशो न हीनवीर्यस्य मुषितस्मृतेर् न विक्षिप्तचित्तस्यायं प्रवेशः आरब्धवीर्यस्याकुशीदस्योपस्थितस्मृतेर् अयं प्रवेशः शिक्षितुकामस्य चाविनिवर्तनीयभूमौ सर्वाकारज्ञताम् अनुप्राप्तुकामस्य चायं प्रवेशः. इति संक्षेपविस्तराज्ञानविकल्पौ
सचेद् यथोपदिष्टायां प्रज्ञापारमितायां शिक्षिष्यते शिक्षित्वा दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम् अनुप्राप्स्यति, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अनुप्राप्स्यत्य्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अनुप्राप्स्यति, शून्यतानिमित्ताप्रणिहिताभिज्ञा अनुप्राप्स्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचित् मारकर्माण्य् उत्पत्स्यन्ते, उत्पद्यमानान्य् एव तानि प्रहास्यन्ति, तस्माद् उपायकौशल्यं परिगृहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगम् आपद्यते, तस्मिन् समये ऽसंख्येयेषु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् (प्स्प्_5:107) च देशयन्ति ते तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति प्रज्ञापारमितायां चरन्तम्. तत् कस्य हेतोः? अतो निर्जाता हि सुभूते ऽतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो यद् उत षड्भ्यः पारमिताभ्यः, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रतिकाङ्क्षितव्यम्, अहम् अप्य् एनान् धर्मान् अनुप्राप्स्यामि ये तैर् अतीतानागतप्रत्युत्पन्नैर् बुद्धैर् भगवद्भिर् अनुप्राप्ताः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं योगम् आपत्तव्यम्, एवं प्रयुज्यमानो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतामनसिकाराविरहितेन भवितव्यम्. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं चरन् प्रज्ञापारमितायाम् अन्तशो ऽच्छटासंघातमात्रकम् अपि प्रज्ञापारमितां भावयिष्यति, स ख्हलु पुनर् बोधिसत्त्वो महासत्त्वो बहुतरपुण्यं प्रसविष्यति, न त्व् एव ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव दानेन संतर्पयेच् छीले प्रतिष्ठापयेत् क्षान्तौ प्रतिष्ठापयेद् वीर्ये प्रतिष्ठापयेत् समाधौ प्रतिष्ठापयेत् प्रज्ञायां प्रतिष्ठापयेद् विमुक्तौ प्रतिष्ठापयेद् विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत्, स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्जाता हि सुभूते दानशीलक्षान्तिवीर्यसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः. ये ऽपि ते बुद्धा भगवन्तो दशदिग्लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपितो निर्जाता यद् उत प्रज्ञापारमितातः. ये ऽपि ते सुभूते ऽ तीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तस् ते ऽपीत एव प्रभाविता यद् उत प्रज्ञापारमितातः.

पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वो मुहूर्तं वा दिवसं वा दिवसशतं वा संवत्सरं वा संवत्सरशतं वा कल्पं वा कल्पशतं वा यावद् असंख्येयान् अपि कल्पानि मां प्रज्ञापारमितां सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् भावयिष्यति, स बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ये गङ्गानदीवालुकासमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव दानेन संतर्पयेच् छीले क्षान्तौ वीर्ये समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयेत्, (प्स्प्_5:108) स्रोतआपत्तिफले प्रतिष्ठापयेत्, सकृदागामिफले प्रतिष्ठापयेत्, अनागामिफले प्रतिष्ठापयेत्, अर्हत्त्वे प्रतिष्ठापयेत्, प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्जाता हि ते बुद्धा भगवन्तो यैर् इदं दानमयं पुण्यक्रियावस्तुप्रज्ञाप्तं, शीलमयं भावनामयं पुण्यक्रियावस्तुप्रज्ञाप्तं, क्षान्तिवीर्यसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं प्रज्ञाप्तं, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं प्रज्ञाप्तम्.
इति बुद्धैः सानाथ्याभावविकल्पः

यः पुनर् अपरं बोधिसत्त्वो महासत्त्व एवं यथोपदिष्टायां प्रज्ञापारमितायां स्थितः, स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयः प्रतिकाङ्क्षितव्यः. तथागतसमन्वागतः स बोधिसत्त्वो महासत्त्वः, उपायकौशल्येन समन्वागतो बहुबुद्धकोटीनियुतशतसहस्रपर्युपासितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अवरोपितकुशलमूलः स बोधिसत्त्वो महासत्त्वः, कल्याणमित्रपरिगृहीतः स बोधिसत्त्वो महासत्त्वः, षट्पारमितावतीर्णः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. विंशतिशून्यताभावितः स बोधिसत्त्वो महासत्त्वः, सप्तत्रिंशद् बोधिपक्ष्यधर्मभावितः स बोधिसत्त्वो महासत्त्वः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावितः स बोधिसत्त्वो महासत्त्वः, षड् अभिज्ञाप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः, कुमारभूतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अभिप्रायपरिपूर्णः स बोधिसत्त्वो महासत्त्वः, बुद्धैर् अविरहितः स बोधिसत्त्वो महासत्त्वः, कुशलमूलैर् अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अनाक्षिप्तप्रतिभानः स बोधिसत्त्वो महासत्त्वः, धारणीप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. रूपपरिनिष्पत्तिस् तस्य प्रतिकाङ्क्षितव्या, व्याकरणसंपन्नो गोत्रसंपन्नः संचिन्त्यभवः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. आकारप्रवेशकुशलो ऽनक्षरप्रवेशकुशलो व्यवहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अव्यवहारकुशल एकाधिवचनकुशलो द्व्यधिवचनकुशलस् त्र्यधिवचनकुशलः पुरुषाधिवचनकुशलो रूपकुशलो, वेदनाकुशलः संज्ञाकुशलः संस्कारकुशलो विज्ञानकुशलः स्कन्धधात्वायतनकुशलः प्रतीत्यसमुत्पादकुशलः प्रतीत्यसमुत्पादाङ्गकुशलो (प्स्प्_5:109) यावन् निर्वाणकुशलो धर्मधातुलक्षणकुशलः संस्कारलक्षणकुशलः संस्कृतलक्षणकुशलो ऽसंस्कृतलक्षणकुशलो लक्षणालक्षणकुशलो भावकुशलो ऽभावकुशलः स्वभावकुशलः परभावकुशलः सयोगकुशलो वियोगकुशलः संप्रयुक्तकुशलो विप्रयुक्तकुशलः, तथताकुशलो ऽवितथताकुशलो ऽनन्यतथताकुशलो धर्मताकुशलो धर्मधातुकुशलो धर्मनियामताकुशलो धर्मस्थितिताकुशलो भूतकोटिकुशलः प्रत्ययकुशलः संप्रत्ययकुशलो ध्यानकुशलो ऽप्रमाणकुशल आरूप्यसमापत्तिकुशलः षट्पारमिताकुशलश् चतुःस्मृत्युपस्थानकुशलः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गकुशलो विमोक्षसमाधिसमापत्तिधारणीमुखकुशलः शून्यतानिमित्ताप्रणिहितकुशलो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मकुशलः सर्वाकारज्ञताकुशलः संस्कृतधातुकुशलो ऽसंस्कृतधातुकुशलो ऽधातुकुशलो रूपमनसिकारकुशलो वेदनासंज्ञासंस्कारविज्ञानमनसिकारकुशलः स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गमनसिकारकुशलः सप्तत्रिंशद्बोधिपक्ष्य धर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखमनसिकारकुशलः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्ममनसिकारकुशलः, सर्वाकारज्ञता मनसिकारकुशलः. रूपं रूपेण शून्यम् इति कुशलः, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यम् इति कुशलः, स्कन्धधात्वायतनानि स्कन्धधात्वायतनैः शून्यानीति कुशलः, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादेन शून्य इति कुशलः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गैः शून्यानीति कुशलः, सर्वपारमिताः सर्वपारमिताभिः शून्या इति कुशलः, सर्वशून्यताः सर्वशून्यताभिः शून्या इति कुशलः, बोधिपक्ष्या धर्मा बोधिपक्ष्यैर् धर्मैः शून्याः इति कुशलः, आर्यसत्यान्य् आर्यसत्यैः शून्यानीति कुशलः, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिभिः शून्या इति कुशलः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैः सून्यानीति कुशलः, अभिज्ञा अभिज्ञाभिः शून्या इति कुशलो, दशबलवैशारद्यप्रतिसंविदो दशबलवैशारद्यप्रतिसंविद्भिः शून्या इति कुशलः, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैः शून्यानीति कुसलः, अष्टादशावेणिकबुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या इति कुशलः, अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या (प्स्प्_5:110) शून्येति कुशलः, प्रतिप्रस्रब्धमार्गकुशलो ऽप्रतिप्रस्रब्धमार्गकुशलः उत्पादनिरोधकुशलः स्थित्यन्यथात्वकुशलो रागकुशलो द्वेषकुशलो मोहकुशलो दृष्टिकुशलो ऽदृष्टिकुशलो मिथ्यादृष्टिकुशलो ऽमिथ्यादृष्टिकुशलो यावत् सर्वदृष्टिकुशलो नामरूपकुशलो ऽनामरूपकुशल आरम्बणकुशल आधिपत्यकुशलो हेतुकुशलः प्रत्ययकुशलो लक्षणकुशलो ऽलक्षणकुशलो दुःखकुशलो ऽदुःखकुशलः समुदयकुशलो ऽसमुदयकुशलो निरोधकुशलो मार्गकुशलो नरककुशलो नरकमार्गकुशलः तिर्यग्योनिकुशलस् तिर्यग्योनिमार्गकुशलो यमलोककुशलो यमलोकमार्गकुशलो मनुष्यकुशलो मनुष्यमार्गकुशलो देवकुशलो देवमार्गकुशलः स्रोतआपत्तिफलकुशलः स्रोतआपत्तिफलमार्गकुशलः, सकृदागामिफलकुशलः सकृदागामिफलमार्गकुशलः, अनागामिफलकुशलो ऽनागामिफलमार्गकुशलः, अर्हत्त्वफलकुशलो ऽर्हत्त्वफलमार्गकुशलः, प्रत्येकबोधिकुशलः प्रत्येकबोधिमार्गकुशलः, मार्गाकारज्ञताकुशलो मार्गाकारज्ञतामार्गकुशलः, सर्वाकारज्ञताकुशलः सर्वाकारज्ञतामार्गकुशलः, इन्द्रियकुशल इन्द्रियमार्गकुशलः, तीक्ष्णमार्गकुशलो जवनप्रज्ञाकुशलो नैर्वेधिकप्रज्ञाकुशलः पृथक्पृथक्प्रज्ञाकुशलो समन्तप्रज्ञाकुशलो ऽतीतार्थकुशलो ऽनागतार्थकुशलः प्रत्युत्पन्नार्थकुशल उपायकुशलः सत्त्वाशयकुशलो ऽध्याशयकुशलो ऽर्थकुशलो व्यञ्जनकुशलस् त्रिस्थानव्यवस्थानकुशलः, इतीमे ऽनुशंसाः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः.
इति प्रयोगमार्गाभावविकल्पः
प्रज्ञापारमिताम् अभिनिर्हरतः. इति दर्शनमार्गाभावविकल्पः
प्रज्ञापारमितां भावयन्तः. इति भावनामार्गाभावविकल्पः
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितायाञ् चरितव्यं? कथं प्रज्ञापारमिताभिनिर्हर्तव्या? कथं प्रज्ञापारमिता भावयितव्या?
भगवान् आह: रूपशान्ततया सुभूते रूपवशिकतया रूपतुच्छतया रूपासारतया प्रज्ञापारमितायां चरितव्यं, वेदनासंज्ञासंस्कारविज्ञानशान्ततया विज्ञानवशिकतया विज्ञानतुच्छतया विज्ञानासारतया प्रज्ञापारमितायां चरितव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां शान्ततया वशिकतया तुच्छतया (प्स्प्_5:111) असारतया प्रज्ञापारमितायां चरितव्यम्. इति प्रयोगमार्गाज्ञानविकल्पः

यत् पुनः सुभूते एवं वदसि, कथं प्रज्ञापारमिताभिनिर्हर्तव्येति, आकाशशून्यताभिनिर्हारतया प्रज्ञापारमिताभिनिर्हर्तव्या. इति दर्शनमार्गाज्ञानविकल्पः
यत् पुनः सुभूते एवं वदसि, कथं प्रज्ञापारमिता भावयितव्येति, आकाशशून्यताभावनया प्रज्ञापारमिता भावयितव्या.
इति भावनामार्गज्ञानविकल्पः
इत्य् उक्तो नवविधः प्रथमो ग्राह्यविकल्पः

सुभूतिर् आह: कियच् चिरं स भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां चीर्णो भवति?
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय,
इति बोधिचित्तानुत्पादविकल्पः
यावद् बोधिमण्डम् एव मनसिकरोत्य्, एवं प्रज्ञापारमितायां चरितव्यम्, एवं प्रज्ञापारमिताभिनिर्हर्त्तव्या भावयितव्या.
इति बोधिमण्डामनसिकारविकल्पः
सुभूतिर् आह: किं पुनर् भगवंश् चित्तान्तरानाम् अवकाशन् ददता प्रज्ञापारमितायां चरितव्यम्?
भगवान् आह: अन्येषां सुभूते मनसिकाराणाम् अवकाशम् अददता प्रज्ञापारमितायां चरितव्यं, प्रज्ञापारमिताभिनिर्हर्तव्या, प्रज्ञापारमिता भावयितव्या.
इति श्रावकप्रत्येकबुद्धयानामनसिकारविकल्पः
सर्वाकारज्ञतामनसिकाराविप्रणाश एव सुभूते प्रज्ञापारमिताचर्या, तथा च चरितव्या तथा चाभिनिर्हर्तव्या तथा च भावयितव्या, यथा चित्तचैतसिका धर्मा न प्रवर्तते.
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् अभिनिर्हरन् प्रज्ञापारमितां भावयन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: न सुभूते. इति सम्यक्संबोधेर् अमनसिकारविकल्पः
सुभूतिर् आह: भावयन् पुनः सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: न सुभूते. इति भावनाविकल्पः
सुभूतिर् आह: अभावयन् पुनः सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: न सुभूते. इत्य् अभावनाविकल्पः
(प्स्प्_5:112)
सुभूतिर् आह: नैव भावयन् नाभावयन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: न सुभूते. इति नैवभावनानाभावनाविकल्पः
सुभूतिर् आह: तत् कथं भगवन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: यथा तथता.
सुभूतिर् आह: कथं तथता?
भगवान् आह: यथा हि भूतकोटिः.
सुभूतिर् आह: कथं भूतकोटिः?
भगवान् आह: यथा धर्मधातुः. इति यथाविकल्पः
इत्य् उक्तो नवविधो द्वितीयो ग्राह्यविकल्पः
सुभूतिर् आह: कथं धर्मधातुः?
भगवान् आह: यथात्मधातुः सत्त्वधातुर् जीवधातुर् जन्तुधातुः पोषधातुः पुरुषधातुः पुद्गलधातुः.
सुभूतिर् आह: कथं भगवन् तथता भूतकोटिधर्मधातुर् आत्मधातुः सत्त्वधातुर् जीवधातुर् जन्तुधातुः पोषधातुः पुरुषधातुः पुद्गलधातुः?
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु स आत्मा वा सत्त्वो वा जीवो वा जन्तुर् वा पोसो वा पुरुषो वा पुद्गलो वा उपलभ्यते.
सुभूतिर् आह: न भगवन्.
भगवान् आह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जीवं वा जन्तुं वा पोषं वा पुरुषं वा पुद्गलं वा, कथं सत्त्वधातुं वा यावत् पुद्गलधातुं वा प्रज्ञापयिष्यति. एवं प्रज्ञापारमिताम् अप्य् अप्रज्ञपयमानः सर्वधर्मान् अप्य् अप्रज्ञपयमानः सर्वाकारज्ञताम् अनुप्राप्स्यति.
सुभूतिर् आह: किं पुनर् भगवन्न् अप्रज्ञपनीया प्रज्ञापारमिता? अप्रज्ञपनीया ध्यानपारमिता, अप्रज्ञपनीया वीर्यपारमिता, अप्रज्ञपनीया क्षान्तिपारमिता, अप्रज्ञपनीया शीलपारमिता, अप्रज्ञपनीया दानपारमिता?
भगवान् आह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता, यावत् सर्वधर्माः संस्कृता वासंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा यावद् बुद्धधर्मा वा.
सुभूतिर् आह: यदि भगवन्न् अप्रज्ञपनीयाः सर्वधर्माः, कुतः (प्स्प्_5:113) पुनर् भगवन् नारकाः प्रज्ञायन्ते, तिर्यग्योनिगताः प्रज्ञायन्ते, यमलोका वा प्रज्ञायन्ते, मनुष्या वा प्रज्ञायन्ते, देवा वा प्रज्ञायन्ते, स्रोतआपन्ना वा सकृदागामिनो वानागामिनो वार्हन्तो वा प्रत्येकबुद्धा वा सम्यक्संबुद्धा वा प्रज्ञायन्ते.
भगवान् आह: कत् किं मन्यसे? सुभूते ऽपि नु सत्त्वप्रज्ञाप्तिर् उपलभ्यते.
सुभूतिर् आह: न भगवन्.
भगवान् आह: अनुपलभमानः सुभूते सत्त्वं कुतो नारकं प्रज्ञापयिष्यति तिर्यग्योनिगतान्, यमलोकं वा मनुष्यं वा देवं वा स्रोतआपन्नान् वा सकृदागामिनो वा अनागामिनो वा अर्हतो वा प्रत्येकबुद्धान् वा सम्यक्संबुद्धान् वा कुतः प्रज्ञापयिष्यति? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यम्. इति सत्त्वप्रज्ञाप्तिविकल्पः
सुभूतिर् आह: न नु भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे शिक्षितव्यं, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने शिक्षितव्यं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च शिक्षितव्यं, सर्वाकारज्ञतायां शिक्षितव्यं, सर्वपारमितासु सर्वशून्यतासु शिक्षितव्यं, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यम्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु शिक्षितव्यं, सर्वाकारज्ञतायां शिक्षितव्यम्.
इति धर्मप्रज्ञाप्तिविकल्पः
भगवान् आह: रूपेषु सुभूते शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, वेदनायां संज्ञायां संस्कारेषु, विज्ञानेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, सर्वपारमितासु सर्वशून्यतासु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु (प्स्प्_5:114) शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया.

सुभूतिर् आह: कथं भगवन् रूपे अनुत्क्षेपाप्रक्षेपतया शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु, कथं भगवन् विज्ञाने ऽनुत्क्षेपाप्रक्षेपतया शिक्षितव्यं? यावत् सर्वाकारज्ञतायाम् अनुत्क्षेपाप्रक्षेपतया शिक्षितव्यम्?
भगवान् आह: अनुत्पादतो ऽनिरोधतः शिक्षितव्यम्.
सुभूतिर् आह: कथं भगवन् अनुत्पादतो ऽनिरोधतः शिक्षितव्यम्?
भगवान् आह: अनभिसंस्कारतया शिक्षितव्यम्.
सुभूतिर् आह: कथं भगवन्न् अनभिसंस्कारतया शिक्षितव्यम्?
भगवान् आह: स्वलक्षणशून्यान् धर्मान् समनुपश्यन्न् अनभिसंस्कारतया शिक्षितव्यम्.
सुभूतिर् आह: कथं भगवन् स्वलक्षणशून्याः सर्वधर्मा इति शिक्षितव्यम्?
भगवान् आह: रूपं रूपेण शून्यं द्रष्टव्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यं द्रष्टव्यम्, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो, मनो मनसा शून्यं द्रष्टव्यम्, एवं रूपं शब्दगन्धरसस्पर्ष्टव्यधर्माः शब्दगन्धरसस्पर्ष्टव्यधर्मैः शून्या द्रष्टव्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं द्रष्टव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं मनोविज्ञानेन शून्यं द्रष्टव्यं, चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यो द्रष्टव्यः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यो द्रष्टव्यः, चक्षुःसंस्पर्शप्रत्यया वेदना चक्षुःसंस्पर्शप्रत्ययया वेदनया शून्या द्रष्टव्या, एवं श्रोत्रसंस्पर्शप्रत्यया वेदना, घ्राणसंस्पर्शप्रत्यया वेदना, जिह्वासंस्पर्शप्रत्यया वेदना, कायसंस्पर्शप्रत्यया वेदना, मनःसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शप्रत्ययया वेदनया शून्या द्रष्टव्या, दानपारमिता दानपारमितया शून्या द्रष्टव्या, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या द्रष्टव्या, अध्यात्मशून्यताध्यात्मशून्यतया शून्या द्रष्टव्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या द्रष्टव्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या द्रष्टव्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या द्रष्टव्या, आर्यसत्यान्य् (प्स्प्_5:115) आर्यसत्यैः शून्यानि द्रष्टव्यानि, ध्यानानि ध्यानैः शून्यानि द्रष्टव्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि द्रष्ट्व्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्या द्रष्टव्याः, विमोक्षमुखानि विमोक्षमुखैः शून्यानि द्रष्टव्यानि, नवानुपूर्वविहारसमापत्तयो नवानुपूर्वविहारसमापत्तिभिः शून्या द्रष्टव्याः, समाधयः समाधिभिः शून्या द्रष्टव्याः, धारणीमुखानि धारणीमुखैः शून्यानि द्रष्टव्यानि, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैः शून्यानि द्रष्टव्यानि, स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि द्रष्टव्यानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैः शून्यानि द्रष्टव्यानि, मार्गा मार्गैः शून्या द्रष्टव्याः, अभिज्ञा अभिज्ञाभिः शून्या द्रष्टव्या, दशबलानि दशबलैः शून्यानि द्रष्टव्यानि, वैशारद्यानि वैशारद्यैः शून्यानि द्रष्टव्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या द्रष्टव्याः, आवेणिका बुद्धधर्मा आवेणिकैः बुद्धधर्मैः शून्या द्रष्टव्याः, अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या शून्या द्रष्टव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु चरितव्यम्.
सुभूतिर् आह: यदि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यम्. एवं यावद् अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या शून्या. तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरिर् भवति?
भगवान् आह: अचरिः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिः.
सुभूतिर् आह: केन कारणेन भगवन्न् अचरिः?
भगवान् आह: तथा हि सुभूते सा प्रज्ञापारमिता नोपलभ्यते, बोधिसत्त्वो ऽपि नोपलभ्यते, चरिर् अपि नोपलभ्यते, यो वा चरितो, येन वा चरितो, यत्र वा चरितस्, तद् अपि नोपलभ्यते. एवं हि सुभूते अचरिर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिर् यत्रैते सर्वप्रपञ्चा नोपलभ्यन्ते.
सुभूतिर् आह: यदि भगवन् न चरिः प्रज्ञापारमिताचरिर् भवति, तत् कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादायानुपलम्भेषु सर्वधर्मेषु शिक्षितव्यं, तेन दानन् ददता (प्स्प्_5:116) अनुपलम्भयोगेन दानन् दातव्यं, शीलं रक्षता अनुपलम्भयोगेन शीलं रक्षितव्यं, क्षान्त्या संपादयतानुपलम्भयोगेन क्षान्तिः संपादयितव्या, वीर्यम् आरभमाणेनानुपलम्भयोगेन वीर्यम् आरब्धव्यं, समाधिं समापद्यमानेनानुपलम्भयोगेन समाधिः समापत्तव्यः, प्रज्ञां भावयतानुपलम्भयोगेन प्रज्ञा भावयितव्या, अध्यात्मशून्यतां भावयतानुपलम्भयोगेन बहिर्धाशून्यतां भावयतानुपलम्भयोगेनाध्यात्मबहिर्धाशून्यतां भावयतानुपलम्भयोगेन, यावद् अभावस्वभावशून्यतां भावयतानुपलम्भयोगेनाभावस्वभावशून्यता भावयितव्या. स्मृत्युपस्थानानि भावयतानुपलम्भयोगेन स्मृत्युपस्थानानि भावयि तव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयतानुपलम्भयोगेनार्याष्टाङ्गमार्गो भावयितव्यः, आर्यसत्यानि भावयतानुपलम्भयोगेनार्यसत्यानि भावयितव्यानि, अप्रमाणध्यानारूप्यसमापत्तीर् भावयतानुपलम्भयोगेनाप्रमाणध्यानारूप्य समापत्तयो भावयितव्याः, शून्यतानिमित्ताप्रणिहितानि भावयतानुपलम्भयोगेन शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि, विमोक्षसमाधिसमापत्तिधारणीमुखानि भावयतानुपलम्भयोगेन विमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि, अभिज्ञा भावयतानुपलम्भयोगेनाभिज्ञा भावयितव्याः, दशबलवैशारद्यप्रतिसंविदो भावयतानुपलम्भयोगेन दशबलवैशारद्यप्रतिसंविदो भावयितव्याः, आवेणिकान् बुद्धधर्मान् भावयतानुपलम्भयोगेन आवेणिका बुद्धधर्मा भावयितव्याः, सर्वाकारज्ञतां भावयतानुपलम्भयोगेन सर्वाकारज्ञता भावयितव्या.
सुभूतिर् आह: कियता भगवन्न् उपलम्भो भवति? कियता भगवन्न् अनुपलम्भो भवति?
भगवान् आह: यावद् द्वयन् तावद् उपलम्भो, यावद् अद्वयन् तावद् अनुपलम्भः.
सुभूतिर् आह: कियता भगवन् द्वयं वा अद्वयं वा भवति?
भगवान् आह: यावच् चक्षुरूपं यावत् मनोधर्माश् च, यावद् बोधिश् च बुद्द्धश् च, इदं सुभूते द्वयं, यावन् न चक्षुरूपं, यावन् न मनोधर्माश् च, न बोधिश् च न बुद्धश् च, इदं सुभूते ऽद्वयम्.
इति शून्यत्वविकल्पः
सुभूतिर् आह: किं पुनर् भगवन्न् उपलम्भो ऽनुपलम्भः, अथानुपलम्भ उपलम्भः?
(प्स्प्_5:117)

भगवन् आह: न सुभूते उपलम्भो ऽनुपलम्भः, नाप्य् अनुपलम्भ उपलम्भः, अपि तु खलु पुनः सुभूते उपलम्भानुपलब्धिसमतानुपलम्भः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुपलम्भसमतायां शिक्षितव्यम्. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपलम्भिको भवति.
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नैवोपलम्भे सज्जति नानुपलम्भे, कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिः परिपूरयितव्या, भूमेर् भूमिं परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपलम्भे स्थित्वा भूमेर् भूमिं परिपूरयति, न चोपलरभे स्थित्वा शक्त्या बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिं परिपूरयितुम्. तत् कस्य हेतोः? अनुपलम्भा हि प्रज्ञापारमिता, अनुपलम्भा हि बोधिः, सो ऽपि नोपलभ्यते यः प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरितव्यम्. इति शक्तिविकल्पः
सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता नोपलभ्यते. तत् कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता धर्मेषु प्रविचयः कर्तव्यः? इदं रूपं, इयं वेदना, इयं संज्ञा, इमे संस्कारा, इदं विज्ञानम्, इमानि स्कन्धधात्वायतनानि, अयं प्रतीत्यसमुत्पाद, इमानि प्रतीत्यसमुत्पादाङ्गानि, इमा पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्माः, इमा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः, इमानि शून्यतानिमित्ताप्रणिहितानि, इमानि विमोक्षसमाधिसमापत्तिधारणीमुखानि, इमा अभिज्ञा दशबलवैशारद्यप्रतिसंविदः, इमे आवेणिका बुद्धधर्माः, इयम् अनुत्तरा सम्यक्संबोधिः.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तथा धर्मेषु प्रविचयं करोति, यथा कुर्वन् रूपं नोपलभते, वेदना संज्ञा संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं नोपलभते, प्रतीत्यसमुत्पादाङ्गानि नोपलभते, पारमिता नोपलभते, शून्यतामुखानि नोपलभते, बोधिपक्ष्यान् धर्मान् नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् नोपलभते, (प्स्प्_5:118) ऽनुत्तरां सम्यक्स्ंअबोधिन् नोपलभते. इति धर्मप्रविचयविकल्पः
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानन् नोपलभते, यावद् अनुत्तरां सम्यक्संबोधिन् नोपलभते. तत् कथं दानपारमितां परिपूर्य शीलपारमितां परिपूर्य क्षान्तिपारमितां परिपूर्य वीर्यपारमितां परिपूर्य ध्यानपारमितां परिपूर्य प्रज्ञापारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रमिष्यति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयिष्यति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयिष्यति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्स्यति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रं प्रवर्त्य बुद्धकृत्यं करिष्यति, बुद्धकृत्यं कृत्वा सत्त्वान् संसारात् परिमोचयिष्यति?
भगवान् आह: न सुभूते बोधिसत्त्वो रूपस्य कृतेन प्रज्ञापारमितायां चरति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य कृतेन प्रज्ञापारमितायां चरति, न स्कन्धधात्वायतनानां न प्रतीत्यसमुत्पादस्य न प्रतीत्यसमुत्पादाङ्गानां कृतेन प्रज्ञापारमितायां चरति, न पारमितानां कृतेन, न शून्यतामुखानां न बोधिपक्ष्यानां धर्माणां कृतेन, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां कृतेन, न शून्यतानिमित्तापरनिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां कृतेन, नानुत्तरायाः सम्यक्संबोधेः कृतेन प्रज्ञापारमितायां चरति.
सुभूतिर् आह: कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
भगवान् आह: न कस्यचित् कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा हि सुभूते ऽकृता अविकृता अनभिसंस्कृताः सर्वधर्माः, सापि प्रज्ञापारमिताकृता अविकृतानभिसंस्कृता, बोधिसत्त्वो ऽप्य् अकृतो ऽविकृतो ऽनभिसंस्कृतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अकृताविकृतानभिसंस्कृतानभिसंस्कारयोगेन.
इति वस्तूद्देशविकल्पः
सुभूतिर् आह: यदि भगवन्न् अकृता अविकृता अनभिसंस्कृताः सर्वधर्माः, कथं येषां भगवंस् त्रयाणां यानानां व्यवस्थानं भवति? श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य च.
(प्स्प्_5:119)

भगवान् आह: न सुभूते ऽकृतानाम् अविकृतानाम् अनभिसंस्कृतानां धर्माणां किंचिद् व्यवस्थानम् उपलभ्यते, अनभिसंस्कृतानाम् अनभिसंचेतयितानां धर्माणां व्यवस्थानं च नोपलभ्यते. तत् कस्य हेतोः? तथा हि बालो ऽश्रुतवान् पृथग्जनो रूपे ऽभिनिविष्टो, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने ऽभिनिविष्टः, स्कन्धधात्वायतनेष्व् अभिनिविष्टः, प्रतीत्यसमुत्पादे ऽभिनिविष्टः, प्रतीत्यसमुत्पादाङ्गेष्व् अभिनिविष्टः, पारमितास्व् अभिनिविष्टः, शून्यतामुखेस्व् अभिनिविष्टो, बोधिपक्ष्येषु धर्मेष्व् अभिनिविष्टः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अभिनिविष्टः, शून्यतानिमित्ताप्रणिहितेस्व् अभिनिविष्टो, ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेष्व् अभिनिविष्टः, सर्वाकारज्ञतायाम् अभिनिविष्टो, रूपं मन्यते रूपम् उपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं मन्यते विज्ञानम् उपलभते, स्कन्धधात्वायतनानि मन्यते स्कन्धधात्वायतनान्य् उपलभते, प्रतीत्यसमुत्पादं मन्यते प्रतीत्यसमुत्पादम् उपलभते, प्रतीत्यसमुत्पादाङ्गानि मन्यते प्रतीत्यसमुत्पादाङ्गान्य् उपलभते, पारमिता मन्यते पारमिता उपलभते, शून्यतामुखानि मन्यते शून्यतामुखान्य् उपलभते, बोधिपक्ष्यान् धर्मान् मन्यते बोधिपक्ष्यान् धर्मान् उपलभते, आर्यसत्यानि मन्यते आर्यसत्यान्य् उपलभते, अप्रमाणध्यानारूप्यसमापत्तीर् मन्यते ऽप्रमाणध्यानारूप्यसमापत्तीर् उपलभते, शून्यतानिमित्ताप्रणिहितानि मन्यते शून्यतानिमित्ताप्रणिहितान्य् उपलभते, अष्टविमोक्षनवानुपूर्वविहारसमापत्तीर् मन्यते ऽष्टविमोक्षनवानुपूर्वविहारसमापत्तीर् उपलभते, समाधिधारणीमुखानि मन्यते समाधिधारणीमुखान्य् उपलभते, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् मन्यते ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् उपलभते, बोधिं मन्यते बोधिम् उपलभते. तस्यैवं भवत्य्, अहं बोधिम् अभिसंभोत्स्ये, अहं सत्त्वान् परिमोचयिष्यामि संसारतः. तत् कस्य हेतोः? तथा हि सुभूते यद् बुद्धेन पञ्चभिश् चक्षुर्भिर् नोपलब्धं रूपं, वेदना संज्ञा संस्कारा, विज्ञानं नोपलब्धं, स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च नोपलब्धानि, पारमिताः शून्यतामुखानि बोधिपक्ष्या धर्मा नोपलब्धाः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलब्धानि, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा (प्स्प्_5:120) नोपलब्धाः, अनुत्तरा सम्यक्संबोधिर् अपि नोपलब्धा, तत्समोहपुरुषो बुद्ध्वा वाख्याय सत्त्वान् इच्छति संसारात् परिमोचयितुम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, तथागतेनार्हता सम्यक्संबुद्धेन पञ्चभिश् चक्षुर्भिर् नोपलब्धास् ते सत्त्वा यान् आसंसारात् परिमोचयेद् इति. तत् कथम् इदानीं भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वास् त्रिषु राशिषु व्याकृताः सम्यक्त्वनियता वा मिथ्यात्वनियता वानियता वा?
भगवान् आह: न मया सुभूते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कथंचिद् अपि सत्त्व उपलब्धः, सम्यक्त्वनियतो वा मिथ्यात्वनियतो वानियतो वा, अपि तु खलु पुनः सुभूते य इमे सत्त्वा अद्रव्ये द्रव्यसंज्ञिनस् तांस् ततो अभूतग्रहाद् धारयामि लोकव्यवहारेण नः पुनः परमार्थेन.
सुभूतिर् आह: न पुनर् भगवता परमार्थे स्थित्वा बोधिर् अभिसंबुद्धा?
भगवान् आह: न सुभूते.
सुभूतिर् आह: यदि भगवता नैव परमार्थे स्थित्वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, नाप्य् ऋद्धिपर्याये स्थित्वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, कथम् इदानीं भगवता तथागतेनार्हता सम्यक्संबुद्धेन बोधिर् अभिसंबुद्धा भवति?
भगवान् आह: अनभिसंबुद्धा सुभूते तथागतेनानुत्तरा सम्यक्संबोधिः, सा च न क्वचित् स्थिता संस्कृते वा धाताव् असंस्कृते वा धातौ. तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित् स्थितः संस्कृते वा धाताव् असंस्कृते वा धातौ, स च तथागतनिर्मितो गच्छति चागच्छति च तिष्ठति च निषीदति च, स दानपारमितायां चरेच्, छीलपारमितायां चरेत्, क्षान्तिपारमितायां चरेद्, वीर्यपारमितायां चरेद्, ध्यानपारमितायां चरेत्, प्रज्ञापारमितायां चरेच्, चत्वारि ध्यानान्य् उपसंपद्य विहरेच्, चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिना अनिमित्तसमाधिनाप्रणिहितसमाधिना (प्स्प्_5:121) अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः महामैत्र्या महाकरुणया समाधिधारणीमुखैर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् धर्मचक्रप्रवर्तनतया च विहरेत्, स च निर्मितो ऽपरिमाणान् सत्त्वान् अभिनिर्माय त्रिषु राशिषु व्याकुर्यात्. तत् किं मन्यसे? सुभूते ऽपि नु तेन कश्चित् सत्त्वस् त्रिषु राशिषु व्याकृतः.

सुभूतिर् आह: न भगवन्.
भगवान् आह: एवम् एव सुभूते तथागतेन सर्वधर्मा निर्मितोपमा ज्ञाता, न च कश्चित् सत्त्वो विनीतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भावयितव्या, तद्यथापि नाम तथागतनिर्मितेन.
सुभूतिर् आह: अपि नु भगवन् सर्वधर्मा निर्मितोपमाः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्.
सुभूतिर् आह: यदि भगवन् सर्वधर्मा निर्मितोपमास् तथागतस्य निर्मितस्य च कः प्रतिविशेषः? किं वा नानाकरणं? को वाभिप्रायः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तथागतस्य च सुभूते निर्मितस्य च न कश्चिद् विशेषो, न किंचित् नानाकरणम् उपलभ्यते, निर्विशेषः सुभूते तथागतश् च निर्मितश् च. तत् कस्य हेतोः? तथा हि यत् तथागतः कर्म करोति, तन् निर्मितः कर्म करोति.
सुभूतिर् आह: कच्चित् पुनर् भगवन् न सति तथागते निर्मितः कर्म करोति?
भगवान् आह: करोति सुभूते.
सुभूतिर् आह: कथं यथा पुनर् भगवन् न सति तथागते तथागतनिर्मितः कर्म करोति?
भगवान् आह: तद्यथापि नाम सुभूते सचेत् तथागतो भव्यसत्त्वम् अनुपलभमानो निर्मितन् निर्माय परिनिर्वृतः, तेन च निर्मितेनार्धकल्पं बुद्धकृत्यं स पश्चाद् बुद्धकृत्यं कृत्वा परिनिर्वृत इति जनः संजानीते, न च निर्मितानां कश्चिद् उत्पादो न निर्वाणम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, (प्स्प्_5:122) यद् उत निर्मितोपमान् सर्वधर्मान् अधिमुच्यते. इति यानत्रयविकल्पः
सुभूतिर् आह: यदि भगवन् निर्मितस्य तथागतस्य च विशेषो नास्ति दक्षिणा परिशुद्धिः कथं भविष्यति? य इमे भगवंस् तथागते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ते, एवम् एव ये निर्मिते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ति.
भगवान् आह: यया सुभूते धर्मतया तथागतः सदेवकस्य लोकस्य दक्षिणीयो भवति, तयैव धर्मतया निर्मितो ऽपि सदेवस्य लोकस्य दक्षिणीयः. तिष्ठतु तावत् सुभूते तथागतप्रतिष्ठापिता दक्षिणा, तिष्ठतु निर्मितप्रतिष्ठापिता दक्षिणा यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा तथागतं मैत्रतया मनसिकरिष्यति, सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति. तिष्ठतु मैत्रं वा मनसिकारो यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा आकाशे पुष्पाणि क्षेप्स्यति तथागतं मनसिकृत्वा सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति: तिष्ठतु सुभूते मैत्रं वा मनसिकारस्, तिष्ठत्व् आकाशे पुष्पाणि यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा नमो बुद्धानाम् इति मनसिकरिष्यति, सर्वो ऽसाव् अनुपूर्वेण दुःखस्यान्तं करिष्यति. एवं महर्द्धिका सुभूते तथागतप्रतिष्ठापिता दक्षिणा, एवं महानुशंसा, तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं, तथागतस्य च तथागतनिर्मितस्य च न किंचित् नानाकरणम् उपलभ्यते धर्माणां धर्मतां प्रमाणीकृत्यम्. इति दक्षिणाविशुद्धिविकल्पः
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, धर्माणां धर्मतायाम् अवतरितव्यं, सा च धर्मता न विकोपयितव्या, इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्या, एवं ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया इयं दानपारमिताया धर्मतेति न विकोपयितव्या, एवं यावत् सर्वधर्मेष्व् इमे सर्वधर्मा इयं सर्वधर्माणां धर्मतेति न विकोपयितव्या.
सुभूतिर् आह: यदि भगवन् सर्वधर्माणान् धर्मता न विकोपयितव्या, यत् पुनर् भगवंस् तथागतेन विकोपितं रूपम् इदम्, इयं वेदना (प्स्प्_5:123) इयं संज्ञा, इमे संस्कारा, इदं विज्ञानं, इमे स्कन्धा, इमे धातवः, इमान्य् आयतनानि, अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि, इमे बाह्याध्यात्मिका धर्मा निर्दिष्टाः, एवं कुशला धर्मा एवम् अकुशला धर्माः सास्रवा अनास्रवा लौकिका लोकोत्तरास् साधारणा असाधारणाः संस्कृता असंस्कृता धर्मा निर्दिष्टाः, तन् मा हैव भगवता धर्माणां धर्मता विकोपिता भवेत्?
भगवान् आह: न सुभूते, नामनिमित्ता हि ते धर्मा निर्दिष्टा धर्माणां सूचनकृता, कथं परो ऽवतरिष्यतिति न धर्माणान् धर्मता विकोपिता भवेत्.
सुभूतिर् आह: यदि भगवन् नामनिमित्ता हि ते धर्मा निर्दिष्टाः परेषाम् अवतारणाय, कथं भगवर्म् अनामका अनिमित्ताः सर्वधर्मा नाम निमित्तेन व्याहृताः? इति चर्याविकोपनविकल्पः
इत्य् उक्तो नवविधः प्रथमग्राहकविकल्पः
भगवान् आह: न सुभूते व्यवहारो नामनिमित्तम् अभिनिवेशो वा नात्र सुभूते नाम्नि व्यवहरामि, न निमित्ते ऽनिमित्ते ऽभिनिवेशो वा. न हि सुभूते तथागतश्रावको वा नाम्नि निमित्ते वाभिनिविशते. न हि सुभूते नाम नाम्न्य् अभिनिविशते, न निमित्तन् निमित्ते ऽभिनिविशते, न शून्यता शून्यतायाम् अभिनिविशते, नानिमित्तम् आनिमित्ते ऽभिनिविशते, नाप्रणिहितम् अप्रणिहिते ऽभिनिविशते, न तथता तथतायाम् अभिनिविशते, न भूतकोटिर् भूतकोट्याम् अभिनिविशते, न धर्मधातुर् धर्मधाताव् अभिनिविशते, नासंस्कृतम् असंस्कृते ऽभिनिविशते, एवम् एते सर्वधर्मा नाममात्रं, न ह्य् एते नाममात्रे ऽवतिष्ठन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नाममात्रे स्थित्वा प्रज्ञापारमितायां चरितव्यं, तत्र च नाभिनिवेष्टव्यम्.
सुभूतिर् आह: यदि भगवन् नाममात्रम् इदं सर्वसंस्कृतं, कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्यानेकविधां संसारचारिकां प्रत्यनुभवति, बोधिसत्त्वचर्याञ् चरन् दानं ददाति, शीलं रक्षति, क्षान्त्या संपादयति, वीर्यम् आरभते, ध्यानं समापद्यते, प्रज्ञां भावयति, शून्यतायां चरति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु विहरति, स्मृत्युपस्थानेषु विहरति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु विहरति, शून्यतानिमित्ताप्रणिहितसमाधिं (प्स्प्_5:124) समापद्यते, आर्यसत्यानि भावयति, विमोक्षसमाधिसमापत्तिं धारणीमुखानि समापद्यते, अभिज्ञा भावयति, दशभिस् तथागतबलैर् विहरति, चतुर्वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विहरति, महामैत्रीं महाकरुणां परिपूरयति?

भगवान् आह: यं सुभूतिर् एवम् आह, यदि नाममात्रम् इदं सर्वसंस्कृतं, तत् कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्यानेकविधां संसारचारिकां प्रत्यनुभवतीति, यस्मात् सुभूते नाममात्रम् इदं सर्वसंस्कृतं, तच् च नाम नाम्ना शून्यं निमित्तं निमित्तेन शून्यं, तस्माद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरन् सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयति, तस्य च नामनिमित्तस्य नोत्पादो न निरोधो न स्थितिर् न स्थितेर् अन्यथात्वं प्रज्ञायते.
इति सामान्येन द्वितीयो ग्राहकविकल्पोपक्षेपः
सुभूतिर् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति भगवन् वदसि.
भगवान् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति वदामि.
सुभूतिर् आह: कथं पुनर् भगवन् सर्वाकारज्ञता तथागतेन निर्दिष्टा, मार्गाकारज्ञतापि तथागतेन निर्दिष्टा, सर्वज्ञतापि तथागतेन निर्दिष्टा? आसां भगवंस् तिसृणां सर्वज्ञतानां किं नानाकरणम्?
भगवान् आह: सर्वाकारज्ञता सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य, मार्गज्ञता सुभूते बोधिसत्त्वानां महासत्त्वानां, सर्वज्ञता सुभूते सर्वश्रावकप्रत्येकबुद्धानाम्.
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्संबुद्धस्य?
भगवान् आह: यावन्तः सुभूते आकारा लिङ्गानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैस् ते धर्माः सूच्यन्ते, ते आकारास् तानि लिङ्गानि तानि निमित्तानि तथागतेनानुबद्धानि तेनोच्यते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारज्ञता. इति सर्वाकारज्ञतासंमोहविकल्पः
सुभूतिर् आह: केन कारणेन भगवन् मार्गज्ञता बोधिसत्त्वानां महासत्त्वानाम्?
(प्स्प्_5:125)
भगवान् आह: सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेन नोत्पादयितव्याः, सर्वमार्गा ज्ञातव्याः, यश् च श्रावकाणां मार्गो, यश् च प्रत्येकबुद्धानां मार्गो, ये च बोधिमार्गास् ते च मार्गाः परिपूरयितव्याः तैश् च मार्गे मार्गकरणीयं कर्तव्यन् न चानेन भूतकोटिः साक्षात्कर्तव्या.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन भूतकोटिर् न साक्षात्कर्तव्या?
भगवान् आह: नापरिपूर्य प्रणिधानं नापरिपाच्य सत्त्वान् नापरिशोध्य बुद्धक्षेत्रन् तेन बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या, तेन कारणेनोच्यते बोधिसत्त्वानां महासत्त्वानां मार्गज्ञता. इति मार्गाकारज्ञतासंमोहविकल्पः
सुभूतिर् आह: केन कारणेन भगवन् सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानाम्?
भगवान् आह: एतावद् एव सुभूते सर्वं यावद् एवाध्यात्मिकाश् च बाह्याश् च धर्मास् ते च सर्वश्रावकप्रत्येकबुद्धैर् ज्ञाता, न पुनः सर्वमार्गेण सर्वाकारेण. इति सर्वज्ञतासंमोहविकल्पः
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन मार्गे स्थित्वा भूतकोटिः साक्षात्कर्तव्या?
भगवान् आह: न सुभूते.
सुभूतिर् आह: अमार्गे स्थित्वा?
भगवान् आह: न सुभूते.
सुभूतिर् आह: मार्गे अमार्गे स्थित्वा?
भगवान् आह: न सुभूते.

सुभूतिर् आह: नैवमार्गे नामार्गे स्थित्वा?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तत् कथम् इदानीं भगवन् बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या?
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तव मार्गे स्थितस्यानुपादायास्रवेभ्यश् चित्तं विमुक्तम्.
सुभूतिर् आह: न भगवन्.
भगवान् आह: तवामार्गे स्थितस्य?
सुभूतिर् आह: न भगवन्.
भगवान् आह: तव मार्गे ऽमार्गे स्थितस्य?
(प्स्प्_5:126)
सुभूतिर् आह: न भगवन्.
भगवान् आह: तव नैव मार्गे नामार्गे स्थितस्य?
सुभूतिर् आह: न भगवन्, अपि तु खलु पुनर् मे भगवंश् चित्तं विमुक्तं यथा न क्वचित् स्थित्वा स्याम्.
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न क्वचित् स्थित्वा भूतकोटिः साक्षात्कर्तव्या.
सुभूतिर् आह: याः पुनर् इमा भगवन् सर्वाकारज्ञता च मार्गज्ञता च सर्वज्ञता च कच्चिद् भगवन्न् आसां तिसृणां सर्वज्ञतानां क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्य सावशेषप्रहाणम्, अस्यानवशेषप्रहाणम्?
भगवान् आह: न सुभूते क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्ति पुनस् तथागतस्य सर्ववासनानुसंधिक्लेशप्रहाणं, न पुनः श्रावकस्य सर्ववासनानुसंधिक्लेशप्रहाणम्.
सुभूतिर् आह: किं पुनर् भगवन् सर्वज्ञतायाम् अनुप्राप्तायाम् अशेषप्रहाणम् असंस्कृतं भवति?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्.
सुभूतिर् आह: किं पुनर् भगवन्न् असंस्कृतस्य नानात्वम् उपलभ्यते?
भगवान् आह: न सुभूते ऽसंस्कृतस्य नानात्वम् उपलभ्यते.
सुभूतिर् आह: यदि नोपलभ्यते कुत एतन् निर्दिश्यते? अस्य वासनानुसंधिक्लेशप्रहाणम्, अस्य न वासनानुसंधिक्लेशप्रहाणम् इति.
भगवान् आह: न सुभूते वासनानुसंधिक्लेशप्रहाणं, अपि नु तेषां रागदोषमोहप्रहाणम् अस्ति, कायवाग्विकारास् तु प्रवर्तन्ते, ते तु बालपृथग्जनानाम् अनर्थाय प्रवर्तन्ते, न तु श्रावकाणां, ते तथागतस्य न सन्ति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावो मार्गः, अभावो निर्वाणं, तत् कुतः पुनर् भगवन् निर्दिश्यते? अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयन् तथागतो ऽर्हन् सम्यक्संबुद्धः.
भगवान् आह: न खलु सुभूते असंस्कृतं भावयति अपि तु लोकव्यवहारं प्रमाणीकृत्योच्यते न पुनः परमार्थेन शक्या प्रभावना. तत् कस्य हेतोः? न हि तत्रास्ति वाक्पथप्रज्ञाप्तिर्, अपि तु खलु पुनर् यैः पूर्वान्तो व्यवच्छिन्नस् तेषां पश्चिमा कोटिप्रज्ञाप्ता.
सुभूतिर् आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां (प्स्प्_5:127) कुतः पुनः पुर्वा कोटिः प्रज्ञायते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वा कोटिर् न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते, नेदं स्थानं विद्यते, अपि तु खलु पुनः सुभूते ये ते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् एवं निर्दिष्टम् इयं पूर्वा कोटिर् इयं पश्चिमा कोटिर्, न पुनः स्वलक्षणशून्येषु धर्मेषु पूर्वा कोटिर् न पश्चिमा कोटिर् उपलभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु प्रज्ञापारमितायां चरितव्यं, स्वलक्षणशून्येषु धर्मेषु चरन् न क्वचिद् अभिनिविशते ऽध्यात्मिकेषु वा बाह्येषु वा संस्कृतेषु वासंस्कृतेषु वा श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्न् उच्यते, केनार्थेन प्रज्ञापारमितेत्य् उच्यते?
भगवान् आह: परमपारमितैषा सुभूते सर्वधर्माणाम् अगमनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते एतया प्रज्ञापारमितया सर्वश्रावकप्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः पारङ्गतास् तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते परमार्थेन यो ऽर्थः सर्वधर्माणाम् अभिन्नः, स इह प्रज्ञापारमितायां तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, सर्वधर्मेषु पारो नोपलब्धस् तेनार्थेनोच्यते प्रज्ञापारमिता. इति मार्गसंमोहविकल्पः
अपि तु खलु पुनः सुभूते प्रज्ञापारमितायां तथतान्तर्गता, भूतकोटिर् अन्तर्गता, धर्मधातुर् अन्तर्गतः तेनोच्यते प्रज्ञापारमितेति. अपि तु खलु पुनः सुभूते नेयं प्रज्ञापारमिता केनचिद् धर्मेण संयुक्ता वा विसंयुक्ता वा सनिदर्शना वानिदर्शना वा सप्रतिघा वाप्रतिघा वा. तत् कस्य हेतोः? तथा हीयं प्रज्ञापारमितारूपानिदर्शनाप्रतिघैकलक्षणा यद् उतालक्षणत्वात्.
इति तथतादिषु संयोगवियोगसंमोहविकल्पः
अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता सर्वधर्माणां चारिका सर्वप्रतिभानानां सर्वालोकानाम् अनाच्छेद्येयं सुभूते प्रज्ञापारमिता मारेण वा मारकायिकाभिर् देवताभिः श्रावकप्रत्येकबुद्ध (प्स्प्_5:128) यानिकैर् वा पुद्गलैर्, यावन् न केनचिद् अन्यतीर्थिकैः प्रत्यमित्रैर् वा इयं प्रज्ञापारमिता शक्या च्छेत्तुं बोधिसत्त्वस्य महासत्त्वस्य. तत् कस्य हेतोः? तथा हि ते ऽत्र प्रज्ञापारमितायां नोपलभ्यन्ते सर्व एवैवं खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् अर्थे चरितव्यम्. इत्य् असमत्वसंमोहविकल्पः
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनेह गम्भीरायां प्रज्ञापारमितायाम् अर्थे चरितव्यम् अनित्यार्थे चरितव्यं, दुःखार्थे चरितव्यम्, अनात्मार्थे चरितव्यं, शान्तार्थे चरितव्यं, दुःखज्ञानार्थे चरितव्यं, समुदयज्ञानार्थे चरितव्यं, निरोधज्ञानार्थे चरितव्यं, मार्गज्ञतार्थे चरितव्यं, दुःखपरिज्ञतार्थे समुदयप्रहाणार्थे निरोधसाक्षात्क्रियार्थे मार्गज्ञतार्थे अन्वयज्ञानार्थे चरितव्यं, धर्मज्ञतार्थे ऽसंवृत्तिज्ञानार्थे परिजयज्ञानार्थे यथारुतज्ञानार्थे चरितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् अर्थे चरितव्यम्. इति दुःखादिषु संमोहविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायाम् अर्थश् चानर्थश् च नोपलभ्यते, तत् कथं बोधिसत्त्वेन महासत्त्वेनेह गम्भीरायां प्रज्ञापारमितायाम् अर्थे चरितव्यम्?

भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन गम्भीरे ऽर्थे प्रज्ञापारमितार्थे चरतैवं चरितव्यं, रागो मे ऽर्थो ऽनर्थ इति न चरितव्यं, द्वेषो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मोहो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मिथ्यादृष्टिर् मे ऽर्थो ऽनर्थ इति न चरितव्यं, दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, इदं दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? न हि रागद्वेषमोहानां तथता कस्यचिद् अर्थम् अनर्थं करोति, न दृष्टिगतानां तथता कस्यचिद् अर्थम् अनर्थं करोति. रूपं मे ऽर्थो ऽनर्थ इति न चरितव्यं, वेदना संज्ञा संस्कारा, विज्ञानं मे ऽर्थो ऽनर्थ इति न चरितव्यं, एवं स्कन्धधात्वायतनानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादो मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादाङ्गानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, पारमिता मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतामुखानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, बोधिपक्ष्या मे धर्मा अर्थो ऽनर्थ इति न चरितव्यं, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि (प्स्प्_5:129) मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतानिमित्ताप्रणिहितानि मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अभिज्ञादशबलवैशारद्यप्रतिसंविदो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, आवेणिकाबुद्धधर्मा मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अनुत्तरा मे सम्यक्संबोधिर् अर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न कश्चिद् धर्म उपलब्धो यो ऽर्थं वा कुर्याद् अनर्थं वा कुर्याद्, अपि नु खलु पुनः सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता सा नैव कस्यचिद् अर्थं वा करोत्य् अनर्थं वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनार्थानर्थो वर्जयित्वा प्रज्ञापारमितायां चरितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् प्रज्ञापारमिता नानर्थकरी नार्थकरी?
भगवान् आह: तथा हि सुभूते संस्कृतधर्माणाम् असंस्कृतधर्माणाम् अकारणं प्रज्ञापारमिता, तेन कारणेन प्रज्ञापारमिता न कस्यचिद् अर्थं वा करोत्य् अनर्थं वा.
सुभूतिर् आह: पुनर् भगवन्न् असंस्कृतो ऽर्थः सर्वार्याणां बुद्धानां बुद्धश्रावकाणां वा.
भगवान् आह: असंस्कृतो ऽर्थः सर्वार्याणां बुद्धानां बुद्धश्रावकाणां च, प्रत्युपस्थितो न पुनर् अपकारेण वोपकारेण वा, तद्यथापि नाम सुभूते आकाशस्य तथता न कस्यचिद् अपकारेण वोपकारेण वा प्रत्युपस्थिता, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता न कस्यचिद् धर्मस्यापकारेण वोपकारेण वा प्रत्युपस्थिता.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति?
भगवान् आह: इह पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति, न पुनर् द्वययोगेन. इति क्लेशप्रकृतिसंमोहविकल्पः
सुभूतिर् आह: किं पुनर् भगवन्न् अद्वयधर्मो ऽद्वयधर्मम् अनुप्राप्नोति?

भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् द्वयधर्मो ऽद्वयधर्मम् अनुप्राप्नोति?
(प्स्प्_5:130)
भगवान् आह: न सुभूते.
सुभूतिर् आह: कथम् इदानीं भगवन्न् अनुप्राप्यते?
भगवान् आह: यथा नाद्वयो न द्वयो धर्म उपलभ्यते.
सुभूतिर् आह: कथं भगवन् नाद्वयो न द्वयो धर्म उपलभ्यते?
भगवान् आह: अनुपलम्भं प्रति न रूपम् अनुपलम्भेन प्राप्नोति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानम् अनुपलम्भेन प्राप्नोति. इति द्वयाभावसंमोहविकल्पः
इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरा भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ प्रस्थिता न च नामसत्त्व उपलभ्यते न सत्त्वप्रज्ञाप्तिस्, तेषां च सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिताः. तद्यथापि नाम भगवन् कश्चिद् एव पुरुष आकाशे अप्रतिष्ठाने स्तम्बम् इच्छेद् धापयितुम्, एवम् एव भगवन् बोधिसत्त्वो महासत्त्वः सत्त्वानां कृतेनेच्छेत् सर्वाकारज्ञताम् अनुप्राप्तुम्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशः सर्वाकारज्ञतार्थम् अभिप्रतिष्ठन्ते, ताञ् च सर्वाकारज्ञताम् अनुबुध्य सर्वसत्त्वान् संसारात् परिमोचयिष्यन्ति. इति सर्वाकारज्ञताया अभावालम्बनज्ञानम्
तद्यथापि नाम सुभूते पुरुषः स्तम्बम् इच्छेद् वापनाय स च पुरुषस् तस्य स्तम्बस्य न मूलं जानीयाद् न शाखां न त्वच्छेदं न पत्त्रं न पलाशं न पुष्पं जानीयात्, स तस्य स्तम्बस्य काण्डं वापयेत वापयित्वा कालेन कालं गोपायतोदकं दद्याद् अर्थं तस्य तत् काण्डम् अनुपूर्वेण शाखासंपन्नञ् च भवेत्, पत्त्रसंपन्नञ् च भवेत्, पुष्पसंपन्नञ् च भवेत्, फलसंपन्नञ् च भवेत्, स तस्य स्तम्बस्य पत्त्राण्य् अनुभुञ्जीत्, पुष्पाणि च फलानि चानुभुञ्जीत. एवम् एव सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिता अनुपूर्वेण षट्सु पारमितासु चरन्तः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ततः सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवन्ति. तत्रेदं सुभूते पत्त्रं बोधिसत्त्वानां महासत्त्वानां यद् आगम्य सत्त्वास् त्रिभ्यो ऽपायेभ्यः परिमुच्यन्ते. तत्रेदं पुष्पं यद् आगम्य क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु (प्स्प्_5:131) वा चातुर्महाराजकायिकेषु देवेषूपपद्यन्ते त्रयस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिसु परनिर्मितवशवर्तिषु ब्रह्मपार्षद्येषु यावन् नैवसंज्ञानासंज्ञायतनेषु उपपद्यन्ते. तत्रेदं फलं यद् आगम्य सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठन्ते, सकृदागामिफले प्रतिष्ठन्ते, ऽनागामिफले प्रतिष्ठन्ते, अर्हत्त्वे प्रतिष्ठन्ते, प्रत्येकबोधौ प्रतिष्ठन्ते, तद् एव च फलम् आगम्य सत्त्वाः सर्वाकारज्ञतम् अनुप्राप्नुवन्ति, सर्वसत्त्वानां फलशालिनो भवन्ति, तत्र ये दक्षिणां प्रतिष्ठापयन्ति ते सर्वे ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, अनुत्तराम् अपि सम्यक्संबोधिम् अभिसंबुध्यन्ते, न च तत्र सत्त्वः प्रज्ञायते, न च सत्त्वप्रज्ञाप्तिस् ते च सत्त्वा आत्मग्राहतः परिमोच्यन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, न चेह कश्चित् सत्त्वो वा सत्त्वप्रज्ञाप्तिर् वोपलभ्यते, येषां सत्त्वानाम् अहंकृते न सर्वाकारज्ञताम् अनुप्राप्स्यामीति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य सर्वनरका उच्छिद्यन्ते, सर्वतिर्यग्योनयः सर्वयमलोका उच्छिद्यन्ते, सर्वाक्षणाः सर्वदारिद्राण्य् उच्छिद्यन्ते, सर्वहीनगतय उच्छिद्यन्ते, सर्वकामधातुर् उच्छिद्यन्ते, सर्वो रूपधातुर् उच्छिद्यन्ते, सर्व आरूप्यधातुर् उच्छिद्यन्ते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागत एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो वेदितव्यः. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये नाभिप्रतिष्ठेत्, नातीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा नाभिसंभोत्स्यन्ते नाभिसंबुध्यन्ते. न प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति, नार्हतां लोके प्रादुर्भावो भविष्यति, नानागामिनां लोके प्रादुर्भावो भविष्यति, न सकृदागामिनां लोके प्रादुर्भावो भविष्यति, स्रोतआपन्नानां लोके प्रादुर्भावो न भविष्यति. न सर्वनरका उच्छेत्स्यन्ते, न सर्वतिर्यग्योनयो न सर्वयमलोका उच्छेत्स्यन्ति, न सर्वाक्षणा न सर्वदारिद्राण्य् उच्छेत्स्यन्ति, न सर्वहीनगतयो न कामधातुर् न रूपधातुर् नारूप्यधातुर् उच्छेत्स्यति. अपि तु खलु पुनर् भगवन् यावत् तथागत एव बोधिसत्त्वो महासत्त्वो (प्स्प्_5:132) वेदितव्यः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोः? ययैव हि सुभूते तथतया तथागतः प्रज्ञप्यते, तयैव तथतया सर्वार्याः प्रज्ञप्यन्ते, तयैव तथतया रूपं प्रज्ञप्यते, तयैव तथतया वेदना संज्ञा संस्काराः प्रज्ञप्यन्ते, तयैव तथतया विज्ञानं प्रज्ञप्यते, तयैव तथतया स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्यन्ते, एवं यावत् तयैव तथतया संस्कृतो धातुर् असंस्कृतश् च धातुः प्रज्ञप्यते, तयैव तथतया सर्वसत्त्वतथता तथागततथता च प्रज्ञप्यते, तथागततथतायां बोधिसत्त्वो महासत्त्वः शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्मात् तथागतस् तथागत इत्य् उच्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वो महासत्त्वस् तथागत एव वेदितव्यः तथतां प्रमाणीकृत्य. एवं खलु सुभूते प्रज्ञापारमितायां शिक्षित्वा बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् इन्द्रियकुशलो भविष्यतीन्द्रियपरापरकौशल्यम् अनुप्राप्स्यति, सर्वसत्त्वानां कर्मस्वकतां ज्ञास्यति, सर्वसत्त्वानां कर्मस्वकतां ज्ञात्वा प्रणिधिज्ञानं परिपूरयिष्यति, प्रणिधिज्ञानं परिपूर्य त्रिष्व् अन्धसु ज्ञानं विशोधयिष्यति, त्रिष्व् अन्धसु ज्ञानं विशोध्य बोधिसत्त्वचर्या चरन् सत्त्वानाम् अर्थं करिष्यति, सत्त्वानाम् अर्थं कृत्वा बुद्धक्षेत्रं परिशोधयिष्यति, बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रं प्रवर्त्य सत्त्वास् त्रिषु यानेषु प्रतिष्ठापयिष्यति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्यानुपधिशेसे निर्वाणधातौ परिनिर्वापयिष्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वगुणानुशंसा संपश्यमानेनात्मनश् च परस्य चानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नमस्करणीया भगवन् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, नमस्करणीयास् ते सुभूते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति.
इति यथोक्तभावनामार्गज्ञतालम्बनवतः सर्वगुणसंपदः
सुभूतिर् आह: कियत् स भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वः पुण्यं प्रसवति, यः सर्वसत्त्वानां कृतशो ऽनुत्तरां (प्स्प्_5:133) सम्यक्संबोधिम् अभिसंबोद्धुकामः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यावन्तः सुभूते साहस्रे लोकधातौ सत्त्वास् तान् सर्वान् क्वचिद् एव श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठापयेद्, अपि नु स सत्त्वो बहुपुण्यं प्रसवेत्?
सुभूतिर् आह: बहु भगवन् बहु सुगत, अप्रमेयं भगवन्न् अप्रमेयं सुगत.

भगवान् आह: यच् च खलु सुभूते साहस्रे लोकधातौ श्रावकयानिकानां सत्त्वानां वा प्रत्येकबुद्धयानिकानां वा पुण्यक्रियावस्तु, यच् च साहस्रे लोकधातौ सत्त्वानां श्रावकप्रत्येकबुद्धभूमिप्रतिष्ठापनपुण्यक्रियावस्तु, तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यक्रियावस्तुनः शततमीम् अपि कलान् नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततरईम् अपि कोटीसहस्रतमीम् अपि कोतीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका, न पुनः श्रावकप्रत्येकबुद्धप्रसूतो बोधिसत्त्वो महासत्त्वः. एवं यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ श्रावकयानिकानां सत्त्वानां वा प्रत्येकबुद्धयानिकानां वा पुण्यक्रियावस्तु, यच् च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानां श्रावकप्रत्येकबुद्धप्रतिष्ठापनपुण्यक्रियावस्तु, तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यक्रियावस्तुनः शततमीम् अपि कलान् नोपैति, यावत् कोतीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका, न पुनः श्रावकप्रत्येकबुद्धप्रसूतो बोधिसत्त्वो महासत्त्वः. तिष्ठन्तु श्रावकप्रत्येकबुद्धभूमिप्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमाहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे शुक्लविदर्शनाभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति; तिष्ठन्तु शुक्लविदर्शनाभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे गोत्रभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु गोत्रभूमौ (प्स्प्_5:134) प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽष्टमकभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यस्कन्धस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतसतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु ऽष्टमकभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे दर्शनभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु दर्शनभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे तनुभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति: तिष्ठन्तु तनुभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे वीतरागभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु वीतरागभूमौ प्रतिष्ठापिताः सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे कृताविभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु कृताविभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोतीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु प्रत्येकबुद्धभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तद् बोधिसत्त्वप्रतिपन्नकस्य पुण्यस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ट्ःअन्तु बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिताः, सचेत् सुभूते ये (प्स्प्_5:135) त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वप्रतिपन्नका भवेयुस्, तेषां यत् पुण्यं तत् तथागतस्यार्हतः सम्यक्संबुद्धस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. इत्य् आनन्तर्यसमाधिः
सुभूतिर् आह: प्रथमचित्तोत्पादिकेन भगवन् बोधिसत्त्वेन महासत्त्वेन किं मनसिकर्तव्यम्?
भगवान् आह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या.
इति सर्वाकारज्ञतालक्षणबुद्धत्वम्
सुभूतिर् आह: सर्वाकारज्ञता किं भगवन्न् अभावस्वभावा? सर्वाकारज्ञतायाश् च भगवन् किम् आरम्बणम्? किम् आधिपतेयं? किम् आकारं? किं लक्षणम्?
भगवान् आह: सर्वाकारज्ञता सुभूते अभावस्वभावालक्षणानिमित्तानाभोगानाभासानुत्पादा, यत् पुनः सुभूतिर् एवम् आह, सर्वाकारज्ञतायाः किम् आरम्बणं, किम् आधिपतेयं, किम् आकारं, किं लक्षणम् इति. सर्वाकारज्ञतायाः सुभूते अभाव आरम्बणं, स्मृतिर् अधिपतिः, शान्त आकारो, ऽलक्षणं लक्षणं, सर्वाकारज्ञतायाः सुभूते इदम् आरम्बणम् अयम् अधिपतिर् अयम् आकार इदं लक्षणम्.
इति सर्वाकारज्ञतायाम् आलम्बनाधिपत्याकारा
इत्य् उक्त आनन्तर्यसमाधिः
किं पुनर् भगवन् सर्वाकारज्ञतैवाभावः? उताहो रूपम् अप्य् अभावः, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अभावः? स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वाभावः? एवम् अध्यात्मिका वा बाह्या धर्मा अभावः? चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः शून्यतासमाधिः, अनिमित्तसमाधिः, अप्रणिहितसमाधिः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः महामैत्री महाकरुणा महामुदिता महोपेक्षा प्रथमा अभिज्ञा द्वितीया अभिज्ञा तृतीया अभिज्ञा चतुर्थ्य् अभिज्ञा पञ्चम्य् अभिज्ञा षष्ठ्य् अभिज्ञा संस्कृतो धातुर् असंस्कृतो धातुर् अभावः?
(प्स्प्_5:136)

भगवान् आह: सर्वाकारज्ञतापि सुभूते अभावो, रूपं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते अभावः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादा प्रतीत्यसमुत्पादाङ्गानि वा अभावः, एवम् अध्यात्मिका बाह्याश् च धर्माः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गल्मार्गा अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञाः सर्वपारमिताः, सर्वशून्यता दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा अपि सुभूते अभावः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अभावः, संस्कृतो धातुर् असंस्कृतो धातुर् अभावः. तत् कस्य हेतोः? तथा हि सुभूते तस्याः सर्वाकारज्ञतायाः स्वभावो नास्ति, यस्य खलु पुनः सुभूते स्वभावो नास्ति सो ऽभावः.
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञतायाः स्वभावो नास्ति?
भगवान् आह: नास्ति सुभूते सांयोगिकः स्वभावः, यस्य सुभूते सांयोगिकः स्वभावो नास्ति सो ऽभावः. अनेन सुभूते पर्यायेणाभावस्वभावाः सर्वधर्माः. इत्य् आलम्बनोपपत्तौ विप्रतिपत्तिः
अपि तु खलु पुनः सुभूते तथतावितथतानन्यतथताभूतकोटिस्वभावाः सर्वधर्माः, धर्मताधर्मधातुधर्मस्थितिताधर्मनियामतास्वभावाः सर्वधर्माः, अनेनापि सुभूते पर्यायेण एवं वेदितव्यम् अभावस्वभावाः सर्वधर्माः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कतमेनोपायकौशल्येन समन्वागतः प्रथमचित्तोत्पादिको बोधिसत्त्वो मह्हासत्त्वो दानपारमितायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति? शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्र्यां करुणायां मुदितायाम् उपेक्षायाम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरत्य्, अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशूउन्यतायां यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थान सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, आर्यसत्येषु शून्यतासमाधाव् अनिमित्तसमाधाव् अप्रणिहितसमाधाव् (प्स्प्_5:137) अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु धारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकबुद्धधर्मेषु सर्वाकारज्ञतायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति?
भगवान् आह: एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं वेदितव्यं यद् अभावस्वभावेषु सर्वधर्मेषु परिजयं करोति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, तच् च बुद्धक्षेत्रं तांश् च सत्त्वान् अभावस्वभावान् जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बोधिमार्गे परिजयं करोति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् बोधिमार्गे परिजयं करोति, अध्यात्मशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् बोधिमार्गे परिजयं करोत्य्, आर्यसत्येषु चरन् शून्यतानिमित्ताप्रणिहितसमाधौ चरन् मैत्रीकरणामुदितोपेक्षासु चरन् बोधिमार्गे परिजयं करोति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरन् बोधिमार्गे परिजयं करोति, तं च बोधिमार्गम् अभावस्वभावं जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गे परिजयं कुर्वन्, यावद् दशभिस् तथागतबलैः समन्वागतो भवति, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया सर्वाकारज्ञताज्ञानेन च समन्वागतो भवति, इमे सुभूते बोधये मार्गाः, स एभिर् बोधिमार्गैः पारमिताः परिपूरयति, पारमिताः परिपूर्य सर्वन् तद् एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्य तत्रावस्थायां सर्ववासनानुसंधिक्लेशाः प्रहास्यन्ते, अनुत्पत्तिकप्रहाणाः. इत्य् आलम्बनस्वभावाधारणविप्रतिपत्तिः
स बुद्धचक्षुषा त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोक्य भावम् अपि नोपलभते प्राग् एवाभावम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अभावस्वभावैः सर्वधर्मैर् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं, यद् भाव इति नोपलभ्यते प्राग् एवाभाव इति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् दानं ददाति, स तद् दानम् अभाव इति संजानीते, प्रतिग्राहकम् अप्य् अभाव इति संजानीते, तम् अपि बोधिसत्त्वम् (प्स्प्_5:138) अभाव इति संजनीते. एवं शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरंस् ताम् अपि प्रज्ञापारमिताम् अभाव इति संजानीते, येषां प्रज्ञा भाव्यते तान् अप्य् अभाव इति संजानीते, यो ऽपि भावयति तम् अप्य् अभाव इति संजानीते. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन्, सर्वाकारज्ञतायां चरंस् ताम् अप्य् अभाव इति संजानीते, यो ऽप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते, येनाप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते. तत् कस्य हेतोः? यथैव हीयम् अभावस्वभावा तथैव सर्वध्र्मा अभावस्वभावास्, ते च बुद्धैर् अकृताः श्रावकैर् अकारकाः, सर्वधर्माः कारकरहिताः.
सुभूतिर् आह: ननु भगवन् धर्मैर् एव धर्मा विरहिताः?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, धर्मैर् एव सुभूते धर्मा विरहिताः.

सुभूतिर् आह: यदि भगवन् धर्मैर् एव धर्मा विरहिताः, कथं भगवन् विरहितो धर्मो विरहितं धर्मं संजानीते भावं वा अभावं वा? न हि भावो धर्मो भावं धर्मं संजानीते, न ह्य् अभावो धर्मो ऽभावं धर्मं संजानीते, न हि भावो धर्मो ऽभावं धर्मं संजानीते, न ह्य् अभावो धर्मो भावं धर्मं संजानीते. एवम् असंजानानेषु धर्मेषु कुत एवं भवति? बोधिसत्त्वस्य महासत्त्वस्य भाव इति वाभाव इति वा लोकसंवृतिम् उपादाय बोधिसत्त्वो महासत्त्वो भाव इति वाभाव इति वा निर्दिशति, न पुनः परमार्थेन.
इति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः
सुभूतिर् आह: किं पुनर् भगवन्न् अन्या लोकसंवृतिर् अन्यः परमार्थः?
भगवान् आह: न सुभूते ऽन्या लोकसंवृतिर् अन्यः परमार्थः, यैव लोकसंवृतेस् तथता सैव परमार्थस्य तथता, तान् ते सत्त्वा एवंतथतान् न जानन्ति न पश्यन्ति, तेषाम् अर्थाय लोकसंवृत्या निर्दिश्यते भाव इति वाभाव इति वा. अपि तु खलु पुनः सुभूते य एते सत्त्वाः पञ्चभिः स्कन्धैर् भावसंज्ञिनो अभाव इति न जानन्ति, (प्स्प्_5:139) अभावसंज्ञिनो भाव इति न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते धर्माणां प्रभेदताम् उपादाय कथम् अपि भावम् अभावं वा ज्ञास्यन्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. इति सत्यद्वये विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्वचर्या बोधिसत्त्वचर्येति भगवन्न् उच्यते कस्यैतद् अधिवचनम्?
भगवान् आह: बोधिसत्त्वचर्येति सुभूते बोधये चर्यैषा बोधिचारिका तस्माद् बोधिसत्त्वचर्येत्य् उच्यते.
सुभूतिर् आह: क्व सा भगवन् बोधिसत्त्वस्य महासवस्य बोधिसत्त्वचर्या?
भगवान् आह: रूपं शून्यम् इति चरति, वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति चरति, एवं स्कन्धधात्वायतनानि शून्यानीति चरति, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीति चरति, एवम् आध्यात्मिकबाह्यैर् आयतनैर् दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति, बहिर्धासून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्रीकरुणामुदितोपेक्षायां चरति, आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरति, चतुर्षु स्मृत्युपस्थानेषु चरति, चतुर्षु सम्यक्प्रहानेषु चरति, चतुर्ष्व् ऋद्धिपादेषु चरति, पञ्चस्व् इन्द्रियेषु चरति, पञ्चसु बलेषु चरति, सप्तसु बोध्यङ्गेषु चरति, आर्याष्टाङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितसमाधौ चरत्य्, अष्टसु विमोक्षेषु चरति, नवानुपूर्वविहारसमापत्तिषु चरति, चतुर्ष्व् आर्यसत्येषु चरति, दशसु तथागतबलेषु चरति, चतुर्षु वैशारद्येषु चरति, चतसृषु प्रतिसंवित्सु चरति, अष्टादशस्व् आवेणिकाबुद्धधर्मेषु चरति, पञ्चस्व् अभिज्ञासु चरति, सर्वसमाधिषु चरति, सर्वधारणीमुखेषु चरति, बुद्धक्षेत्रं परिशोधनाय चरति, सत्त्वपरिपाचनाय चरति, प्रतिभानेषु चरति, अक्षराभिनिर्हारः शून्य इति चरति, अक्षरप्रवेशः शून्य इति चरति, अनक्षरप्रवेशः शून्य इति चरति, शूक्ष्मप्रवेशेषु चरति, धारण्यां चरति, संस्कृतधातौ चरति, असंस्कृतधातौ (प्स्प्_5:140) चरति, एवम् अत्र चरति यथा बोधिम् अद्वयी करोति न द्वैधी करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधये चरति. इति प्रयोगे विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बुद्धो बुद्ध इति भगवन्न् उच्यते, कस्यैतद् अधिवचनं बुद्ध इति?
भगवान् आह: भूतार्थो बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते भूता अस्य धर्मा अभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते, भूतो ऽस्यार्थः प्रतिविद्धस् तस्माद् बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते सर्वधर्मा यथावदभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते. इति बुद्धरत्ने विप्रतिपत्तिः
सुभूतिर् आह: बोधिर् इति भगवन् कस्यैतद् अधिवचनम्?
भगवान् आह: बोधिर् इति सुभूते शून्यताया एतद् अधिवचनं, तथताया एतद् अधिवचनं, धर्मताया एतद् अधिवचनं, भूतकोटेर् एतद् अधिवचनं, धर्मधातोर् एतद् अधिवचनम्. अपि तु खलु पुनः सुभूते नामधेयमात्रम् एतद् बोधिर् इति. अपि तु खलु पुनः सुभूते अभेदार्थो बोध्यर्थः. अपि तु खलु पुनः सुभूते बोधिस् तथतावितथतानन्यतथतानन्यथीभावस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते नामनिमित्तमात्रम् एतद् बोधिर् इति तस्माद् बोधिर् उच्यते. अपि तु खलु पुनः सुभूते बुद्धानाम् एव भगवताम् एषा बोधिस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते बुद्धैर् एषा भगवद्भिर् अभिसंबुद्धास् तस्माद् बोधिर् इत्य् उच्यते. इति धर्मरत्ने विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स किं षट्सु पारमितासु चरति, सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति, सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, सर्वाकारज्ञतायां चरति, कस्य धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स न षट्सु पारमितासु चरति, न सप्तत्रिंशत्सु बोधिपक्षेषु धर्मेषु चरति, न सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (प्स्प्_5:141) चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न सर्वाकारज्ञतायां चरति, न कस्यचिद् धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा. न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरत आरम्बणयोगेन प्रत्युपस्थिता आचये वा अपचये वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा प्रत्युपस्थिता.

सुभूतिर् आह: यदि भगवन् बोधिसत्त्वस्य मह्यासत्त्वस्य बोधिर् न कस्यचिद् धर्मस्यारम्बणयोगेन प्रत्युपस्थिता, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिगृह्णाति, शीलपारमितां परिगृह्णाति, क्षान्तिपारमितां परिगृह्णाति, वीर्यपारमितां परिगृह्णाति, ध्यानपारमितां परिगृह्णाति, प्रज्ञापारमितां परिगृह्णाति, अध्यात्मशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, महाकरुणायां चरति, दशसु बोधिसत्त्वभूमिषु चरति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य द्वयेन बोधिसत्त्वचरिर्, न हि बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, न द्वयेन प्रज्ञापारमितायां चरति, न द्वयेनाध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, न द्वयेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, न द्वयेनार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न द्वयेन शून्यतानिमित्ताप्रणिहितेषु चरति, न द्वयेनाभ्ज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न द्वयेन सर्वाकारज्ञतायां चरति.
सुभूतिर् आह: यदि भगवन् दानपारमितायां न द्वयेन चरत्य्, एवं शीलक्षान्तिवीर्यध्यानपारमितायां प्रज्ञापारमितायां न द्वयेन चरति, सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्य विमोक्षसमाधिसमापत्तिधारणिमुखेषु (प्स्प्_5:142) न द्वयेन चरति, शून्यतानिमित्ताप्रणिहिताब्भिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न द्वयेन चरति, सर्वाकारज्ञतायां न द्वयेन चरति, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर् विवर्धते प्रथमचित्तोत्पादम् उपादाय यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् विवर्धते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: ये सुभूते द्वयेन चरन्ति न ते विवर्धन्ते कुशलमूलैर् धर्मैः. तत् कस्य हेतोः? द्वये निश्रित्य हि सुभूते सर्वबालपृथग्जनास् ते न विवर्धते कुशलमूलैर् धर्मैर्, बोधिसत्त्वो महासत्त्वः पुनर् अद्वयेन चरति तेन प्रथमचित्तोत्पादम् उपादाय कुशलमूलैर् धर्मैर् विवर्धते, यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् धर्मैर् विवर्धते. तेनानवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन, यैर् अकुशलैर् धर्मैर् अवमर्दितः समानः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वापतेद् इत्य् एभिश् चान्यैश् चाकुशलैर् धर्मैः संह्रियमाणो दानपारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् न कुशलैर् धर्मैर् विवर्धते, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरन् न कुशलैर् धर्मैर् विवर्धते, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् न कुशलैर् धर्मैर् विवर्धते, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् न कुशलैर् धर्मैर् विवर्धते, सर्वाकारज्ञतायां चरन् न कुशलैर् धर्मैर् विवर्धते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नाप्य् अकुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नापर्युपास्य बुद्द्धान् भगवतः, नापरिपूर्य कुशलमूलानि, कल्याणमित्रैर् अपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम्.
सुभूतिर् आह: कथं भगवन् पर्युपास्य बुद्धान् भगवतः कुशलमुलानि (प्स्प्_5:143) परिपूर्य कल्याणमित्रपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्ते, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं संग्रहवैपुल्याद्भुतधर्मावदानोपदेशांस् तान् सर्वान् उद्गृह्णात्य् उद्गृह्य कायेन वाचा सुपरिजितान् कृत्वा मनसा तत्प्रेक्षितान् करोति, दृष्ट्या सुप्रतिविद्धान् करोति, धारणीं प्रतिलभते, धारण्यां प्रतिलब्धायां प्रतिसंविद् उत्पादयति, प्रतिसंविद्भिर् उत्पादिताभिस् तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु विप्रणस्यन्ति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति, तत्र तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कुषलमूलान्य् अवरोपयति, तैश् च कुशलमूलैः परिगृहीतो न जात्व् अपायैर् वाक्षणैर् वोत्पद्यते, तैश् च कुशलैर् आशयपरिशुद्धिं परिगृह्णाति, यया आशयपरिशुद्ध्या बुद्धक्षेत्रं परिशोधयति, सत्त्वांश् च परिपाचयति, तैश् च कुशलमूलैः परिगृहीतः कल्याणमित्रैश् च न जातु विरहितो भवति बुद्धैर् भगवद्भिर् बोधिसत्त्वैर् महासत्त्वैः श्रावकैश् च ये बुद्धयानस्य वर्णं भाषन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूलं च परिगृहीतव्यं, कल्याणमित्राणि च सेवितव्यानि.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यः पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नापि बुद्धान् भगवतः पर्युपास्ते, नापि कुशलमूलानि परिपूरयेत्, नापि कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नुयात्.

भगवान् आह: न खलु सुभूते बुद्धान् भगवतो ऽपर्युपास्यानवरोपितकुशलमूलः कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयात्. तत् कस्य हेतोः? बुद्धान् एव तावद् भगवतः पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि च सेवित्वा भजित्वा पर्युपास्यैवं कुशलमूलसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम् असमर्थः प्राग् एव बुद्धान् भगवतो ऽपर्युपास्य कुशलमूलान्य् अनवरोप्य कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नेदं स्थानं विद्यते, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन (प्स्प्_5:144) बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमुलानि चावरोपितव्यानि कल्याणमित्राणि च सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो बुद्धांश् च भगवतः पर्युपास्य कुशलमूलानि चावरोप्य कल्याणमित्राणि च सेवित्वा भक्त्वा पर्युपास्य सर्वाकारज्ञताम् अनुप्राप्नुयात्?
भगवान् आह: उपायकौशल्यविरहितत्वात्, ये नोपायेन श्रुतो भवति तेषां बुद्धानां भगवताम् अन्तिकात् सधर्मस् तानि च कुशलमूलानि नावरोपितानि तानि च कल्याणमित्राणि सेवितानि भक्तितानि पर्युपासितानि यान्य् अस्योपायम् उपदिशन्ति तेन विरहितत्वात्.
इति संघरत्ने विप्रतिपत्तिः
सुभूतिर् आह: कतमद् भगवन्न् उपायकौशल्यं, येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यो वा, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समन्वागतो न चास्य दानसंज्ञा भवति, न प्रतिग्राहकसंज्ञा, न दानपतिसंज्ञा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च दानफलम् उपजीवति यद् दानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया दानपारमितायां चरति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति, तस्य नैव रागे चित्तं पतति न दोषे न मोहे नानुशये न पर्युत्थाने पतति, नान्येष्व् अकुशलेषु धर्मेषु पतति, ये बोधये परिपन्थकास् तद्यथा मात्सर्यचित्तं वा दौःशील्यचित्तं वा क्षुब्धचित्तं वा कौशीद्यचित्तं वा हीनचित्तं वा भ्रान्तचित्तं (प्स्प्_5:145) वा दौष्प्रज्ञचित्तं वा मानातिमानो ऽधिमानो ऽस्मिमानः श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः शीलपारमितायां चरति, स शीलपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च शीलफलम् उपजीवति यच् छीलफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया शीलपारमितायां चरति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां क्षान्तिं भावयति, स स्वकेष्व् अपि प्राणेषु व्यवरोप्यमानेषु न प्रतिदह्यते, न प्रतिक्रुष्यति न व्यापादोपनाहम् उपनह्यति, स जीविताद् व्यपरोप्यमानो ऽपि सर्वस्वे वापह्रियमाणे दारे वाकृष्यमाणे मृषावाद उच्यमानः पिशुनं परुषं संभिन्नं वोच्यमान आक्रुष्यमाणो वा ताड्यमानो वा च्छिद्यमानो वा न क्षुभ्यति सत्त्वानाम् एव हितम् उत्पादयति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिञ्चित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते स कुशलैर् धर्मैर् विवर्धमानः क्षान्तिपारमितायां चरति, स क्षान्तिपारमितायां चरन् सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च क्षान्तिफलम् उपजीवति यत् क्षान्तिफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया क्षान्तिपारमितायां चरति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यम् आरभते, दृढसंनाहो दृढपराक्रमो न कौशीद्यं वा अलसचित्तं वोत्पादयति, स बोधेर् अर्थाय दुःखम् अपि न गणपतिदक्षो ऽनलसो ऽपि शक्तिभिर् वार्यमाणो मनुष्यदुष्खम् असुरदुःखं तिर्यग्योनिदुःखं नरकदुष्खम् अपि न गणपतिर् अपि शक्तिभिर् वार्यमाणः. तत् (प्स्प्_5:146) कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो वीर्यपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च वीर्यफलम् उपजीवति यद् वीर्यफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया वीर्यपारमितायां चरति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते, चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं चक्षुरिन्द्रियेणासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते रक्षति चक्षुरिन्द्रियम् एवं श्रोत्रेण शब्दान् श्रुत्वा, घ्राणेन गन्धान् आघ्राय, जिह्वया रसान् आस्वाद्य, कायेन स्प्रष्टव्यं स्पृष्ट्वा, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं मनैन्द्रियेनासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मनैन्द्रियं, स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमानो ऽपि तूष्णीभूतो ऽपि समाहितावस्थां न जहाति न विजहाति, स भवत्य् अहस्तलोलो ऽपादलोलो ऽमुखरो ऽप्रकीर्णवाग् अविक्षिप्तचक्षुर् अविक्षिप्तेन्द्रियो ऽनुद्धतो ऽचपलो ऽरभसो ऽभ्रान्तकायो ऽभ्रान्तचित्तः, शान्तकायः शान्तवाक् शान्तचित्तो रहस्यरहसि वाविकल्पितेर्यापथो यैः केचिद् अप्य् अन्नपानशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संतुष्टः सुरभः सुपोष्यः कल्याणाचारगोचरः संगणिकाया अपि विवेकगोचरः लाभे ऽलाभे च स निर्विकारो ऽनुन्नतावनतः सुखे दुष्खे स्तुतौ निन्दायां यशस्ययशसि जीविते च मरणे च समो निर्विकारो ऽनुन्नतावनतः, शत्रौ च मित्रे च साधौ चासाधौ च मनआपवर्तिन्य् अमनआपवर्तिन्य् आर्येषु शब्देस्व् अनार्येषु (प्स्प्_5:147) शब्देषु विविक्तेषु व्यवकीर्णेषु च समो निर्विकारो ऽनुन्नतावनतः प्रियाप्रियेषु रूपेष्व् अनुरोधविरोधापगः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानपारमितायां चरति, स ध्यानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न ध्यानफलम् उपजीवति यद् ध्यानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया ध्यानपारमितायां चरति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न दुष्प्रज्ञो भवति न परप्रणेयो ऽहंकारममकारविगतः, आत्मसत्त्व जीवजन्तु पोषपुरुष पुद्गलमनुजमानवकारकवेदकजानकपश्यकविगतश् च भवति सर्वदृष्टिविगतः सर्वशून्यताविगतो निर्विकल्पो निर्विकारः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च प्रज्ञाफलम् उपजीवति यत् प्रज्ञाफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया प्रज्ञापारमितायां चरति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, द्वितीयं ध्यानं समापद्यते, तृतीयं ध्यानं समापद्यते, चतुर्थं ध्यानं समापद्यते, चतुरप्रमाणारूप्यसमापत्तीः समापद्यते, प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न च तेषां विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स तेनोपायकौशल्येन समन्वागतो भवति, येनोपायकौशल्येन समन्वागतस् तानि च ध्यानान्य् अप्रमाणारूप्यसमापत्तीः समापद्यमानः स (प्स्प्_5:148) स्वलक्षणशून्यान् धर्मान् जानाति, असद्भुतान् अपरिनिष्पन्नन् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थताञ् च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानाप्रमाणारूप्यसमापत्तीश् च समापद्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दर्शनभावनाप्रहातव्ये ऽस्मिन् मार्गे चरति, न स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानः सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चरति, बोधिपक्ष्येषु धर्मेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकैर् धर्मैः क्षान्तिः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टविमोक्षान् समापद्यते, स नवानुपूर्वविहारसमापत्तीश् चत्वार्य् आर्यसत्यानि भावयति, शून्यतानिमित्ताप्रणिहितानि च समापद्यते, न च स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समथतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरति, स विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अवक्रामतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकधर्मव्याकरणक्षान्तिः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दशसु तथागतबलेषु परिजयं करोति, चतुर्षु वैशारद्येषु (प्स्प्_5:149) चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावद् बुद्धक्षेत्रं न परिशोधितं भवति, सर्वसत्त्वाश् च न परिपाचिता भवन्ति. तत् कस्य हेतोः? तथा हि स स्वलक्षणं शून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारं लक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु महामैत्र्यां महाकरुणायां चरन् बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: परमबुद्धिमन्तो भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, परमबुद्धिमन्तः सुभूते बोधिसत्त्वा महासत्त्वा य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वा महासत्त्वाः स्वभावतो न चलन्ति.

सुभूतिर् आह: कस्मात् स्वभावान् न चलन्ति?
भगवान् आह: अभावतो न चलन्ति, यत् पुनर् आयुष्मान् सुबूतिर् एवम् आह कतमस्मात् स्वभावान् न चलन्ति, रूपस्य स्वभावतो न चलन्ति, न वेदनाया न संज्ञाया न संस्काराणां, विज्ञानस्य स्वभावतो न चलन्ति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्वभावान् न चलन्ति, प्रतीत्य समुत्पादाङ्गस्वभावान् न चलन्ति, दानपारमितायाः स्वभावान् न चलन्ति, शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्वभावान् न चलन्ति, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यतायाः स्वभावान् न चलन्ति, अप्रमाणस्वभावाद् ध्यानारूप्यसमापत्तिस्वभावात् स्मृत्युपस्थानस्वभावात् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गस्वभावाद् आर्याष्टाङ्गमार्गस्वभावान् न चलन्ति, शून्यतानिमित्ताप्रणिहितस्वभावान् न चलन्ति, आर्यसत्यस्वभावाद् अभिज्ञास्वभावाद् (प्स्प्_5:150) विमोक्षसमाधिसमापत्तिधरणीमुखस्वभावान् न चलन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मस्वभावान् न चलन्ति महामैत्रीमहाकरुणास्वभावान् न चलन्ति. तत् कस्य हेतोः? तथा हि सुभूते य एष धर्मो निःस्वभावः सो ऽभावः.
इत्य् उपायकौशले विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किं पुनर् भगवन्न् अभावेनाभावः शक्यो ऽभिसंबोद्धुम्?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तत् किं पुनर् भगवन् भावेन भावः शक्यो ऽभिसंबोद्धुम्?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तत् किं भगवन्न् अभावेन भावः शक्यो ऽभिसंबोद्धुम्?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तत् किं भगवन् भावेनाभावः शक्यो ऽभिसंबोद्धुम्?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तन् मा हैव भगवन् न प्राप्तिर् नाभिसमयो भविष्यति? यदि नाभावेनाभावस्याभिसमयो, न भावेन भावस्याभिसमयो, नाभावेन भावस्याभिसमयो, न भावेनाभावस्याभिसमयः.
भगवान् आह: अस्याभिसमयो न पुनर् अनेन चतुःप्रकाराभिनिहारेण.
सुभूतिर् आह: कथम् इदानीं भगवन्न् अभिसमयः?
भगवान् आह: नैवाभावो न भावः, स तादृशो ऽभिसमयो यत्रैते प्रपञ्चा न संविद्यन्ते, अप्रपञ्चो निष्प्रपञ्चाभिसमयः.
इत्य् अभिसमये विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः?

भगवान् आह: रूपन् नित्यम् अनित्यम् इति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् इति वा प्रपञ्चः, रूपं सुखं दुःखम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं सुखं दुःखम् इति वा प्रपञ्चः, रूपम् आत्मानात्मेति, वेदना संज्ञा संस्कारा, विज्ञानम् आत्मानात्मेति प्रपञ्चः, रूपं शान्तम् अशान्तम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं शान्तम् अशान्तम् इति वा प्रपञ्चः, रूपं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, वेदना संज्ञा (प्स्प्_5:151) संस्कारा, विज्ञानं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि च नित्यानित्यसुखदुष्खात्मानात्मशान्ताशान्तपरिज्ञेयापरिज्ञेयम् इति वा प्रपञ्चः. दुष्खम् आर्यसत्यं परिज्ञेयम् इति प्रपञ्चः, समुदयः प्रहातव्य इति प्रपञ्चः, निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, मार्गे भावयितव्य इति प्रपञ्चः, चत्वारि ध्यानानि भावयितव्यानीति प्रपञ्चः, चत्वार्य् अप्रमाणानि भावयितव्यानीति प्रपञ्चः, चतस्र आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः, चत्वारि स्मृत्युपस्थानानि भावयितव्यानीति प्रपञ्चः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि भावयितव्यानीति प्रपञ्चः, आर्याष्टाङ्गमार्गो भावयितव्य इति प्रपञ्चः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयितव्यानीति प्रपञ्चः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो भावयितव्या इति प्रपञ्चः, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अतिक्रमिष्यामीति प्रपञ्चः, प्रत्येकां बोधिम् अतिक्रमिष्यामीति प्रपञ्चः, दशबोधिसत्त्वभूमिः परिपूरयिष्यामीति प्रपञ्चः, बोधिसत्त्वनियामम् अवक्रमिष्यामीति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामीति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामीति प्रपञ्चः, दानपारमितायाञ् चरिष्यामीति प्रपञ्चः, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरिष्यामीति प्रपञ्चः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां भावयिष्यामीति प्रपञ्चः, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् उत्पादयिष्यामीति प्रपञ्चः, सर्वाकारज्ञताम् अनुप्राप्स्यामीति प्रपञ्चः, सर्ववासनानुसंधिक्लेशान् प्रहास्यामीति प्रपञ्चः. तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यम् अनित्यम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इति, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इत्य्, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि च नित्यम् अनित्यम् इति, सुखं दुःखम् (प्स्प्_5:152) इति, आत्मानत्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इति वाप्रपञ्चन् न प्रपञ्चयति. एवं सर्वपारमिताः सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानित्मित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् सर्वान् अप्रपञ्चान् न प्रपञ्चयति, स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धबोधिम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. सर्वाकारज्ञताम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. तत् कस्य हेतोः? न हि स्वभावः स्वभावं प्रपञ्चयति, अभावो वाभावं प्रपञ्चयति, न हि स्वभावो ऽभावं वा स्थापयित्वा अन्यत् किञ्चिद् उपलभते, यं वा प्रपञ्चयेत्, यत्र वा प्रपञ्चयेत्, येन वा प्रपञ्चयेत्. तस्मात् तर्हि सुभूते निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्कारा, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षानवानुपूर्वविहारसमापत्तयो निष्प्रपञ्चाः, शून्यता निमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो निष्प्रपञ्चाः, अष्टादशावेणिका बुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, अनुत्तरा सम्यक्संबोधिर् निष्प्रपञ्चा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्चेन प्रज्ञापारमितायां चरितव्यम्.
सुभूतिर् आह: कथं भगवन् रूपं निष्प्रपञ्चं यावद् विज्ञानं निःप्रपञ्चं पेयालं यावद् बोधिर् निष्प्रपञ्चा?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: नास्ति सुभूते रूपस्य स्वभावो, नास्ति वेदनाया नास्ति संज्ञाया नास्ति संस्काराणां नास्ति विज्ञानस्य स्वभावो, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां स्वभावो नास्ति पारमितानां स्वभावो नास्ति शून्यतामुखानां स्वभावः. एवं नास्ति बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां स्वभावो नास्ति सर्वाकारज्ञतायाः स्वभावो, यस्य स्वभावं नास्ति सो ऽप्रपञ्चो ऽनेन सुभूते कारणेन निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्काराः, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, (प्स्प्_5:153) प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वाः पारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा निष्प्रपञ्चाः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो विमोक्षसमाधिसमापत्तिधारणीमुखानि निष्प्रपञ्चानि, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, सर्वाकारज्ञता निष्प्रपञ्चा. एवं खलु सुभूते बोधि सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वनियामम् अवक्रामति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न कस्यचिद् धर्मस्य स्वभाव उपलभते, तत् कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति? किं श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धमार्गेण वा?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते श्रावकमार्गेण वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति न प्रत्येकबुद्धमार्गेण वा न बुद्धमार्गेण वा. अपि तु खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वनियामम् अवक्रामति, तद्यथापि नाम सुभूते अर्हन् सर्वमार्गेषु शिक्षित्वा सम्यक्त्वनियामम् अवक्रामति, न च तावत् फलं प्राप्नोति, यावन् न फलमार्गम् उत्पादयति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामति, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावन् न वज्रोपमः समाधिः प्रतिलब्धो भवति, ततः स एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. इति विपर्यासे विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति, ननु भगवन्न् अन्यो ऽष्टमकस्य मार्गः, अन्यः स्रोतआपन्नस्यान्यः सकृदागामितायाः प्रतिपन्नकस्यान्यः सकृदागामिनो ऽन्यो ऽनागामितायाः प्रतिपन्नकस्यान्यो ऽनागामिनो ऽन्यो ऽर्हत्त्वप्रतिपन्नकस्यान्यो ऽर्हतो मार्गः, अन्यः प्रत्येकबुद्धस्यान्यस् तथागतस्यार्हतः सम्यक्संबुद्धस्य मार्गः? यदि भगवन्न् अन्य एव मार्गः, तत् कथं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति? (प्स्प्_5:154) यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपुरयितव्याः, मा खलु भगवन् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमको भविष्यति, दर्शनमार्गम् उत्पाद्य स्रोतआपन्नो भविष्यति, भावनामार्गम् उत्पाद्य सकृदागामितायै प्रतिपन्नकः सकृदागामी भविष्यत्य्, अनागामितायै प्रतिपन्नको अनागामी भविष्यति, अर्हत्त्वप्रतिपन्नको ऽर्हन् भविष्यति, प्रत्येकबुद्धमार्गम् उत्पाद्य प्रत्येकबुद्धो भविष्यत्य्, अस्थानं भगवन्न् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमकः, स्याद् अष्टमको भूत्वा बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्राम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते, एवं स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते. तत् कथं भगवन् जानीयाम वयं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामतिति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अस्थानं सुभूते अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते.
सुभूतिर् आह: कथं भगवन्न् एतान् मार्गान् प्राप्य बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन्न् अष्टौ भूमीर् ज्ञानेन च दर्शनेन चातिक्रामति. कतमा अष्ट? यद् उत शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर्, अयं भूमिनिर्देशः. स इमा अष्टौ भूमीर् ज्ञानेन दर्शनेन चातिक्रम्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य (प्स्प्_5:155) सर्वाकारज्ञताज्ञानेन सर्ववासनानुसंधिक्लेशान् प्रजहाति. तत् कस्य हेतोः? तथा हि सुभूते यद् अष्टमकस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यं स्रोतआपन्नस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् सकृदागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अनागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अर्हतो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् प्रत्येकबुद्धस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् सर्वश्रावकप्रत्येकबुद्धानां परिपूर्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन च सर्ववासनानुसंधिक्लेशान् प्रजहाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्यानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां फलोपभोगेन भवितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: य इमे भगवन् मार्गा आख्याताः श्रावकमार्गः प्रत्येकबुद्धमार्गो बुद्धमार्गः, एषां कतमो ऽयं भगवन् मार्गज्ञतामार्गः?

भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञताविशुद्धिर् उत्पादयितव्या, तत्रेयं सुभूते सर्वधर्मा मार्गाकारज्ञताविशुद्धिः. यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वमार्गाकारज्ञता विसुद्धिर् भवति, ते आकारास् तानि लिङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेनाभिसंबोद्धव्यानि, अभिसंबुध्य परेषाम् आख्यातव्यानि निर्देशयितव्यानि प्रकाशयितव्यानि प्रज्ञेपयितव्यानि प्रस्थापयितव्यानि, विवरितव्यानि परेभ्यो विनयार्थाय यथा परे जानीयुर् इति. तत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वरुतसंकेतघोषाः समुदानयितव्या उच्चारयितव्याश् च, यै रुतसंकेतघोषैः त्रिसाहस्रे महासाहस्रे लोकधातौ विज्ञापयति यदिदं प्रतिश्रुत्कोपमा ज्ञानेन. तद् अनेन सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञता परिपूरयितव्या, सर्वमार्गाकारज्ञतां परिपूर्य सत्त्वानाम् आशयो ज्ञातव्यः, नैरयिकानां सत्त्वानां नैरयिको मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं ततश् च नैरयिकमार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः, तिर्यग्योनिगतानां (प्स्प्_5:156) सत्त्वानां तिर्यग्मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यो फलं ज्ञातव्यं ततश् च तिर्यग्मार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः. एवं किंनराणां महोरगानां नागानां यक्षाणां राक्षसानां गन्धर्वाणाम् असुराणां गरुडानां गुह्यकानां चारणानां विद्याधराणां सिद्धानां साध्यानां मनुष्याणां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, चातुर्महाराजकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, ब्रह्मपारिषद्यानां देवानां ब्रह्मपुरोहितानां महाब्रह्माणो मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्, आभास्वराणां परीत्ताभानाम् अप्रमाणाभानां परीत्तशुभानां अप्रमाणशुभानां शुभकृत्स्नानाम् अनुभ्रकानां पुण्यप्रसवानां बृहत्फलानाम् असंज्ञिसत्त्वानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानां अकनिष्ठानां देवानां, आकाशानन्त्यायतनानां देवानां विज्ञानानन्त्यायतनानाम् आकिंचन्यायतनानां नैवसंज्ञानासंज्ञायतनानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्. चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, चत्वारि सम्यक्प्रहाणानि ज्ञातव्यानि, चत्वार ऋद्धिपादाः ज्ञातव्याः, पञ्चेन्द्रियाणि ज्ञातव्यानि, पञ्चबलानि ज्ञातव्यानि, सप्तबोध्यङ्गानि ज्ञातव्यानि, आर्याष्टाङ्गमार्गो ज्ञातव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ज्ञातव्यानि, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ज्ञातव्याः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो ज्ञातव्याः, सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि ज्ञातव्यानि, पञ्चाभिज्ञा ज्ञातव्याः, दशबोधिसत्त्वभूमयो ज्ञातव्याः, दशतथागतबलानि ज्ञातव्यानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः, महामैत्री महाकरुणा ज्ञातव्या. यैश् च मार्गैर् ये सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्याः तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले प्रतिष्ठापयितव्याः तान् सकृदागामिफले प्रतिष्ठापयति, ये अनागामिफले प्रतिष्ठापयितव्याः तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकायां बोधौ प्रतिष्ठापयितव्या तान् प्रत्येकायां बोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, इयं सुभूते सर्वमार्गाकारज्ञता (प्स्प्_5:157) बोधिसत्त्वस्य महासत्त्वस्य यत्र बोधिसत्त्वो महासत्त्वः शिक्षित्वा सत्त्वानाम् आशयम् अवतरति, सत्त्वानाम् आशयम् अवतीर्य तथा धर्मं देशयति यथास्य सा धर्मदेशनामोघाक्षणा भवति. तत् कस्य हेतोः? तथा ह्य् अस्य पुरुषेन्द्रिये परापरज्ञानं सुविभक्तं सुविज्ञातं च भवति, सत्त्वानां गतिं च्युतिम् उपपत्तिं च प्रजानाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, अत्र हि प्रज्ञापारमितायां चरितव्यं सर्वधर्मा अन्तर्गता, ये केचिद् बोधिपक्ष्या धर्मा, यत्र बोधिसत्त्वैर् महासत्त्वैश् चरितव्यं श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा चरितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् ये बोधिपक्ष्या धर्मा यावद् या बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ताः, अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, तत् कथं भगवन् बोधिपक्ष्या धर्मा बोधेर् आहारिका भवन्ति? एवं भगवन् न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा धर्मा न कस्यचिद् धर्मस्याहारिका वापहारिका वा, तद्यथापि नाम भगवन्न् आकाशन् न कस्यचिद् धर्मस्याहारकं वापहारकं वा. एवम् एव भगवन् स्वलक्षणशून्या धर्मा न कस्यचिद् धर्मस्याहारका वापहारका वा.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते स्वलक्षणशून्या धर्माः कस्यचिद् धर्मस्याहारका वापहारका वा, ये वा सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते, इमे बोधिपक्ष्या धर्मा बोधेर् आहारका भवन्ति.
इति मार्गे विप्रतिपत्तिः

अपि तु खलु सुभूते यञ् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं ये च स्कन्धा ये च धातवो यानि चायतनानि यश् च प्रतीत्यसमुत्पादो यानि च प्रतीत्यसमुत्पादाङ्गानि या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभाव शून्यता यच् च प्रथमं ध्यानं यच् च द्वितीयं ध्यानं यच् च तृतीयं ध्यानं यच् च चतुर्थं ध्यानं, यच् चाकाशानन्त्यायतनं यच् च विज्ञानानन्त्यायतनं यच् चाकिंचन्यायतनं यच् च नैवसंज्ञाना संज्ञायतनं या च महामैत्री या च महाकरुणा या च महामुदिता या च (प्स्प्_5:158) महोपेक्षा ये च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा या च शून्यता यच् चानिमित्तं यच् चाप्रणिहितं ये चाष्टविमोक्षा याश् च नवानुपूर्वविहारसमापत्तयो यानि चार्यसात्यानि याश् चाभिज्ञा ये च समाधयो यानि च धारणीमुखानि याश् च दशबोधिसत्त्वभूमयो यानि च दशतथागतबलानि यानि च चत्वारि वैशारद्यानि याश् च चतस्रः प्रतिसंविदो ये चाष्टादशावेणिका बुद्धधर्मा या च महाकरुणा या च यावत् सर्वाकारज्ञता, आर्ये ऽस्मिन् धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतारणार्थाय लोकव्यवहारेण व्यवकृतास् ते धर्मा प्रज्ञापयितव्याः, न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र शिक्षितव्यं ज्ञानेन च दर्शनेन च शिक्षित्वा केचिद् धर्माः प्रतिबोधव्याः केचिन् न प्रतिबोधव्याः
सुभूतिर् आह: कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन च दर्शनेन च शिक्षित्वा न प्रतिबोधव्याः? कतमे धर्माः प्रतिबोधव्याः?
भगवान् आह: श्रावकभूमिः प्रत्येकबुद्धभूमिश् च शिक्षित्वा ज्ञानेन च दर्शनेन च न प्रतिबोधव्या, सर्वाकारज्ञता ज्ञानेन च दर्शनेन च प्रतिबोधव्या, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्माश् च प्रतिबोधव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्ये ऽस्मिन् धर्मविनये प्रज्ञापारमितायां शिक्षितव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आर्यो धर्मविनयो ऽनार्यो धर्मविनय इति भगवन्न् उच्यते, कतमो भगवन्न् आर्यो धर्मविनयः? कतमो भगवन्न् अनार्यो धर्मविनयः? कियता भगवन्न् आर्यो धर्मविनयः? कियता भगवन्न् अनार्यो धर्मविनय इत्य् उच्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेन न संयुक्ता न विसंयुक्ता, दोषेण न संयुक्ता न विसंयुक्ता, मोहेन न संयुक्ता न विसंयुक्ता, सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ता, विचिकित्सया न संयुक्ता न विसंयुक्ताः, शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः, कामरागव्यापादैर् न संयुक्ता न विसंयुक्ता, रूपरागारूप्यरागैर् न संयुक्ता न विसंयुक्ता, अविद्यया न संयुक्ता न विसंयुक्ता, मानेन न संयुक्ता न विसंयुक्ता, (प्स्प्_5:159) औद्धत्येन न संयुक्ता न विसंयुक्ताः, प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ता, द्वितीयेन ध्यानेन तृतीयेन ध्यानेन, चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ता, मैत्र्या करुणया मुदितयोपेक्षया न संयुक्ता न विसंयुक्ताः, आकाशानन्त्यायतनेन विज्ञानानन्त्यायतनेनाकिंचन्यायतनेन नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेण न संयुक्ता न विसंयुक्ता, आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् न संयुक्ता न विसंयुक्ताः, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर् न संयुक्ता न विसंयुक्ताः, समाधिभिधारणीमुखैर् न संयुक्ता न विसंयुक्ताः, दानपारमितया न संयुक्ता न विसंयुक्ताः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया न संयुक्ता न विसंयुक्ताः, अध्यात्मशून्यतया न संयुक्ता न विसंयुक्ता, बहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, अध्यात्मबहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, यावद् अभावस्वभावशून्यतया न संयुक्ता न विसंयुक्ताः, दशभिस् तथागतबलैर् न संयुक्ता न विसंयुक्ताः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशाभिर् आवेणिकैर् बुद्धधर्मैर् न संयुक्ता न विसंयुक्ताः, संस्कृतधाताव् असंस्कृतधातौ न संयुक्ता न विसंयुक्ताः. तत् कस्य हेतोः? तथा हि सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, ते अरूपिणो ऽरूपिभिः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अनिदर्शना निदर्शनैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अप्रतिघा अप्रतिघैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अलक्षणा अलक्षणैः सार्धं न संयुक्ता वा न विसंयुक्ता वा. इति विपक्षप्रतिपक्षयोर् विप्रतिपत्तिः
इमा सुभूते ऽरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा पारमिता बोधिसत्त्वानां महासत्त्वानां यत्र बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, यत्र शिक्षित्वा न कस्यचिद् धर्मस्य लक्षणम् उपलभ्यते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं न वेदनालक्षणे न संज्ञालक्षणे न संस्कारलक्षणे न विज्ञानलक्षणे शिक्षितव्यं, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातुलक्षणे शिक्षितव्यं, नाब्धातुलक्षणे न तेजोधातुलक्षणे न वायुधातुलक्षणे नाकाशधातुलक्षणे (प्स्प्_5:160) न विज्ञानधातुलक्षणे शिक्षितव्यं, न दानपरमितालक्षणे शिक्षितव्यं, न शीलपारमितालक्षणे न क्षान्तिपारमितालक्षणे न वीर्यपारमितालक्षणे न ध्यानपारमितालक्षणे न प्रज्ञापारमितालक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे न बहिर्धाशून्यतालक्षणे नाध्यात्मबहिर्धाशून्यतालक्षणे न यावद् अभावस्वभावशून्यतालक्षणे शिक्षितव्यं, न प्रथमध्यानलक्षणे शिक्षितव्यं, न द्वितीयध्यानलक्षणे न तृतीयध्यानलक्षणे न चतुर्थध्यानलक्षणे शिक्षितव्यं, न महामैत्रीलक्षणे न महाकरुणालक्षणे न मुदितालक्षणे नोपेक्षालक्षणे शिक्षितव्यं, नाकाशानन्त्यायतनलक्षणे न विज्ञानानन्त्यायतनलक्षणे नाकिंचन्यायतनलक्षणे नैवसंज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गलक्षणे शिक्षितयं, न शून्यतानिमित्ताप्रणिहितलक्षणे शिक्षितव्यं, नार्यसत्यलक्षणे शिक्षितव्यं, नाष्टविमोक्षलक्षणे शिक्षितव्यं, न नवानुपूर्वविहारसमापत्तिलक्षणे शिक्षितव्यं, नाभिज्ञालक्षणे शिक्षितव्यं, न समाधिलक्षणे शिक्षितव्यं, न धारणीमुखलक्षणे शिक्षितव्यं, न दशतथागतबललक्षणे शिक्षितव्यं, न चतुर्वैशारद्यलक्षणे शिक्षितव्यं, न चतुःप्रतिसंविल्लक्षणे शिक्षितव्यं, न यावद् अष्टादशावेणिकबुद्धधर्मलक्षणे शिक्षितव्यं, न दुःखार्यसत्यलक्षणे शिक्षितव्यं, न समुदयार्यसत्यलक्षणे शिक्षितव्यं, न निरोधार्यसत्यलक्षणे शिक्षितव्यं, न मार्गार्यसत्यलक्षणे शिक्षितव्यं, नार्ये ऽस्मिन् धर्मविनये लक्षणे शिक्षितव्यं, नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं, नासंस्कृतधातुलक्षणे शिक्षितव्यम्.
सुभूतिर् आह: यदि भगवन्न् एतेषां धर्माणां लक्षणे न शिक्षितव्यं, कथं भगवन् न शिक्षित्वा बोधिसत्त्वो महासत्त्वो धर्माणां धर्मलक्षणे श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमिष्यति? श्रावकप्रत्येकबुद्द्धभूमिम् अनतिक्रम्य कथं बोधिसत्त्वनियामम् अवक्रमिष्यति? बोधिसत्त्वनियामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति? सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति? धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा?
(प्स्प्_5:161)

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते कस्यचिद् धर्मस्य लक्षणं स्यात्, तदा बोधिसत्त्वेन महासत्त्वेन लक्षणे शिक्षितव्यं स्याद्, यस्मात् तर्हि सर्वधर्मा अलक्षणा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तस्मात् तद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? यदि पूर्वं लक्षणम् अभविष्यत् पश्चाद् अलक्षणं न भवेद्, यस्मात् तर्हि सुभूते पूर्वम् एव ते सर्वधर्मा अलक्षणास् तस्मात् तर्ह्य् अप्य् अलक्षणास्, तस्माद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यं, नाप्य् अलक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एवैष लक्षणधातुः.
इति लक्षणे विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अलक्षणाः सर्वधर्मा न विलक्षणाः, एकलक्षणा यद् उतालक्षणास्, तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति? न हि भगवन्न् अविभाव्य प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन शक्या श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा अतिक्रमितुम्, अनतिक्रम्य श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा न शक्यो बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वनियामम् अवक्रमितुं, बोधिसत्त्वनियामम् अनवक्रम्य न शक्यानुत्पत्तिकैर् धर्मैः क्षान्तिर् उत्पादयितुम्, अनुत्पत्तिकैर् धर्मैः क्षान्तिम् अनुत्पाद्य न शक्या बोधिसत्त्वाभिज्ञा उत्पादयितुं, बोधिसत्त्वाभिज्ञानुत्पाद्य न शक्यं बुद्धक्षेत्रं परिशोधयितुं, बुद्धक्षेत्रम् अपरिशोध्य न शक्याः सत्त्वान् परिपाचायितुं, सत्त्वान् अपरिपाच्य न शक्या सर्वाकारज्ञताम् अनुप्राप्तुं, सर्वाकारज्ञताम् अननुप्राप्य न शक्यं धर्मचक्रं प्रवर्तयितुं, धर्मचक्रम् अप्रवर्त्य न शक्याः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितुं, न सकृदागामिफले नानागामिफले नार्हत्त्वे प्रतिष्ठापयितुं, न प्रत्येकबोधौ प्रतिष्ठापयितुं, नानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, नापि शक्याः सत्त्वा दानमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न शीलमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न भावनामये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुम्.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अलक्षणाः सुभूते सर्वधर्मा न विलक्षणाः.
(प्स्प्_5:162)
सुभूतिर् आह: कथम् अलक्षणस्य धर्मस्य प्रज्ञापारमिताभवना भवति?
भगवान् आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासात्त्वस्यैकलक्षणा अनेकलक्षणा, अलक्षणा भावना बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति.
सुभूतिर् आह: कथं भगवन्न् अलक्षणा भावना प्रज्ञापारमिताभावना भवति?
भगवान् आह: सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति.
सुभूतिर् आह: कथं भगवन् सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति?

भगवान् आह: रूपभावनाविभावना प्रज्ञापारमिताभावना, वेदना संज्ञा संस्कारा, विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्भावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोभावनाविभावना प्रज्ञापारमिताभावना, रूपभावनाविभावना प्रज्ञापारमिताभावना, एवं शब्दगन्धरसस्प्रष्टव्यधर्मभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावना प्रज्ञापारमिताभावना, अब्धातुभावनाविभावना प्रज्ञापारमिताभावना तेजोधातुभावनाविभावना प्रज्ञापारमिताभावना, वायुधातुभावनाविभावना प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानधातुभावनाविभावना प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावना प्रज्ञापारमिताभावना, अविद्याभावनाविभावना प्रज्ञापारमिताभावना, संस्कारभावनाविभावना, विज्ञानभावनाविभावना, नामरूपभावनाविभावना, षडायतनभावना विभावना, स्पर्शभावना विभावना, वेदनाभावना विभावना, तृष्णाभावनाविभावना, उपादानभावनाविभावना, भवभावनाविभावना, जातिभावनाविभावना, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावना प्रज्ञापारमिताभावना, आयूहनिर्यूहभावनाविभावना प्रज्ञापारमिताभावना, प्रथमध्यानभवनाविभावना (प्स्प्_5:163) प्रज्ञापारमिताभावना, द्वितीयध्यानभावनाविभावना तृतीयध्यानभावनाविभावना चतुर्थध्यानभावनाविभावना प्रज्ञापारमिताभावना, मैत्रीभावनाविभावना प्रज्ञापारमिताभावना, करुणाभावनाविभावना प्रज्ञापारमिताभावना, मुदिताभावनाविभावना प्रज्ञापारमिताभावना, उपेक्षाभावनाविभावना प्रज्ञापारमिताभावना, आकाशानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, आकिंचन्यायतनभावनाविभावना प्रज्ञापारमिताभावना, नैवसंज्ञानासंज्ञायतनभावनाविभावना प्रज्ञापारमिताभावना, बुद्धानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, धर्मानुस्मृतिभावनाविभावना, संघानुस्मृतिभावनाविभावना, शीलानुस्मृतिभावनाविभावना, त्यागानुस्मृतिभावनाविभावना, देवानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, उपायानुस्मृतिभावनाविभावना, अनुपायानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, अनित्यसंज्ञाभावनाविभावना दुष्खसंज्ञाभावनाविभावना, अनात्मसंज्ञाभावनाविभावना, आत्मसंज्ञाभावनाविभावना, सत्त्वसंज्ञाभावनाविभावना, जीवसंज्ञाभावनाविभावना, जन्तुसंज्ञाभावनाविभावना, पोषसंज्ञाभावनाविभावना, पुरुषसंज्ञाभावनाविभावना, पुद्गलसंज्ञाभावनाविभावना, मनुजसंज्ञाभावनाविभावना, मानवसंज्ञाभावनाविभावना, कारकसंज्ञाभावनाविभावना, वेदकसंज्ञाभावनाविभावना, जानकसंज्ञाभावनाविभावना, पश्यकसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, नित्यानित्यसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, शुभाशुभसंज्ञाभावनाविभावना, दुःखादुःखसंज्ञाभावनाविभावना शान्ताशान्तसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गभावनाविभावना प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहितभावनाविभावना प्रज्ञापारमिताभावना, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिभावनाविभावना प्रज्ञापारमिताभावना, सवितर्कसविचारसमाध्यवितर्काविचारसमाधिभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यभावनाविभावना, निरोधार्यसत्यभावनाविभावना, मार्गार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यज्ञानभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यज्ञानभावनाविभावना, निरोधार्यसत्यज्ञानभावनाविभावना, मार्गार्यसत्यज्ञानभावनाविभावना, क्षयज्ञानभावनाविभावना, अनुत्पादज्ञानभावनाविभावना, (प्स्प्_5:164) धर्मज्ञानभावनाविभावना, अन्वयज्ञानभावनाविभवना, आत्मज्ञानभावनाविभावना, संवृतिज्ञानभावनाविभावना, परिजयज्ञानभावनाविभावना, यथारुतज्ञानभावनाविभावना प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, शीलपारमिताभावनाविभावना प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावना प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावना प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावना प्रज्ञापारमिताभावना, बहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मबहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, यावद् अभावस्वभावशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अभिज्ञाभावनाविभावना प्रज्ञापारमिताभावना, दशतथागतबलभावनाविभावना प्रज्ञापारमिताभावना, चतुर्णां वैशारद्यानां भावनाविभावना, चतसृणां प्रतिसंविदां भावनाविभावना, अष्टादशावेणिकबुद्धधर्माणां भावनाविभावना प्रज्ञापारमिताभावना, समाधिधारणीमुखानां भावनाविभावना प्रज्ञापारमिताभावना, महाकरुणाभावनाविभावना प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावना प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अर्हत्त्वफलभावनाविभावना प्रज्ञापारमिताभावना, प्रत्येकबोधिभावनाविभावना प्रज्ञापारमिताभावना, सर्वाकारज्ञताभावनाविभावना प्रज्ञापारमिताभावना, सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् रूपभावनाविभावना प्रज्ञापारमिताभावना? वेदना संज्ञा संस्काराः, कथं विज्ञानभावनाविभावना प्रज्ञापारमिताभावना? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा महाकरुणा सर्वाकारज्ञता, आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकः नित्यानित्यसुखदुष्खशान्ताशान्तशुभाशुभः, स्रोतआपत्तिफलं (प्स्प्_5:165) सकृदागामिफलम् अनागामिफलम् अर्हत्त्वफलं प्रत्येकबोधिर् यावत् कथं भगवन् सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति, वेदना संज्ञा संस्कारा, विज्ञानं भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः सर्वाकारज्ञता भाव इति न भावयति, रागदोषमोहा भाव इति न भावयति, अनुशयपर्युत्थानानि भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, नास्ति सुभूते भावसंज्ञिनो दानपारमिताभावना, शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभावना. तत् कस्य हेतोः? तथा हि सुभूते भावे एषो ऽहम् इति संज्ञा, दाने शीले क्षान्तौ वीर्ये ध्याने, प्रज्ञायाम् एषो ऽहम् इति संज्ञा, यो द्वाभ्याम् अन्ताभ्यां सक्तस् तस्य नास्ति विमोक्षो, नास्ति सुभूते भावसंज्ञिनः स्मृत्युपस्थानभावना न सम्यक्प्रहाणभावना नर्द्धिपादभावना नेन्द्रियभावना न बलभावना न बोध्यङ्गभावना नार्याष्टाङ्गमार्गभावना न दुःखार्यसत्यभावना न समुदयार्यसत्यभावना न निरोधार्यसत्यभावना न मार्गार्यसत्यभावना न शून्यताभावना नानिमित्तभावना नाप्रणिहितभावना नाप्रमाणध्यानारूप्यसमापत्तिभावना नाष्टविमोक्षभावना न नवानुपूर्वविहारसमापत्तिभावना न सर्वशून्यताभावना न समाधिधारणीमुखभावना नाभिज्ञाभावना न दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मभावना न महाकरुणाभावना न सर्वाकारज्ञताभावना. तत् कस्य हेतोः? तथा हि स भावे सक्तः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किम् इति भगवन् भावः? किम् इत्य् अभावः?
भगवान् आह: द्वयं सुभूते भावः, अद्वयम् अभावः.
सुभूतिर् आह: किम् इति भगवन् द्वयं? किम् इत्य् अद्वयम्?
भगवान् आह: रूपसंज्ञिनः सुभूते द्वयं, वेदनासंज्ञासंस्कारविज्ञानसंज्ञिनो द्वयं, चक्षुःसंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनःसंज्ञिनः, रूपसंज्ञिनः, एवं शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञिनः, (प्स्प्_5:166) चक्षुर्विज्ञानसंज्ञिनश् चक्षुःसंस्पर्शसंज्ञिनश् चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञिनो मनःसंस्पर्शसंज्ञिनो मनःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, पृथिवीधातुसंज्ञिनः, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुसंज्ञिनः प्रतीत्यसमुत्पादसंज्ञिनः अविद्यासंज्ञिनः, एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायाससंज्ञिनः, पारमितासंज्ञिनः, सर्वशून्यतासंज्ञिनः, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञिनः, शून्यतानिमित्ताप्रणिहितसंज्ञिनः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंज्ञिनः, स्रोतआपन्नसंज्ञिनः, सकृदागाम्यनागाम्यर्हत्संज्ञिनः, प्रत्येकबुद्धसंज्ञिनो बोधिसत्त्वसंज्ञिनो ऽनुत्तरसम्यक्संबुद्धसंज्ञिनः, संस्कृतधातुसंज्ञिनो ऽसंस्कृतधातुसंज्ञिनो, यावत् सुभूते सर्वसंज्ञिनो द्वयं, यावद् असर्वसंज्ञिनो ऽद्वयं, यावद् द्वयं तावद् भावो, यावद् भावं तावत् संस्कारा, यावत् संस्कारास् तावत् सत्त्वा न परिमुच्यन्ते जात्या जरया व्याधिना मरणेन शोकपरिदेवदुःखदौर्मनस्योपायासैः. तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, नास्ति द्वयसंज्ञिनो दानं, नास्ति शीलं नास्ति क्षान्तिर् नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा नास्ति मार्गो नास्ति ज्ञानं नास्त्य् अभिसमयो नास्त्य् अन्तशो ऽनुलोमिकी क्षान्तिः. कुतः पुना रूपस्य परिज्ञा, वेदनायाः संज्ञायाः संस्काराणां, कुतो विज्ञानस्य परिज्ञा, कुतः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां परिज्ञा, कुतः पारमितानां परिज्ञा, कुतः शून्यतामुखानां परिज्ञा, कुतः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां परिज्ञा, कुतः आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां परिज्ञा, कुतः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां परिज्ञा, कुतः सर्वाकारज्ञतायाः परिज्ञा यस्य नास्ति मार्गभावना, कुतस् तस्य स्रोतआपत्तिफलं, कुतस् तस्य सकृदागामिफलं, कुतस् तस्यानागामिफलं, कुतस् तस्यार्हत्वफलं, कुतस् तस्य प्रत्येकबुद्धत्वं, कुतस् तस्य सर्ववासनानुसंधिक्लेशप्रहाणम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिन आनुलोमिकी क्षान्तिर् नास्ति कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् भगवन्न् अभावसंज्ञिन आनुलोमिकी क्षान्तिः? (प्स्प्_5:167) शुक्लविदर्शनाभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनूभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा, या च मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत. पुनर् भगवन् नाभावसंज्ञिनः कस्यचिद् धर्मस्य स्थानं वा निरोधो वा उत्पादो वा भवति, न चानुत्पाद्यैनान् धर्मान् सर्वाकारज्ञतानुप्राप्तुम्.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतन्, नाभावसंज्ञिन आनुलोमिकी क्षान्तिर्, न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृतावीभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर्, न सा मार्गभावनायां मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा वा भावत्य् अभवसंज्ञा वा, रूपसंज्ञा वा वेदनासंज्ञा वा संज्ञासंज्ञा वा संस्कारसंज्ञा वा विज्ञानसंज्ञा वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादसंज्ञा वा प्रतीत्यसमुत्पादाङ्गसंज्ञा वा पारमितासंज्ञा वा सर्वशून्यतासंज्ञा वा बोधिपक्ष्यधर्मार्यसत्यसंज्ञा वा प्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिसंज्ञा वा धारणीमुखसंज्ञा वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मसंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा दोषसंज्ञा वा दोषप्रहाणसंज्ञा वा मोहसंज्ञा वा मोहप्रहाणसंज्ञा वा, अविद्यासंज्ञा वाविद्याप्रहाणसंज्ञा वा संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा विज्ञानसंज्ञा वा विज्ञानप्रहाणसंज्ञा वा नामरूपसंज्ञा वा नामरूपप्रहाणसंज्ञा वा षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा स्पर्शसंज्ञा वा स्पर्शप्रहाणसंज्ञा वा वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा (प्स्प्_5:168) तृष्णासंज्ञा वा तृष्णाप्रहाणसंज्ञा वोपादानसंज्ञा वोपादानप्रहाणसंज्ञा वा भवसंज्ञा वा भवप्रहाणसंज्ञा वा जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा दुष्खसंज्ञा वा दुष्खप्रहाणसंज्ञा वा दौर्मनस्योपायाससंज्ञा वा दौर्मनस्योपायासप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, सर्वाकारज्ञतासंज्ञा वा सर्वाकारज्ञताप्रहाणसंज्ञा वा सर्ववासनानुसंधिक्लेशसंज्ञा वा सर्ववासनानुसंधिक्लेशप्रहाणसंज्ञा वा.
भगवान् आह: न सुभूते, नैतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्वचिद् धर्मे भावसंज्ञा वाभावसंज्ञा वा, एषैव सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी क्षान्तिर् यत्र नास्ति भावसंज्ञा वाभावसंज्ञा वा, एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा नाभावसंज्ञा, एतद् एवास्य फलं यत्र नास्ति भावसंज्ञा नाभावसंज्ञा. अभावः खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभावश् चैवाभिसमयस्, तद् अनेनापि सुभूते पर्यायेणैवं वेदितव्यम्, अभावस्वभावाः सर्वधर्माः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कथं भगवन्न् अभावस्वभावाः सर्वधर्मास् तथागतेनाभिसंबुद्धाः, येषाम् अभिसंबोधाय सर्वधर्मेषु च वशवर्तिता विसयवर्तिता चानुप्राप्ता?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इहाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् षट्सु पारमितासु चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षं, तेषाञ् च ध्यानानां ध्यानाङ्गानां च निमित्तम् अनुद्गृह्णंस् तैश् च ध्यानैर् ध्यानाङ्गैश् च न मन्ये, ध्यानानि ध्यानाङ्गानि च नास्वादयामि, ध्यानानि ध्यानाङ्गानि च नोपलभे. सो ऽहन् तानि चत्वारि ध्यानान्य् आकारविशुद्धान्य् उपसंपद्योत्साहं ध्यानं विपाकं कृत्वा वाभिज्ञाज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि, दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै, चेतःपर्यायज्ञानसाक्षात्क्रियायै, पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै, दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै (प्स्प्_5:169) चित्तम् अभिनिर्णामयामि, सो ऽहन् तासां साक्षात्क्रियानां निमित्तम् अनुद्गृह्णंस् ताभिर् अभिज्ञाभिर् न मन्ये, ताश् च पंचाभिज्ञा नास्वादयामि नोपलभे, सो ऽहन् ताः पञ्चाभिज्ञा आकाशसमाः पश्यामि समापद्ये, सो ऽहं पुनः सुभूते एकलक्षणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यावद् इदं दुष्खं, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपद् इति, दशभिस् तथागतबलैः समन्वागतश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतः सत्त्वांस् त्रिषु राशिषु व्याकरोमि.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवंस् तथागतेनार्हता सम्यक्संबुद्धेनाभावस्वभावानि चत्वारि ध्यानान्य् उत्पादितानि षड् अभिज्ञा उत्पादिताः सत्त्वासत्तया च सत्त्वास् त्रिषु राशिषु व्याकृताः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते कामानां वा पापकानाम् अकुशलानां धर्माणां स्वभावो वा भावो वाभावो वा भविष्यन्, नाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् नाभावस्वभावान् पापकान् अकुशलान् धर्मान् विदित्वा प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यस्मात् तर्हि सुभूते कामानां स्वभावो वाभावो वा भावो वा नास्ति, पापकानाम् अकुशलानां धर्माणां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्माद् अहं पूर्वं बोधिसत्त्वचर्यां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, एवं यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षम्. सचेत् सुभूते अभिज्ञानां स्वभावो वाभावो वा भावो वा अभविष्यन्, नाहं सुभूते सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये यावत् सत्त्वांस् त्रिभ्यो राशिभ्यो न व्युपशमयिष्ये, यस्मात् तर्हि सुभूते सर्वाभिज्ञानां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यां, सत्त्वाश् च त्रिषु राशिषु व्याकृताः.
इति भावनायां विप्रतिपत्तिः
(प्स्प्_5:170)
इत्य् उक्ता विप्रतिपत्तयः
इत्य् उक्तो मूर्धाभिसमयः
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां मूर्धाभिसमयाधिकारः शिक्षापरिशुद्धिपरिवर्तः पञ्चमः
(प्स्प्_6-8:1)
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता वि

एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वो ऽभावस्वभावैः सर्वधर्मैः पञ्चभिर् अभिज्ञाभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत् कथं भगवन्न् अभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते ययानुपूर्वक्रिययानुपूर्वशिक्षयानुपूर्वप्रतिपदानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमम् एवैवं श्रुतं भवति. बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मपर्युपासितानां प्रत्येकबुद्धानाम् वार्हतां वानागामिनां वा सकृदागामिनां वा स्रोतआपन्नानां वाभावत्वाद् बुद्धानां भगवताम् अभावत्वात् प्रत्येकबुद्धानाम् अभावत्वाद् अर्हताम् अभावत्वाद् अनागामिनाम् अभावत्वात् सकृदागामिनाम् अभावत्वात् स्रोतआपन्नानाम् अभावत्वात् सर्वार्याणां नस्ति सर्वसंस्काराणां स्वभावः, अन्तशो वालाग्रकोटीस्थानमात्रकम् अपीति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भवति: अभावा एव बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः सर्वार्या यद्य् अहं बोधिम् अभिसंभोत्स्ये यदि वा नाभिसंभोत्स्ये ऽभावा एव सर्वधर्माः यन् नूनम् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं याम् अभिसंबुध्य सर्वसत्त्वान् भावसंज्ञायां चरतो ऽभावे ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामि. स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेत् सर्वसत्त्वानां परिनिर्वाणार्थाय सो ऽनुपूर्वक्रियाम् आरभेतानुपूर्वशिक्षाम् (प्स्प्_6-8:2) अनुपूर्वप्रतिपदम् आरभेत. अत्र शिक्षित्वा पूर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुम्, प्रथमम् एव षट्सु पारमितासु शिक्षन्ते यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
इति सामान्येनानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्न् आत्मना च दानं ददाति परांश् च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन दानेन महान्तं भोगस्कन्धं प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानाम् अन्यतरम् अपि मानुष्यकं परिष्कारोपकरणं ददाति स तेन दानेन सत्त्वान् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य (प्स्प्_6-8:3) हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.
इति दानपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च शीलपारमितायां चरन् दानं ददाति, परांश् च शीलपारमितायां प्रतिष्ठापयति दाने प्रतिष्ठापयति शीलपारमितायाश् च वर्णं भाषते ये चान्ये शीलपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन शीलेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतह्. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.
इति शीलपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च क्षान्तिपारमितायां चरन् दानं ददाति, शीलं च रक्षति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति दाने शीले च प्रतिष्ठापयति क्षान्तिपारमितायाश् च वर्णं भाषते. ये चान्ये क्षान्तिपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तया क्षान्त्या सत्त्वाञ् शीले प्रतिष्ठापयति समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेन च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन (प्स्प्_6-8:4) च समन्वागतः, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं च परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.

इति क्षान्तिपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च वीर्यपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति, परांश् च वीर्यपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ च प्रतिष्ठापयति, वीर्यपारमितायाश् च वर्णं भाषते, ये चान्ये वीर्यपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञह्. स तेन वीर्येण सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येणानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.
(प्स्प्_6-8:5)
इति वीर्यपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च ध्यानपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते, परांश् च ध्यानपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये च प्रतिष्ठापयति, ध्यानपारमितायाश् च वर्णं भाषते, ये चान्ये ध्यानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन ध्यानेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.
इति ध्यानपारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च प्रज्ञापारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानञ् च समापद्यते, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये ध्याने च प्रतिष्ठापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तया प्रज्ञया सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन (प्स्प्_6-8:6) प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञयानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति.
इति प्रज्ञापारमितयानुपूर्वाभिसमयः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियायां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि स प्रथमचित्तोत्पादम् उपादाय, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्य बुद्धानुस्मृतिं भावयति, धर्मानुस्मृतिं भावयति संघानुस्मृतिं भावयति, शीलानुस्मृतिम् भावयति, त्यागानुस्मृतिं भावयति, देवतानुस्मृतिं भावयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति, न वेदनातो न संज्ञातो न संस्कारतो न विज्ञानतो मनसिकरोति. तत् कस्य हेतोः? तथा हि रूपस्वभावो नास्ति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः रूपाद्यमनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वात्रिंशन्महापुरुषलक्षणैर् मनसिकर्तव्यो न सुवर्णकायो मनसिकर्तव्यो (प्स्प्_6-8:7) न व्याममात्रया प्रभया मनसिकर्तव्यो नाशीत्यनुव्यञ्जनैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् लक्षणाद्यमनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्तव्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः शीलादिस्कन्धामनसिकारेण बुद्धानुस्मृत्या.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यो न चतुर्भिर् वैशारद्यैर् न चतसृभिः प्रतिसंविद्भिर् मनसिकर्तव्यो न महाकरुणया न महामैत्र्या नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् दशबलाद्यमनसिकारेण बुद्धानुस्मृत्या.

पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः प्रतीत्यसमुत्पादामनसिकारेण बुद्धानुस्मृत्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्तव्याः. एवं खल्व् अस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. स इहानुपूर्वक्रियायाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि शिक्षमाणो ऽनुपूर्वप्रस्थानैश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं शून्यतासमाधिम् आनिमित्तसमाधिम् (प्स्प्_6-8:8) अप्रणिहितसमाधिं परिपूरयति, अप्रमाणध्यनारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, सर्वपारमिताः सर्वशून्यता अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, महाकरुणां परिपूरयति, महामैत्रीं परिपूरयति, सर्वाकारज्ञतां परिपूरयति, अभावस्वभावयोगेन सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति.
इति बुद्धानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशला धर्मा मनसिकर्तव्या नाकुशला धर्मा मनसिकर्तव्या न व्याकृता धर्मा मनसिकर्तव्या नाव्याकृता धर्मा मनसिकर्तव्या न लौकिका न लोकोत्तरा न सामिषा न निरामिषा नार्या नानार्या न सास्रवा नानास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना न संस्कृता नासंस्कृता धर्मा मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां धर्माणां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा धर्मानुस्मृतिः. स इह धर्मानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः.
इति धर्मानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संघो ऽभावस्वभावतो ऽनुस्मर्तव्यो यो सो भगवतः श्रावकसंघश् चत्वारः पुरुषयुगाः, अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा अभावस्वभावप्रतिभाविताश् चैवोच्यन्ते चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा संघानुस्मृतिः. स इह संघानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् (प्स्प्_6-8:9) सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः.
इति संघानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे ऽभुजिष्ये विज्ञप्रशस्ते सुसमात्ते समाधिसंवर्तनीये शीले प्रतिष्ठिते नाभावस्वभावतो मनसिकर्तव्यम् तच् छीलं यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा शीलानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् मनसिकर्तव्या, यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः.
इति शीलानुस्मृतिः
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेनाभावस्वभावयोगेन त्यागो ऽनुस्मर्तव्यो यदि वामिषत्यागो यदि वा धर्मत्यागः. तत् कस्य हेतोः? चित्तम् एवं नोत्पद्यते ददामि वा न ददामि वा परित्यजामि वा न परित्यजामि वाङ्गप्रत्यङ्गानि त्यजता नैवं चित्तम् उत्पादयितव्यं यत्राण्व् अपि स्मृतिकर्म नास्ति कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा त्यागानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः.
इति त्यागानुस्मृतिः
(प्स्प्_6-8:10)
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् मनसिकर्तव्याः. इह सुभूते बोधिसत्त्वेन महासत्त्वेन ये देवाः स्रोतआपन्नाश् चातुर्महाराजकायिकेषु देवेषूपपन्नास् त्रय्स्त्रिंशेषु यामेषु तुसितेषु निर्मानरतिषु परनिर्मितवशवर्तिषु देवेषूपपन्नास् ते ऽभावस्वभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा देवतानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः.
इति देवतानुस्मृतिः
एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य षडनुस्मृतीर् मनसिकुर्वतो ऽनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते.
इति षडनुस्मृतयः

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतानुपूर्वक्रियां परिपूरयितुकामेनानुपूर्वशिक्षाम् अनुपूर्वप्रतिपदं परिपूरयितुकामेनाभावस्वभावयोगेनाध्यात्मशून्यतायां शिक्षितव्यम्, बहिर्धाशून्यतायां शिक्षितव्यम्, अध्यात्मबहिर्धा शून्यतायां शिक्षितव्यम्, यावद् अभावस्वभावशून्यतायां शिक्षितव्यम्. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम्, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यम् अभावस्वभावयोगेन. दशसु पारमितासु दशसु बोधिसत्त्वभूमिषु शिक्षितव्यम्, महाकरुणायां शिक्षितव्यम्, स एवं बोधिमार्गे शिक्षमाणो ऽभावस्वभावान् सर्वधर्मान् अभिसंभोत्स्यते, यत्राण्व् अपि स्मृतिकर्म नास्ति कुतः पुना रूपं वा वेदनासंज्ञासंस्कारा विज्ञानं वा, एवं (प्स्प्_6-8:11) स्कन्धधत्वायतनप्रतीत्यसमुत्पाद वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा विमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा सर्वाकारज्ञता वा नेदं स्थानं विद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, यत्र क्रियायं चित्तं चर्या प्रतिपच् छिक्षा च प्रवर्तते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्काराः, नास्ति विज्ञानं नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिता नास्ति शून्यता नास्ति स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नास्ति आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नास्ति शून्यतानिमित्ताप्रणिहिताभिज्ञा नास्ति दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धो नास्ति धर्मो नास्ति संघो नास्ति मार्गो नास्ति फलं नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर् नास्त्य् अभिसमयो यावन् नास्ति सर्वधर्माः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अपि नु सुभूते ऽभावस्वभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
सुभूतिर् आह: नो भगवन्न् अभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
भगवान् आह: तत् कथम् इदं सुभूते एवं भवति, यद्य् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्कारा, नास्ति विज्ञानम्, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिताशून्यताबोधिपक्ष्यधर्मर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धधर्मसंघफलं (प्स्प्_6-8:12) मार्गसंक्लेशव्यवदानप्राप्ताभिसमया यवन् नास्ति सर्वधर्मा इति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नाहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि, अपि तु खलु भगवन् भविष्यन्त्य् अनागते ऽध्वनि भिक्षवः श्रावकयानिकाश् च प्रत्येकबुद्धयानिकाश् च बोधिसत्त्वयानिकाश् च त एवं वक्ष्यन्ति, अभावस्वभावाः सर्वधर्माः को ऽत्र संक्लिश्यते वा व्यवदायते वा न संक्लेशो न व्यवदानं ते जानन्तः शीलविपन्नाश् च भविष्यन्ति दृष्टिविपन्नाश् च भविष्यन्ति, आचारविपन्नाश् च तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां त्रयाणाम् गतीनाम् अन्यतरा गतिः प्रतिकाङ्क्षितव्या, नरकगतिर् वा तिर्यग्योनिगतिर् वा यमलोकगतिर् वा, इदम् अप्य् अहं भगवन्न् अनागतं भयं संपश्यमानस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अर्थं प्र्च्छामि. अपि तु खलु पुनर् भगवन्न् अहम् एतेषु धर्मेषु न काङ्क्षामि न विचिकित्सामि.
भगवान् आह: साधु साधु सुभूते एवम् एतद् यथा वदस्य् एवम् एतत्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः कम् अर्थवशं संपश्यमाना बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः.
भगवान् आह: यत एव सुभूते ऽभावस्वभावाः सर्वधर्मास् तत एव बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः. तत् कस्य हेतोः? तथा हि दुःखाक्षयश् च सुभूते उपलंभो नोपलंभसंज्ञिनः प्राप्तिर् नाभिसमयो नानुत्तरा च सम्यक्संबोधिः.
सुभूतिर् आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वाभिसमयो वानुत्तरा वा सम्यक्संबोधिः.
भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभ एवाभिसमयः, अनुपलंभ एवानुत्तरा सम्यक्संबोधिः, धर्मधातोर् अविकोपितताम् उपादाय धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभप्राप्तिं (प्स्प्_6-8:13) वा ऽभिसमयं वानुत्तरां वा सम्यक्संबोधिम् इच्छेत्.
सुभूतिर् आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् नाभिसमयो नानुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एवाभिसमयो ऽनुपलंभ एवानुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो द्वितीया कुतस् तृतीया यावत् कुतो दशमी भूमिः, कुतो ऽनुत्तरा सम्यक्संबोधिः, कुतो ऽनुत्पत्तिधर्मक्षान्तिः कुतो विपाकजा अभिज्ञा, कुतो विपाकजन् दानं, कुतो विपाकजं शीलं, कुतो विपाकजा क्षान्तिः, कुतो विपाकजं वीर्यं, कुतो विपाकजः समाधिः, कुतो विपाकजा प्रज्ञा यत्र विपाके स्थित्वा विपाकजैर् धर्मैः सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति, अन्नेन च पानेन च यानैश् च वस्त्रवस्तुगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिः शयनासनोपाश्रयेण प्रदीपेनान्यतरान्यतराभिर् वा मानुष्यकीभिः संपत्तिभिस् ताश् चास्य नोच्छेद्यन्ते यावत् परिनिर्वृतस्य शरीरे श्रावकेषु च विपच्यते तच् च न क्षीयते.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत एव सुभूते ऽनुपलंभस् तत एव प्रथमा भूमिर् द्वितीया भूमिस् तृतीया भूमिर् यावद् दशमी भूमिस् तस्यैव विपाकजाः पञ्चाभिज्ञास् ततश् चैवैं विपाकजं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञा च ततश् चैव कुशलमूलानि विपाकजानि यैः कुशलमूलैः सर्वसत्त्वानाम् अर्थं करोति बुद्धक्षेत्रञ् च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति. अन्नपानयानशयनासनवस्त्रगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिरूपाश्रयेण प्रादीपेनान्यतरान्यतराभिर् वा मानुष्योपकरणसंपत्तिभिस् ताश् चास्य नोपच्छिद्यन्ते, यावत् परिनिर्वृतस्य चैव पूजाः प्रवर्तन्ते शरीरे श्रावकेषु च विपच्यन्ते.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षान्तेश् च वीर्यस्य च ध्यानस्य च प्रज्ञायाश् चाभिज्ञानां च को विशेषः? किन् नानाकरणम्?
(प्स्प्_6-8:14)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनुपलंभस्य च सुभूते दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभिज्ञानां च न किञ्चिन् नानाकरणं येषां खलु पुनः सुभूते ऽनुपलिप्तं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाभिज्ञा च तेषां नानाकरणं निर्दिष्टम्.
सुभूतिर् आह: कथं पुनर् भगवन्न् अनुपलिप्तानां दानशीलक्षान्तिवीर्यध्यानप्रज्ञानाम् अभिज्ञानाञ् च न किञ्चिन् नानाकरणं निर्दिश्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलभ्य दानम् अनुपलभ्य प्रतिग्राहकं दानं ददाति, अनुपलभ्य शीलं रक्षति, अनुपलभ्य क्षान्त्या संपादयति, अनुपलभ्य वीर्यम् आरभते, अनुपलभ्य ध्यानं समापद्यते, अनुपलभ्य प्रज्ञां भावयति, अनुपलभ्याभिज्ञासु चरति, अनुपलभ्य स्मृत्युपस्थानां भावयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, अनुपलभ्य मार्गं भावयति, अनुपलभ्य त्रीणि विमोक्षमुखानि भावयति, अनुपलभ्यार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानि भावयति, अनुपलभ्य् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति, अनुपलभ्य सत्त्वान् परिपाचयति, अनुपलभ्य बुद्धक्षेत्रं परिशोधयति, अनुपलभ्य बुद्धधर्मान् बोधिम् अभिसंबुध्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलंभयोगेन प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति, मारैर् वा मारकायिकाभिर् वा देवताभिः.
इति सर्वधर्माभावस्वभावज्ञानेनानुपूर्वाभिसमयः
इत्य् उक्तो ऽनुपूर्वाभिसमयः
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अनुपूर्वाभिसमयाधिकारो
ऽनुक्रमशिक्षापरिवर्तः षष्ठः
(प्स्प्_6-8:15)
पञ्चविंशतिसाहस्रिका प्रजापारमिता विइ
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एकचित्तेन षट्प्रज्ञाः परिगृह्णाति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञा अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि परिगृह्णाति.
इत्य् एकचित्तक्षणाभिसमयः समान्येन
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यद् दानं ददाति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यद् अप्रमाणं समापद्यते, या आरूप्यसमापत्तीः, यत् स्मृत्युपस्थानं यं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गं भावयति, यद् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखं भावयति, याम् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां, यान् दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् यां महाकरुणां भावयति, यानि द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति, तन् नान्यत्र प्रज्ञापारमिरया परिगृहीतम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमितापरिगृहीतो बोधिसत्त्वो महासत्त्व एकचित्तेन षट्पारमिताः परिगृह्णाति? सर्वशून्यतां सर्वबोधिपक्षान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् (प्स्प्_6-8:16) महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीतो यद् दानं ददाति तत्र न द्वयसंज्ञी भवति, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति, यावद् बोधिपक्ष्यान् धर्मान् भावयति, तत्र न द्वयसंज्ञी भवति. एवम् आर्यसत्याप्रमाणध्याणारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान्, यां महाकरुणां, यानि द्वात्रिंशन्महापुरुषलक्षणानि, अशीत्यनुव्यञ्जनानि परिगृह्णाति, तत्र न द्वयसंज्ञी भवति.
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति न द्वयसंज्ञी भवति? एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयति, न च द्वयसंज्ञी भवति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति, न च द्वयसंज्ञी भवति, एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अभिनिर्हरति, न च द्वयसंज्ञी भवति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयति, स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गताः कृत्वा दानं ददाति, यावत् सर्वबोधिपक्ष्यान् धर्मान् अन्तर्गतां कृत्वा दानं ददाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यस्मिन् समये प्रज्ञापारमितायां चरन् दानं ददाति स तत्रानास्रवे चित्ते स्थित्वा दानं ददाति स तत्रानास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. कस्मै वा ददामि? किं वा ददामि? केन वा ददामि? स निमित्तापगतेन चित्तेन दानं ददाति, अनास्रवेण विगततृष्णेन विगतभवेन (प्स्प्_6-8:17) स तद् दानं न समनुपश्यति, तच् चित्तं न समनुपश्यति, तं प्रतिग्राहकं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन शीलं रक्षति, स तच् छीलं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन क्षान्त्या संपादयति, स तां क्षान्तिं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन वीर्यम् आरभते, स तद् वीर्यं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन ध्यानं समापद्यते, स तद् ध्यानं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन प्रज्ञां भावयति, स तां प्रज्ञां भावयन् न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयति, शून्यतानिमित्ताप्रणिहिताभिज्ञा सर्वशून्यता भावयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां भावयति, द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स तान् धर्मान् न समनुपश्यति, तच् (प्स्प्_6-8:18) चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
सुभूतिर् आह: कथं भगवन्न् अनिमित्तान् अभिसंस्काराणां धर्माणां दानपारमितापरिपूरिता भवति? एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिता भवति, चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य परिपूरिर् भवति, शून्यताया आनिमित्तस्याप्रणिहितस्य परिपूरिर् भवति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां सर्वशून्यतानां परिपूरिर् भवति, पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरिर् भवति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानं ददाति, अन्नपानवस्त्रयानशयनासनहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकोपाश्रयान् यावद् अन्यतरान्यतरान् मानुष्योपकरणपरिष्कारान् आध्यात्मिकां बाह्यां वा भार्यापुत्रदुहितृराज्यं वालंकृत्य दानं ददाति याचनकानान् तस्य कश्चिद् एवागत्यैवं वदेत्: किन् ते ऽनेन ईदृशेन दानेन दत्तेनैवं निरूपकारेण तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, किञ् चापीमे सत्त्वाः परिभाषन्ते, किन् ते ऽनेन वा दानेन वा दत्तेनैवम् आस्फारिकेन दत्तेनार्थस्य च दातव्यम् एवं मया दानं, न च मया न दातव्यम्. स दानं सर्वसत्त्वेषु साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति, किं वा ददामि, कस्मै वा ददामि, को वात्र ददाति, किं वा परिणामयति क्व वा परिनामयति, स तद् वस्तु न समनुपश्यति (प्स्प्_6-8:19) यत्र दत्त्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तत् कस्य हेतोः? अध्यात्मशून्यतया शून्यं बहिर्धाशून्यतया शून्यं यावद् अभावस्वभावशून्यतया शून्यं, स एवं पश्यति को वा परिणामयिष्यति कुत्र वा परिणामयिष्यति किं वा परिणामयिष्यति, तस्यैवं परिणामयतः परिणामो भवति निर्विषः परिणामो धर्मधातुपरिणामः सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रञ् च परिगृह्णाति, दानपारमितां च परिपूरयति, शीलपारमितां परिपूरयति, क्षान्तिपारमितां परिपूरयति, वीर्यपारमितां परिपूरयति, ध्यानपारमितां परिपूरयति, प्रज्ञापारमितां परिपूरयति, सप्तत्रिंशद्बोधिपक्स्यान् धर्मान् परिपूरयति, शून्यतानिमित्ताप्रणिहितसमाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयत्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम्
अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, तथा चैव दानपारमितां परिपूरयति, यथा चैव विपाकञ् च न परिगृह्णाति, तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां मनसैव सर्वोपकरणानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनसैव सर्वोपकरणं परिपूरयति, स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति, सदेवमानुषासुरञ् च लोकं संतर्पयति स तान् सत्त्वांस् तया दानपारमितया परिगृह्योपायकौशल्येन त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति.
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयति.

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तच् छीलम् आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं, शीलं प्रतिलभते, स चास्य शीलस्कन्धो ऽखण्डो भवत्य् अच्छिद्रो ऽशवलो ऽकल्माषो ऽपरामृष्टो ऽभुजिष्यः सुसमात्तो विज्ञप्रशस्तः, तेन च शीलेन कंचिद् धर्मं न परामृशति, रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा द्वात्रिंशन्महापुरुषलक्षणानि (प्स्प्_6-8:20) वाशीत्यनुव्यञ्जनानि वा क्षत्रियमहाशालकुलं वा ब्राह्मणमहाशालकुलं वा गृहपतिमहाशालकुलं वा चातुर्महाराजकायिकान् वा देवांस् त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्माणरतीन् वा परनिर्मितवशवर्तिनो वा ब्रह्मपारिषद्यान् वा ब्रह्मपुरोहितान् वा महाब्रह्माणो वा परीत्ताभान् वा अप्रमाणाभान् वा आभास्वराभान् वा परीत्तशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा अनभ्रकान् वा पुण्यप्रसवान् वा बृहत्फलान् वा असंज्ञिसत्त्वान् वा शुद्धावासान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अकनिष्ठान् वा आकाशानन्त्यायतनान् वा विज्ञानानन्त्यायतनान् वा आकिञ्चन्यायतनान् वा नैवसंज्ञानासंज्ञायतनान् वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धत्वं वा चक्रवर्तिराज्याधिपत्यं वा न परामृशति, अन्यत्र सर्वसत्त्वेषु साधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, अनिमित्तानुपलंभेनाद्वयेन परिणामयति, लोकव्यवहारेण न पुनः परमार्थेन, तया च शीलपारमितया परिपूर्णयोपायकौशल्येन चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादयोगेन दिव्यं चक्षुर् अभिनिर्हरति, येन दिव्यचक्षुषा विपाकजेन ये पूर्वस्यान् दिशि लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तान् पश्यति तच् चास्य दर्शनं च न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं दक्षिणस्यान् दिशि पश्चिमायान् दिश्य् उत्तरस्यान् दिश्य् ऊर्ध्वम् अधो विदिक्षु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तान् पश्यति तस्य दर्शनं न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण तेषां बुद्धानां भगवतां शब्दं शृणोति, तच् चास्य श्रुतं तावन् न नश्यति, यावन् न तेन श्रुतेनात्मनः परस्य चार्थं करोति, स चेतःपर्यायज्ञानेन तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति तेन चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, स (प्स्प्_6-8:21)
पूर्वनिवासानुस्मृतिज्ञानेनातीतं कर्म निर्दिशति येन कर्मणाकृतेन तत् कर्म न विप्रणस्यति, स आस्रवक्षयज्ञानेन च सत्त्वान्, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं यत्र यत्र प्रतिबलाः सत्त्वाः कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
सुभूतिर् आह: कथम् अनिमित्तानाम् अनाभोगानाम् अनुपलंभमानानाम् अप्रतिभानाम् अनभिसंस्काराणां धर्माणां क्षान्तिपारमितां परिपूरयति?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डे निषण्णस्य सर्वसत्त्वा आगत्य लोष्टदण्डप्रहारान् दह्युस् तत्र बोधिसत्त्वेन महासत्त्वेनैकचित्तस्यापि क्षोभसहगतस्यावकाशो न दातव्यस् तत्र च बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे यच् च सर्वसत्त्वानां क्षान्तव्यम् आक्रोशदण्डलोष्टप्रहारादिया चास्यानुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या तत्र बोधिसत्त्वेन महासत्त्वेनाक्रुश्यमानेन परिभाष्यमाणेन लोष्टदण्डशस्त्रप्रहारान् ददताम् एवं प्रत्यवेक्षितव्यं को मे आक्रोशति वा परिभाषते वा लोष्टदण्डशस्त्रैर् वा प्रहारान् ददाति तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यो धर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मांश् चैव नोपलभते कुतः पुनर् धर्माणां स्वभावम्. तस्यैवं धर्मस्वभावं प्रत्यवेक्षमाणस्यैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा स एवं प्रत्यवेक्षमाणो धर्माणां धर्मस्वभावम् अनुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते, तत्रानुत्पत्तिकेषु धर्मेषु क्षान्तिः किम् इति क्लेशानुत्पत्तिज्ञानानाच्छेद्यता च स इह द्वाभ्यां क्षान्तिभ्यां युक्तश् चत्वारि ध्यानानि परिपूरयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादानि पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि (प्स्प्_6-8:22) आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति, स इह धर्मेषु स्थित्वार्येष्व् अनास्रवेषु लोकोत्तरेषु साधारणेषु सर्वश्रावकप्रत्येकबुद्धैर् अभिज्ञाः परिपूरयति याभिर् अभिज्ञाभिः परिपूरिताभिः षड्भिश् च पारमिताभिः समुदागच्छति, स इहाभिज्ञासु स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति
यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण यत् ते बुद्धा भगवन्तो भाषिष्यन्ते तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्णं तथत्वाय सत्त्वानां धर्मन् देशयिष्यति तेषां च बुद्धानां भगवतां चेतसैव चेतः परिवितर्कम् आज्ञास्यत्य् एवं सर्वार्याणां सर्वश्रावकप्रत्येकबुद्धानां यावत् सर्वसत्त्वानां चेतसैव चेतः परिवितर्कम् आज्ञास्यति, स तेन चेतः पर्यायज्ञानेन सत्त्वानां चेतसैव चैत्तम् आज्ञाय तथत्वाय धर्मं देशयिष्यति, स पूर्वनिवासानुस्मृतिज्ञानेन तेषां सत्त्वानां कुशलमूलम् आज्ञाय तेन पूर्वेण कुशलमूलेन सत्त्वान् संदर्शयिष्यति समुत्तेजयिष्यति समादापयिष्यति, स आस्रवक्षयज्ञानेन च तान् सत्त्वांस् त्रिषु यानेषु निवेशयिष्यति प्रतिष्ठापयिष्यति, स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षान्तिपारमितां परिपूरयति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (प्स्प्_6-8:23) चरन्न् आनिमित्तेष्व् अनास्रवेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रतिभासेषु वीर्यपारमितां परिपूरयति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतः प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थध्यानसमापन्नो ऽनेकविधाम् ऋद्धिं प्रत्यनुभवति, यावच् चन्द्रसूर्यौ पाणिना परामृशति परिमार्ष्टि स तेन कायिकेन वीर्येण समन्वागतो येन दशसु दिक्षु बुद्धा भगवन्तो विहरन्ति सत्त्वानां धर्मं देशयन्ति, अनेकशतसहस्रेषु लोकधातुष्व् ऋद्ध्या गत्वा तान् बुद्धान् भगवत उपतिष्ठति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस् तस्य ते चीवरपिण्डपात्रास् तावन् न क्षीयन्ते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ऽभिसंबुद्धबोधेश् च सदेवमानुषासुरलोकः सुखी भवति, चीवरपिण्डपात्रेण परिनिर्वृतस्य च शरीरे पूजा प्रवर्तते, तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स न जातु विप्रणस्यति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वश् चैतसिकेन वीर्येण समन्वागत आर्येणानास्रवेण मार्गाङ्गेन मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयतीह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतो ऽकुशलस्य कायिककर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽकुशलस्य मनस्कर्मणो ऽवकाशं न ददाति न परामृशति नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वात्मेति वानात्मेति वा संस्कृतम् इति वासंस्कृतम् इति वा कामधातुम् इति वा रूपधातुम् इति वारूप्यधातुं वा सास्रवधातुं वानास्रवधातुं वा, प्रथमं वा ध्यानं द्वितीयं वा ध्यानं तृतीयं वा ध्यानं चतुर्थं वा ध्यानं मैत्रीं वा करुणां वा मुदितां वोपेक्षां वाकाशानन्त्यायतनं (प्स्प्_6-8:24) व विज्ञानानन्त्यायतनं वाकिंचन्यायतनं वा नैवसंज्ञानासंज्ञायतनं वा, स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वर्द्धिपादां वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वार्याष्टाङ्गिकं वा मार्गं शून्यतां वानिमित्तं वाप्रणिहितं वार्यसत्यानि वाभिज्ञा वा विमोक्षान्
वा नवानुपूर्वविहारसमापत्तीर् वा समाधीन् वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वावेणिकान् वा बुद्धधर्मान् न परामृशति नित्यानित्यसुखदुःखात्मानात्मशान्ताशान्त इति वा, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुत्तरां सम्यक्संबोधिं स्रोतआपन्नं वा सकृदागामिनं वानागामिनं वार्हत्त्वं वा प्रत्येकबुद्धं वा बोधिसत्त्वं वा बुद्धं वा भगवन्तं न परामृशतीमे सत्त्वा दर्शनभूमिप्रभाविताः, इमे सत्त्वास् तनुभूमिप्रभाविता इमे ऽवरभागिकप्रभाविताः, इमे ऊर्द्धभागिकप्रभाविता इमे सर्वज्ञताप्रभाविता इमे मार्गज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन स्वभावेन प्रभाव्येरन्, स तेन चैतसिकेन वीर्येण समन्वागतो मरणसुखे ऽपि वर्तमानः सत्त्वानाम् अर्थं करोति तांश् च सत्त्वान् नोपलभते वीर्यपारमितां परिपूरयति, तां च वीर्यपारमितां नोपलभते, बुद्धधर्मांश् च परिपूरयति, तांश् च बुद्धधर्मान् नोपलभते, बुद्धक्सेत्रं च परिशोधयति, तच् च बुद्धक्षेत्रं नोपलभते, स तेन कायिकेन चैतसिकेन वीर्येण समन्वागतस् तान् कुशलान् धर्मान् परिगृह्णाति, तत्र च न सज्जते, सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, लोकधातोर् लोकधातुं संक्रामति सत्त्वानाम् अर्थं करोति, सत्त्वानाम् अर्थं कुर्वन् येन येनर्द्धिप्रातिहार्येणेच्छति विकुर्वितुं तेन तेनर्द्धिप्रातिहार्येण विकुर्वति, यदि वा पुष्पवर्षेण यदि वा गन्धप्रमुञ्चनेन यदि वा गीताभरणेन यदि वा भूचलनेन यदि वा सप्तरत्नमयैर् लोकधातुसंदर्शनेन यदि वा ज्योतिरत्नानां सत्त्वानां कृतश आत्मानम् अवसृजति यदि वा गन्धम् अवसृजति यदि वा महायज्ञम् अवसृजति, यत्र न प्राणातिपातो (प्स्प्_6-8:25) वर्तते, यदि वानन्तान् सत्त्वान् मार्गे ऽवतारयति, यावत् प्राणातिपातात् परिमोचयति, अदत्तादानात् काममिथ्याचारान् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्धप्रलापाद् अभिध्याया व्यापादात् मिथ्यादृष्टेः परिमोचयति, कांश्चिद् दानेनानुगृह्णाति, कांश्चिच् छीलेन केषांचित् कृतशो ऽङ्गप्रत्यङ्गं परित्यजति
केषांचित् पुत्रदारकेणानुग्रहं करोति, केषांचिद् आर्येणात्मानम् अवसृजति, एवं येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्यः, तेन तेनोपायेन सत्त्वानाम् अर्थं करोति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति.
सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु स्थित्वा ध्यानपारमितां परिपूरयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं सर्वसमाधीन् परिपूरयति, स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः स वितर्कं स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यानम् उपसंपद्य विहरति, मैत्रीसहगतेन चित्तेन करुणासहगतेन मुदितासहगतेनोपेक्षासहगतेन चित्तेन यावत् सर्वावन्तम् लोकधातुम् उपसंपद्य विहरति, आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स तत्र ध्यानपारमितायां स्थित्वाष्टविमोक्षान् अनुलोमप्रतिलोमान् उपसंपद्य विहरति, नवानुपूर्वविहारसमापत्तीर् उपसंपद्य विहरति, शून्यतासमाधिम् उपसंपद्य विहरति, आनिमित्तसमाधिम् अप्रणिहितसमाधिम् उपसंपद्य विहरति, आनन्तर्यान् अपि समाधीन् उपसंपद्य विहरति, विद्युतोपमांश् च समाधिम् उपसंपद्य विहरति, सम्यक्संबोधिं वज्रोपमं च समाधिम् उपसंपद्य विहरति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति, समाधिपारमितायां स्थित्वा सर्वाकारज्ञताम् उपसंपद्य विहरति, यया सर्वाकारज्ञतया सर्वसमाधिगगनगतं (प्स्प्_6-8:26) कृत्वा शुक्लविदर्शना भूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं तनुभूमिं दर्शनभूमिं वीतरागभूमिं कृताविभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बुद्धभूमिं परिपूरयति, स आसु च भूमिषु चरति, न चान्तरा समाधिफलं प्राप्नोति, यावन् न सर्वाकारज्ञताम् अनुप्राप्स्यति, सो ऽत्र ध्यानपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धान् भगवतः पर्युपासमानः स तान् बुद्धान् भगवतः पर्युपास्ते तेषां बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति बुद्धक्षेत्रं च परिशोधयति, लोकधातोर् लोकधातुं संक्रामति, सत्त्वानाम् अर्थं करोति, तत्र कांश्चित्
सत्त्वान् दानेन संगृह्णाति कांश्चिच् छीलेन संगृह्णाति कांश्चित् क्षान्त्या संगृह्णाति कांश्चिद् वीर्येण संगृह्णाति, कांश्चिद् ध्यानेन संगृह्णाति, कांश्चित् प्रज्ञया संगृह्णाति, कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन कांश्चित् स्रोताअपत्तिफले प्रतिष्ठापयति, कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, यैर् यैः कुशलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र तान् सत्त्वान् नियोजयति स इह ध्यानपारमितायां स्थित्वा सर्वसमाधिमुखान्य् अभिनिर्हरति चतस्रश् च प्रतिसंविदः, प्रतिलभते विपाकजानाञ् चाभिज्ञानाम् लाभी भवति स न जातु मातुः कुक्षाव् उपपद्यते, न जातु कामान् प्रतिसेवते न सा काचिद् उपपत्तिर् यां न गृह्णाति न चोत्पत्तिर् दोषैर् लिप्यते. तत् कस्य हेतोः? तथा हि तेन मायोपमा सर्वधर्मा दृष्टाः सुप्रतिबुद्धा भवन्ति स मायोपमं सर्वसंस्कारगतं विदित्वा महाकरुणा प्रतिगृहीतः सर्वसत्त्वानाम् अर्थं करोति, न च तत्र सत्त्वान् सत्त्वप्रज्ञप्तिम् उपलभते, स सत्त्वान् सत्त्वप्रज्ञप्तिम् अनुपलंभमानः सर्वधर्माणाम् अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारम् उपादाय न च पुनः परमार्थेन इह ध्यानपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति न जातु ध्यानपारमितया विरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, (प्स्प्_6-8:27) स इह सर्वाकारज्ञतायां चरन् सर्वाकारज्ञताम् अभिनिर्हरति, यत्र स्थित्वा सर्ववासनानुसंधिं प्रजहाति, सर्ववासनानुसंधिं प्रहायात्मनो ऽर्थं कृत्वा परस्यार्थं करोति, स आत्मनः परस्य चार्थं कुर्वन् सदेवमानुषासुरलोकस्य दक्षिणीयो भवाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु ध्यानपारमितां परिपूरयति.

इति दानादीनाम् अन्यतमेन सर्वानास्रवैकलक्षणसंग्रहलक्षणो ऽयम् एकचित्तक्षणाभिसमयः प्रथमः
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनाप्रिपूरिम् गच्छति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं सद्भूतं वा परिनिष्पन्नं वा समनुपश्यति, स रूपस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, रूपस्योत्पादं न समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति, स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यन् रूपस्यायद्वारं न समनुपश्यति, संनिचयम् अपि न समनुपश्यति, एवं यावत् सर्वसास्रवानां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति, तुच्छकांश् चैव समनुपश्यति, एवं प्रत्यवेक्षमाणो रूपस्य स्वभावन् नोपलभते यावत् सर्वसास्रवाणाम् अनास्रवाणां धर्माणां स्वभावन् नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुचते, स एवम् अधिमुच्याध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् न केषु काचिद् धर्मेष्व् अभिनिविशते, रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु वा प्रतीत्यसमुत्पादाङ्गेषु वा पारमितासु वा शून्यतासु वा बोधिपक्ष्येषु वा धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (प्स्प्_6-8:28) शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु वानुत्तरायां सम्यक्संबोधौ वा नाभिनिविशते, अभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिमार्गं परिपूरयति, यद् उत षट्पारमिता यावत् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स विपाकजधर्मे बोधिसत्त्वमार्गे स्थित्वा षट्सु पारमितासु परिपूर्णासु यावत् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु परिपूर्णेसु यावद् विपाकजासु पञ्चस्व् अभिज्ञासु स्थित्वा ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये समाधिना ये प्रज्ञया ये विमुक्त्या ये विमुक्तिज्ञानदर्शनेनानुग्रहीतव्यास् तांस् तैर् अनुगृह्णाति, ये स्रोतआपत्तिफले प्रतिष्ठापयितव्या ये सकृदागामिफले ये ऽनागामिफले ये ऽर्हत्त्वे ये प्रत्येकबोधौ ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं विस्तरेण कर्तव्यं सो ऽनेकविधाम् ऋद्धिं कुर्वाणो गङ्गानदीवालुकोपमाम् लोकधातून् न गच्छति, स आकाङ्क्षंस् तां लोकधातून् यादृशै रत्नैर्
आकांक्षति तादृशै रत्नैर् अभिनिर्मिणोति स सत्त्वाभिप्रायं परिपूरयं लोकधातून् संक्रामति, स तां लोकधातून् दृष्ट्वा बुद्धक्षेत्रं परिगृह्णाति, तद्यथापि नाम परनिर्मितवशवर्तिनां देवानाम् उपभोगपरिभोगाः, ये ऽप्य् अन्ये लोकधातवो ऽपगतपापिष्ठा एवं विधास् तेनोपभोगपरिभोगाः स्युर् इति, स तया विपाकजया दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकजाभिर् अभिज्ञाभिर् विपाकजेन बोधिसत्त्वमार्गेण मार्गज्ञतायां चरन् सर्वपारमिताः प्राप्तः सर्वाकारज्ञताम् अनुप्राप्स्यति, यावत् सर्वञ् चैव रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपगृहीतं, यावत् सर्वधर्माः कुशला वाकुशला वा लौकिका वा लोकोत्तरा वा सास्रवा वानास्रवा वा संस्कृता वासंस्कृता वा सावद्या वानवद्या वा (प्स्प्_6-8:29) ऽपरिगृहीतं, तस्मात् तर्हि सुभूते तस्यानुत्तरं सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽपरिगृहीतः सर्वोपभोगो भविष्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृह्ल्ता अनुपलंभयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति.
इति विपाकधर्मतावस्थानास्रवसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयो द्वितीयः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् एवम् असंभिन्नेषु धर्मेष्व् आनिमित्तेषु लक्षणशून्येषु षट्पारमिताभावनापरिपूरिर् भवति, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः कथम् एषां सास्रवाणाम् अनास्रवाणां धर्माणां नानाकरणं प्रज्ञप्तं, कथम् एषान् नानाकरणं प्रज्ञायते, कथं दानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, कथं भगवन्न् एवम् अलक्षणेषु धर्मेष्व् एकलक्षणेषु यद् उतालक्षणेषु नानाकरणं प्रभाव्यते.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु च पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंभोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि समापद्यते प्रज्ञां भावयति स्वप्नोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति. तत् कस्य हेतोः? न हि स्वप्नं तस्य कश्चित् स्वभावो न हि प्रतिश्रुत्काया न हि प्रतिभासस्य न हि प्रतिबिंबस्य न हि मरीच्या न हि मायायाः, न हि निर्मितकस्य न हि गन्धर्वनगरस्य कश्चित् स्वभावो (प्स्प्_6-8:30) यस्य स्वभावो नास्ति तस्य नास्ति लक्षणं, यस्य च नास्ति लक्षणं स एकलक्षणो यद् उतालक्षणः, तद् अनेन सुभूते पर्यायेणैवं वेदितव्यम् अलक्षणं दानम् अलक्षणो दायको ऽलक्षणः प्रतिग्राहको ऽलक्षणाः सर्वधर्माः. एवं ज्ञात्वा दानं ददाति स दानपारमितां परिपूरयति, स दानपारमितां परिपूरयन् शीलपारमितायां न विवर्तते, क्षान्तिपारमितायां न विवर्तते, वीर्यपारमितायां न विवर्तते, ध्यानपारमितायां न विवर्तते, प्रज्ञापारमितायां न विवर्तते, स आसु षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानानि परिपूरयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गान् परिपूरयति, अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, शून्यतासमाधिम् आनिमित्तसमाधिम् अप्रणिहितसमाधिं परिपूरयति, अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः परिपूरयति, पञ्चधारणीमुखशतानि परिपूरयति, चतस्रः प्रतिसंविदश् चत्वार्य् आर्यसत्यानि परिपूरयति, दशतथागतबलानि
चत्वारि वैशारद्यान्य् अष्टादशावेणिकबुद्धधर्मान् परिपूरयति, इह विपाकजेष्व् आर्येष्व् अनास्रवेषु स्थित्वा दशसु दिक्षु ये लोकधातवस् तान् ऋद्ध्या गत्वा बुद्धांश् च भगवतः पर्युपास्ते तांश् चोपतिष्ठति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यसर्वोपकरणपरिष्कारैर् यावद् उपभोगपरिभोगैः सत्त्वानाम् अर्थं करोति, ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति ये शीलेण संग्रहीतव्या ये क्षान्त्या संग्रहीतव्या ये वीर्येण संग्रहीतव्या ये ध्यानेन संग्रहीतव्या ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति, यावद् ये सर्वैः कुशलैर् धर्मैः संग्रहीतव्यास् तान् सर्वान् कुशलैर् धर्मैः संगृह्णाति कुशलैर् धर्मैः समन्वागतः संसारं चोपाददाति न च संसारावचरैर् दुष्खैर् लिप्यते सत्त्वानां कृतशो देवमानुषिकीञ् च संपत्तिम् उत्पादयति, यया संपत्त्या सत्त्वान् संगृह्णाति, सो ऽलक्षणान् सर्वसत्त्वां ज्ञात्वा स्रोतआपत्तिफलं च जानाति न च तत्र तिष्ठति, सकृदागामिफलं च जानाति न च तत्र (प्स्प्_6-8:31) तिष्ठति, अनागामिफलं च जानाति न च तत्र तिष्ठति, अर्हत्त्वञ् च जानाति न च तत्र तिष्ठति, प्रत्येकबोधिं च जानाति न च तत्र तिष्ठति. तत् कस्य हेतोः? तथा हि तेन सर्वाकारज्ञतानुप्राप्तव्या यो ऽसाधारणा सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणान् सर्वधर्मान् ज्ञात्वा षट्पारमिता अलक्षणा जानाति, यावत् सर्वधर्मान् अलक्षणानि जानाति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति, स खलु पुनः स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चोपादानस्कन्धान् ज्ञात्वालक्षणां शीलपारमितां परिपूरयति, अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टाम् अभुजिष्यां विज्ञप्रशस्तां सुसमात्ताम् आर्याम् अनास्रवां मार्गाङ्गपर्यापन्नां यत्र स्थित्वा समताभिसंस्कारिकं शीलं रक्षति धर्मताप्रतिलंभिकं च विज्ञप्तिशीलं च समुदाचारशीलं च सो ऽनेनैवंरूपेण शीलेन समन्वागतो न परामृशति, अनेनाहं शीलेन क्षत्रियमहाशालकुलानां सहव्रतायोपपद्येयाहं ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्येयाहं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहव्रतायोपपद्येयाहं त्रयस्त्रिंशानां वा यामानां वा तुषितानां वा निर्मानरतीनां वा परनिर्मितवशवर्तिनां वा देवानां सहव्रतायोपपद्येयाहं ब्रह्मपार्षद्यानां वा ब्रह्मप्रोहितानां वा महाब्रह्माणां वा परीत्ताभानां वाप्रमाणाभानां वाभास्वराणां वा परीत्तशुभानां वाप्रमाणशुभानां वा शुभकृत्स्नानां वानभ्रकानां वा पुण्यप्रसवानां वा बृहत्फलानां वासंज्ञिसत्त्वानां वा शुद्धावासानां वा (प्स्प्_6-8:32) अस्पृहाणां वा अप्तपानां वा सुदृशानां वा सुदर्शनानां वा अकनिष्ठानां वा देवानां सहव्रतायोपपद्येयाहम् आकाशानन्त्यायतनानां वा विज्ञानानन्त्यायतनानां वाकिञ्चन्यायतनानां वा नैवसंज्ञानासंज्ञायतनानां वा सहव्रत्यायोपपद्येयाहं स्रोतआपत्तिफलं वानुप्राप्नुयां सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वानुप्राप्नुयाम्. तत् कस्य हेतोः? तथा हि सुभूते ऽलक्षणाः सर्वधर्मा एकलक्षणां यद् उताभावस्वभावलक्षणाः, न ह्य् अलक्षणो धर्मो ऽलक्षणं धर्मं परिपूरयति, नापि विलक्षणो धर्मो विलक्षणं धर्मं परिपूरयति, नाप्य् अविलक्षणो धर्मो ऽविलक्षणं धर्मं प्रापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां शीलपारमितां परिपूरयति, शीलपारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रान्तो ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभ्य मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकजाः प्रतिलभते, पञ्चसु धारणीमुखशतेषु स्थित्वा चतस्रः प्रतिसंविदः प्रतिलभते,

चतस्रः प्रतिसंविदः प्रतिलभ्य बुद्धक्षेत्रेण बुध्हक्षेत्रं संक्रामति बुद्धांश् च भगवतः पर्युपास्ते सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, स पञ्चगतिके संसारे संसरति न च संसारावचरेण कर्मणा विपाकजेन लिप्यते, तद्यथापि नाम निर्मितश् चंक्रमति च तिष्ठति च निषीदति च शय्यां च परिकल्पयति, न चास्यागमनं दृश्यते, न गमनं न स्थानं न निषद्यां न शय्यां नासनं न चंक्रमः स सत्त्वानां चार्थं करोति, न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, तद्यथापि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयति, अपरिमाणान् सत्त्वान् विनीय त्रिभिर् यानैर् न कश्चित् सत्त्वम् उपलभते, यम् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात् स आयुः संस्कारान् अवसृज्य निर्मितम् अभिनिर्मायानुपधिशेषे निर्वाणधातौ परिनिर्यायात्. स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य परिनिर्वृतस् तस्य च परिनिर्वृतस्य न कंचिद् (प्स्प्_6-8:33) वस्तूपलभ्यते, रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां परिपूरयति, यत् परिपूराव् अन्तर्गताः सर्वधर्मा भवन्ति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु क्षान्तिपारमितां परिपूरयति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा क्षान्तिपारमितां परिपूरयति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वश् चतसृभिः क्षान्तिभिः क्षान्तिपारमितां परिपूरयति, कतमाभिश् चतसृभिः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्डनिषण्णस्यात्रान्तरे सर्वसत्त्वा आक्रोशेयुर् वा परिभाषेरन् वासत्यया वाचा परुषया वा समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् वा दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेनैकचित्तोत्पादो ऽपि क्षोभसहगतो नोत्पादयितव्यः, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, तत् कस्य हेतोः? तथा हि सुभूते ऽस्यालक्षणाः, सर्वधर्माः क्षमन्ति तत् किं अस्यैवं भवति, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति स एवम् उपपरीक्षमाणः क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णयानुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कैषा भगवन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः किं वा एतस्याः प्रमाणं किं वा ज्ञानम्?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अणवो ऽपि सुभूते ऽकुशला धर्मा नोत्पद्यन्ते तेनोच्यन्ते ऽनुत्पत्तिका इति, तत्र या क्षान्तिस् तद् उच्यते ज्ञानं येन ज्ञानेनानुत्पत्तिकेषु धर्मेषु क्षान्तिं (प्स्प्_6-8:34) प्रतिलब्धते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: या च भगवन् श्रावकानां वा प्रत्येकबुद्धानां वानुत्पत्तिकेषु धर्मेषु क्षान्तिर् या च बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर् आसां क्षान्तीनां किं नानाकरणं कः प्रतिविशेषः.
भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च सकृदागामिनो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चानागामिनां ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चार्हतो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च प्रत्येकबुद्धस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धानां क्षान्तेर् बोधिसत्त्वक्षान्तेश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः इहैवं रूपया क्षान्त्या समन्वागतः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति विपाकजायाम् अनुत्पत्तिकायां क्षान्त्यां स्थित्वा बोधिमार्गे चरन् मार्गज्ञतां परिपूरयति, यया परिपूर्णयाविरहितो भवति सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैश् च समाधिभिः, स इह पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति सो ऽविरहितत्वाद् आभिः पञ्चभिर् अभिज्ञाभिः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं च परिशोध्य सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां क्षान्तिपारमितां परिपूरयति.
पुनर् अपरं सुभूत्र् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु वीर्यपारमितां परिपूरयति.
सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा वीर्यपारमितां परिपूरयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः कायिकं च चैतसिकं च वीर्यम् आरभते स कायिकेन वीर्येण ऋद्धिम् अभिनिर्हरति, (प्स्प्_6-8:35) दशदिग्लोकधातुं गत्वा बुद्धान् भगवतः पर्युपास्ते सत्त्वानां चार्थं करोति, स तेन कायिकेन वीर्येण सत्त्वान् पारिपाचयति त्रिषु यानेषु निवेशयति विनयति प्रतिष्ठापयति श्रावकयाने प्रत्येकबुद्धयाने ऽनुत्तरे बुद्धयाने. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां वीर्यपारमितां परिपूरयति, स चैतसिकेन वीर्येणानास्रवेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति, यत्र पर्यापन्नाः सर्वकुशला धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गमार्गं त्रीणि विमोक्षमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चत्वारि सत्यानि पञ्चाभिज्ञाः समाधिः धारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्यां परिपूर्णायां सर्ववासनानुसंधिं प्रहास्यति सर्ववासनानुसंधिं प्रहाय लक्षणपरिनिष्पत्तिं परिपूरयिष्यति, लक्षणपरिनिष्पत्तिं परिपूर्य प्रज्ञापारमितायां चरन् समन्तप्रभताम् आरागयिष्यति समन्तप्रभताम् आराग्य धर्मचक्रं च प्रवर्तयिष्यति द्वादशाकारन् त्रिपरिवर्तस्य प्रवर्ततेन त्रिसाहस्रो लोकधातुः षड्विकारं प्रकम्पिष्यते संप्रकम्पिष्यते प्रवेधिष्यते संप्रवेधिष्यते, प्रचलिष्यति संप्रचलिष्यति, सर्वे च त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फारिष्यति, तस्य पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शब्दो निश्चरिष्यति तत्र ये त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तं शब्दं श्रोष्यन्ति ते सर्वे नियता भविष्यन्त्य् अनुत्तरेषु त्रिषु यानेषु, एवं बहुप्रकारा सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता यस्यां वीर्यपारमितां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्तव्याः. एवं खलु
सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां वीर्यपारमितां परिपूरयति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेसु मायोपमेषु (प्स्प्_6-8:36) निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपदानस्कन्धेषु स्थित्वालक्षणेषु ध्यानपारमितां परिपूरयति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा ध्यानपारमितां परिपूरयति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति मैत्रीकरुणां मुदिताम् उपेक्षाम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति शून्यतानिमित्ताप्रणिहितसमाधीं भावयति विद्युतोपमञ् च समाधिं भावयति वज्रोपमञ् च समाधिं भावयति यत्र समाधौ स्थित्वा ये केचित् समाधयः, श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा ये ऽप्य् अन्ये समाधिगणास् तान् सर्वान् कायेन संस्पृश्योपसंपद्य विहरति, न च तान् समाधीन् आस्वादयति, न च समापत्तिफलम्. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वस् तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावत्वात् तत् किम् अलक्षणो धर्मो ऽलक्षणं धर्मम् आस्वादयिष्यति, अभावस्वभावो धर्मो ऽभावस्वभावं धर्मम् आस्वादयिष्यति, सो ऽनास्वादयन् न कस्यचित् समापत्तेर् वशेनोपपत्स्यते कामधातौ वा रूपधातौ वारूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तान् धातून् नोपलभते यो ऽपि समापद्येत येन वा समापद्यते, तम् अपि नोपलभते ऽनुपलंभमानो ऽलक्षणां ध्यानपारमितां परिपूरयति स तया ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितो न चेह शून्यतासु कश्चिद् धर्म उपलभ्यते यत्रावतिष्ठेत्, स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वार्हत्त्वे वा प्रत्येकबुद्धत्वे वा यावत् सर्वाकारज्ञतायां वा सापि शून्या शून्यतया, स आभिः शून्यताभिर् बोधिसत्त्वो (प्स्प्_6-8:37) महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति.
सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्यामः? कतमो नियामः?
भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभ आत्मः सर्वानुपलंभो नियामः.
सुभूतिर् आह: कतमो भगवन्न् उपलंभः? कतमो ऽनुपलंभः?

भगवान् आह: रूपं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, वेदना संज्ञा संस्कारा विज्ञानम् उपलंभः, चक्षुर् उपलंभः श्रोत्रं घ्राणं जिह्वा कायो मन उपलंभो, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा उपलंभः, चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदनोपलंभः, एवं श्रोत्रघ्राणजिह्वाकायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदनोपलंभः, पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् उपलंभः, प्रतीत्यसमुत्पाद उपलंभः, अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भावो जातिर् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा उपलंभः, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा उपलंभः, सर्वाकारज्ञताः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, अयम् उच्यते आमः, नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो नोपलभते, रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य यः स्वभावः सो ऽप्रव्याहारो वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यः स्वभावः सो ऽप्रव्याहारः, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा यः स्वभावः सो ऽप्रव्याहारः (प्स्प्_6-8:38) सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणां यः स्वभावः सो ऽप्रव्याहारः, आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां यः स्वभावः सो ऽप्रव्याहारः शून्यतानिमित्ताप्रणिहिताभिज्ञानां यः स्वभावः सो ऽप्रव्याहारो दशानां बोधिसत्त्वभूमीनां यः स्वभावः सो ऽप्रव्याहारः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यः स्वभावः सो ऽप्रव्याहारः, सर्वाकारज्ञताया यः स्वभावः सो ऽप्रव्याहारः, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, नियामम् अक्रान्तो बोधिसत्त्वो महासत्त्वः समाधिपरिपूर्णो न समापत्तिवशेनोपपद्यते, प्राग् एव रागं वा दोषं वा मोहं वोत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्याद् येन कर्माभिसंस्कारेण चतुर्णां ध्यानानाम् अन्यतमेनोपपद्येत नेदं स्थानं विद्यते ऽन्यत्र मायोपमेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति न च सत्त्वानुपलभमानः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति, यद् उतानुपलंभशून्यतानिमित्ताप्रणिहितचक्रम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमान् धर्मान् परिजानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् सर्वधर्मान् परिजानाति.
इत्य् अलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयस् तृतीयः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः स्वप्नोपमान् सर्वधर्मान् परिजानाति? प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् परिजानाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न स्वप्नं न स्वप्नदर्शिनं पश्यति, न प्रतिश्रुत्कान् न प्रतिश्रुत्कादर्शिनं, न प्रतिभासं न प्रतिभासदर्शिनं, न प्रतिबिंबं न प्रतिबिंबदर्शिनं, न मरीचिं न मरीचिदर्शिनं, न मायां न (प्स्प्_6-8:39) मायादर्शिनं, न निर्मितकं न निर्मितकदर्शिनं, न गन्धर्वनगरं न गन्धर्वनगरदर्शिनं च पश्यति. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्नो विपर्यासः, प्रतिश्रुत्का विपर्यासः प्रतिभासो विपर्यासः प्रतिबिंबं विपर्यासो मरीचिर् विपर्यासो माया विपर्यासो निर्मितको विपर्यासो गन्धर्वनगरं विपर्यास एष बालपृथग्जनानां पुनर् नापि स्वप्नदर्शनं नापि स्वप्नदर्शी न प्रतिश्रुत्कादर्शनं नापि प्रतिश्रुत्कादर्शी न प्रतिभासदर्शनं नापि प्रतिभासअदर्शी, न प्रतिबिंबदर्शनं नापि प्रतिबिंबदर्शी, न मरीचिदर्शनं न मरीचिदर्शी, न मायादर्शनं न मायादर्शी, न निर्मितकदर्शनं न निर्मितकदर्शी, न गन्धर्वनगरदर्शनं न गन्धर्वनगरदर्शी, एवं यावन् नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो महासत्त्वो न तथागतो ऽर्हन् सम्यक्संबुद्धः. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावाः सर्वधर्मा अनुत्पन्ना असद्भूता ये ऽभावस्वभावाः सर्वधर्मास् ते परिनिष्पन्नास् तत्र किं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वासद्भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभावो भवेत् परिनिष्पत्तिर् वा सद्भूतता वा, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न रूपे सज्जति, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने सज्जति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सज्जति, न प्रतीत्यसमुत्पादाङ्गेषु सज्जति, न कामधातौ न रूपधातौ नारूप्यधातौ सज्जति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न सज्जति, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न सज्जति, शून्यतानिमित्ताप्रणिहितसमाधौ न सज्जति, आर्यसत्येषु न सज्जति, दानपारमितायां न सज्जति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां

न सज्जति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमां भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि तां भूमिं नोपलभते, तत् किं तत्र च्छन्दरागं करिष्यत्य् एवं द्वितीयां भूमिं तृतीयां भूमिञ् चतुर्थां भूमिं पञ्चमीं भूमिं (प्स्प्_6-8:40) षष्ठीं भूमिं सप्तमीं भूमिम् अष्टमीं भूमिं नवमीं भूमिं दशमीं भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स ता भूमीर् नोपलभते, तत् किन् तत्र छन्दरागं करिष्यति, एवं दशम्यां भूमौ चरन् सर्वधर्माश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति, तांश् च सर्वधर्मान् नोपलभते. तत् कस्य हेतोः? तथा हि ते सर्वधर्माः सा च प्रज्ञापारमिताद्वयाद्वैधीकाराः. तत् कस्य हेतोः? तथा हि सर्वधर्माणां न कश्चिद् भेदो ऽस्ति धर्मधातुनिर्देशेन तथतानिर्देशेन भूतकोटिनिर्देशेनासंभिन्नाः सर्वधर्माः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवान्न् असंभिन्नता सर्वधर्माणां तत्र कथं कुशलधर्मनिर्देशो भवति सास्रवाणाम् अनास्रवाणाञ् च धर्माणां निर्देशो भवति, लौकिकलोकोत्तराणां वा संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति.
भगवान् आह: तत् किं मन्यसे? सुभूते या धर्माणां धर्मता सा कस्यचिद् धर्मस्य प्रव्याहारः संस्कृतस्य वासंस्कृतस्य वा स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वानागामिफलस्य वार्हत्त्वस्य वा प्रत्येकबोधेर् वा बोधिसत्त्वताया वा सम्यक्संबोधेर् वा.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, असंभिन्नाः सर्वधर्मा अलक्षणा अनुत्पन्ना अविनिर्भोगाः सर्वधर्मा न मया सुभूते सर्वां बोधिसत्त्वचर्यां चरता, कश्चिद् धर्मोपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धधात्वायतनानीति वा प्रतीत्यसमुत्पन्ना इति वा, प्रतीत्यसमुत्पादाङ्गानीति वा कामधातुर् वा रूपधातुर् वारूप्यधातुर् वा, कुशलाकुशला वा धर्माः सास्रवा वानास्रवा वा सावद्या वानवद्या वा संस्कृतम् इति वासंस्कृतम् इति वा यावच् छ्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा बोधिसत्त्वता वा सम्यक्संबोधिर् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोत्स्यते ऽनुपलंभयोगेन, एवं चरता (प्स्प्_6-8:41) सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां स्वभावे कुशलेन भवितव्यं, सर्वधर्माणां स्वभावकुशलो बोधिमार्गञ् च परिशोधयिष्यति, सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, यत्र स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् विनयिष्यति, ये विनीतत्वास् त्रिषु भवेषु न दृश्यन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् अलक्षणयोगेन.
इत्य् अद्वयलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयश् चतुर्थः

इत्य् उक्त एकक्षणाभिसमयः
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् एकक्षणाभिसमयाधिकारः शिक्षापरिसमाप्तिपरिवर्तः सप्तमः
(प्स्प्_6-8:42) : एम्प्त्य्
(प्स्प्_6-8:43)
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता विइइ
पुनर् अपरं सुभूते तेषाम् एव स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां सर्वाकारपरिशुद्धानाम् अनाश्रवाणां या प्रकृतिर् एकलक्षणा यद् उतालक्षणा स तथागतो ऽर्हन् सम्यक्संबुद्धो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
सुभूतिर् आह: कतमे पुनस् ते भगवन्न् अनास्रवाः सर्वधर्माः.
भगवान् आह: सप्तत्रिंशद् बोधिपक्ष्या धर्माश् चत्वार्य् अप्रमाणान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दश कृत्स्नायतनानि अष्टाव् अभिन्नायतनानि अरणसमाधिः प्रणिधिज्ञानम् षड् अभिज्ञाश् चतस्रः प्रतिसंविदः सर्वाकाराश् चतस्रः परिशुद्धयो दश पारमिआ दशबलानि चत्वारि वैशारद्यानि त्रीण्य् अक्षराणि त्रीणि स्मृत्युपस्थानानि असंप्रमोषधर्मता वासनासमुद्घातो महाकरुणा सर्वाकारज्ञता मार्गाकारज्ञता सर्वज्ञता च इमे उच्यन्ते सुभूते अनास्रवाः सर्वधर्मा इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाइप् शिक्षितव्यम्.
इति स्वभाविकः कायः
पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव धर्माणाम् अधिगमाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वेण सर्वं सर्वथा सर्वं द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्या चानुव्यञ्जनैर् अलंकृतकायस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां परमं महायानधर्मम् अनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति सांभोगिकः कायः
पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव सर्वधर्माणाम् अविगमेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अनन्तापर्यन्तेषु सर्वलोकधतुषु (प्स्प्_6-8:44) सर्वकालन् नानानिर्माणमेघेन सर्वसत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
इति नैर्माणिकः कायः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति, इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोत्रआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते, प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिंबोपमानां मरीच्युपमानां मायोपमानां निर्मितकोपमानां गन्धर्वनगरोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानम् इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बालो ऽश्रुतवान् पृथग्जनः स्वप्नम् उपलभते स्वप्नदर्शिनम् उपलभते, प्रतिश्रुत्काम् उपलभते प्रतिश्रुत्कादर्शिनम् उपलभते, प्रतिभासम् उपलभते प्रतिभासदर्शिनम् उपलभते, प्रतिबिंबम् उपलभते प्रतिबिंबदर्शिनम् उपलभते, मरीचिम् उपलभते मरीचिदर्शिनम् उपलभते, मायाम् उपलभते मायादर्शिनम् उपलभते, निर्मितकम् उपलभते निर्मितकदर्शिनम् उपलभते, गन्धर्वनगरम् उपलभते गन्धर्वनगरदर्शिनम् उपलभते, स्वप्नम् उपलभ्य स्वप्नदर्शिनम् उपलभ्य, यावद् गन्धर्वनगरम् उपलभ्य गन्धर्वनगरदर्शिनम् (प्स्प्_6-8:45) उपलभ्य, कुशलान् अभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसाकुशलान् वाभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसा पुण्यापुण्यानेञ्ज्यान् अभिसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयोः शून्यतयोः स्थित्वात्यन्तशुन्यतायाम् अनवराग्रशून्यतायाञ् च सत्त्वानां धर्मन् देशयति, शून्यम् इदं त्रैधातुकं नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धा वा धातवो वायतनानि वा प्रतिश्रुत्कैषा प्रतिभास एष मरीचिर् एषा निर्मितक एष गन्धर्वनगरम् एतन् नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धधातवो वायतनानि वा नास्त्य् अत्र स्वप्नो न स्वप्नस्य द्रष्टा, न प्रतिश्रुत्का न प्रतिश्रुत्काया द्रष्टा, न प्रतिभासो न प्रतिभासस्य द्रष्टा, न प्रतिबिंबं न प्रतिबिंबस्य द्रष्टा, न मरीचिर् न मरीच्या द्रष्टा, न मायां न मायाया द्रष्टा, न निर्मितको न निर्मितकस्य द्रष्टा, न गन्धर्वनगरं न गन्धर्वनगरस्य द्रष्टा, ऽपि तु सर्व एते धर्मा अवस्तुका अभावस्वभावास् तत्र भवन्तो ऽस्कन्धे स्कन्धसंज्ञिनः, अधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनः, अपि तु खलु पुनः प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिताः कर्मविपाकपरिगृहीताः, किं पुनर् यूयम् अवस्तुकेषु धर्मेषु वस्तुसंज्ञाम् उत्पादयथैवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये मत्सरिणः सत्त्वास् तान् मात्सर्यान् निवर्तयति, दानपारमितायां च नियोजयति, तेषाञ् च स दानपरित्यागो महाभोगतायै संवर्तते, स तांस् तत उच्चाल्य शीले

नियोजयति, तेषां स शीलसमादानजः पुण्यस्कन्धः स्वर्गोपपत्तये भवति, स तांस् तत उच्चाल्य समाधौ नियोजयति स तेषां समापत्तिजः पुण्यस्कन्धो ब्रह्मलोकोपपात्तये भवति, एवं प्रथमाद् ध्यानाद् द्वितीये ध्याने द्वितीयाद् ध्यानात् तृतीये ध्याने तृतीयाद् ध्यानाच् चतुर्थे ध्याने चतुर्थाद् ध्यानाद् ऊर्ध्वम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ च नियोजयति, स तस्माद् अपि दानाद् दानफलाच् चानेकपर्यायं (प्स्प्_6-8:46) विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तस्माच् छीलाच् छीलफलाच् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तेभ्यो ध्यानेभ्यो ध्यानफलेभ्यश् च समापत्तिभ्यः समापत्तिफलेभ्यश् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, एवं चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गिकमार्गे त्रिषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु निवेशयति विनयति प्रतिष्ठापयति, स एभिर् अनास्रवैर् धर्मैर् अरूपिभिर् अनिदर्शनैर् अप्रतिघैर् ये स्रोत्रआपत्तिफले स्थास्यन्ति तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले स्थास्यन्ति तान् सकृदागामिफले प्रतिष्ठापयति, ये ऽनागामिफले स्थास्यन्ति तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे स्थास्यन्ति तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकबोधौ स्थास्यन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ स्थास्यन्ति, तेषां सत्पुरुषाणां बोधिमार्गम् आख्याति उपदिशति समुत्तेजयति, संप्रकाशयति संप्रहर्षयति, प्रतिष्ठापयति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवनतम् एतद् अवोचत्: आश्चर्यम् एतत् भगवन्न् अद्भुतो धर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्वः, इह गम्भीरायां प्रज्ञापारमितायां चरन्न् अभावस्वभावानां धर्माणाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां स्थित्वा धर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे ऽकुशला धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सास्रवा धर्मा इमे ऽनास्रवा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्माः
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् आश्चर्यम् इदं सुभूते परमाश्चर्यम् इदं बोधिसत्त्वस्य महासत्त्वस्याद्भुतो धर्मो यद् इह गम्भीरायां प्रज्ञापारमितायां चरन् धर्माणां व्यवस्थानं करोति, सचेत् त्वं सुभूते जानीया यो बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मस् (प्स्प्_6-8:47) तं सर्वश्रावकप्रत्येकबुद्धा अपि च एवम् अपि बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रतिकारः कर्तुं तद् युष्माभिः सर्वैर् बोधिसत्त्वस्य महासत्त्वस्य न शक्यः सर्वधर्मा भावयितुं स्यात्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भूतो धर्मो यो न श्रावकप्रत्येकबुद्धानां संविद्यते?
भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्ठुश् च मनसिकुरु भाषिष्ये ऽहं ते, एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीद्, भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकजासु षट्सु पारमितासु स्थित्वा पञ्चस्व् अभिज्ञासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु धारणीमुखेषु चतसृषु प्रतिसंवित्सु स्थित्वा दशदिग्लोकधातुषु ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये क्षान्त्या ये वीर्येण ये ध्यानेन ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ध्यानेन ये तृतीयेन ध्यानेन ये चतुर्थेन ध्यानेन, ये आकाशानन्त्यायतनसमापत्त्या ये विज्ञानानन्त्यायतनसमापत्त्या ये आकिञ्चन्यायतनसमापत्त्या ये नैवसंज्ञानासंज्ञायतनसमापत्त्यानुग्रहीतव्यास् तान् अनुगृह्णाति, ये मैत्र्यानुग्रहीतव्या ये करुणया ये मुदितया ये उपेक्षया ये चतुर्भिः स्मृत्युपस्थानैः, ये चतुर्भिः सम्यक्प्रहाणैः, ये चतुर्भिः ऋद्धिपादैः, ये पञ्चभिर् इन्द्रियैः, ये पञ्चभिर् बलैः, ये सप्तभिर् बोध्यङ्गैर् ये आर्याष्टाङ्गिकेन मार्गेण, ये शून्यतया ये आनिमित्तेन ये ऽप्रणिहितेन समाधिनानुग्रहीतव्यास् तान् शून्यतानिमित्ताप्रणिहितसमाधिभिर् अनुगृह्णाति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य् अन्नम् अन्नार्थिकेभ्यो ददाति, पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाशयनासनं यावद् अन्यतरान्यतरं मानुष्योपकरणपरिष्कारं ददाति, यथैव (प्स्प्_6-8:48) तथागतयार्हते सम्यक्संबुद्धाय ददाति तथाइव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यस् तथाइव तिर्यग्योनिगतेभ्यः सर्वेभ्यो ऽनानात्वेन दानन् ददाति. तत् कस्य हेतोः? तथा ह्य् अनानात्वं सर्वधर्मं ज्ञात्वा अनानात्वं दानं ददाति, अनानात्वं दानं दत्वा अनानात्वस्य धर्मस्य लाभी भवति यद् उत सर्वाकारज्ञतायाः, सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य याचनकं दृष्ट्वा एवं चित्तम् उत्पद्यते, सम्यक्संबुद्धा मे दक्षिणीया न तिर्यग्योनिगता इति, न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि सुभूते बोधिसत्त्वो महासत्त्वो बोधाय चित्तम् उत्पाद्यैवम् अनुत्तरायां सम्यक्संबोधौ संप्रस्थित इमे मया सत्त्वा दानेनानुग्रहीतव्या इमे मया सत्त्वा दानेनानुग्रहीतव्या इति चिन्तयति, ते दानेनानुगृहीताः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते, ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते, गृहपतिमहासालकुलेषूपपत्स्यन्ते, तेनैव च दानानुग्रहेण त्रिभिर् यानैर् अनुपरिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, सचेद् एते बोधिसत्त्वं महासत्त्वं जनपदबलकाया अवध्यायेरन् तेन नान्यथाचित्तम् उत्पादयितव्यं दास्यामि वा न वा, अपि तु अकोपितमानसेन जनपदबलकायेभ्यो दानं दातव्यः. तत् कस्य हेतोः? तथा हि तस्य जनपदबलकायस्यार्थायानुत्तरायां सम्यक्संबोधौ संप्रस्थितः. एवं च पुनर् विकल्पयेद् गर्ह्यो भवेयं तेषां बुद्धानां भगवतां तेषां बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुषासुरस्य च लोकस्य केनायम् अधीष्टः सर्वसत्त्वानाम् अहं त्राणं भविष्यामि परायणं लयनं शरणम् इति.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता मनुष्यभूता वामनुष्यभूता वागत्याङ्गप्रत्यङ्गानि याचेरन्, तेन न द्विधा चित्तम् उत्पादयितव्यं, दास्यामि वा न दास्यामि वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय सञ्चिन्त्य आश्रयः परिगृहीतो ऽनेन मयात्मभावेन सत्त्वानाम् अर्थः करणीयः, तेनैवं चित्तम् उत्पादयितव्यं येषाम् अर्थे मयात्मभाव उपात्तस् ते ऽयाचितकम् एव गृहीत्वा गच्छन्तु. एवं खलु (प्स्प्_6-8:49) सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यम्. तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या न हि शून्यता कस्मैचिद् ददाति वा च्छिनत्ति वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यं, यद् उताध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां स्थित्वा दानं दातव्यं सततसमितम्.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वा, एवं चित्तम् उत्पादयितव्यं, को वेह दानन् ददाति, कस्मै वादीयते, किं वादीयते, तस्यैवं ददतो दानपारमितायां परिपूरिर् भविष्यति, सो ऽनया दानपारमितया परिपूर्या वा ह्य् अध्यात्मिकेषु धर्मेषु च्छिद्यमानेषु एवं चित्तम् उत्पादयिष्यति को मे च्छिनत्ति वा भिनत्ति वा.
इति सामान्येन निर्माणकायद्वारेण धर्मकायस्य कर्म
इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् संचिन्त्य महानिरयं पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण वा, ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य, आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति. ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अतिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति, तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधतुषु बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् सञ्चिन्त्य महानिरये पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण (प्स्प्_6-8:50) वा ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति, ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अभिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति.
इति नरकगतिप्रशमनकर्म
इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस् तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपनप्रियेण नाप्रियेण गौरवेण नागौरवेण यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसात्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस्, तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपेनप्रियेण नाप्रियेण गौरवेण नागौरवेण, यं च ते बुध्हा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयन्ति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
पुनर् अपरं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा दशसु दिक्षु बोधिसत्त्वान् महासत्त्वान् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिगतानां सत्त्वानाम् अर्थायात्मपरित्यागं कुर्वतस्, तत् ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा दशसु दिक्षु क्षिपन्ति, ये तिर्यग्योनिगताः सत्त्वास् तेसां बोधिसत्त्वानां महासत्त्वानां मांसानि भक्षयन्ति ते तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीं प्रतिलभन्ते, ते तेन मैत्रीप्रतिलाभेन ततस् तिर्यग्योनेर् व्युत्तिष्ठन्ति तिर्यग्योनेर् व्युत्थाय बुद्धां भगवत (प्स्प्_6-8:51) आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति, ते तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोन्ति, तन् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं बहुकराः सुभूते बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति चित्तम् उत्पाद्य तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा.
इति तिर्यग्योनिप्रशमनकर्म
इहाहं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा पश्यामि, दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये प्रेतविषयिकानां सत्त्वानां प्रेतविषयं दुःखं तत् सर्वं प्रतिप्रस्रं भयन्ति, ये प्रेतविषयेषु सत्त्वास् ते दुःखवेदना प्रस्रब्धकायास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीचित्तम् उत्पाद्यते न कुशलमूलेन ततः प्रेतयानेर् व्युत्तिष्ठन्ति व्युत्थिताश् च तेन कुशलमूलेन ततः प्रेतयाने बुद्धैर् भगवद्भिर् न जातु विरहिता भवन्ति, बुद्धां भगवत आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. एवं करुणा विहारिणः सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थाय प्रत्युपस्थिता यद् उत परिनिर्वाणाय.
इति यमलोकप्रशमनकर्म

इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् बोधिसत्त्वान् महासत्त्वान् पश्यामि दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु ये चातुर्महाराजकायिकानां देवानां धर्मं देशयन्ति, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां धर्मं देशयन्ति ते च देवपुत्रास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिकाद् धर्मं श्रुत्वानुपूर्वेण त्रिषु यानेषु परिनिवृताश् च परिनिर्वान्ति च (प्स्प्_6-8:52) परिनिर्वास्यन्ति च, तत्र सुभूते ये देवपुत्रा औदारिकैः पञ्चभिः कामगुणैर् मूर्छितास् तेषां तानि विमानान्य् आदीप्य धर्मं देशयन्त्य् अनित्याः खलु मार्षाः सर्वसंस्काराः कः संस्कारेषु विश्वस्तमानसो विहरेत्?
इहाहं सुभूते ऽनावरणेन बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये ब्रह्मदृष्टिम् अभिनिविष्टास् तान् दृष्टिभ्यो विवेचयन्ति, कथं भो मार्षाः शून्येषु सर्वधर्मेषु दृष्टिम् उत्पादयथ, एवं रिक्तेषु तुच्छेषु सर्वधर्मेषु दृष्टिम् उत्पादयथ. एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा करुणायां स्थित्वा सत्त्वानां धर्मं देशयन्ति. आश्चर्यम् इदं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अद्भुतो धर्मः.
इति देवगतिप्रशमनकर्म
इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये मनुष्यांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णन्ति, दानेन प्रियवद्यतया, अर्थक्रियया समानार्थतया, कथं सुभूते बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् अनुगृह्णाति, कतमाभ्यां द्वाभ्याम्? यद् उतामिषप्रदानेन च धर्मदानेन च. कथं सुभूते बोधिसत्त्वो महासत्त्व आमिषप्रदानेन सत्त्वान् अनुगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सुवर्णं वा रूप्यं वा मणिं वा मुक्तां वा वैडूर्यं वा शङ्खशिलां वा प्रवाडं वा रजतं वा जातरूपं वान्नं वा पानं वा यानं वा वस्तुं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्रतिश्रयं वा प्रदीपं वा स्त्रियं वा पुरुषं वा दारकं वा दारिकां वाश्वं वा गां वा अनड्वाहं वा हस्तिनं वा अजाविकं वा धान्यादीनि वा आत्ममांसं वा दातुशब्दम् अनुश्रावयति, आगच्छध्वं भोः पुरुषाः, येन येन युष्माकं कार्यं तत् तत् ममान्तिकान् निर्विशङ्का गृहीत्वा गच्छत. येन येन कृत्यं (प्स्प्_6-8:53) युष्मदीयम् एवेदं तद् दानं दत्वा बुद्धशरणं गमयति, धर्मशरणं गमयति, संघशरणं गमयति, कांश्चित् पञ्च शिक्षापदानि ग्राहयति, कांश्चिद् अष्टाङ्गिकं पोषधम् उपोषधयति, कांश्चिद् दश कुशलां कर्मपथां ग्राहयति, कांश्चित् प्रथमे ध्याने, कांश्चिद् द्वितीये, कांश्चित् तृतीये, कांश्चिच् चतुर्थे ध्याने, कांश्चिद् आकाशानन्त्यायतने, कांश्चिद् विज्ञानानन्त्यायतने, कांश्चिद् आकिञ्चन्यायतने, कांश्चिन् नैवसंज्ञानासंज्ञायतने, कांश्चिद् मैत्र्यां, कांश्चित् करुणायां, कांश्चिद् मुदितायां, कांश्चिद् उपेक्षायां समादापयति, कांश्चिद् बुद्धानुस्मृत्यां, कांश्चिद् धर्मानुस्मृत्यां, कांश्चित् संघानुस्मृत्यां, कांश्चिच् छीलानुस्मृत्यां, कांश्चित् त्यागानुस्मृत्यां, कांश्चिद् देवानुस्मृत्यां, कांश्चिद् अशुभपरिवर्तेषु समुच्छ्रयेषु, कांश्चिद् आकारेषु, कांश्चिच् चतुर्षु संग्रहवस्तुषु, कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु, कांश्चिच् चतुर्षु सम्यक्प्रहाणेषु, कांश्चिच् चतुर्ष्व् ऋद्धिपादेषु, कांश्चित् पञ्चस्व् इन्द्रियेषु, कांश्चित् पञ्चसु बलेषु, कांश्चित्
सप्तसु बोध्यङ्गेषु, कांश्चिद् आर्याष्टाङ्गिकमार्गे समादापयति, कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु, कांश्चित् समाधिसमापत्तिविमोक्षधारणीमुखेषु, कांश्चिद् अष्टषु विमोक्षेषु, कांचिन् नवसु अनुपूर्वविहारसमापत्तिषु, कांश्चिच् चतुर्ष्व् आर्यसत्येषु, कांश्चिद् दशेषु बोधिसत्त्वभूमिषु समादापयति, कांश्चिद् दशसु तथागतबलेषु, कांश्चिच् चतुर्षु वैशारद्येषु, कांश्चिच् चतसृषु प्रतिसंवित्सु, कांश्चिद् अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयति, कांश्चिद् महाकरुणायां कांश्चिद् अशीत्य् अनुव्यञ्जनेषु, कांश्चिद् द्वात्रिंशद् महापुरुषलक्षणेषु, कांश्चिच् छ्रोतआपत्तिफले, कांश्चित् सकृदागामिफले, कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोद्धौ प्रतिष्ठापयति, कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, कांश्चिद् दानपारमितायां, कांश्चिच् छीलपारमितायां, कांश्चित् क्षान्तिपारमितायां, कांश्चिद् वीर्यपारमितायां, कांश्चिद् ध्यानपारमितायां, कांश्चित् प्रज्ञापारमितायां प्रतिष्ठापयति, कांश्चिद् उपायपारमितायां प्रतिष्ठापयति, कांश्चित् प्रणिधानपारमितायां, कांश्चिद् बलपारमितायां, कांश्चिद् ज्ञानपारमितायां प्रतिष्ठापयति, कांश्चिद् अध्यात्मशून्यतायां, कांश्चिद् बहिर्धाशून्यतायां, कांश्चिद् अध्यात्मबहिर्धाशून्यतायाम्, एवं यावत् (प्स्प्_6-8:54) कांश्चिद् अभावस्वभावशून्यतायां प्रतिष्टाअपयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येण सत्त्वानाम् आमिषदानं दत्वा दाने योगक्षेमे मार्गे प्रतिष्ठापयति. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मः.
कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेनानुगृह्णाति? इमे सुभूते धर्मदाने कतमे द्वे लौकिकं च लोकोत्तरं च? कतमच् च सुभूते लौकिकं धर्मदानं या लौकिकानां धर्माणां सर्वे क्षणा देशना प्रकाशना विवरणोत्तानीकरणता, तद् यथाशुभपरिवर्तकस्य चतुर्णां ध्यानानां चतुर्णां ब्रह्मविहाराणां चतसृणाम् आरूप्यसमापत्तीनां, ये ऽप्य् अन्ये केचिद् लौकिकाधर्माः सा धारणा बालपृथग्जनैर् इदम् उच्यते लौकिकां धर्मदानम्. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः, इदं लौकिकं धर्मदानं दत्वा अनेकपर्यायेणानेकविधेनोपायेन ततः समादानाद् विवेचयति स विवेच्योपायकौशल्येनार्येषु धर्मेषु प्रतिष्ठापयति, आर्यधर्माणाञ् च फले, कतमे च ते आर्यधर्माः? कतमद् आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सुभूते सप्तत्रिंशद् बोधिपक्ष्या धर्माः, त्रीणि विमोक्षमुखानि, चत्वार्य् आर्यसत्यान्य्, आर्यधर्माणां फलं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् इति.

अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्मा यत् स्रोतआपत्तिफले ज्ञानं, यत् सकृदागामिफले ज्ञानं, यद् अनागामिफले ज्ञानं, यद् अर्हत्त्वे ज्ञानं, यत् प्रत्येकबोधौ ज्ञानं, यत् सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु ज्ञानं, यद् आर्यसत्येषु ज्ञानं, यद् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु ज्ञानं, याच् छून्यतानिमित्ताप्रणिहितेषु ज्ञानं, यद् अभिज्ञासु ज्ञानं, यद् दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु ज्ञानं, यद् महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं, यत् सर्वपारमितासु ज्ञानं, यत् सर्वशून्यतासु ज्ञानम्, इमे उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः, ये ऽपि चान्ये लौकिका वा लोकोत्तरा वा धर्माः, सास्रवा वा अनास्रवा वा संस्कृता वासंस्कृता वा, अन्यत्र (प्स्प्_6-8:55) सर्वाकारज्ञताज्ञानादय उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः.
अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्वस्यार्यधर्माणां फलं, यच् छ्रोतआपत्तिफलं सत्त्वान् प्रापयति, यावत् सर्वाकारज्ञतां सत्त्वान् प्रापयति, इदम् उच्यते आर्यधर्माणां फलम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति.
सुभूतिर् आह: नास्ति तर्हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च नानाकरणम्?
भगवान् आह: नास्ति नानाकरणम्.
सुभूतिर् आह: कथं नास्ति नानाकरणम्?
भगवान् आह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति, तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्रापयति. तत् कस्य हेतोः? न ह्य् अन्यद् बोधिसत्त्वानां महासत्त्वानां चित्तम् उपलभते, नान्यत् तथागतस्यार्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्माणाम् अनानाकरणताम् अनुप्राप्ताः, इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकं धर्मदानं यद् उपनिश्रयो भवति लोकोत्तरस्य धर्मदानस्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वाल् लोकोत्तरधर्मदाने नियोज्योपायकौशल्येन यावत् सर्वाकारज्ञतायां प्रतिष्ठापयति.
इति मनुष्यगतिप्रशमनकर्म
कतमच् च सुभूते बोधिसत्त्वानां महासत्त्वानां लोकोत्तरधर्मदानम्? यद् असाधारणं सर्वबालपृथग्जनैस् तद्यथा चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियानि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गश्, चत्वार्य् अप्रमाणानि, त्रयः समाधयश्, चत्वार्य् आर्यसत्यान्य्, अष्टौ विमोक्षा, नवानुपूर्वविहारसमापत्तयो, दश कृत्स्नान्य्, अष्टाव् अभिभ्वायतनान्य्, अरणा, प्रणिधिज्ञानं, षड् अभिज्ञाश्, चतस्रः प्रतिसंविदः, सर्वाकाराश्, (प्स्प्_6-8:56) चतस्रः परिशुद्धयः, दश वशिता, दश बलानि, चत्वरि वैशारद्यानि, त्रीणि रक्षाणि, त्रीणि स्मृत्युपस्थानानि, असंमोषधर्मता, वासनासमुद्घातो, महाकरुणा, ऽष्टादशावेणिका बुद्धधर्मा, द्वात्रिंशन् महापुरुषलक्षणान्य्, अशीत्य् अनुव्यञ्जनानि, इदम् उच्यते लोकोत्तरधर्मदानं न लौकिकम्.
कतमानि च सुभूते चत्वारि स्मृत्युपस्थानानि? अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन्न् अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये समुदयानुपश्यी च कायस्य विहरति, व्ययानुपश्यी च कायस्य विहरति, कायानुपश्यी च विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, एवं वेदनायां चित्ते ऽध्यात्मधर्मे धर्मानुपश्यी विहरति बहिर्धाधर्मे धर्मानुपश्यी विहरति, अध्यात्मबहिर्धाधर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये समुदयानुपश्यी च धर्माणां विहरति, व्ययानुपश्यी च धर्माणां विहरति, धर्मे धर्मानुपश्यी विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, इमान्य् उच्यन्ते चत्वारि स्मृत्युपस्थानानि.
कतमानि च सुभूते चत्वारि सम्यक्प्रहाणानि? अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दञ् जनयति, उत्पन्नानां प्रहाणाय छन्दञ् जनयति, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दञ् जनयति, उत्पन्नानां कुशलानां धर्माणां भूयोभावाय छन्दञ् जनयति, इमान्य् उच्यन्ते चत्वारि सम्यक्प्रहाणानि.
कतमे च सुभूते चत्वार ऋद्धिपादाः? छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादश् चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः, इम उच्यते चत्वार ऋद्धिपादाः.
कमानि च सुभूते पञ्चेन्द्रियानि? श्रद्धेन्द्रियं वीर्येन्द्रियं, स्मृतीन्द्रियं समाधीन्द्रिय्ं प्रज्ञेन्द्रियं, इमान्य् उच्यन्ते पञ्चेन्द्रियानि.
कतमानि च सुभूते पञ्च बलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम्, इमान्य् उच्यन्ते पञ्च बलानि.
(प्स्प्_6-8:57)
कतमानि च सुभूते सप्त बोध्यङ्गानि? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रस्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्, इमान्य् उच्यन्ते सप्त संबोध्यङ्गानि.
कतमश् च सुभूते आर्याष्टाङ्गमार्गः? सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयम् उच्यते आर्याष्टाङ्गो मार्गः.
कतमानि च सुभूते चत्वार्य् अप्रमाणानि? मैत्रीकरुणामुदितोपेक्षाः, इमान्य् उच्यन्ते चत्वार्य् अप्रमाणानि.
कतमे च सुभूते त्रयस् समाधयः? शून्यतानिमित्ताप्रणिहितास् समाधयः, कतमश् च शून्यतासमाधिर् या शून्यताकारेण विविक्ताकारेण तुच्छाकारेण रिक्ताकारेण निःस्वभावसंस्कारेण च चित्तस्यैकाग्रतायम् उच्यते शून्यतासमाधिः, कतमश् चानिमित्तः समाधिर् या शान्ताकारेण विविक्ताकारेण च चित्तस्यैकाग्रता, अयम् उच्यते आनिमित्तसमाधिः, कतमश् चाप्रणिहितः समाधिर् यानित्याकारेण दुःखाकारेण विपर्यासाकारेण च चित्तस्यैकाग्रता, अयम् उच्यते ऽप्रणिहितः समाधिर्, इम उच्यन्ते त्रयः शून्यतानिमित्ताप्रणिहितसमाधयः.
कतमानि च सुभूते चत्वार्य् आर्यसत्यानि? दुष्खं समुदयो निरोधो मार्ग इमान्य् उच्यन्ते चत्वार्य् आर्यसत्यानि.
कतमे च सुभूते अष्टौ विमोक्षा? रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञां बहिर्द्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत्य् अयं तृतीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमां नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधम् (प्स्प्_6-8:58) उपसंपद्य विहरति, इमे उच्यन्ते अष्टौ विमोक्षाः.

कतमाश् च सुभूते नवानुपूर्वविहारसमापत्तयः? इहैकेभ्यो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्ष्यको विहरति, स्मृतिमान् संप्रजानं सुखञ् च कायेन प्रतिवेदयते, यत् तदार्य आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वाम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति, आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति, विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य्, आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, इमा उच्यन्ते नवानुपूर्वविहारसमापत्तयः.
कतमानि च सुभूते दश कृत्स्नानि? पृथिवीकृत्स्नम् अप्कृत्स्नन् तेजःकृत्स्नं वायुकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नम् अवदातकृत्स्नं विज्ञानकृत्स्नम् आकाशकृत्स्नम्, इमान्य् उच्यन्ते दश कृत्स्नानि.
कतमानि च सुभूते अष्टाव् अभिभ्वायतनानि? अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति तथा संज्ञी भवति. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति महद्गतानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. अध्यात्मम् अरूपसंज्ञी च बहिर्धारूपाणि पश्यति, नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि (प्स्प्_6-8:59) लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानि, तद्यथा उमकपुस्पं संपन्नं वाराणसेयकं वस्त्रं, कर्णिकारपुष्पं संपन्नं वाराणसेयकं वस्त्रं, बन्धूकपुष्यं संपन्नं वराणसेयकं वस्त्रम्, उषसि तारकाया वर्णैः संपन्नं वाराणसेयकं वस्त्रम्. इमान्य् उच्यन्ते अष्टाव् अभिभ्वायतनानि.
कतमा च सुभूते अरणा? ध्यानं निश्रित्य परक्लेशानुत्पत्तेर् अनुरक्षाविहारसुसमृद्धो यः समाधिः प्रज्ञा तत् संप्रमुक्ताश् च चित्तचैतसिका धर्माः, इयम् उच्यन्ते अरणा.
कतमच् च सुभूते प्रणिधिज्ञानम्? ध्यानं निश्रित्य इदं जानीयाम् इति प्रणिधानसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्माः, इदम् उच्यते प्रणिधिज्ञानम्.
कतमाश् च सुभूते षड् अभिज्ञा? ऋद्ध्यभिज्ञा, दिव्यं चक्सुर्, दिव्यं श्रोत्रं, परचित्तज्ञानं, पूर्वनिवासानुस्मृतिः, आस्रवक्षयज्ञानं, साक्षात्क्रियाभिज्ञा च, इमा उच्यन्ते षड् अभिज्ञाः.
कतमाश् च सुभूते चतस्रः प्रतिसंविदः? ध्यानं निश्रित्य पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदेष्व् अव्याघातसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्मा, इमा उच्यन्ते चतस्रः प्रतिसंविदः.
कतमाश् च सुभूते सर्वाकाराश् चतस्रः परिशुद्धयः? आशयपरिशुद्धिर् आलम्बनपरिशुद्धिश् चित्तपरिशुद्धिर् ज्ञानपरिशुद्धिश् चेमा उच्यन्ते सर्वाकाराश् चतस्रः परिशुद्धयः.
कतमाश् च सुभूते दश वशिताः? आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, कर्मवशिता, उपपत्तिवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, ऋद्धिवशिता, ज्ञानवशिता, धर्मवशिता, इमा उच्यन्ते दश वशिताः.
कतमानि च सुभूते दश तथागतबलानि? स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मस्वकतां यथाभूतं प्रजानाति, ध्यानविमोक्षसमाधिसमापत्तीन्द्रियबलबोध्यङ्गमार्गान् यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियवरावरज्ञानतां यथाभूतम् (प्स्प्_6-8:60) प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतां प्रजानाति, अनेकधातुं नानाधातुकं लोकसंनिवेशं यथाभूतं प्रजानाति, सर्वत्रगामिनीं च प्रतिपदं यथाभूतं प्रजानाति, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावत् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते ये सत्त्वास् तान् यथाभूतं प्रजानाति, अनेकविधं पूर्वनिवासम् अनुस्मरति, एकां वा जातिं जातिशतं वा जातिसहस्रं वा जातिशतसहस्रं वा जातिकोटीनियुतशतसहस्रं वा यावत् पूर्वान्तकोटिशो यावत् साकारं सोद्देशं सनिदानं यथाभूतं प्रजानाति, आस्रवक्षयेणानास्रवां चेतोविमुक्तिं यथाभूतं प्रजानाति, इमान्य् उच्यन्ते दश तथागतबलानि.
कतमानि च सुभूते चत्वारि वैशारद्यानि? सम्यक्संबुद्धस्य च मे प्रतिजानत इमे धर्मा नाभिसंबुद्धा इत्य् अत्र मे कश्चित् सदेवके लोके समारके, सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां वा धर्मा कोपयेद् इति निमित्तम् एवं न समनुपश्यामि, एवं वाहन् निमित्तम् असमनुपश्यं क्षमप्राप्तो ऽभयप्राप्तो विहरामि, यावद् अप्रवर्तिकं धर्मचक्रं प्रवर्तयामि, श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वान्येन केनचिद् वा पुनर् लोके ऽस्मिन् सहधर्मेण, क्षीणास्रवस्य च मे प्रतिजानत इमे ऽनास्रवा धर्मा अपरिक्षीणा इत्य् अत्र मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामि या मया श्रावकानां प्रतिपद् आख्याता आर्या नैर्याणिकी सम्यग् दुःखक्षयाय तां प्रतिषेधमानो न निर्यायात्, सम्यग् दुःखक्षयायेति, स्थानम् एतन् न समनुपश्यामि यावद् धर्मचक्रं प्रवर्तयामि, ये वा मया श्रावकेभ्य आन्तरायिका धर्मा आख्यातास् ते प्रतिषेधमाणा नालम् अन्तेरायायेति मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामीमान्य् उच्यन्ते चत्वारि वैशारद्यानि.
कतमानि च सुभूते त्रीण्य् आरक्षाणि? परिशुद्धं कायकर्म परिशुद्धं वाक्कर्म परिशुद्धं मनस्कर्मेतीमान्य् उच्यन्ते त्रीण्य् आरक्षाणि.
कतमानि च सुभूते त्रीणि स्मृत्युपस्थानानि? श्रोतुकामेष्व् अश्रोतुकामेष्व् उभयकामेषु तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुनयप्रतिघविविक्त एवोपेक्षको विहरति स्मृतिमान् संप्रजानन्न् इमान्य् उच्यन्ते त्रीणि (प्स्प्_6-8:61) स्मृत्युपस्थानानि.
कतमा च सुभूते ऽसंमोषधर्मता? सर्वकृत्येषु सर्वदेशेषु सर्वोपायेषु सर्वकालेषु सदोपस्थितस्मृतिता, इयम् उच्यते असंमोषधर्मता.
कतमश् च सुभूते वासनासमुद्घातः? सर्वेण सर्वं सर्वथा सर्वं क्लेशसंगाव् असदृशचेष्टो ऽसमुदाचारो ऽयम् उच्यते वासनासमुद्घातः.

कतमा च सुभूते महाकरुणा? या सर्वकालं सर्वसत्त्वेषु निरुत्तरा हितसुखाध्याशयतेयम् उच्यते महाकरुणा.
कतमे सुभूते अष्टादशावेणिकबुद्धधर्माः? यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽत्रान्तरे तथागतस्य नास्ति स्खलितं, नास्ति रवितं, नास्ति मुषिता स्मृतिर्, नास्ति असमाहितं चित्तं, नास्ति नानात्वसंज्ञा, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दस्य हानिर्, नास्ति वीर्यस्य हानिर्, नास्ति स्मृतेर् हानिर्, नास्ति समाधेर् हानिर्, नास्ति प्रज्ञाया हानिर्, नास्ति विमुक्तेर् हानिर्, अतीते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, अनागते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, सर्वकायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्तीमे उच्यन्ते ऽष्टादशावेणिका बुद्धधर्माः.
कतमानि च सुभूते तथागतस्य द्वात्रिंशद् महापुरुषलक्षणानि? चक्राङ्कितहस्तपादता, सुप्रतिष्ठितपादता, जालहस्तपादता, मृदुतरुणहस्तपादता, सप्तोच्छ्रयता, दीर्घाङ्गुलिता, आयतपार्ष्णिता, बृहदृजुगात्रता, उच्छङ्खपादता, ऊर्ध्वंगरोमता, एणेयजङ्घता, पटूरुबाहुता, कोशावहितवस्तिगुह्यता, सुवर्णवर्णता, श्लक्स्णच्छविता, एकैकप्रदक्षिणावर्तरोमता, ऊर्णाङ्कितमुखता, सिंहपूर्वार्धकायता, सुसंवृतस्कन्धता, चितान्तरांसता, रसरसज्ञता, न्यग्रोधपरिमण्डलता, उष्णीषशिरस्कता, पृथुतनुजिह्वता, ब्रह्मस्वरता, सिंहहनुता, सशुक्लदन्तता, समदन्तता, अविरलदन्तता, समचत्वारिशद्दन्तता, अभिनीलनेत्रता, गोपक्ष्मनेत्रता चेति, तत्र चक्राङ्कितहस्तपाद इति चक्राणि तथागतस्य हस्तपादतले जातानि भवन्ति, सहस्राराणि (प्स्प्_6-8:62) सनेमिकानि सनाभिकानि, सर्वाकारपरिपूर्णानि, तद्यथा अस्थिमयं वा दन्तमयं वा बिंबम् उत्कीर्णं स्यात्, समं पाणितलाभ्यां पृथिवीसंस्पर्शनाद् असंकुचितत्वात् पादयोः सुप्रतिस्थितपाणिपादता, हंसराजस्येव जालपिनद्धाङ्गुलिपाणिपादत्वाज् जालहस्तपादः, तूलपिचूपमतरुणसुकुमारतालकोमलपाणिपादत्वाद् मृदुतरुणहस्तपादः समुच्छ्रितहस्तपादः, शिरोग्रीवाप्रदेशत्वात् सप्तोच्छ्रयः, आयतहस्तपादाङ्गुलित्वाद् दीर्घाङ्गुलिः, दीर्घपार्ष्णित्वाद् आयतपार्ष्णिः, सप्तार् अभ्युच्छ्रितत्वाद् अवक्रगात्रत्वाद् बृहदृजुगात्रः, उच्चैः सुनिगूढजानुगुल्फत्वाद् उच्छङ्खपादः, ऊर्ध्वप्रदक्षिणावर्तकुण्डलरोमत्वाद् ऊर्ध्वाङ्गरोमा, शरभैणेयेयजङ्घत्वाद् अनुपहतत्वाद् अनुपूर्वोपचितवृत्तजङ्घत्वाच् चैणेयजङ्घः, समोरुबाहुत्वाद् अवनतस्य पाणितलाभ्यां जानुमण्डलस्पर्शनात् पटूरुबाहुः, परमाभिरूपकोशनिगूढमेहनत्वाद् वस्त्यश्वाजानेयवत्कोशावहितवस्तिगुह्यः, उत्तप्तहाटकसुवर्णवर्णत्वात्
सुवर्णवर्णः, रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानच्छवित्वाद् रजसानुपलिप्तगात्रत्वाच् छ्लक्ष्णच्छविः, सुविभक्तैकैका द्वितीयजातरोमत्वाद् एकैकरोमा, अवदातकुन्देन्दुगोक्षीरतुषारवर्णचन्द्रसूर्यशतातिरेकप्रभया ऊर्णया भ्रुवोर् अन्तरे कृतालंकारत्वाद् आस्यस्योर्णाङ्कितमुखः, उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः, सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः, काञ्चनपट्टसुविमृष्टो परितोषस्कन्धत्वाच् चितान्तरांसः, वातपित्तश्लेष्माभिर् अनुपहतसमनत्वाद् रसरसप्रतिभावनत्वात् सदृशविज्ञानत्वाच् च रसरसज्ञः, कायस्य व्यामसमारोहपरिणाहप्रमाणत्वान् न्यग्रोधपरिमण्डलः, वृत्तपरिमण्डलदक्षिणा वर्तोष्णीषसमानसू पहितदर्शनीयशिरस्कत्वाद् उष्णीषशिराः, रक्तोत्पलपत्त्रसमवर्णापतत्वात् पृथुतनुजिह्वः, हिरण्यगर्भकलविङ्कशकुनिसदृशस्वरत्वाद् ब्रह्मस्वरः, आदर्शमण्डलवत्सुपरिवृत्तोपचितदर्शनीयहनुत्वात् सिंहहनुः, कुन्देन्दुशंखाव् अभेदकवत्सितदन्तत्वाच् छुक्लदन्तः, अनुन्नतदन्तत्वात् समदन्तः, निरन्तरत्वाद् अविरलदन्तः, अध ऊर्ध्वं चानतिरिक्तत्वात् समचत्वारिंशद्दन्तः, कृष्णशुभ्रदेशानुपक्लिष्टसुविशुद्धत्वाल् लोहितराजिभिर् अपिनद्धत्वाच् चाभिनीलनेत्रः, अधःस्थितानाम् ऊर्ध्वस्थितानां च सम्य्गवनतत्वाद् (प्स्प्_6-8:63) असंलुडितत्वाच् च पक्ष्मणो गोपक्ष्मनेत्रस् तथागतो भवति.
ततः चक्राङ्कहस्तपादो भवति गुरूणाम् अनुगमनप्रत्युद्गमनाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुयानप्रभृतिषु परिवारदानाच् चक्राङ्कहस्तपादो भवति, तत् पुनर् महापरिवारतायाः, पूर्वनिमित्तं, दृढसमादानत्वात् सुप्रतिष्ठितपाणिपादस् तद् अकम्पनीयतायाः पूर्वनिमित्तं, चतुर्णां संग्रहवस्तूनां दानप्रियवद्यार्थचर्यासमानार्थतानाम् आसेवनाज् जालहस्तपादस् तत् क्षिप्रसंग्रहतायाः पूर्वनिमित्तं, प्रणीतानाम् अशितपीतलीढखादितास्वादितान् आदानात् मृदुतरुणहस्तपादः, सप्तोच्छ्रयश् वा तद् उभयं प्रणीतानाम् एवाशितपीतलीढखादितास्वादितानां प्रतिलब्धये पूर्वनिमित्तं, वध्यपरिमोक्षणाज् जीवितानुग्रहकरणात् प्राणातिपाताच् च प्रतिविरतेर् आसेवनाद् दीर्घाङ्गुलिर् आयतपादपार्ष्णिर् बृहदृजुगात्रश् च तद् दीर्घायुष्कतायाः पूर्वनिमित्तं, कुशलस्य धर्मसमादानस्योपात्तस्याभिवर्धनाद् अपरिहाणाच् चोच्छङ्खपादश् चोर्ध्वाङ्गरोमा च तद् अपरिहाणिधर्मताया विनये वा पूर्वमिमित्तं, सत्कृत्यशिल्पविद्याकर्मणाम् उपप्रदानाद् उपादानप्रदानाच् चैणेयजङ्घस् तत् क्षिप्रग्रहणतायाः पूर्वनिमित्तं, स्वतः संविद्यमानस्यार्थस्य याचितेन दानाद् अप्रत्याख्यानाच् च पटूरुबाहुस् तद् वशितायाः प्रदाने विनये वा पूर्वनिमित्तं, मित्रस्वजनसंबन्धिसङ्गतानाम् अन्योन्याविप्रयोजनाद् विप्रयुक्तानां च सत्त्वानां ब्रह्मचर्यसमादानाद् गुह्यमन्त्ररक्षणाच् च कोशावहितमस्तिगुह्यस् तद् बहुपुत्रतायाः पूर्वनिमित्तं, प्रणीतानाम् उपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानाञ् च दानात् सुवर्णवर्णः श्लक्ष्णच्छविश् च तद् उभयं प्रणीतानाम् एवोपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानां च प्रतिलब्धये पूर्वनिमित्तं, संगणिकापरिवर्जनाद् उपाध्यायाचार्यमातापितृभ्रातृप्रभृतीनां च गुरूणां यथानुरूपोपस्थाननिवेशनात् तद् अध्यक्षाप्रदानाच् च विकृतानाम् एकैकप्रदक्षिणावर्तरोमा ऊर्णाङ्कितमुखश् च तद् अप्रतिसमतायाः पूर्वनिमित्तं, अमुखरवचनाद् अनवसादनात् प्रियवादित्वात् सुभाषितानुरोमत्वाच् च सिंहपूर्वार्धकायः, सुसंवृतस्कन्धश् च तद् अप्रतिहततायाः पूर्वनिमित्तं, व्याधितेभ्यो भैषज्यपरिचारकचिकित्सकपथ्यभोजनानां (प्स्प्_6-8:64) प्रदानाद् उपस्थानाच् च चितान्तरांसः, रसरसज्ञश् च तद् अल्पाबाधतायाः पूर्वनिमित्तम्, आरामसभाश्रयोदपानदुर्गसंक्रमभक्तमाल्यविहारावसथविहारकरणप्रभृतिषु परेषाम् उत्साहनपूर्वङ्गमत्वात् परेभ्यो ऽभ्यधिकप्रदानाच् च न्यग्रोधपरिमण्डल उष्णीषशिराश्

च तद् आधिपत्यप्रतिलंभाय पूर्वनिमित्तं, दीर्घरात्रश्लक्ष्णप्रियमधुरवचनाभिधानात् प्रभूतजिह्वो ब्रह्मस्वरश् च तत् पञ्चाङ्गवाक्यथोपेतस्य स्वरस्य प्रतिलब्धये पूर्वनिमित्तं, पञ्चाङ्गवाक्यथोपेतः पुनः स्वरः, आज्ञेयो विज्ञेयः श्रवनीयो न प्रतिकूलः, गम्भीरो ऽनुनादी, अनेलः कर्णसुखो विदुरवकीर्ण इति, दीर्घरात्रं संभिन्नप्रलापविरतेः कालवादित्वाच् च सिंहहनुस् तद् आदेयवाक्यतायाः पूर्वनिमित्तं, संमाननाधिमाननाभ्यां परिशुद्धाजीवत्वाच् च सुशुक्लदन्तः समदन्तश् च तत् पूर्वोपचितपरिवारतायाः पूर्वनिमित्तं, दीर्घरात्रं सत्यस्यापिशुनस्य समुदाचाराद् अविरलदन्तः समचत्वारिंशद्दन्तश् च तद् अभेद्यपरिवारतायाः पूर्वनिमित्तं, परिपक्वमानस्येवानवसादयमानस्यारक्तेनाद्विष्टेनामूदेन चक्षुषा दर्शनाद् अतिनीलनेत्रो गोपक्ष्मनेत्रश् च तत् समन्तप्रासादिकतायाः पूर्वनिमित्तम्. इमान्य् उच्यन्ते द्वात्रिंशद् महापुरुषलक्षणान्य् एभिः सुभूते द्वात्रिंशद् महापुरुषलक्षणैस् तथागतस्य कायः समन्वागतो भवति.
कतमानि च सुभूते तथागतस्याशीत्य् अनुव्यञ्जनानि? ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति सर्वसंस्कारविरक्तचित्ताः, स्निग्धनखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनवत् सर्वसत्त्वहितसुखाध्याशयचित्ताः, तुङ्गनखाश् च बुद्धा भगवन्तो भवन्ति तुङ्गकुशलवंशप्रसूताः, वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति वृत्ततो ऽनवद्याः, चिताङ्गुलयश् च बुद्धा भगवन्तो भवन्त्य् उपचितविपुलकुशलमूलाः, अनुपूर्वाङ्गुलयश् च बुद्धा भगवन्तो भवन्ति अनुपूर्वसमुपार्जितकुशलमूलाः, गूढशिराश् च बुद्धा भगवन्तो भवन्ति सुनिगूढकायवाग्मनस्कर्मान्ताजीवाः, निर्ग्रन्थिशिराश् च बुद्धा भगवन्तो भवन्ति क्लेशग्रन्थिभेदकराः, गूढगुल्फाश् च बुद्धा भगवन्तो भवन्ति सुनिगूढधर्ममतयः, अविषमपादाश् (प्स्प्_6-8:65) च बुद्धा भगवन्तो भवन्ति सर्वविषमनिस्तारयितारः, 10 सिंहविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरसिंहाः, नागविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरनागाः, हंसविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति राजहंससदृशवैहायसगामिनः, वृषभविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति पुरुषर्षभाः, प्रदक्षिणावर्तगामिनश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणमार्गाः, चारुगामिनश् च बुद्धा भगवन्तो भवन्ति चारुदर्शनाः, अवक्रगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अवक्रचित्ताः, वृत्तगात्राश् च बुद्धा भगवन्तो भवन्ति विशुद्धगुणख्यापयितारः, मृष्टगात्राश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टपापधर्माणाः, अनुपूर्वगात्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वधर्मदेशिकाः. 20 शुचिगात्राश् च बुद्धा भगवन्तो भवन्ति कायवाग्मनःशौचसमन्वागताः, मृदुगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावमृदुचित्ताः, विशुद्धगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावविशुद्धचित्ताः, परिपूर्णव्यञ्जनाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णधर्मविनयाः, पृथुचारुमण्डलगात्राश् च बुद्धा भगवन्तो भवन्ति पृथुचारुगुणाख्यातारः, समक्रमाश् च बुद्धा भगवन्तो भवन्ति सर्वसत्त्वसमचित्ताः, विशुद्धनेत्राश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, सुकुमारगात्राश् च बुद्धा भगवन्तो भवन्ति सुकुमारधर्मदेशिकाः, अदीनगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अदीनचित्ताः, उत्सदगात्राश् च बुद्धा भगवन्तो भवन्त्य् उत्सन्नाकुशलमूलाः. 30 सुसंहतनाश् च बुद्धा भगवन्तो भवन्ति क्षीणपुनर्भवसहगताः, सुविभक्ताङ्गप्रत्यङ्गाश् च बुद्धा भगवन्तो भवन्ति
सुदेशितप्रतीत्यसमुत्पादाङ्गप्रत्यङ्गाः, वितिमिरशुद्धालोकाश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, वृत्तकुक्षयश् च बुद्धा भगवन्तो भवन्ति वृत्तसंपन्नशिष्याः, मृष्टकुक्षयश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टसंसारदोषाः, अभुग्नकुक्षयश् च बुद्धा भगवन्तो भवन्ति भग्नमानशृङ्गाः, क्षामोदराश् च बुद्धा भगवन्तो भवन्ति धर्मक्षयविनिवर्तयितारः, गम्भीरनाभयश् (प्स्प्_6-8:66) च बुद्धा भगवन्तो भवन्ति प्रतिविद्धपरमगम्भीरधर्माणः, प्रदक्षिणावर्तनाभयश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणग्राह्युपपन्नशिष्याः, समन्तप्रासादिकाश् च बुद्धा भगवन्तो भवन्ति समन्तप्रासादिकशिष्यसंघाः. 40 शुचिसमाचाराश् च बुद्धा भगवन्तो भवन्ति परमशुचिचित्ताः, व्यपगततिलकगात्राश् च बुद्धा भगवन्तो भवन्ति व्यपगताकालोपदेशधर्मविनयाः, तूलसदृशसुकुमारपाणयश् च बुद्धा भगवन्तो भवन्ति तूलसदृशकायलाघवप्रतिलाभधर्मदेशिकाः, स्निग्धपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनभावप्रतिलब्धमहाश्रमणभावाः, गम्भीरपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति परमगम्भीरधीरावस्थानाः, आयतपाणिलेखाश् च बुद्धा भगवन्तो भवन्त्य् आयतिक्षमधर्माख्यातारः, नात्यायतवचनाश् च बुद्धा भगवन्तो भवन्ति नात्यायतशिक्षापदप्रज्ञापयितारः, बिंबप्रतिबिंबदर्शनवदनाश् च बुद्धा भगवन्तो भवन्ति प्रतिबिंबवद्विसर्जितसर्वलोकाः, मृदुजिह्वाश् च बुद्धा भगवन्तो भवन्ति मृदुपूर्वविनेतारः, तनुजिह्वाश् च बुद्धा भगवन्तो भवन्त्य् अतनुगुणोपपन्नाः. 50 रक्तजिह्वाश् च बुद्धा भगवन्तो भवन्ति रक्तबालजनदुरवगाहधर्मविनयाः, गजगर्जितजीमूतघोषा बुद्धा भगवन्तो भवन्ति गजगर्जितजीमूतघोषेस्व् अपरित्रासाः, मधुरचारुमञ्जुस्वराश् च बुद्धा भगवन्तो भवन्ति मधुरचारुमञ्जुस्वरप्रलापशिष्याः, वृत्तदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति वृत्तभवसंयोजनाः, तीक्ष्णदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति तीक्ष्णजनविनयनकुशलाः, शुक्लदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति परमशुक्लधर्मविनयाः, समदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति समभूमिभागप्रतिष्ठिताः, अनुपूर्वदंष्ट्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वाभिसमयदेशयितारः, उत्तुङ्गनासाश् च बुद्धा भगवन्तो भवन्ति प्रज्ञातुङ्गपर्वतस्थाः, शुचिनासाश् च बुद्धा भगवन्तो भवन्ति शुचिविनयजनसंप्रतिपन्नाः. 60 विशालनयनाश् च बुद्धा भगवन्तो भवन्ति परविशालक्षणबुद्धधर्माणः, चितपक्ष्माणश्

च बुद्धा भगवन्तो भवन्ति चितसत्त्वकायाः, सितासितकमलनयनाश् च बुद्धा भगवन्तो भवन्ति (प्स्प्_6-8:67) सितासितकमलदलनयनाभिः प्रबलसुरासुरवरयुवतिभिर् अभिनन्दिताः, आयतभ्रुवश् च बुद्धा भगवन्तो भवन्ति नित्यम् आयतिदर्शिनः, श्लक्ष्णभ्रुवश् च बुद्धा भगवन्तो भवन्ति शुक्लविनयकुशलाः, समरोमभ्रुवश् च बुद्धा भगवन्तो भवन्ति समन्तदाषज्ञाः, स्निग्धभ्रुवश् च बुद्धा भगवन्तो भवन्ति कुशलमूलोपस्नेहस्निग्धसंतानजनविनयाः, पीनायतभुजाश् च बुद्धा भगवन्तो भवन्ति परपीनायतवाहवः, समकर्णाश् च बुद्धा भगवन्तो भवन्ति जितसमराः, अनुपहतकर्णेन्द्रियाश् च बुद्धा भगवन्तो भवन्त्य् अनुपहतसत्त्वविनायकाः. सुपरिणामितललाटाश् च बुद्धा भगवन्तो भवन्ति सर्वदृष्टिकृतविपरिणताः, पृथुललाटाश् च बुद्धा भगवन्तो भवन्ति श्रमणब्राह्मणपरवादिप्रमथनाः, सुपरिपूर्णोत्तमाङ्गाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णोत्तमप्रणिधानाः, भ्रमरसदृशकेशाश् च बुद्धा भगवन्तो भवन्ति विषयभ्रमररतिव्यावर्तिकाः, चितकेशाश् च बुद्धा भगवन्तो भवन्त्य् अपचितदर्शनाभावनाप्रहातव्यानुशयः, श्लक्ष्णकेशाश् च बुद्धा भगवन्तो भवन्ति श्लक्ष्णबुद्धिभिर् ज्ञातशासनसाराः, असंलुडितकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यासंलुडितचेतनाः, अपरुषकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यम् अपरुषवचनाः, सुरभिकेशाश् च बुद्धा भगवन्तो भवन्ति सुरभिबोध्यङ्गकुसुमप्रदक्षिणावर्तितजनाः, श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादतलाश् च बुद्धा भगवन्तो भवन्ति श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादशोभाः.
इमान्य् उच्यन्ते ऽशीत्यनुव्यञ्जनान्य् एभिः सुभूते ऽशीत्यनुव्यञ्जनैस् तथागतस्ये कायः समन्वागतो भवति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य धर्मदानं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् अनुशास्त्य् एते यूयं कुलपुत्रा अक्षरनिर्हारकुशला भवत, एकाक्षरकुशला भवथ, द्व्यक्षरं यावद् द्वाचत्वारिंशद् अक्षरैः कुशला भवत, एकेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, द्वितीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, (प्स्प्_6-8:68) तृतीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, यवद् द्वाचत्वारिंशदक्षरैः सर्वव्ययोपगतानुपगच्छत. एकस्मिन्न् अक्षरे द्वाचत्वारिंशद् अक्षराण्य् अन्तर्गतानि भावयत. द्वाचत्वारिंशदक्षरेष्व् एकाक्षरम् अन्तर्गतं भावयत. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशदक्षराण्य् एकस्मिन्न् अक्षरे कुशलो भावयति, एकाक्षरं द्वाचत्वारिंशदक्षरेषु कुशलो भावयति, अक्षराभिनिर्हारकौशलं भावयित्वाक्षराभिनिर्हारकुशलो भवति. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मकुशलो ऽक्षरकुशलश् च सत्त्वानां धर्मं देशयति, साक्षरन् धर्मं देशयति नानक्षरं, ते च सत्त्वा नोपलभ्यन्ते, तत् कस्य हेतोः? आकाशनिर्मिता हि सुभूते सत्त्वा धर्माश् च वेदितव्याः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वा नोपलभ्यन्ते, धर्मा नोपलभ्यन्ते, स्वभावश् च नोपलभ्यते, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन् सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् आर्यसत्येषु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु, चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु षट्स्व् अभिज्ञासु विपाकजासु चरन् सत्त्वानां धर्मं देशयति, न चात्र सत्त्व उपलभ्यते, न सत्त्वप्रज्ञप्तिः सत्त्वानुपलब्ध्या रूपानुपलब्धिः, वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिः, षट्पारमितानुपलब्धिः, यावद् अशीत्यनुव्यञ्जनानुपलब्धिः, न चानुपलब्ध्या सत्त्वप्रज्ञप्तिर् न च सत्त्वाप्रज्ञप्त्या रूपं प्रज्ञायते, वेदनासंज्ञासंस्कारविज्ञानं प्रज्ञायते, यावद् अशीत्यनुव्यञ्जनानि प्रज्ञायन्ते, अशीत्यनुव्यञ्जनैर् अप्रज्ञायमानैः.
कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति? मा खलु भगवन् बोधिसत्त्वो महासत्त्वो (प्स्प्_6-8:69) ऽसंविद्यमानेषु सर्वधर्मेषु सत्त्वान् समादापयेद् विपर्यासे विनियोजयेत्. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वम् एव तावन् नोपलभते प्राग् एव बोधिपाक्षिकान् धर्मान्.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सत्त्वानुपलब्धेनाध्यात्मशून्यता वेदितव्या, बहिर्धाशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यता वेदितव्या यावद् अभावस्वभावशून्यता वेदितव्या, स्कन्धशून्यता वेदितव्या, धातुशून्यता वेदितव्या, आयतनशून्यता वेदितव्या, प्रतीत्यसमुत्पादशून्यता वेदितव्या, प्रतीत्यसमुत्पादाङ्गशून्यता वेदितव्या, आत्मशून्यता सत्त्वशून्यता जीवशून्यता जन्तुशून्यता पोषशून्यता पुरुषशून्यता पुद्गलशून्यता मनुजशून्यता मानवशून्यता कारकशून्यता वेदकशून्यता जानकशून्यता पश्यकशून्यता वेदित्व्या. अप्रमाणध्यानारूप्यसमाधिसमापत्तिशून्यता वेदितव्या, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता वेदितव्या. शून्यतानिमित्ताप्रणिहितशून्यता वेदितव्या, अष्टविमोक्षमुखशून्यता वेदितव्या, नवानुपूर्वविहारसमापत्तिशून्यता वेदितव्या, दशतथागतबलशून्यता वेदितव्या, वैशारद्यप्रतिसंविदावेणिका बुद्धधर्मशून्यता वेदितव्या, स्रोतआपत्तिफलसकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिशून्यता वेदितव्या, दशबोधिसत्त्वभूमिशून्यता वेदितव्या, बुद्धक्षेत्रशून्यता वेदितव्या, सम्यक्संबोधिशून्यता वेदितव्या, तद् बोधिसत्त्वो महासत्त्व इमान् सर्वधर्मान् शून्या इति दृष्ट्वा सत्त्वानां धर्मं देशयति यथा चैतेषु शून्येषु सर्वधर्मेषु समादापयेद् विपर्यासे न नियोजयेत्. स एवं सर्वधर्मान् अनावरणतो ज्ञात्वा न कंचिद् धर्मं विकोपयति न ऽद्वैधीकरोति, यथाभूतं च धर्मं देशयति. तद्यथापि नाम सुभूते तथागतनिर्मितो ऽनेकानि निर्मितकोटीनियुतशतसहस्राण्य् अभिनिर्माय कांश्चिद् दाने नियोजयति, कांश्चिच् छीले कांश्चित् क्षान्तौ कांश्चिद् वीर्ये कांश्चिद् ध्याने कांश्चित् प्रज्ञायां कांश्चिद् ध्यानेषु कांश्चिद् अप्रमाणेषु कांश्चिद् आरूप्यसमापत्तिषु कांश्चित् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, कांश्चिद् आर्यसत्येषु कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु (प्स्प्_6-8:70) कांश्चिद् अध्यात्मशून्यतायां कांश्चिद् यावद् अभावस्वभावशून्यतायां कांश्चिद् अभिज्ञासु कांश्चिद् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति,
सर्वाकारज्ञतायां नियोजयति, कांश्चिच् छ्रोतआपत्तिफले कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ नियोजयति. तत् किं मन्यसे? अपि नु तेन निर्मितकेन कस्यचिद् धर्मस्य प्रभेदः कृतः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्, एवम् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तांश् च भूमौ प्रतिष्ठापयति तांश् च सत्त्वान् विपर्यासात् परिमोचयति, अबद्धामुक्तयोगेन, तत् कस्य हेतोः? तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्याबद्धतामुक्तता न तद् रूपं या वेदनायाः संज्ञायाः संस्काराणां या विज्ञानस्याबद्धतामुक्तता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा ह्य् अत्यन्तविशुद्धं रूपं, वेदना संज्ञा संस्कारा विज्ञानम् अत्यन्तविशुद्धम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च यावत् सर्वधर्मा लौकिका लोकोत्तराः, सास्रावा अनास्रवाः संस्कृता असंस्कृता धर्माः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति, न च सत्त्वान् उपलभते, अनुपलंभे सर्वधर्माणां स्थितो बोधिसत्त्वो महासत्त्वो ऽस्थानयोगेन रूपं शून्यम् इत्य् अस्थानयोगेन, वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इत्य् अस्थानयोगेन, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीत्य् अस्थानयोगेन यावत् सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा धर्मा शून्या इति अस्थानयोगेन, न हि संस्कृता वा असंस्कृता वा धर्माः क्वचित् स्थिताः? तस्मात् तेषां स्वभावो नोपलभ्यते, यत्र तिष्ठेरन् न ह्य् अभावो ऽभावे तिष्ठति, न हि स्वभावः स्वभावे तिष्ठति, न हि परभावः परभावे तिष्ठति, तत् कस्य हेतोः? तथा हि ते सर्वेण सर्वं सर्वथा सर्वन् नोपलभ्यन्ते, यस्य चानुपलब्धिः स कुत्र तिष्ठेद्? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (प्स्प्_6-8:71) प्रज्ञापारमितायां चरन्न् अनपराधी भवति, बुद्धानां भगवतां बोधिसत्त्वानां च प्रत्येकबुद्धानाञ् च श्रावकानां च सर्वार्याणां च. तत् कस्य हेतोः? तथा हि बुद्धैर् भगवद्भिर् बोधिसत्त्वैश् च प्रत्येकबुद्धैश् च श्रावकैश् च सर्वार्यैश् च एषैव धर्मतानुबद्धानुबध्य च सत्त्वानां धर्मं देशयन्ति, तान् ते धर्माणां धर्मतान् न व्यतिवर्तन्ते. तत् कस्य हेतोः? तथा हि धर्मधातुर् न विनिवर्तते न भूतकोटिर् विनिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स स्वभावो न संविद्यते यो विनिवर्तते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न विनिवर्तते न तथता न भूतकोटिर् विनिवर्तते, किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, एवं यावद् अन्ये सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा, संस्कृता वा असंस्कृता वा धर्माः, अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः?
भगवान् आह: न सुभूते ऽन्यद् रूपं अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, च नान्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर्, एवं यावन् नान्ये लौकिका लोकोत्तराः सास्रवा अनास्रवाः संस्कृता असंस्कृता धर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् नान्यद् रूपं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये वेदनासंज्ञासंस्कारा नान्यद् विज्ञानं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् यावन् नान्ये सर्वधर्मा लौकिका लोकोत्तराः सास्रवा अनास्रवाः (प्स्प्_6-8:72) संस्कृता असंस्कृता धर्माः नन्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिस् तत् कथं भगवन् फलव्यवस्थानं भवति? कृष्णानां धर्माणां कृष्णो विपाको नरका वा तिर्यग्योनिर् वा यमलोको वा, शुक्लानां धर्माणां शुक्लो विपाको देवा मनुष्याश् च, कृष्णशुक्लानां धर्माणां कृष्णशुक्लो विपाकः सुखदुःखव्यतिकरः, अकृष्णशुक्लानां धर्माणाम् अकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावत् सम्यक्संबोधिर् वा.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: संवृत्तिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यन् निर्दृष्टुम्. तत् कस्य हेतोः? अविकल्पा हि सुभूते सर्वधर्मा अप्रव्याहारा यद् उत अनात्मस्वरूपाः, येषाम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानं यद् उत स्वभावशून्यताम् उपादाय.
एवम् उक्ते आयुष्मान् सुभूइर् भगवन्तम् एतद् अवोचत्: यदि भगवन् संवृत्तिसत्यम् उपादाय फलव्यवस्थानं भवति, न भगवन् परमार्थेन तदा सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति, सकृदागामिफलं भविष्यति, अनागामिफलं भविष्यति, अर्हत्त्वं भविष्यति, प्रत्येकबोधिर् भविष्यति, अनुत्तरा सम्यक्संबोधिर् भविष्यति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते सर्वबालपृथग्जनाः संवृत्तिसत्यं वा परमार्थसत्यं वा प्रजानन्ति यत् तेषाम् अपि फलव्यवस्थानं भविष्यति यदि प्रजानीयुः संवृत्तिसत्यं परमार्थसत्यम् इति नैव बालपृथग्जना इति संख्याताः स्युर् यस्मात् तु तेषां नास्ति परिज्ञानं तस्मान् नास्ति तेषां फलव्यवस्थानम्. स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा यत् सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गफलं तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? यद् आर्यपुद्गलानां पुनः सुभूते मार्गो मार्गभावना च तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् (प्स्प्_6-8:73) भगवन् मार्गभावनायं फलप्रादुर्भावो भवति, फलं वा प्रापयति?
भगवान् आह: न सुभूते, न हि मार्गं भावयतः सुभूते फलप्राप्तिर् भवति, न च मार्गभावनाफलं प्रापयति, न च सुभूते भावितमार्गस्य फलप्राप्तिर्, न च मार्गेण फलं प्राप्यते, न च पुनर् अमार्गे स्थित्वा फलं प्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति, न च भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानम्.
सुभूतिर् आह: यदि भगवन् न भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानं भवति, कथं निर्दिष्टं पुनर् भगवता इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणं, सकृदागामिफलं कामरागव्यापादतनुत्वम्, अनागामिफलं पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणम्, अर्हत्त्वं पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणं, प्रत्येकबोधिर् यत् किञ्चित् समुदयधर्मि सर्वन्तं निरोधधर्मि, अनुत्तरा सम्यक्संबोधिः सर्ववासनानुसंधिक्लेशप्रहाणम्. स्याद् यथाहं भगवतो भाषितस्यार्थम् आजाने तथा संस्कृतासंस्कृतानां धर्माणां भागच्छेदेन फलव्यवस्थानं भवति.
भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वानुत्तरा सम्यक्संबोधिर् वा संस्कृता एते उतासंस्कृताः.
सुभूतिर् आह: असंस्कृता भगवन्न् असंस्कृताः सुगत.
भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: किं पुनः सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति यद् उतालक्षणास् तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति संस्कृता वासंस्कृता वा धर्मा इति?
(प्स्प्_6-8:74)
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, अभागच्छेदताम् उपादाय. यद् उताध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, आत्मना च न क्वचिद् अभिनिविशते, परञ् च न क्वचिद् अभिनिवेशयति, दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा प्रथमे वा ध्याने द्वितीये वा ध्याने तृतीये वा ध्याने चतुर्थे वा ध्याने, मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा, आकाशानन्त्यायतनसमापत्तौ वा विज्ञानानन्त्यायतनसमापत्तौ वा आकिञ्चन्यायतनसमापत्तौ वा नैवसंज्ञानासंज्ञायतनसमापत्तौ वा, स्मृत्युपस्थानेषु वा सम्यक्प्रहाणेषु वा ऋद्धिपादेषु वा इन्द्रियेषु वा बलेषु वा बोध्यङ्गेषु वा आर्याष्टाङ्गेषु मार्गेषु वा आर्यसत्येषु वा अष्टविमोक्षमुखेषु वा नवानुपूर्वविहारसमापत्तिषु वा शून्यतानिमित्ताप्रणिहितेषु वाभिज्ञासु वाध्यात्मशून्यतायां वा बहिर्धाशून्यतायां वाध्यात्मबहिर्धाशून्यतायां वा यावद् अभावस्वभावशून्यतायां वा समाधिषु वा धारणीमुखेषु वा दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु वा, महाकरुणायां वा सर्वाकारज्ञतायां वा, सो नाभिनिविष्टो न क्वचित् सज्जति. तद्यथापि नाम सुभूते तथागतनिर्मितो दानं ददाति न च दानफलेषु सज्जति न च दानफलं प्रत्यनुभवत्य् अन्यत्र सत्त्वानां परित्राणाय यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु धर्मेषु न क्वचित् तिष्ठति. तत् कस्य हेतोः? तथा ह्य् अस्य सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति?

भगवान् आह: यथा सुभूते निर्मितस्यासमुदाचारो रागदोषमोहेष्व् असमुदाचारो रूपे वेदनायां संज्ञायां संस्कारेषु विज्ञाने ऽसमुदाचारः स्कन्धधात्वायतनेष्व् असमुदाचारः प्रतीत्यसमुत्पादेष्व् (प्स्प्_6-8:75) असमुदाचारः प्रतीत्यसमुत्पादाङ्गेष्व् असमुदाचारो बाह्याध्यात्मिकेषु धर्मेष्व् असमुदाचारो ऽनुनयपर्युत्थानेष्व् असमुदाचारः सास्रवानास्रवेषु धर्मेष्व् असमुदाचारो लौकिकलोकोत्तरेषु धर्मेषु असमुदाचारो मार्गेष्व् असमुदाचारो मार्गफलेष्व् असमुदाचारः. एवं खलु सुभूते सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
सुभूतिर् आह: कथं पुनर् भगवन् निर्मितस्य मार्गभावना?
भगवान् आह: यां मार्गभावनाम् आगम्य सुभूते नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽवस्तुकान् धर्मान् प्रतिविध्यति?
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते, यद् वस्त्व् आगम्य नैव संक्लिश्येत, नैव व्यवदायेत, नैव पञ्चगतिके संसारे दृश्येत.
सुभूतिर् आह: नो भगवन् न हि भगवन् तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते यद् वस्त्व् आगम्य नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
भगवान् आह: एवं खलु सुभूते सर्वधर्माणां धर्मैअक्षणं सुप्रतिविद्धं भवति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वरूपं निर्मितोपमं भवति, सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति?
भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं निर्मितस्य च न भवति, रूपं वेदना संज्ञा संस्कारा विज्ञानं न संक्लेशो न व्यवदानं न पञ्चगतिकः संसारो यतः संसारात् सत्त्वान् परिमोचयेत्.

भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु बोधिसत्त्वेन (प्स्प्_6-8:76) महासत्त्वेन पूर्वं बोओधिस्त्त्वचर्यां चरता कश्चित् सत्त्व उपलब्धो यं नरकाद् वा मोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा मनुष्येभ्यो वा देवेभ्यो वा.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न कश्चित् सत्त्व उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिता भवन्तीत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो वेदितव्यः.
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिताः कस्यार्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु बोधिमार्गे च बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् जानीयुर् न बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरेद् यस्मात् तर्हि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् षट्सु पारमितासु चरति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिशोधयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा निर्मितोपमाः कुत्र भगवन् प्रतिष्ठिताः सत्त्वाः यतो बोधिसत्त्वो महासत्त्वः षट्पारमितायां चरन्न् उच्चालयति?
भगवान् आह: नामनिमित्ते सुभूते सत्त्वाः प्रतिष्ठिता असत्परिकल्पितताम् उपादाय, ततो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नामनिमित्ताद् उच्चालयति.
अथ खल्व् आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् नाम कतमन् निमित्तम्?
भगवान् आह: आगन्तुकम् एतन् नामधेयं यद् उत नामनिमित्तम् इति कृत्रिमम् एतन् नामधेयं यद् उत नामनिमित्तम् इति, यद् उत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्त्री वा पुरुषो (प्स्प्_6-8:77) वा दारको वा दारिका वा नैरयिको वा तैर्यग्योनिको वा यमलौकिको वा देवो वा मनुष्यो वा संस्कृतो वा धर्मो वासंस्कृतो वा धर्मः स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धो वानुत्तरसम्यक्संबुद्धो वा. अपि तु खलु पुनः सुभूते प्रकृतिधर्मः सर्वन् नामार्थेन शून्यं नाममात्रम् एतत् सर्वसंस्कृतं तत्र बालपृथग्जनाः सक्तास् तान्, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन सत्त्वान् विवेचयति परिकल्पयति परिकल्पसमुत्थितम् एतन् नामधेयं मा यूयम् असत्परिकल्पे सज्जते, असति वस्तूनि स्वभावशून्ये न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. कतमत् सुभूते निमित्तं द्व इमे सुभूते यत्र बालपृथग्जनाः सक्ताः? कतमे द्वे? रूपनिमित्तञ् चारूपनिमित्तञ् च. कतमच् च सुभूते रूपनिमित्तं? यत् किञ्चित् सुभूते रूपम् औदारिकं वा सूक्ष्मं वा प्रणीतं वा मध्यं वाधिमात्रं वा तत्र क्षणिकेषु धर्मेषु यत् परिकल्पग्रहणम् इदम् उच्यते रूपनिमित्त. कतमच् चारूपनिमित्त्तं? यानि कानिचिद् रूपाणि धर्मा वानिमित्तग्राहिणः परिकल्पाः क्लेशञ् जनयन्तीदम् उच्यते, अरूपनिमित्तं यत्र बालपृथग्जनान् सक्तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति तथा च निवेशयति प्रतिष्ठापयति, यथा न द्वयं पतन्तीदं निमित्तम् इदम् अनिमित्तम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् एतत्परमा एते सर्वधर्मा यद् उत नामनिमित्तपरमाः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च विशेषं गच्छति, कुशलेषु धर्मेषु परांश् च विशेषाधिगमे निवेशयति कुशलेषु धर्मेषु यैः कुशलैर् धर्मैर् भूमेर् भूमिं परिपूरयति, (प्स्प्_6-8:78) सत्त्वांश् च तांश् चैव नियोजयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते वस्त्व् अभविष्यन् नावस्तुनिमित्तन् न सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो विशेषम् अध्यगमिष्यन् न च परांश् च विशेषे न्ययोक्ष्यद् यतः खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्य् आनिमित्तयोगेन, वीर्यपारमितां परिपूरयत्य् आनिमित्तयोगेन, क्षान्तिपारमितां परिपूरयत्य् आनिमित्तयोगेन, शीलपारमितां परिपूरयत्य् आनिमित्तयोगेन, दानपारमितां परिपूरयत्य् आनिमित्तयोगेन, ध्यानानि परिपूरयत्य् आनिमित्तयोगनाप्रमाणानि परिपूरयत्य् आनिमित्तयोगेनारूप्यसमापत्तीः परिपूरयत्य् आनिमित्तयोगेन, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयत्य् आनिमित्तयोगेनार्यसत्यानि परिपूरयत्य् आनिमित्तयोगेनाष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर् अभिज्ञाः परिपूरयत्य् आनिमित्तयोगेन, समाधिधारणीमुखानि परिपूरयत्य् आनिमित्तयोगेन, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्य् आनिमित्तयोगेन, स इमान् कुशलान् धर्मान् परिपूर्य परान् अपि कुशलेषु धर्मेषु नियोजयत्य् आनिमित्तयोगेन, सचेत् सुभूते धर्मनिमित्तम् अभविष्यद् अनास्रवेषु सर्वधर्मेषु नैव बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थम् अकरिष्यद् यतः सुभूते अनास्रवाः सर्वधर्माः, आनिमित्ता अस्मृतयो ऽमनसिकारास् तस्मात् खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा आनिमित्ता अस्मृतयो ऽमनसिकारास् तत् कुतो भगवान् गणनां करोति? इमे सास्रवा धर्मा इमे अनाश्रवा धर्मा इमे साधारणा धर्मा इमे ऽसाधारणा धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्माः.
(प्स्प्_6-8:79)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते अन्यद् आनिमित्तम् अन्ये श्रावकधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये प्रत्येकबुद्धधर्माः.
सुभूतिर् आह: नो भगवन्.

भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बोधिसत्त्वधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बुद्धधर्माः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् आनिमित्ता अस्मृतयो ऽमनसिकाराः सर्वधर्मा इत्य् अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः कुशलैर् धर्मैर् विवर्धते यद् उत षड्भिः पारमिताभिश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भि ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गमार्गेणाध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया आर्यसत्यैर् अभिज्ञाभिर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वसमाधिभिः सर्वधारणीमुखैर् दशबलवैशारद्यप्रतिसंविदावेणिकैर् बुद्धधर्मैर् महाकरुणया यावत् सर्वबुद्धधर्मैर् विवर्धते, शून्यताविमोक्षमुखं स्वलक्षणशून्यतानिमित्तविमोक्षमुखं स्वलक्षणशून्यम् अप्रणिहितविमोक्षमुखं स्वलक्षणशून्यं स एषु त्रिषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्वः पञ्चसूपादानस्कन्धेषु शिक्षते द्वादशस्व् आयतनेषु शिक्षते, अष्टादशसु धातुषु शिक्षते, चतुर्ष्व् आर्यसत्येषु शिक्षते, द्वादशाङ्गे प्रतीत्यसमुत्पादे शिक्षते, अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, यावद् अभावस्वभावशून्यतायां (प्स्प्_6-8:80) शिक्षते, दशसु पारमितासु शिक्षते, दशसु बोधिसत्त्वभूमिषु शिक्षते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षते, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षते, पञ्चस्व् अभिज्ञासु शिक्षते, दशसु तथागतबलेषु शिक्षते, चतुर्षु वैशारद्येषु शिक्षते, चतसृषु प्रतिसंवित्सु शिक्षते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसूपादानस्कन्धेषु शिक्षते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं जानाति, यथा रूपम् उत्पद्यते, यथा रूपं निरुध्यते, या च रूपस्य तथता.
कथं रूपं प्रजानाति? अत्यन्तच्छिद्रतश् चात्यन्तानृततश् च तद्यथापि नाम फेनपिण्डो ऽसारः, एवं रूपं प्रजानाति. कथं रूपस्योत्पादव्ययौ प्रजानाति? नापि रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति कुतश्चिद् आगमनतो न क्वचिद् गमनतः, एवं खलु सुभूते रूपस्योत्पादव्ययौ प्रजानाति. कथं रूपस्य तथतां प्रजानाति? न तथतोत्पद्यते न निरुध्यते नागच्छति न गच्छति, न संक्लिश्यते न व्यवदायते, न हानिर् न वृद्धिर् एवं तथतां प्रजानाति, अपि तु खलु सुभूते तथतैव सा यस्मात् तथतेत्य् उच्यते, नैव सावितथता न तथतेत्य् उच्यते, एवं रूपस्य तथतां प्रजानाति.
कथं वेदनां प्रजानाति? तद्यथापि नामोदकबुद्बुदा रिक्तका उत्पद्यन्ते वा निरुध्यन्ते वा, एवं वेदनां प्रजानाति. कथं वेदनाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं वेदनाया उत्पादव्ययौ प्रजानाति. कथं वेदनायास् तथतां प्रजानाति? सापि तथता अवितथतानन्यतथता, एवं वेदनायास् तथतां प्रजानाति.
कथं संज्ञां प्रजानाति? तद्यथापि नाम मरीच्याम् उदकम् अत्यन्ततया नोपलभ्यते, एवं संज्ञां प्रजानाति. कथं संज्ञाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं संज्ञाया उत्पादव्ययौ प्रजानाति. कथं संज्ञायास् तथतां (प्स्प्_6-8:81) प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संज्ञायास् तथतां प्रजानाति.
कथं संस्कारान् प्रजानाति? तद्यथापि नाम कदल्यां सारम् अत्यन्ततया नोपलभ्यते, एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययौ प्रजानाति? न ते कुतश्चिद् आगच्छन्ति न क्वचिच् गच्छन्त्य् एवं संस्काराणाम् उत्पादव्ययौ प्रजानाति. कथं संस्काराणां तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संस्काराणां तथतां प्रजानाति.
कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय एवं विज्ञानं प्रजानाति.
कथं विज्ञानस्योत्पादव्ययौ प्रजानाति? न तत् कुतश्चिद् आगच्छति न क्वचिद् गच्छति, एवं विज्ञानस्योत्पादव्यतौ प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं विज्ञानस्य तथतां प्रजानाति.
कथं रूपायतनं प्रजानाति? रूपायतनं रूपायतनस्वभावेन शून्यम्, एवं शब्दगन्धरसस्प्रष्टव्यायतनानि, धर्मायतनं धर्मायतनस्वभावेन शून्यं, चक्षुरायतनं चक्षुरायतनस्वभावेन शून्यम्, एवं श्रोत्रघ्राणजिह्वाकायायतनानि, मनआयतनं मनआयतनस्वभावेन शून्यम्.
कथं रूपधातुं प्रजानाति? रूपधातू रूपधातुस्वभावेन शून्यः, एवं शब्दगन्धरसस्प्रष्टव्यधातवः, धर्मधातुर् धर्मधातुस्वभावेन शून्यः, चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायधातवः, मनोधातुर् मनोधातुस्वभावेन शून्यः, चक्षुर्विज्ञानधातुश् चक्षुर्विज्ञानधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शधातुश् चक्षुःसंस्पर्शधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदनाधातुश् चक्षुःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायो, मनोधातुर् मनोधातुस्वभावेन शून्यः, मनोविज्ञानधातुर् मनोविज्ञानधातुस्वभावेन (प्स्प्_6-8:82) शून्यः, मनःसंस्पर्शधातुर् मनःसंस्पर्शधातुस्वभावेन शून्यः, मनःसंस्पर्शप्रत्ययवेदनाधातुर् मनःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, पृथिवीधातुः पृथिवीधातुस्वभावेन शून्यः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर्, विज्ञानधातुर् विज्ञानधातुस्वभावेन शून्यः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादस्वभावेन शून्यः, अविद्याविद्यास्वभावेन शुन्या. एवं संस्कारा विज्ञानं नामरूपम् षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्, जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासा जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासस्वभावेन शून्याः.
कथम् आयतनानि प्रजानाति? अध्यात्मिका धर्मा अध्यात्मिकैर् धर्मैः शून्याः, बाह्या धर्मा बाह्यैर् धर्मैः शून्याः. कथं सत्यानि प्रजानाति? दुष्खसत्यं प्रजानाति, आर्यसत्यं प्रजानाति, द्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, अद्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, एवं समुदयम् एवं निरोधम् एवं दुःखनिरोधगामिनी प्रतिपदम्.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवं परस्परविभिन्नान् प्रजानाति तदा न नु भगवन् धर्मधातुर् विकोपितो भवति.
भगवान् आह: विकोपितः सुभूते धर्मधातुः स्याद् यदि धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मः स्यान्, न सुभूते धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते, यद्य् उपलभ्येत स्याद् धर्मधातुविकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा तथागतश्रावकेण वा धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मा उपलब्धः, अनुपलभ्य न प्रज्ञापयति धातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उप्लभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: धर्मधातौ भगवन् शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन किं शिक्षितं भवति?
(प्स्प्_6-8:83)
भगवान् अह: धर्मधातौ शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः.
सुभूतिर् आह: केन कारणेन भगवन् सर्वधर्मा धर्मधातुः?
भगवान् आह: असंस्कृतो धातुर् एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा धर्मधातुस् तत् किं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं दानपारमितायां शिक्षितव्यम्? किं बोधिसत्त्वेन महासत्त्वेन प्रथमध्याने शिक्षितव्यं द्वितीयध्याने शिक्षितव्यं तृतीयध्याने शिक्षितव्यं चतुर्थध्याने शिक्षितव्यं मैत्र्यां शिक्षितव्यं करुणायां शिक्षितव्यं मुदितायां शिक्षितव्यम् उपेक्षायां शिक्षितव्यम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्तव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितसमाधौ शिक्षितव्यं? किं सर्वशून्यतासु शिक्षितव्यं विमोक्षमुखसमाधिधारणीमुखेषु शिक्षितव्यं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यं महाकरुणायां शिक्षितव्यम् षट्स्व् अभिज्ञासु शिक्षितव्यं द्वात्रिंशन् महापुरुषलक्षणपरिनिष्पत्तये शिक्षितव्यम् अशीत्यनुव्य्ञ्जनपरिनिष्पत्तये शिक्षितव्यम् क्षत्रियमहाशालकुलेषूपपत्तये शिक्षितव्यं ब्राह्मणमहाशालकुलेषूपपत्तये शिक्षितव्यं गृहपतिमहाशालकुलेषूपपत्तये शिक्षितव्यं चातुर्महाराजकायिकानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यं त्रयस्त्रिंशानां यामानां तुषितानान् निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् (प्स्प्_6-8:84) अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यम्. न च तत्रोपपत्तये शिक्षितव्यम् आकाशानन्त्यायतनानां विज्ञानानन्त्यायतनानाम् आकिञ्चन्यायतनानां नैवसंज्ञानासंज्ञायतनानाम् उपपत्तये शिक्षितव्यं, किं प्रथमचित्तोत्पादे शिक्षितव्यं, द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे ऽष्टमे नवमे किं दशमे चित्तोत्पादे शिक्षितव्यं,
किं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा सत्त्वपरिपाके वा बुद्धक्षेत्रपरिशोधने वा धारणीमुखेषु वा शिक्षितव्यं, किं प्रतिसंवित्सु शिक्षितव्यं, किं बोधिमार्गे शिक्षितव्यम्, अत्र बोधिमार्गे शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः. न च भगवन् धर्मधाताव् इमे विकल्पास् तस्मात् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासेषु चरन् न प्रपञ्चं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पा न च धर्मधातौ रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुः, रूपम् एव धर्मधातुः धर्मधातुर् एव रूपं, वेदनैव धर्मधातुर् धर्मधातुर् एव वेदना, संज्ञैव धर्मधातुर् धर्मधातुर् एव संज्ञा, संस्कारा एव धर्मधातुर् धर्मधातुर् एव संस्काराः, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यथा मध्यमे परिवर्तकृतं तथा सर्वधर्मा ज्ञातव्याः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कञ्चिद् धर्मं धर्मधातुव्मिर्मुक्तं पश्येन् नानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत प्रज्ञापारमितायाम् एवं बोधिसत्त्वो महासत्त्वश् चरन् सर्वधर्माणां धर्मधातुं यथाभूतं प्रजानाति, अतस् तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुम् एव ज्ञात्वानामकात् (प्स्प्_6-8:85) सर्वधर्मान् नामसंकेतेन देशयतीदं रूपम् इमे वेदनासंज्ञासंस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, इमाः पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्मा, इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि, इमानि शून्यतानिमित्ताप्रणिहितानि, इमा अभिज्ञा, इमे दशबलवैशारद्य् अप्रतिसंविदावेणिकबुद्धधर्मा, इयम् अनुत्तरा सम्यक्संबोधिः.
इति संक्लेशव्यवदानज्ञाननिवेशनकर्म
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा स किंचिद् एव द्रव्यम् अधिष्ठाय विविधानि रूपगतानि दर्शयेत्, स्त्रीविग्रहं वा पुरुषविग्रहं वा हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वा, उद्यानानि वा नगराणि वा आरामरमणीयानि वा नदीरमणीयकं वा पुष्किरिणीरमणीयकं वा, तत्र विविधान्य् आस्तरणप्रत्यास्तरणानि दर्शयेत्, पुष्पधूपगन्धमाल्यगणांश् च खादनीयं वा भोजनीयं वा दर्शयेत् महता गीतवादितेन जनं रमयेत्, दानं वा ददन् शीलं वा रक्षन् क्षान्तिं वा संपादयमानो वीर्यं वारभमाणो ध्यानं वा समापद्यमानः प्रज्ञां वा भावयेत्. स तत्रैभिर् आकारैः क्षत्रियमहाशालकुलानि वा ब्राह्मणमहाशालकुलानि वा गृहपतिमहाशालकुलानि वा दर्शयेच् चातुर्महाराजाकायिकान् वा देवान् दर्शयेत्, सुमेरुं वा दर्शयेत् त्रयस्त्रिंशान् वा देवान् दर्शयेद् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मपार्षद्यान् ब्रह्मपुरोहितान् महाब्रह्माणः परीत्ताभान् अप्रमाणान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् शुद्धावासान् अस्पृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् दर्शयेद्, आकाशानन्त्यायतनानि वा विज्ञानानन्त्यायतनां वा आकिञ्चन्यायतनां वा नैवसंज्ञानासंज्ञायतनां देवान् वा दर्शयेद्, रूपिणः स्रोतआपन्नान् वा सकृदागामिनो वानागामिनो वार्हतो वा प्रत्येकबुद्धान् वा ये ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां (प्स्प्_6-8:86) चरन्ति, प्रज्ञापारमितायां चरन्ति, यावद् दशम्यां भूमौ चरन्ति, बोधिसत्त्वन्यामम् अवक्रामन्ति, ते ऽभिज्ञा अभिनिर्हरन्ति, ताभिश् च विक्रीडन्ति सत्त्वाश् च परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, ध्यानविमोक्षसमाधिसमापत्तिभिश् च विक्रीडन्ति, तह्तागतबलानि निष्पादयन्ति, वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं वा महाकरुणां वा निष्पादयन्ति, तान् अप्य् आदर्शयेत्, सर्वाङ्गप्रत्यङ्गेसु परिपूर्णं वा बुद्धविग्रहम् आदर्शयेत्. तत्र बालपृथग्जनाः सत्त्वा एवं जानीयुर्, अहो यावत् सुशिक्षितो बतायं मनुष्य इव शोभनं करोति,

यद् उतैवं जनं रमेयति विविधञ् च रूपम् आदर्शयति, यावद् बुद्धविग्रहं वा विस्तरशः. ये खलु तत्र मनुष्या भवन्ति पण्डिता मेधाविनो निपुणास् तद्रूपया मीमांसया समन्वागतास् तेषाम् एवं भवति, आश्चर्यम् इदम् अद्भुतो धर्मो, न चात्र कश्चिद् धर्म उपलभ्यते, अयं च मनुष्य इमं जनपदम् एवम् असंविद्यमानेषु धर्मेषु रमयति, तच् चास्य ज्ञानं भवत्य् अद्रव्ये ऽस्मिन्न् एव जनो द्रव्यसंज्ञी. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मधातुविनिर्मुक्तं समनुपश्यति प्रज्ञापारमितायां चरन्न् उपायकौशल्येन, न च सत्त्वम् उपलभते न च सत्त्वप्रज्ञप्तिः.
इति सत्त्वार्थयाथात्म्यनिवेशनकर्म
स आत्मना च दानं ददाति परांश् च दाने नियोजयति, दानस्य च वर्णं भाषते, ये ऽपि चान्ये दानं ददाति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च शीलं रक्षति परांश् च शीले प्रतिष्ठापयति शीलस्य च वर्णं भाषते, ये ऽपि चान्ये शीलं रक्षन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च क्षान्तिं संपादयति परांश् च क्षान्तौ नियोजयति, क्षान्तेश् च वर्णं भासते, ये ऽपि चान्ये क्षान्तिं संपादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति, वीर्यस्य च वर्णं भाषते, ये ऽपि चान्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च ध्यानं समापद्यते, परांश् च ध्याने प्रतिष्ठापयति, ध्यानस्य च वर्णं भाषते, ये ऽपि चान्ये ध्यानं समापद्यन्ते तेषां (प्स्प्_6-8:87) च वर्णवादी भवति समनुज्ञः.
आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञायां नियोजयति, प्रज्ञायाश् च वर्णं भाषते, ये ऽपि चान्ये प्रज्ञां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
इति षट्पारमितानिवेशनकर्म
आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयति, दशानां च कुशलानां कर्मपथानां वर्णं भाषते, ये ऽपि चान्ये दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च पञ्चशिक्षापदसमादाने वर्तते, परांश् च पञ्चशिक्षापदसमादाने समादापयति, पञ्चानाञ् च शिक्षापदानां वर्णं भाषते, ये ऽपि चान्ये पञ्चशिक्षापदसमादाने वर्तन्ते तेषां वर्णवादी भावति समनुज्ञः.
आत्मना चार्याष्टाङ्गसमन्वागतं पोषधम् उपवसति, परांश् चार्याष्टाङ्गसमन्वागते पोषधे समादापयत्य् आर्याष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते, ये ऽपि चान्ये आर्याष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
आत्मना चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, परांश् चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयत्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाणां च वर्णं भाषते, ये ऽपि चान्ये ऽप्रमाणध्यानारूप्यविमोक्षसमाधिसमाप्त्तिधारणीमुखानि समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति, परांश् च सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, सप्तत्रिंशद्बोधिपक्ष्याणाञ् च धर्माणां वर्णं भाषते, ये ऽपि चान्ये सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रवर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति, परांश् च शून्यतानिमित्ताप्रणिहितेषु नियोजयति, शून्यतानिमित्ताप्रणिहितानां च वर्णं (प्स्प्_6-8:88) भाषते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
आत्मना च चत्वार्य् आर्यसत्यानि भावयति, परांश् च चतुर्ष्व् आर्यसत्येषु नियोजयति, चतुर्णाञ् चार्यसत्यानां वर्णं भाषते, ये ऽपि चान्ये चत्वार्य् आर्यासत्यानि भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च पञ्चाभिज्ञा निष्पादयति, परांश् च पञ्चस्व् अभिज्ञासु नियोजयति, पञ्चानां चाभिज्ञानां वर्णं भाषते, ये ऽपि चान्ये पञ्चाभिज्ञा निष्पादयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् भावयति, परांश् च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां वर्णं भासते, ये ऽपि चान्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च महाकरुणां भावयति, परांश् च महाकरुणायां नियोजयति, महाकरुणायाश् च वर्णं भासते, ये ऽपि चान्ये महाकरुणां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयति, परांश् च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनेषु नियोजयति, द्वात्रिंशद्महापुरुषलक्षणाशीत्यनुव्यञ्जनानां च वर्णं भाषते, ये ऽपि चान्ये द्वात्रिंशन्महापुर्षलक्षणाशीत्यनुव्यञ्जनानि निष्पादयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
इति बुद्धमार्गनिवेशनकर्म
यदि सुभूते न धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये न बोधिसत्त्वो महासत्त्व उपायकौशल्येन धर्मधातुं शोधयेत्, न सत्त्वांश् च परिपाचयेत्. यस्मात् तर्हि सुभूते धर्मधातुर् यथैव पूर्वं तथाइव पश्चात् तथाइव मध्ये तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरति.
सुभूतिर् आह: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते न च सत्त्वप्रज्ञप्तिः. कस्यार्थाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
(प्स्प्_6-8:89)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: भूतकोतिं सुभूते ऽप्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यदि सुभूते अन्या भूतकोटिः स्याद् अन्या सत्त्वकोटिर् न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यस्मात् तर्हि सुभूते नान्या भूतकोटिर् नान्या सत्त्वकोटिस् तस्माद् बोधिसत्त्वो महासत्त्वः सत्त्त्वानाम् अर्थाय प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वश् चरन् भूतकोट्यविकोपनायै सत्त्वान् भूतकोट्यां प्रतिष्ठापयति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भूतकोटिः सत्त्वकोटिः, किं पुनर् भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्? यदि भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, ततः स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, न च भगवन् स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति?

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, न च स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, अपि तु खलु सुभूते बोधिसत्त्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् भूतकोट्यां प्रतिष्ठापयति, न चान्या भूतकोटिर् अन्या सत्त्वकोटिर् इति हि सुभूते भूतकोटिश् च सत्त्वकोटिश् चाद्वयम् एतद् अद्वैधीकारम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति, दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तम् आचष्टे यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः शून्यं मध्यतः शून्यं तत् तथा तद् दानफलम् अपि शून्यं, देयम् अपि शून्यं, दानपतिर् अपि शून्यो, दायको ऽपि दायकस्वभावेन शून्यः, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः. (प्स्प्_6-8:90) एवं कुलपुत्र सर्व एते धर्मा भूतकोट्यां न संविद्यन्ते, मा चान्यद् दानं मन्स्यसे, ऽन्यद् दानपतिं मंस्यसे, ऽन्यद् दानफलं मंस्यसे, ऽन्यं प्रतिग्राहकं मंस्यसे, ऽन्यां भूतकोटिं मंस्यसे, यतस् त्वं कुलपुत्र नान्यद् दानं मंस्यसे, नान्यं दानपतिं मंस्यसे, नान्यं दानफलं मंस्यसे, नान्यं प्रतिग्राहकं मंस्यसे, नान्यां भूतकोटिं मंस्यसे, ततस् त एतद् दानम् अमृतावहं भविष्यत्य् अमृतफलम् अमृतपर्यवसानम्, एतेन च त्वं दानेन मा रूपं प्रतिग्रहीष्यसि, मा वेदनां मा संज्ञां मा संस्कारां, मा विज्ञानं प्रतिग्रहीष्यसि. तत् कस्य हेतोः? तथा हि तवैतद् दानं शून्यं दानस्वभावेन, फलम् अपि फलस्वभावेन शून्यं, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः, न च शून्यतायां दानम् उपलभ्यते, न दानफलम् उपलभ्यते, न प्रतिग्राहक उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते धर्माः स्वभावेन शून्याः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् शीले प्रतिष्ठापयति, एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्रणातिपातात् प्रतिविरतो भव, एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशून्यात् परुषवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादाद् एहि त्वं कुलपुत्र मिथ्यादृष्टिं प्रहाय मिथ्यादृष्ठेः प्रतिविरतो भव, नैषां कुलपुत्र धर्माणां कश्चित् स्वभावो विद्यते यथा त्वया कल्पितो ऽहं तत् कुलपुत्रोपपरीक्षे स्वभावं, कतम एष धर्मः प्राणो नाम यो जीविताद् व्यपरोप्यते येन वा व्यपरोप्यते? एवम् अदत्तादानं काममिथ्याचारा मृषावादः पैशून्यं परुषवचनम् अबद्धप्रलापो ऽभिध्या व्यापादः, कतम एष धर्मो मिथ्यादृष्टिर् नाम यो वा मिथ्यां पश्यत्य्? अनेन सुभूते उपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति, तस्य दानस्य च शीलस्य च फलम् आकाङ्क्षते, तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं, ततः स कुलपुत्रो ऽनुत्त्रस्तस्य दानफलस्य च शीलफलस्य च फलं स्वभावेन शून्यं विदित्वा (प्स्प्_6-8:91) तत्र नाभिनिविशते अनभिनिवेशमानो ऽविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति, यया प्रज्ञया सर्वानुशयपर्युत्थानानि च्छित्वानुपधिशेषे निर्वाणधातौ परिनिर्वाति लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते यः परिनिर्वायाद् येन च पर्मिर्वायाद्, अपि तु खलु पुनर् एतद् एव तत् परिनिर्वाणं यद् उतात्यन्तशून्यता.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान्, क्षुधान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् अनुशास्ति, एहि त्वं कुलपुत्र क्षान्तिं संपादय क्षमी च भवशूरतो दातचित्तो ऽधिवासनजातीयो यत्र त्वं व्यापद्यसे सर्व एते धर्माः प्रकृतिशून्या हन्तोपपरीक्षस्व भावं, कुलपुत्र कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यायद्यते? सर्व एते धर्माः प्रकृतिशून्या, या च प्रक्र्तिशून्यता न सा जातु न शून्यता, सा च न तथागतैः क्र्ता, न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् नासुरैर् न गरुडैर् न किंनरैर् न महोरगैर् न चतुर्भिर् महाराजैर् न शक्रेण देवानाम् इन्द्रेण न यामेन देवपुत्रेण न तुषितेन देवपुत्रेण न निर्माणरतिना देवपुत्रैर् न परनिर्मितवशवर्तिना देवपुत्रैर् न ब्रह्मपार्षद्यैर् न ब्रह्मपुरोहितैर् न महाब्रह्मभिर् न परीत्ताभैर् नाप्रमाणाभैर् नाभास्वरैर् न परीत्तशुभैर् नाप्रमाणशुभैर् न शुभकृत्स्नैर् नानभ्रकैर् न पुण्यप्रसवैर् न बृहत्फलैर् न शुद्धावसैर् नातपैर् न सुदृशैर् न सुदर्शनैर् नाकनिष्ठैर् देवपुत्रैर् नाकाशानन्त्यायतनैर् न विज्ञानानन्त्यायतनैर् नाकिञ्चन्यायतनैर् न नैवसंज्ञानासंज्ञायतनैः कृता हन्त कुलपुत्रोपपरीक्षस्व कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यापद्यते? सर्व एते धर्माः प्रकृतिशून्या न च शून्यता कस्यचिद् अन्तिके व्यापद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् प्रकृतिशून्यतायां नियोजयत्य् अयं हेतुर् इदं फलं प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण यावद् अनुत्तरायां सम्यक्संबोधौ संदर्शयति समादापयति निवेशयति प्रतिष्ठापयति, तत् पुनर् लोकव्यवहारेण न (प्स्प्_6-8:92) पुनः परमार्थेन. तत् कस्य हेतोः? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यो वा प्राप्नुयाद् येन वा प्राप्नुयाद् यत्र वा प्राप्नुयाद् इयं सुभूते भूतकोटिर् यद् उत प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति सत्त्वानां कृतशो नात्र सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः. तत् कस्य हेतोह्? सत्त्वविविक्तता हि सर्वधर्माः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन समन्वागतः सत्त्वान् हीनवीर्यान् दृष्ट्वा कायिके च चैतसिके च वीर्ये समादापयति, न कुलपुत्र प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते यत्र वा संसीदेद् येन वा संसीदेद् यो वा संसीद्येत्, सर्व एते धर्माः प्रकृतिशून्याः शून्यता नातिवर्तते हन्तेदानीं कायिकं च चैतसिकञ् च वीर्यं जनयित्वा कौशीद्यम् अवसृज्य कुशल एव कर्मण्य् उद्यच्छस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु यदि वा शून्यतानिमित्ताप्रणिहितेषु यदि वार्यसत्येषु यदि वाध्यात्मशून्यतायां यदि वा बहिर्धाशून्यतायां यदि वाध्यात्मबहिर्धाशून्यतायां यदि वा यावद् अभावस्वभावशून्यतायां यदि वाभिज्ञासु यदि वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यदि वा यावत् सर्वधर्मेषु सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व स्वलक्षणशून्यतया न ह्य् अनावरणेषु धर्मेषु कस्यचित् संसीदना विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति, तथा च प्रतिष्ठापयति यथा द्वयन् न संविद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यताद्वैधीकारा, न ह्य् अद्वयो धर्मः क्वचित् कौशीद्यम् आपद्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतया वीर्यसत्त्वान् अवतारयत्य् अनुशास्ति, एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु (प्स्प्_6-8:93) यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा दशतथागतबलेषु यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु यदि वा महाकरुणायां यदि वाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु मा एतान् धर्मान् द्वयतो मनसिकुरु माद्वयतः. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न हि प्रकृतिशून्यता द्वयतो मानसिकर्तव्या नाद्वयतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन बोधिसत्त्वचर्यां चरन् सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्यानुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयत्य् अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयत्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोत्य् उपायकौशल्येन ध्यानभावनायाम् एवावतारयति, एहि त्वं कुलपुत्र ध्यानं भावय मा च विक्षेपसंज्ञी भव. तत् कस्य हेतोह्? प्रकृतिशून्या ह्य् एते धर्मा न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षेप्यते वा एकाग्री भवति वा, स त्वम् अत्र ध्याने स्थित्वा यद् यद् एवं कुशलं कर्म करिष्यसि कायेन वा वाचा वा मनसा वा, यदि वा दानन् दास्यसि यदि वा शीलं रक्षसि यदि वा क्षान्तिं संपादयिष्यति, यदि वा वीर्यम् आरभसे यदि वा ध्यानम् उत्पादयिष्यसि यदि वा प्रज्ञा भावयिष्यसि, यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयिष्यसि, यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखानि, यदि वार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तीर् यदि वाभिज्ञा यदि वा दशबलवैशारद्यप्रतिसम्विदो यदि वा महामैत्री यदि वा महाकरुणा यदि वाष्टादशावेणिकान् बुद्धधर्मान् यदि वा द्वात्रिंशन्महापुरुषलक्षणानि यदि वाशीत्यनुव्यञ्जनानि यदि वा श्रावकमार्गं यदि वा प्रत्येकबुद्धमार्गं यदि वा बोधिसत्त्वमार्गं यदि वा बुद्धमार्गं यदि वा स्रोतआपत्तिफलं यदि वा सकृदागामिफलं यदि वानागामिफलं यदि वार्हत्त्वं यदि वा प्रत्येकबोधिं यदि वा (प्स्प्_6-8:94) सर्वाकारज्ञतां यदि वा सत्त्वान् परिपाचयिष्यसि यदि वा बुद्धक्षेत्रं परिशोधयिष्यसि, तस्य ते इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादाय न जात्व् अकर्मको ऽभूत्, किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रेण बुद्धक्षेत्रं सततसमितं संक्रामति, बुद्धान् भगवतः पर्युपास्ते, यं च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स तस्य जातिव्यतिवृत्तस्यापि न जातु विप्रणक्ष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्याद् धारणीप्रतिलब्धश् च सततसमितं भवत्य् अहीणेन्द्रियो यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण यदि वा मनैन्द्रियेण.
तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतां सततसमितं भावयत्य् अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गाः सुभाविता भवन्ति, यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गस् तस्याभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भविष्यन्त्य् अविप्रणाशयोगेण, स तासु वैपाकिकीष्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति न परिहीयते पञ्चगतिके संसारे संसरन्न्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति, स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, एहि त्वं कुलपुत्र यद् यद् एवं कर्म करोषि कायेन वा वाचा वा मनसा वा तत् सर्वम् अमृताधिगमाय परिणामय तथा ते एते धर्माः सर्व अमृताविगमाय भविष्यन्त्य् अमृतपर्यवसानाय च, न च प्रकृतिशून्यतायां कश्चिद् धर्मो ऽभिनिविशते यः परिहीयते. तत् कस्य हेतोः? न हि शून्यता परिहीयते, न च प्रकृतिशून्यतायाः कश्चित् परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो नाभावस् तत् किम् अभावो ऽभावे धर्मे परिहास्यत्य्, एवं खलु सुभूते बोधिसत्त्वो (प्स्प्_6-8:95) महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, स एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको ऽभूत्, स आत्मना च सततसमितं दशकुशलेषु कर्मपथेषु वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयत्य् एवं पञ्चसु शिक्षापदेषु आर्याष्टाङ्गे समन्वागत उपोषधे. आत्मना च ध्यानारूप्यसमापत्तीः समापद्यते परांश् च ध्यानारूप्यसमापत्तिषु समादापयति, आत्मना च सततसमितं मैत्रीविहारी भवति परांश् च सततसमितं मैत्रीविहारे समादापयति, आत्मना च सततसमितं करुणाविहारी भवति परांश् च सततसमितं करुणाविहारे समादापयति, आत्मना च सततसमितं मुदिताविहारी भवति, परांश् च सततसमितं मुदिताविहारे समादापयति, आत्मना च सततसमितम् उपेक्षाविहारी भवति परांश् च सततसमितम् उपेक्षाविहारे समादापयति, आत्मना च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति परांश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु समादापयति, आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयति, आत्मना च सर्वपारमितासु सर्वशून्यतासु च शिक्षते परांश् च सर्वशून्यतासु सर्वपारमितासु च समादापयति, आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षते परांश् च दशबलवैशारद्यप्रतिसम्विदावेनिकबुद्धधर्मेषु समादापयति, आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि परिपूरयति परांश् च द्वात्रिंसन्महापुरुषलक्षणाशीत्यनुव्यञ्जनपरिनिष्पत्तये समादापयति, आत्मना च स्रोतआपत्तिफले
ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च स्रोतआपत्तिफले प्रतिष्ठापयति, आत्मना च सकृदागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च सकृदागामिफले प्रतिष्ठापयति, आत्मना चानागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चानागामिफले प्रतिष्ठापयति, आत्मना चार्हत्त्वे ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चार्हत्त्वे प्रतिष्ठापयति, आत्मना च प्रत्येकबोधौ ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च प्रत्येकबोधौ प्रतिष्ठापयति, आत्मना चानुत्तरायां सम्यक्संबोधौ मार्गम् उत्पादयति परांश् च तत्र मार्गे ऽववदत्य् अनुशास्ति प्रतिष्ठापयति. एवं खलु (प्स्प्_6-8:96) सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् उपायकौशल्येन न जात्व् अकर्मको ऽभूत्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते, न धर्मो नाधर्मः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिसंप्रतिष्ठते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते न धर्मो नाधर्मः, यदि पुनः सुभूते प्रकृतिशून्याः सर्वधर्मा अभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायाम् अभिसंप्रास्थास्यद्, एवं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य प्रकृतिशून्यं धर्मं देशयेद्, रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्कारा, विज्ञानं प्रकृतिशून्यं तदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मं देशयति, द्वादशायतनान्य् अष्टादशधातवः प्रकृतिशून्या इति धर्मं देशयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः प्रकृतिशून्य इति धर्मं देशयति, त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि प्रकृतिशून्यानीति धर्मं देशयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः, सर्वाकारज्ञता सर्ववासनानुसंधिक्लेशप्रहाणं प्रकृतिशून्यम् इति धर्मं देशयति, यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यद्, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यन्, न च प्रकृतिशून्यता विनश्यति न च कूटस्था भवति न च सा पुनर् अपक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था न च सा क्वचिद् गच्छति नापि (प्स्प्_6-8:97) कुतश्चिद् आगच्छति, एषा सा धर्मस्थितिता, यत्र न कस्यचिद् धर्मस्याचयो वा उपचयो वोपलभ्यते, हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा एषा सा प्रकृतिधर्माणां, यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुं संप्रस्थिता न कस्यचिद् धर्मस्य प्रस्थाने पश्यति, असंप्रस्थिताः सर्वधर्माः, एषा सा धर्माणां धर्मस्थितिता,
यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि न कस्यचिद् धर्मस्यावरणं वा समनुपश्यति, अनावरणं वा समनुपश्यति, तत् किं विचिकित्सिष्यत्य् अनुत्तरायां सम्यक्संबोधौ, यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिर् नात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते यावत् सर्वधर्मा नाध्यात्मा न बहिर्धा नाध्यात्मबहिर्धा नोपलभ्यते, यावद् अशीत्यनुव्यञ्जनानि नोपलभ्यन्ते.
इति प्रकृतिशून्यतानिवेशनकर्म

तद्यथापि नाम सुभूते तथागतनिर्मितस्य भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा बोधिसत्त्वो वानुप्रबन्धं कल्पं शतसहस्रं धर्मं देशयेत्, तत् किं मन्यसे? सुभूते अपि नु ते निर्मिता भव्याः स्रोतआपत्तिफलं वा प्रापयितुं, सकृदागामिफलं वा प्रापयितुं, अनागामिफलं वा प्रापयितुम् अर्हत्त्वं वा प्रापयितुम्, प्रत्येकबोधिं प्रापयितुम् अनुत्तरां सम्यक्संबोधिं प्रापयितुम्.
सुभूतिर् आह: नो भगवंस् तत् कस्य हेतोः? तथा हि तेषां भगवन् वस्तु नास्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अवस्तुकानां सर्वधर्माणां कतमः स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयति प्रतिष्ठापयति स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वानुत्तरायां सम्यक्संबोधौ वा (प्स्प्_6-8:98) ऽन्यत्र विपच्या सापन्नायाः संज्ञाया अविपर्यासे निवेशयति प्रतिष्ठापयति, यश् चासौ विपर्यासः स एवाविपर्यासः कल्पनाभिष्यन्दम् उपादायाविकल्पश् चाविपर्यासो, यत्राविकल्पस् तत्र विपर्यासो नास्ति न तत्रात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः न प्रतीत्यसमुत्पादाङ्गानि न तत्र पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न शून्यतानिमित्ताप्रणिहितानि न तत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न तत्रानुत्तरा सम्यक्संबोधिर्, एषा सा प्रकृतिशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति चरंस् तांश् च विपर्यस्तान् सत्त्वान् सत्त्वसंज्ञाया मोचयत्य्, एवम् आरूप्यरूपसंज्ञाया मोचयति, एवं यावत् सर्वधर्मसंज्ञाया मोचयति, ये ऽपि ते अनास्रवा धर्मास् तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः सो ऽपि न तस्य यथा न परमार्थो यद् उतासंस्कृतम् अनुत्पादो ऽप्रादुर्भावो ऽभावः, एषा सा प्रकृतिशून्यता, एषा सा सर्वबुद्धानां भगवतां बोधिर् यत्र न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न महाकरुणा न द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽन्यत्र प्रकृतिशून्यता परिज्ञानार्थं सा च प्रकृतिशून्यता पूर्वं वा पश्चाद् वा मध्ये वा न जातु साप्रकृतिशून्यता तत्र प्रकृतिशून्यता पारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वः (प्स्प्_6-8:99) सत्त्वान् सत्त्वसंज्ञिनः सत्त्वसंज्ञाया मोचनार्थं मार्गज्ञतायां चरति स मार्गज्ञतायां चरन् सर्वमार्गेषु चरन् सर्वमार्गेषु चरति, यद् उत श्रावकमार्गेषु प्रत्येकबुद्धमार्गेषु बोधिसत्त्वमार्गेषु, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं च परिशोध्यायुःसंस्कारान् अधिष्ठायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य बुद्धनेत्री नोपच्छिनत्ति
यद् उत प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तः तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते एतर्हि दशदिग्लोकधातुषु बुद्धा भगवन्तः तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, नान्यत्र प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, बुद्धानां भगवतां तेषां चान्तिके तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यता पारमितायां चरितव्यं, यथा चरन् न परिहीयते सर्वाकारज्ञतायाः.
सुभूतिर् आह: आश्चर्यम् इदं भगवन् बोधिसत्त्वानां महासत्त्वानां यत्र नाम इमे प्रकृतिशून्येषु धर्मेषु चरन्ति, तां च प्रकृतिशून्यतां न विकोपयतीत्य् अन्यद् रूपम् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्या पारमिता अन्यानि शून्यतामुखान्य् अन्ये बोधिपक्ष्या धर्मा अन्या प्रकृतिशून्यता, अन्यान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अन्या प्रकृतिशून्यता, अन्या शून्यतानिमित्ताप्रणिहिताभिज्ञा अन्या प्रकृतिशून्यता, अन्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, प्रकृतिशून्यतैवानुत्तरा सम्यक्संबोधिर् अनुत्तरा सम्यक्संबोधिर् एव प्रकृतिशून्यता.
(प्स्प्_6-8:100)

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते ऽन्यद् रूपं स्याद् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्याः पारमिताः, अन्यानि शून्यतामुखानि, अन्ये बोधिपक्ष्या धर्मा, अन्ये आर्यसत्याप्रमणध्यानारूप्यसमापत्तिविमोक्षसमाधिधारणीमुखा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, न सुभूते रूपं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यता, वेदना संज्ञा संस्कारा, विज्ञानं प्रकृतिशून्यता, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि प्रकृतिशून्यता, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वविमोक्षाः सर्वसमापत्तयः सर्वाभिज्ञाः सर्वाणि ध्यानानि सर्वाण्य् अप्रमाणानि सर्वा आरूप्यसमापत्तयः सर्वतथागतबलानि सर्वबोधिसत्त्वभूमयश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यता, अनुत्तरा सम्यक्संबोधिः प्रकृतिशून्यता, तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वो रूपं सर्वाकारज्ञतायाम् अभिसंबुध्येत, वेदना संज्ञा संस्कारान्, विज्ञानं सर्वाकारज्ञतायाम् अभिसंबुध्येत, यावद् बोधिं सर्वाकारज्ञतायाम् अभिसंबुध्येत. यस्मात् सुभूते प्रकृतिशून्यतैव रूपं रूपम् एव प्रकृतिशून्यता, वेदना संज्ञा संस्काराः, प्रकृतिसून्यतैव विज्ञानं विज्ञानम् एव प्रकृतिशून्यता, प्रकृतिशून्यतैव बोधिर् बोधिर् एव प्रकृतिशून्यता, तस्मात् सुभूते बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत्. तत् कस्य हेतोः? न हि तत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वान्यत्र सदेवको लोकः समारकः सब्रह्मकः सश्रमणब्राह्मणिका प्रजाः, सदेवमानुषासुरा न रूपं यथाभूतं प्रजानन्ति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानं (प्स्प्_6-8:101) यथाभूतं प्रजानन्ति, अप्रजानन्तो रूपम् अभिनिविशन्ते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिनिविशन्ते ऽभिनिविश्याहंकारममकारे
चरन्ति ते ऽहंकारममकाराव् अभिनिविश्याध्यात्मिकबाह्यानि वस्तूनि अभिनिविशन्त उपलभन्ते, अभिनिविश्योपलभ्य रूपं रूपत्वेन परिगृह्णन्ति, वेदनां वेदनात्वेन संज्ञां संज्ञात्वेन संस्कारान् संस्कारत्वेन, विज्ञानं विज्ञानत्वेन परिगृह्णन्ति, ते न परिमुच्यन्ते जात्या जरया मरणेन शोकेन परिदेवेन दुःखेन दौर्मनस्येन न परिमुच्यन्ते, उपायासेन न परिमुच्यते पञ्चगतिकात् संसारात्, तत्र बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितायां स्थित्वा रूपं न विकोपयति शून्यम् इति वाशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं न विकोपयति शून्यम् इति वाशून्यम् इति वा, एवं सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षान्, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबोधिसत्त्वभूमीर् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न विकोपयति शून्या इति वाशून्या इति वा. तत् कस्य हेतोः? न हि शून्यता विकोपयतीदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादा इमानि प्रतीत्यसमुत्पादाङ्गानि, इयं शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञा इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिः. तद्यथापि नाम सुभूते नाकाशम् आकाशं विकोपयति, अध्यात्मिकं वा बाह्यं वा न चाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति, न च बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयत्य्, एवं एव सुभूते न रूपं शून्यतां विकोपयति, न च शून्यता रूपं विकोपयति. तत् कस्य हेतोः? न हि तस्य स्वभावो ऽस्ति य एवं विकोपयत्य् अयं शून्यो ऽयं न शून्यः, एवं विस्तरेण सर्वधर्मेषु कर्तव्यम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न भेदः सर्वध्र्माणां कुतो भगवन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं? न (प्स्प्_6-8:102) हि भगवन् द्वैधीकारा बोधिर्, न द्वयचरितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न द्वयचरितस्य बोधिर् न द्वैधीकारा बोधिः, अद्वया हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वो महासत्त्वो ऽद्वैधीकारेण चरति बोधौ, नैव च बोधिसत्त्वस्य महासत्त्वस्य बोधी रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धधात्वायतनेषु चरति न प्रतीत्यसमुत्पादेषु चरति, न प्रतीत्यसमुत्पादाङ्गेषु चरति, न प्रतीत्यसमुत्पन्नेषु धर्मेषु चरति, न शून्यतासु चरति, न बोधिपक्ष्येषु धर्मेषु चरति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरति, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरति, न सम्यक्संबोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति शब्दो रूपे चरति, वेदनायां संज्ञायां संस्कारेषु, न बोधिर् अहम् इति शब्दो विज्ञाने चरति, एवं यावन् न बोधिर् अहम् इति शब्दः सम्यक्संबोधौ चरति, न बोधिसत्त्वस्य महासत्त्वस्य सम्यक्संबोधिर् उद्ग्रहे चरति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुत्तरा सम्यक्संबोधिर् नोद्ग्रहे चरति, कुत्र तर्हि बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति?
भगवान् आह: तत् किं मन्यसे? सुभूते कुत्र तथागतनिर्मितस्य बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽर्हतः स्वप्नान्तरगतस्य कुत्र बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.
सुभूतिर् आह: नो भगवन्, यदा भगवन्न् अत्यन्तो ऽर्हन् न स्वपिति कुतः स्वप्ने बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा?
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य न बोधिर् उद्ग्रहे वानुद्ग्रहे वा चरति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिर् नोद्ग्रहे वानुद्ग्रहे वा चरति न (प्स्प्_6-8:103) रूपे न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न स्कन्धधात्वायतनेषु न प्रतीत्यसमुत्पादेषु न प्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न शून्यतासु न बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहिताभिज्ञासु न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न सर्वाकारज्ञतायां चरति. कथं पुनर् बोधिसत्त्वो महासत्त्वो दशसु बोधिसत्त्वभूमिषु चरित्वा षट्सु पारमितासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु सर्वशून्यतासु ध्यानेष्व् अप्रमाणारूप्यसमापत्तिषु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिष्व् आर्यसत्येष्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महाकरुणायां द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् च परिशोध्य सत्त्वांश् च परिपाच्य सर्वाकारज्ञताम् अभिसंभोत्स्यते. न च भगवन्न् अस्थित्वा दशसु बोधिसत्त्वभूमिषु षट्सु पारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु महाकरुणायां पञ्चस्व् अभिज्ञास्व् अस्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् चापरिशोध्य सत्त्वाञ् चापरिपाच्य शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, न शक्यापरिपूरयित्वा दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् महामैत्रीं महाकरुणां महामुदितां महोपेक्षां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अपरिपूरयित्वानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, परिपूरयित्वा पुनः सुभूते शक्या दशभूमीर् दशपारमिताः सर्वशून्यताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र (प्स्प्_6-8:104) आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गमार्गशून्यतानिमित्ताप्रणिहितानि त्रीणि विमोक्षमुखानि यावद् अशीत्यनुव्यञ्जनानि महामैत्री महाकरुणां महामुदितां महोपेक्षां परिपूरयित्वा सर्वाकारज्ञतानुप्राप्तुं, तत् पुनः सुभूते रूपप्रकृतौ स्थित्वा वेदना संज्ञा संस्कारा, विज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा सा च प्रकृतिर् उपशान्ता न कस्यचिद् धर्मस्योपचयं वा करोत्य् अपचयं वा करोत्य् उत्पादं वा निरोधं वा उच्छेदं वा शाश्वतं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वाभिसमयं वा.
इत्य् अद्वयधर्मनिवेशनकर्म
स खलु सुभूते लोकव्यवहारप्रज्ञप्तिधर्मम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न पुनर् अत्र परमार्थं कश्चिद् अस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा, विज्ञानं वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादा वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा विमोक्षमुखानि वाभिज्ञा वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा अनुत्तरा सम्यक्संबोधिर् यो वानुत्तरायां सम्यक्संबोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधये चरति, न पुनस् तच् चित्तम् उपलभते न सत्त्वं न बोधिं, तत् किं मन्यसे? सुभूते यस्मिन् समये सुभूतिना क्लेशाः प्रहीना इन्द्रियाणि प्रतिलब्धानि, आनन्तर्यश् च समाधिः प्रतिलब्धः स्रोतआपत्तिफलं वा प्राप्तं सकृदागामिफलं वा प्राप्तम् अनागामिफलं वा प्राप्तं वार्हत्त्वं वा प्राप्तम्, अपि नु तस्मिन् समये स्वप्न उपलभ्यते, चित्तस्य मार्गो वा मार्गफलं वा.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् कथं सुभूतिनाम्ना स्थविरेण त्वयार्हत्त्वं प्राप्तम् इति प्रज्ञप्तम्?
सुभूतिर् आह: लोकव्यवहारम् उपादाय.
(प्स्प्_6-8:105)
भगवान् आह: एवम् एतत् सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदना संज्ञा संस्कारा लोकव्यवहारेण, विज्ञानं प्रज्ञप्तं लोकव्यवहारेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्तानि लोकव्यवहारेण सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानरूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि प्रज्ञप्तानि लोकव्यवहारेण शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेनिकबुद्धधर्माः प्रज्ञप्ता लोकव्यवाहारेण सर्वाकारज्ञता प्रज्ञप्ता, न पुनर् बोधिसत्त्वेन महासत्त्वेन सम्यक्संबोधौ कश्चिद् धर्म उपलब्धो यस्य धर्मस्योपचयं वापचयं वा कुर्याद् उपकारं वापकारं वा कुर्याद् धर्माणां प्रकृतिम् उपादाय सापि धर्माणां प्रकृतिर् नोपलब्धा, कः पुनर् वादः प्रथमचित्तोत्पादम् उपलप्स्यते, दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपलप्स्यते, शून्यतानिमित्ताप्रणिहितान् समाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् उपलप्स्यते, यावत् सर्वधर्मान् उपलप्स्यते नेदं स्थानं विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं करोति.
इति सांकेतिकज्ञाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गञ् च परिशोध्याभव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?

भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन दानपारमितायां चरति, न च दानम् उपलभते, न दानप्रतिग्राहकन् नाप्य् अन्यत्रैतेषु धर्मेषु चरति, (प्स्प्_6-8:106) तदा बोधिसत्त्वो महासत्त्वो उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् न च प्रज्ञाम् उपलभते, यो वा भावयेद् यद् वा भावयेत् तद् अपि नोपलभते नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् बुद्धधर्मान् न समनुपश्यति, यो वा भावयति यद् वा भावयति तद् अपि न समनुपश्यति, नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दाने योगम् आपद्यते?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, वेदना संज्ञा संस्कारा, विज्ञानं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं न दानपारमिता न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं स्कन्धधात्वायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न सप्तत्रिंशद्बोधिपक्ष्या धर्मा नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता नाप्रमाणध्यानारूप्यसमापत्तयो नार्यसत्यानि (प्स्प्_6-8:107) न शून्यतानिमित्ताप्रणिहितानि न विमोक्षसमाधिसमापत्तिधारणीमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा योजयन्ति न वियोजयन्ति. तत् कस्य हेतोः? तथा हि बुद्धधर्माणां स्वभावो नास्ति यो योजयति वा वियोजयति वा.
सारिपुत्र आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यो योजयति वा वियोजयति वा, कथं प्रज्ञापारमिताया अभिनिर्हारो भवति, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, न ह्य् अशिक्षित्वा प्रज्ञापारमितायां शक्या बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि न शक्याशिक्षित्वा प्रज्ञापारमितायां बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, यदि खलूपायकौशल्येन शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य स्वभावम् उपलभते गृह्णाति. अथ न लभते, तत् किं ग्रहीष्यति, इयं प्रज्ञापारमिता इयं ध्यानपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता, इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिर् इति, इमान् धर्मान् बोधिसत्त्वो महासत्वो नोपलभते, तत् किं ग्रहीष्यत्य् अग्राह्या शारिपुत्र प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्याः सर्वशून्यता, अग्राह्या बोधिपक्ष्या धर्मा, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अग्राह्याः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, अग्राह्या दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, इयं शारिपुत्र प्रज्ञापारमिताग्राह्यपारमिता यद् उत प्रज्ञापारमिता, अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यत्र शिक्षमाणो बोधिअत्त्वो महासत्त्वः शिक्षाम् अपि न लप्स्यते, (प्स्प्_6-8:108) कुतः पुनर् बोधिं कुतः पुनः प्रज्ञापारमितां कुतः पुनर् बोधिसत्त्वधर्मान् कुतः पुनः प्रत्येकबुद्धधर्मान् कुतः पुनः श्रावकधर्मान् कुतः पुनः पृथग्जनधर्मान्. तत् कस्य हेतोः? तथा हि शारिपुत्र न कस्यचिद् धर्मस्य स्वभावो विद्यते,
एवम् अभावस्वभावानां सर्वधर्माणां कतमः पृथग्जनधर्मः कतमः स्रोतआपन्नः कतमः सकृदागामी कतमो ऽनागामी कतमो ऽर्हन् कतमः प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमः सम्यक्संबुद्धः? यदीमे पुद्गला नोपलभ्यन्ते, तदा कुत एते धर्माः प्रादुर्भविष्यन्ति, येषु धर्मेषु निर्दिश्यते पृथग्जनो वा स्रोतआपन्नो वा सकृदागामी वानागामी वार्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा सम्यक्संबुद्धो वा.
शारिपुत्र आह: अवस्तुकानां भगवन् सर्वधर्माणां कुतः आगमः प्रज्ञायते? अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः.

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं नु शारिपुत्र रूपस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.
शारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तश् चित्तः पृथग्जनो रूपम् इत्य् अभिनिविष्टो, वेदनायाः संज्ञायाः संस्काराणाम्.
भगवान् आह: किं नु शारिपुत्र विज्ञानस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.
सारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो विज्ञानम् इत्य् अभिनिविष्टः.
भगवान् आह: किं पुनः शारिपुत्र यावत् सर्वधर्माणां वस्त्व् अस्ति भूतं भव्यं यथा बालपृथक्जनो ऽभिनिविष्टः.
शारिपुत्र आह: नो भगवन् नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो यावत् सर्वधर्मा इत्य् अभिनिविष्टः.
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनावस्तुकान् धर्मान् पश्यन्न् (प्स्प्_6-8:109) अनुत्तरायां सम्यक्संबोधौ प्रस्थितः.
इत्य् अनुपलंभज्ञाननिवेशनकर्म
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्येनावस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्य वस्तु समनुपश्यति यत्र वस्तूनि प्रतिहन्येत, यत्र प्रतिहन्यमान आलीयेत आलीयमानः संसीदेत् कौशीद्यम् आपद्येत, तस्मात् तर्हि शारिपुत्र अवस्तुका अजीवा निर्जीवा अभावस्वभावाः प्रकृतिशून्याः सर्वधर्माः, अन्यत्र समोहेन सत्त्वा अभिनिविष्टाः स्कन्धेषु वा धातुषु वा आयतनेषु वा प्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु वा तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् संपश्यमानः प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन् मायाकारसदृशम् आत्मानम् अधिष्ठाय सत्त्वानां धर्मं देशयति, ये सत्त्वा मत्सरिणस् तेषां दानकथां करोति, दुःशीलानां शीलकथां करोति, व्यापन्नचित्तानां क्षान्तिकथां करोति, कुशीदानां वीर्यकथां करोति, विक्षिप्तचित्तानां ध्यानकथां करोति, दुष्प्रज्ञानां प्रज्ञाकथां करोति, यदा ते सत्त्वा दाने प्रतिष्ठिता भवन्ति, शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठिता भवन्ति, तदा तेषां सत्त्वानाम् अनुशासनीं कथां करोत्य् आर्यां नैर्याणिकीं, यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकां बोधिं प्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं भगवन् बोधिसत्त्वो महासत्त्व औपलंभिको ऽसंविद्यमानां सत्त्वान् दाने नियोजयति, शीले नियोजयति, क्षान्तौ नियोजयति, वीर्ये नियोजयति, ध्याने नियोजयति, प्रज्ञायां नियोजयति. उत्तरे चाचार्या नैर्याणिकीं कथां करोति, यया कथया स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकबोधिं प्राप्नुवन्ति सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.
(प्स्प्_6-8:110)
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चित् सत्त्वम् उपलभते ऽन्यत्र संवृत्तिसंकेतेन व्यवहरति, तच् छारिपुत्र बोधिसत्त्वो महासत्त्वो द्वाभ्यां सत्याभ्यां स्थित्वा सत्त्वानां धर्मं देशयति, न हि शारिपुत्र द्वाभ्यां सत्याभ्यां सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः, अपि तु खलूपायकौशल्येन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तत् ते सत्त्वा दृष्ट एव धर्म आत्मानं नोपलभन्ते, प्राग् एव यः प्रापयिष्यति, येन वा प्रापयिष्यति, एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति.
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: महोत्पादो बतायं भगवन् बोधिसत्त्वो महासत्त्वो न च नाम भगवन् कस्यचिद् धर्मस्यैकत्वं वा नानात्वं वा पृथक्त्वं वा उपलभते, एवंरूपं च संनाहं संनह्यते येन संनाहेन संनह्य न कामधातौ दृश्यते, न रूपधातौ दृश्यते, नारूप्यधातौ दृश्यते, न संस्कारधातौ दृश्यते, नासंस्कृतधातौ दृश्यते, सत्त्वांश् च त्रैधातुकान् मोचयति, न च सत्त्वं सत्त्वप्रज्ञप्तिम् उपलभते, सत्त्वाप्रज्ञप्त्या सत्त्वाबन्धः सत्त्वामोक्षः सत्त्वाबन्धामोक्षाद् असंक्लेशाव्यवदानम् असंक्लेशाव्यवदानान् न गतिसंभेदः प्रज्ञायते, गत्यसंभेदतया न कर्म न संक्लेशः, अकर्मासंक्लेशस्य कुतो विपाको भविष्यति, येन विपाकेनात्मना सत्त्वाः पञ्चगतिके संसारे संदृश्येरन्.

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतद् यथा वाचं भाषसे, सचेत् पूर्वं सत्त्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, बोधिसत्त्वो ऽपि तथागतो ऽपि पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, पञ्चगतिको वा संसारः पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, यस्मात् तर्हि शारिपुत्रोत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव एषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतानन्यतथता, तत्र नात्मा न सत्त्वो न जीवो न जन्तुर् (प्स्प्_6-8:111) न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः, तत् कुतो रूपं भविष्यति, कुतो वेदना कुतः संज्ञा कुतः संस्काराः, कुतो विज्ञानम् इति भविष्यति, कुतः स्कन्धधात्वायतनानि कुतः प्रतीत्यसमुत्पादः कुतः प्रतीत्यसमुत्पन्नधर्माः कुतः प्रतीत्यसमुत्पादाङ्गानि भविष्यन्त्य्, असताम् एषां धर्माणां कुतः पञ्चगतिकः संसारो भविष्यति, यतः सत्त्वाः परिमोचयितव्याः स्युर् यस्मात् तर्हि शारिपुत्र इमे धर्मा ईदृशाः स्वभावशून्यास् तद् बोधिसत्त्वो महासत्त्वः पूर्वकाणां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वानुत्तरायां सम्यक्संबोधौ संप्रस्थितो, न चात्र कश्चिद् धर्मस्वभावो यम् उपलभते यो वा शक्यो ऽधिमोक्तुं, यत्र बालपृथग्जना अभिनिविष्टा अन्यत्र विपर्यासे, तद् बोधिसत्त्वो महासत्त्वः संनाहं संनह्यते येन संनाहेन संनह्य न प्रत्युदावर्तते ऽनुत्तरायां सम्यक्संबोधौ, मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिर्, अभिसंबोधव्यैवानुत्तरा सम्यक्संबोधिर्, अभिसंबुध्य च धर्मेणार्थं करिष्यामि, येनार्थेन सत्त्वान् विपर्यासात् परिमोचयिष्यामि, तद्यथापि नाम शारिपुत्र मायाकारनिर्मितः पुरुषो बहूनि प्राणिकोटिनियुतशतसहस्राण्य् अभिनिर्मिमीते, अभिनिर्माय प्रभूतेन खादनीयभोजनीयस्वादनीयेन संतर्प्ययेत्, संतर्प्यैवम् उदानम् उदानयेद् बहु मे पुण्यं प्रसूतम् इति. तत् किं मन्यसे? शारिपुत्रापि नु तत्र कश्चिद् भोजितो वा संतर्पितो वा भवेत्.
शारिपुत्र आह: नो भगवन्.
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टसु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु दशसु बोधिसत्त्वभूमिषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु (प्स्प्_6-8:112) अष्टादशस्व् आवेणिकबुद्धधर्मेषु महामैत्र्यां महाकरुणायाञ् चरन् बोधिमार्गां च परिपूरयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति न च कञ्चित् सत्त्वम् उपलभते यम् उपलभ्य विनयेत्.
इति सत्त्वपरिपाकनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्याः, बुद्धक्षेत्रं च परिशोधयितव्यम्?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्, अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपथानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरन् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सत्त्वान् परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति सत्त्वेभ्यो दानं दत्वा एवम् अववदति, इह कुलपुत्रा मा दानम् आग्रहणतो ग्रहीष्यथ, मा दानाग्रहणगृहीतेनात्मभावम् अभिनिवर्तयिष्यथ, येनात्मभावेनाभिनिवर्तितेन बहूनि दुष्खानि प्रत्यनुभविष्यथ, नेह कुलपुत्रा परमार्थेन दानं न दानपतिर् न प्रतिग्राहकः, सर्व एते त्रयो धर्माः शून्या, न च प्रकृतिशून्या धर्मान् गृह्णन्त्य् अग्राह्या शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानं ददाति, न चात्र दानम् उपलभते न दानपतिं न प्रतिग्राहकम् अनुपलंभपारमितैषा (प्स्प्_6-8:113) यद् उत दानपारमिता, स दानदातृप्रतिग्राहकान् अनुपलंभमानः सत्त्वान् स्रोतआपत्तिफले नियोजयति, सकृदागामिफले नियोजयत्य् अनागामिफले नियोयति, अर्हत्त्वे नियोजयति, प्रत्येकायां बोधौ नियोजयति, अनुत्तरायां सम्यक्संबोधौ नियोजयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति, स आत्मना च दानं ददाति, परांश् च दाने समादापयति, दानस्य च वर्णं भाषते ये ऽपि चान्ये दानं ददाति, तेषां च वर्णवादी भवति समनुज्ञः, तद् बोधिसत्त्वो महासत्त्व एवंरूपं दानं दत्वा क्षत्रियमहाशालकुलानां वा सहव्रतायोपपद्यते, ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्यते, गृहपतिमहाशालकुलानां वा सहव्रतायोपपद्यते, कोट्टराजो वा भवति, चक्रवर्तिराज्यं वा प्रतिलभते, स तत्र सत्त्वांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णाति, कतमैश् चतुर्भिर्? दानेन प्रियवद्यतया, अर्थचर्यया समानार्थतया च. एवं तान् सत्त्वान् दानेन संगृह्यानुपूर्वेण शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेषु प्रतिष्ठापयति, शून्यतानिमित्ताप्रणिहितेषु सम्यक्नियामम् अवक्रामयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अनुप्रापयति, प्रत्येकां बोधिम् अनुप्रापयत्य् अनुत्तरायां सम्यक्संबोधौ समादापयति, हंहो पुरुषा अभिसंबुद्ध्यध्वम् अनुत्तरां सम्यक्संबोधिं,

तत्र न कश्चिद् धर्मः स्वभावेन संविद्यते, यत्र सत्त्वा अन्यत्र विपर्यासेन नावबुध्यन्ते, तस्मात् सर्वविपर्यासान् मा ग्रहीष्यथ, आत्मानं मोचयथ संसारात्, परांश् च मोचयिष्यथ, एवं यूयम् आत्मनश् च महान्तम् अर्थं करिष्यथ, परांश् च महत्य् अर्थे नियोजयिष्यथ. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरन् प्रथमचित्तोत्पादम् उपादाय न जातु दुर्गतिं पतति, न जातु चक्रवर्तिराज्यन् न कारयति. तत् कस्य हेतोः? यादृशं हि वीजं तादृशं फलं भवति, तस्य चक्रवर्तिनो यदा याचनका आगच्छन्ति तदा तस्य चक्रवर्तिनो राज्ञ एवं भवति, येषां मया कृतशश् चक्रवर्तिफलं परिगृहीतं नान्यत्र सत्त्वानाम् (प्स्प्_6-8:114) अर्थाय, तद् एतद् युष्माकम् एव दत्तं भवतु, तस्म्द् अत्र न मयानेन चक्रवर्तिराज्येनार्थः प्राग् एवान्ये नान्यत्र सत्त्वानाम् अर्थाय संसार उपात्तः स करुणायमानो महाकरुणां परिपूरयति, यावन् महाकरुणां परिपूरयित्वा सत्त्वानाम् अर्थं करोति, ते च सत्त्वा नोपलभ्यन्ते ये परिनिष्पन्नाः स्युर् इत्य् अन्यत्र संज्ञानाम् असंकेतं व्यवहार इति, स च व्यवहारः प्रतिश्रुत्कोपमो ऽप्रव्याहारो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित् सत्त्वानाम् अन्तिके ऽपरित्यक्षं भवति, अन्तश आत्ममांसान्य् अपि, प्राग् एव बाह्यान्य् उपकरणानि, यैर् उपकरणैः सत्त्वाः संसारात् परिमोचयितव्याः, तानि पुनः कतमान्य् उपकरणानि यद् उत दानपारमितोपकरणं, शीलपारमितोपकरणं क्षान्तिपारमितोपकरणं वीर्यपारमितोपकरणं ध्यानपारमितोपकरणं प्रज्ञापारमितोपकरणम्, अध्यात्मशून्यतोपकरणं बहिर्धाशुन्यतोपकरणम्, अध्यात्मबहिर्धाशून्यतोपकरणं यावद् अभावस्वभावशून्यतोपकरणं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा उपकरणम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् उपकरणं शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा उपकरणम्, इमानि तान्य् उपकरणानि यैर् उपकरणैर् उपगृहीताः सत्त्वाः संसारात् परिमोक्ष्यन्ते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सर्वस्या दानं ददद् एवं वाचं भाषेत्, अहं भो यूयं कुलपुत्राः शीलं रक्षताहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा यानैर् वा हिरण्यसुवर्णमनिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडैर् वा, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरैर् वा, ग्लानप्रत्ययभैषज्यपरिष्कारैर् वा यावद् अन्यतरैर् वा मानुष्यकैः परिष्कारोपकरणैर्, येन यूयं वैकल्पेन दौःशील्यं कुरुथ, तद् अहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नादिना वा सप्तभिर् वा रत्नैर्, यद् वाकाङ्क्षथ तत् सर्वं परिप्रापयिष्यामि, तद् यूयं संवरशीले स्थित्वानुपूर्वेण दुष्खस्यान्तं करिष्यथ त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा (प्स्प्_6-8:115) महायानेन वा.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वा ये कुप्यन्ति वा व्यापद्यन्ते वा तेषां सत्त्वानाम् एवं वाचं भाषेत, केन यूयं कारणेन कुलपुत्रा व्यापद्यध्वे दोषम् उत्पादयथ? तद् अहं यूष्माकं सर्वं परिप्रापयिष्यामि, यस्यार्थेन कुप्यथ व्यापद्यथ तत् ममान्तिकाद् गृह्णीथ, तेन भगवताम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा पुष्पधूपगन्धमाल्यविलेपनचूर्णैर् वा हिरण्यसुवर्णरजतशङ्खशिलाप्रवालैर् वा विविधैर् वा मणिरत्नैर् वा यावद् अन्यतरान्यतरैर् वा मानुष्योपकरणपरिष्कारैर् येन यूयं न कुप्यथ व्यापद्यध्वे. तद् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, नैवात्र कश्चिद् भावो ऽस्ति यः भावो येन युष्माकं क्रोध उपजायत अभूतसंकल्प एष क्रोधो नैतस्य किंचिद् वस्त्व् अस्ति यस्य यूयं वस्तुनः कृतशो ऽभिसज्जथ कुप्यथ व्यापद्यध्वे ऽभिषज्य कुपित्वा व्यापद्य दण्डेन वा शस्त्रेण वा प्रहरथान्यमन्यं वा जीविताद् व्यपरोपयथ, तद् यूयम् असद्भूतसंकल्पितक्षुभिता नरकं वा प्रपतिष्यथ तिर्यग्योनिं वा यमलोकं वा प्रपतिष्यथ, या अप्य् अन्याः काश्चिद् गतयस् तासु च दुःखां वेदनां वेदयिष्यथ, हंभो पुरुषा मावस्तुकानां धर्माणां कृतशः तत् कर्म परिगृह्णीत येन परिगृहीतेन मनुष्यप्रतिलाभो न भविष्यति, प्राग् एव बुद्धोत्पादो दुर्लभः. स खलु पुनर् भो पुरुषो दुर्लभो बुद्धोत्पादो दुर्लभो मनुष्यलाभो दुर्लभः क्षणसंपद् दुर्लभः संसारां मोक्षः, मा इमं क्षणं विरागयिष्यथ मा विचिकित्सा भविष्यथ क्षणप्राप्ताः. ततो बोधिसत्त्वो महासत्त्व आत्मना च क्षान्त्या संपादयाति, परांश् च क्षान्तिसौरत्ये नियोजयति, क्षान्तेश् च वर्णं भाषते, ये ऽपि चान्ये क्षान्तिं भावयन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः, ततस् तान् सत्त्वान् क्षान्त्यां नियोजयित्वा क्षान्त्यां स्थापयित्वानुपूर्वेण त्रिभिर् यानैः (प्स्प्_6-8:116) परिनिर्वापयति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिसौरत्ये सत्त्वान् नियोजयति.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन्, सत्त्वां वीर्यपारमितायां नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् कुशीदान् हीनवीर्यान् अलसान् विदित्वा एवम् अववदति, कस्य यूयं कृतशः कौशीद्यम् आपद्यध्वे? त एवम् अवोचत्, प्रत्ययवैकल्येन, तद् बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् तान् सत्त्वान् एतद् अवोचत्, हम्भो पुरुषा अहं भवतां सर्वप्रत्ययान् उपसंहरिष्यामि, यदि वा दानं यदि वा शीलं यदि वा क्षान्तिं यदि वा यैर् आकारैर् यैर् लिङ्गैर् वीर्यम् आरभेध्वं तान् भवताम् उपसंहरिष्यामि, ततस् ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्य उपकरणैर् वीर्यम् आरभन्ते कायिकं वा चैतसिकं वा, तेन कायिकेन वा चैतसिकेन वा वीर्येण सर्वान् कुशलान् धर्मान् परिपूरयन्ति, यैः कुशलैर् धर्मैर् आर्यान् अनास्रवान् धर्मान् भावयन्ति, यान् भावयमाना स्रोतआपत्तिफलं प्राप्स्यन्ति सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ति, प्रत्येकां बोधिं प्राप्स्यन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् वीर्यपारमितायां सत्त्वान् नियोजयति.

कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् अववदतीह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं ध्यानन् न समापद्यध्वे? तम् एवम् आहुः, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्व एतद् अवोचत्, हंभो पुरुसा अहं तान् प्रत्ययान् उपसंहरिष्यामि, यैः प्रत्ययैर् न वितर्कान् वितर्कयिष्यथ, इदम् इति वा बहिर्धेत्य् अध्यात्मेति वाध्यात्मबहिर्धेति, तद् बोधिसत्त्वो महासत्त्वस् तेषां सत्त्वानां तान् प्रत्ययान् उपसंहरति यैः प्रत्ययैर् उपसंहृतैर् न वितर्कयन्ति ततस् ते सत्त्वा वितर्केषु च्छिन्नेषु प्रथमं ध्यानं समापद्यन्ते, द्वितीयं ध्यानं समापद्यन्ते, तृतीयं ध्यानं समापद्यन्ते, चतुर्थं ध्यानं समापद्यन्ते, मैत्रीकरुणामुदितोपेक्षाः समापद्यन्ते, ते तैर् ध्यानैस् तैश् चाप्रमाणैर् यावद् (प्स्प्_6-8:117) अष्टाङ्गमार्गं भावयमाणां त्रिभिर् यानैः परिनिर्वन्ति, तत्रापरे बोधिमार्गां न परिहीयन्ते यावद् अनुत्तरायाः सम्यक्संबोधेः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् एवम् अववदति.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितया परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं प्रज्ञापारमितान् न भावयथ? त एवम् अवोचत्, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, ममोपरि पूरयम् उपकरणं गृह्णीत ममोपर्य् उपकरणं गृहीत्वा दानं ददत, शीलं रक्षत क्षान्त्या संपादयत वीर्यम् आरभध्वं ध्यानं संपादयध्वम्, इमान् आकारान् परिपूर्यैव मीमांसयत, अस्ति कश्चिद् यः प्रज्ञापरमिताभावनायाम् उपलभ्यते? आत्मा वा सत्त्वो वा जिवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कारको वा वेदको वा जानको वा पश्यको वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा षट्पारामिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा शून्यतानिमित्ताप्रणिहितानि वाष्टविमोक्षा वा नवानुपूर्वविहारसमापत्तयो वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावद् अनुत्तरा वा सम्यक्संबोधिः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मम् उपलभते यम् उपलभ्याभिनिविशेत सो ऽनभिनिवेशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यत्य् असमनुपश्यन् न कल्पयत्य् अयं नैरयिको ऽयं तिर्यग्योनिको ऽयं यामलौकिको ऽयम् असुरो ऽयं देवो ऽयं मनुष्यो ऽयम् अमनुष्यः, अयं शीलवान् अयं दुःशीलो अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितायां परिगृह्णाति.
(प्स्प्_6-8:118)
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा यावत् सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् उपकरणम् उपनामयति यैर् उपकरणैर् उपगृहीताः सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयन्ति, येन मार्गेण भावितेन यावत् संसारात् परिमुच्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा एवं सत्त्वान् परिपाचयति, एते यूयं भोः कुलपुत्रा ममान्तिकाद् अन्नं पानं यानं वस्त्रां माल्यं गन्धं विलेपनं पुष्पं धूपं चूर्णं यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् गृहीत्वा सप्तभिश् च रत्नैः सत्त्वान् अनुगृह्णीध्वं, तद् भवतां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय, मा चैव चिन्तयिष्यथ, अस्यैषो ऽर्थो नास्माकम् इति, यद् भवता दीर्घरात्रम् एषो ऽर्थः सत्त्वानां कृतश उपार्जितस् तद् युष्माकम् एवैष सन्तक इत्य् एवं गृहीत्वा सत्त्वेभ्यो दानं ददध्वं, तेन च दानेन शीले नियोजयध्वं क्षान्त्या नियोजयध्वं वीर्ये नियोजयध्वं ध्याने नियोजयध्वं प्रज्ञायां नियोजयध्वं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयध्वं आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयध्वं, शून्यतानिमित्ताप्रणिहितेषु नियोजयध्वं, मा चैतावता तुष्टिम् आपद्यध्वं, यावद् अनुत्तरेष्व् आर्येष्व् अनास्रवेषु धर्मेषु प्रतिष्ठापयध्वं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबोधाव् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयध्वम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्याः, यथा परिपाचितास् त्रिभ्यो पापेभ्यो मुच्यन्ते, यावत् सर्वस्माद् एव संसारात् परिमुच्यन्ते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा सत्त्वान् परिपाचयति, एते (प्स्प्_6-8:119) यूयं भोः सत्त्वा तेषां प्रत्ययानाम् असतां दौःशील्यम् आपद्यथ व्यापादं कौशीद्यं विक्षेपं दौष्प्रज्ञम् आपद्यध्वे तान् प्रत्ययान् युष्माकम् उपसंहरिष्यामि, अन्नं वा पानं वा वस्त्रं वा शयनासनं वा यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् स तान् सत्त्वांस् तथारूपेणानुग्रहेणानुगृह्णाति यथारूपेणानुग्रहेनानुगृहीताः समान् दशकुशलान् कर्मपथान् समादाय वर्तन्ते, अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे संवरशीले स्थित्वा षट्सु पारमितासु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु स्थित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.
अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: कतमो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन इदृशाः संनाहाः संनद्धव्याः?

अथ खलु भगवान् आयुष्मतः सुभूतेश् चेतसैव चैतः परिवितर्कम् आज्ञायायुष्मन्तं सुभूतिम् एतद् अवोचत्: षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्तत्रिंशद् बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वशून्यता अष्टविमोक्षा नवानुपूर्वविहारसमापत्तय आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. अपि तु खलु सुभूते सर्वधर्मा अपि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, तत् किं मन्यसे? सुभूते अस्ति स कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं यत्राशिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. नास्ति सुभूते कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेनाशिक्षितव्यम् अशिक्षित्वा यत्र बोधिसत्त्वो महासत्त्वो न शक्नोति सर्वाकारज्ञताम् अनुप्राप्तुम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षिष्यते? न तु भगवन्न् अप्रपञ्चन् न प्रपञ्चयति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रावो वा अनास्रवो (प्स्प्_6-8:120) वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वा.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् सर्वधर्माः शून्या, यदि पुनः सुभूते सर्वधर्माः शून्या नाभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस्मात् सुभूते सर्वधर्माः शून्यास् तद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अपि तु खलु सुभूते यद् एवं वदसि, यदि सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वा अनास्रवो वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वेति. किं पुनः सुभूते एते सत्त्वा एवं जानन्ति सर्वधर्माः शून्या इति यदि जानीयुर् नैमां बोधिसत्त्वा महासत्त्वाः सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, यस्मात् तर्हि सुभूते न जानन्ति सर्वधर्माः शून्या इति, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्माणां व्यवस्थानं कृत्वा सत्त्वानां धर्मं देशयति.
इति बोधिसत्त्वमार्गनिवेशनकर्म
तत्र बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमम् एवम् उपपरीक्षितव्यं, नात्र कश्चिद् धर्मो यः स्वेन भावेनोपलभ्यते ऽन्यत्राभिसंस्कारेण, तत्र खलु धर्माणां स्वभावम् उपपरीक्षेयम् अहम् उपपरीक्षमाणो न क्वचिद् धर्मे ऽभिनिवेशेय यदि वा पारमितासु यदि वा शून्यतासु यदि वा सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु यदि वा स्रोताअपत्तिफले यदि वा सकृदागामिफले यदि वानागामिफले यदि वार्हत्त्वे यदि वा प्रत्येकबोधौ यदि वानुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या न हि शून्यता शून्यतायाम् अभिनिविशते, शून्यतैव तावन् नोपलभ्यते प्राग् एव (प्स्प्_6-8:121) शून्यतायाम् अभिनिवेक्ष्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु विहरति, अत्र शिक्षायां स्थित्वा सत्त्वान् अवलोकयति, कुत्रेमे सत्त्वाश् चरन्त्य् असंग्रहे तद् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोचना बतेमे सत्त्वा असंग्रहात्, तत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां स्थित्वा एवम् अववदति, एते यूयं भोः सत्त्वा दानं ददत ततो युष्माकम् अवैकल्यं भविष्यति भोगेषु, तेषु च भोगेषु मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं शीले ऽववदति तेन च शीलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं क्षान्तिसौरत्ये ऽववदति तया च क्षान्त्या मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं वीर्ये ऽववदति मा च तेन वीर्येण मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं ध्याने ऽववदति तेन च ध्यानेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रज्ञापारमितायाम् अववदति तया च प्रज्ञया मा मंस्याध्वं न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले ऽववदति तेन च स्रोतआपत्तिफलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं सकृदागामिफले ऽनागामिफले, एवम् अर्हत्त्वे ऽववदति तेन चार्हत्त्वेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रत्येकबोधाव् अववदति तया च प्रत्येकबोध्या मा मंस्यध्वम्. एवं बुद्धधर्मेष्व् अववदति तैश् च बुद्धधर्मैर् मा मंस्यध्वं न तेषु किंचित् सारम् अस्ति. स एवम् अववदन् बोधिमार्गे चरति, न क्वचिद् धर्मे ऽभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टाश्
च सर्वधर्मास् तथा ह्य् एषां स्वभावो नास्ति ये नाभिनिविशेत शून्यतास्वभावताम् उपादाय. तत् सुभूते बोधिसत्त्वो महासत्त्वो मार्गे चरन् न क्वचित् प्रतिष्ठते सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति तत्र च न प्रतिष्ठते, शीलपारमितायां चरति तत्र च न प्रतिष्ठते, क्षान्तिपारमितायां चरति तत्र च न प्रतिष्ठते, वीर्यपारमितायां चरति तत्र च न प्रतिष्ठते, ध्यानपारमितायां चरति तत्र च न प्रतिष्ठते, प्रज्ञापारमितायां चरति तत्र च न प्रतिष्ठते, स प्रथमं ध्यानं समापद्यते तत्र च न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि ध्यानं स्वभावेन शून्यं यद् अपि समापद्यते तद् अपि शून्यं यैर् आकारैः समापद्यते ते ऽप्य् आकाराः शून्याः, एवं (प्स्प्_6-8:122) द्वितीयं ध्यानं समापद्यते, एवं तृतीयं ध्यानं समपद्यते, एवं चतुर्थं ध्यानं समापद्यते, एवं मैत्रीकरुणामुदितोपेक्षा एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिंचन्यायतनं नैवसंज्ञानासंज्ञायतनं समापद्यते, एवम् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर्, एवं शून्यतानिमित्ताप्रणिहितानि समापद्यते, स्रोतआपत्तिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, सकृदागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, अनागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, ऽर्हत्त्वं च प्रतिलभते न च तत्र प्रतिष्ठते, प्रत्येकबुद्धभूमिञ् च प्रतिलभते न च तत्र प्रतिष्ठते.
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो न प्रतिष्ठते?

मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc