पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 141149
भगवान् आह: द्वाभ्यां कारणाभ्यां सुभूते न प्रतिष्ठते. कतमाभ्यां द्वाभ्याम्? स्वभावश् च तेषां फलं नास्ति यत्र प्रतिष्ठेत येन वा प्रतिष्ठेत यो वा प्रतिष्ठेत, न च तावन्मात्रकेन तुष्टिम् आपद्यते, न च मया स्रोतआपत्तिफलं न प्राप्तव्यं प्राप्तव्यं मया स्रोतआपत्तिफलं न च तत्र स्थातव्यम्, एवं सकृदागामिफलम् अनागामिफलं, न च मयार्हत्त्वं न प्राप्तव्यं प्राप्तव्यं मयार्हत्त्वं न च तत्र स्थातव्यं, न च मया प्रत्येकबुद्धभूमिं न प्राप्तव्या प्राप्तव्या मया प्रत्येकबुद्धभूमिर् न च तत्र स्थातव्यं, यद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यति, द्वाभ्यां कारणाभ्यां न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय नान्यत्र चित्तं प्रतिलब्धम् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रथमाम् अपि भूमिम् उपादाय वर्तमानो ऽन्यत्र न किंचिच् चित्तम् उत्पादयत्य् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. एवं यावद् दशमीं भूमिम् उपादाय वर्तमानो नान्यत्र किंचिच् चित्तम् उत्पादयत्य् अनुत्तरायाः सम्यक्संबोधेः, यावद् बोधिसत्त्वन्यामम् अवक्रान्तेर् नान्यत्र किंचिच् चित्तम् उत्पादितम् अन्यत्रानुत्तरायाः सम्यक्संबोधेर् अतृप्तमानसः. स सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन (प्स्प्_6-8:123) वा पराक्रमते वाचा वा मनसा वा पराक्रमते, नान्यत्र बोधिचित्तात् तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वाविक्षिप्तमानसो बोधिमार्गम् उत्पादयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा अनुत्पन्नाः कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मा अनुत्पन्नास् तत् पुनः कथं येनाभिसंस्कुर्वन्ति, तेषां सर्वधर्मा अनुत्पन्नाः?
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन्न् अनुत्पादाद् वा तथागतानाम् उत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता, ये पुनर् इमां धर्मस्थितितान् न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति येन मार्गेण सत्त्वान् मोचयति संसारात्.
इति सर्वाभिनिवेशप्रहाणनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अनुत्पन्नेन मार्गेण बोधिः प्राप्यते उताहो उत्पन्नेन?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् नानुत्पन्नेन चोत्पन्नेन मार्गेण बोधिः प्राप्यते?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवन् नैव नानुत्पन्नेन नैव नोत्पन्नेन मार्गेण बोधिः प्राप्यते?
भगवान् आह: न सुभूते.
सुभूतिर् आह: तत् कथं पुनर् भगवन् बोधिः प्राप्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते मार्गेण बोधिः प्राप्यते नामार्गेण, बोधिर् एव सुभूते मार्गः, मार्ग एव बोधिः.
(प्स्प्_6-8:124)
एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिर् एव मार्गो मार्ग एव बोधिर् अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिस्, तत् कथं तथागतो ऽर्हन् सम्यक्संबुद्धो निर्दिश्यते? द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्यनुव्यञ्जनैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिश् चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैश् चतुर्भिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैः पञ्चभिर् अभिज्ञाभिर् अष्टविमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वधारणीमुखैर् दशभिर् बोधिसत्त्वभूमिभिर् दशभिः पारमिताभिर् विंशतिभिः शून्यताभिर् अष्टादशभिर् आवेणिकबुद्धधर्मैः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते बुद्धो बोधिं प्राप्यति बुद्ध एव बोधिर् एव बुद्धः.
सुभूतिर् आह: न भगवन्.
भगवान् आह: यत् पुनः सुभूतिर् एवं वदत्य्, अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिर् इति. इह सुभूते यदा बोधिसत्त्वो महासत्त्वः षट्पारमिताः परिपूर्य सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् सर्वशून्यताश् चत्वार्य् आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि, अप्रमाणध्यानारूप्यसमाधिसमापत्तीर् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः सर्वसमाधिधारणीमुखानि दशबोधिसत्त्वभूमीर् दशतथागतबलां वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य वज्रोपमे समाधौ स्थित्वैकचित्तक्सणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते तदा तथागत इति निर्दिश्यते सर्वधर्मान् जानीत इत्य् अतः सर्वदर्शिं सर्वज्ञ इत्य् अभिधीयते.
इति सम्यक्संबोधिप्राप्तिनिर्वेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय कायदौःशील्यं (प्स्प्_6-8:125) वाग्दौःशील्यं मनोदौःसील्यम् आत्मनश् च परस्य च विशोधयति यैः परिशुधैः बुद्धक्षेत्रं परिशोधयति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् कायदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य वाग्दौःशील्यं मनोदौःशील्यम्?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् कायकर्माकुशली प्राणातिपाते वर्तते, अदत्तादाने वर्तते, काममिथ्याचारे वर्तते, इदम् उच्यते कायदौःशील्यं, यद् वाक्कर्माकुशलं मृषावादे वर्तते, पिशुनवचने वर्तते, पारुष्ये वर्तते, अबद्धप्रलापे वर्तते, इदम् उच्यते वाग्दौःशील्यं, यन् मनस्कर्माकुशलम् अभिध्यायां वर्तते, व्यापादे च वर्तते, मिथ्यादृष्टौ वर्तते, इदम् उच्यते मनोदौःशील्यम्.
पुनर् अपरं सुभूते यत् मात्सर्यचित्तम् इदं मनोदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य यद् दौःशील्यचित्तं क्षोभचित्तं कौशीद्यचित्तं विक्षेपचित्तम् असमाहितचित्तं दौष्प्रज्ञचित्तम् इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
पुनर् अपरं सुभूते यच् छीलम् अपरिशुद्धम् इदम् अप्य् अपरिशुद्धं दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
पुनर् अपरं सुभूते चतुर्भिः स्मृत्युपस्थानैर् विरहितश् चतुर्भिः सम्यक्प्रहाणैः चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिनानिमित्तसमाधिनाप्रणिहितसमाधिना विरहित इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
पुनर् अपरं सुभूते यच् छ्रोतआपत्तिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यत् सकृदागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अनागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अर्हत्त्वसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. प्रत्येकबोधिसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य.
(प्स्प्_6-8:126)
पुनर् अपरं सुभूते रूपसंज्ञा दौष्ठुल्यं, वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंज्ञा दौष्ठुल्यं, श्रोत्रसंज्ञा घ्राणसंज्ञा जिह्वासंज्ञा कायसंज्ञा मनःसंज्ञा दौष्ठुल्यं, रूपसंज्ञा दौष्ठुल्यं, शब्दसंज्ञा गन्धसंज्ञा रससंज्ञा स्प्रष्टव्यसंज्ञा धर्मसंज्ञा दौष्ठुल्यं, चक्षुर्विज्ञानसंज्ञा दौष्ठुल्यं, श्रोत्रविज्ञानसंज्ञा घ्राणविज्ञानसंज्ञा जिह्वाविज्ञानसंज्ञा कायविज्ञानसंज्ञा मनोविज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शसंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शसंज्ञा घ्राणसंस्पर्शसंज्ञा जिह्वासंस्पर्शसंज्ञा कायसंस्पर्शसंज्ञा मनःसंस्पर्शसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शप्रत्ययवेदनासंज्ञा घ्राणसंस्पर्शप्रत्ययवेदनासंज्ञा जिह्वासंस्पर्शप्रत्ययवेदनासंज्ञा कायसंस्पर्शप्रत्ययवेदनासंज्ञा, मनःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, पृथिवीधातुसंज्ञा दौष्ठुल्यम्, अब्धातुसंज्ञा तेजोधातुसंज्ञा, वायुधातुसंज्ञा, आकाशधातुसंज्ञा विज्ञानधातुसंज्ञा दौष्ठुल्यं, स्कन्धसंज्ञा दौष्ठुलयं, धातुसंज्ञा दौष्ठुल्यम्, आयतनसंज्ञा दौष्ठुल्यं प्रतीत्यसमुत्पादसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पन्नधर्मसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पादाङ्गसंज्ञा दौष्ठुल्यम्, अविद्यासंज्ञा दौष्ठुल्यं, संस्कारसंज्ञा विज्ञानसंज्ञा नामरूपसंज्ञा षडायतनसंज्ञा स्पर्शसंज्ञा वेदनासंज्ञा तृष्णासंज्ञा उपादानसंज्ञा भवसंज्ञा जातिसंज्ञा जरामरणसंज्ञा शोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञा दौष्ठुल्यं, स्त्रीसंज्ञा पुरुषसंज्ञा कामधातुसंज्ञा रूपधातुसंज्ञा आरूप्यधातुसंज्ञा दौष्ठुल्यं, कुशलसंज्ञा अकुशलसंज्ञा लौकिकसंज्ञा लोकोत्तरसंज्ञा सास्रवसंज्ञा अनास्रवसंज्ञा संस्कृतसंज्ञा असंस्कृतसंज्ञा दौष्ठुल्यम्, इदं कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं, तद् विवर्ज्यात्मना च दानां ददाति, परांश् च दाने समादापयति, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् सर्वोपकरणपरिष्कारान् ददाति, परांश् चान्यतरान्यतरेषु मानुष्यकेषु (प्स्प्_6-8:127) सर्वोपकरणपरिष्कारेषु समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रं परिशुद्धये परिणामयति, आत्मना च शीलं रक्षति परांश् च शीले समादापयति, आत्मना च क्षान्त्या संपादयति परांश् च क्षान्तौ समादापयति, आत्मना च वीर्यम् आरभते परांश् च वीर्ये समादापयति, आत्मना च ध्यानं समापद्यते परांश् च ध्याने समादपयति, आत्मना च प्रज्ञां भावयति, परांश् च प्रज्ञायां समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति, आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णे कृत्वा त्रिषु रत्नेषु दानं ददाति तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन
मे सप्तरत्नम् अयं बुद्धक्षेत्रं भवतु.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति बुद्धेषु वा बुद्धचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्याः शब्दा मनोरमाः श्रोत्रसुखा सततसमितं वाद्या भवन्तु बुद्धक्षेत्रे.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यैर् गन्धैस् त्रिसाहस्रमहासाहस्रं लोकधातुं परिपूरयित्वा बुद्धेषु वा बुद्धचैत्येषु वा ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्या गन्धा घ्राणसुखा मनोरमा भवन्तु बुद्धक्षेत्रे.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेषु वा ददाति, तथागतश्रावकेषु वा तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन बुद्धक्षेत्रे मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनानि संपद्येरन्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्य् उपलेपनानि ददाति, तथागतेषु वा तथागतश्रावकेषु वा तथागतचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे बुद्धक्षेत्रे दिव्यानि स्प्रष्टव्यानि कायसुखानि मनोनुकूलानि (प्स्प्_6-8:128) संपद्येरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वसत्त्वानाम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः संकल्पैर् आत्मना च सर्वसत्त्वैश् च सार्धं पञ्चकामगुणान् बुद्धेषु वा बुद्धश्रावकेषु वा सर्वसत्त्वेषु वोपनामयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य मे सर्वश्रावकसंघस्य सर्वसत्त्वानां च मनोरमाः पञ्चकामगुणाः स्युर् इति. एवं सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यं नूनम् अहम् आत्मना च प्रथमं ध्यानं समापद्ये सर्वसत्त्वांश् च प्रथमे ध्याने निवेशयेयम्, एवं द्वितीये तृतीये ध्याने, आत्मना च चतुर्थं ध्यानं समापद्ये सर्वसत्त्वांश् च चतुर्थे ध्याने निवेशयेयम्, आत्मना च मैत्रीं भावयेयं, सर्वसत्त्वांश् च मैत्रीभावनायां निवेशयेयम्, एवं करुणामुदिताम् आत्मना चोपेक्षां भावयेयं सर्वसत्त्वां चोपेक्षाभावनायां निवेशयेयम्, आत्मना चाकाशानन्त्यायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् चाकाशानन्त्यायतनसमापत्तौ प्रतिष्ठापयेयं, विज्ञानानन्त्यायतनसमापत्तिम् आकिञ्चन्यायतनसमापत्तिम्, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ प्रतिष्ठापयेयम्, आत्मना च स्मृत्युपस्थानानि भावयेयं सर्वसत्त्वांश् च स्मृत्युपस्थानभावनायां प्रतिष्ठापयेयम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य्, आत्मना चार्याष्टाङ्गमार्गं भावयेयं सर्वसत्त्वांश् चार्याष्टाङ्गमार्गभावनायां प्रतिष्ठापयेयम्, आत्मना च शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयेयं सर्वसत्त्वांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावनायां प्रतिष्ठापयेयं, तस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, सर्वसत्त्वा एवं चतुर्भिर् ध्यानैर् अविरहिता भावेयुश् चतसृभिर् आरूप्यसमापत्तिभिर् अविरहिता भावेयुश् चतुर्भिर् ब्राह्मैर् विहारैर् अविरहिता भवेयुः, सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् अविरहिता (प्स्प्_6-8:129) भवेयुः, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् अविरहिता भवेयुर् इत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, स तावद् बोधौ चरति यावद् इमे सर्वाभिप्रायाः परिपूर्णा भवन्ति, स आत्मना च सर्वकुशलधर्मसमन्वागतो भवति, परांश् च सर्वकुशलधर्मसमन्वागतान् करोति, तस्य स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति, ये च तेन बोओधिसत्त्वेन महासत्त्वेन सत्त्वाः परिपाचितास् तेषां च सत्त्वानां स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति यद् उत पुण्यपरिग्रहाद्, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन बुद्धक्सेत्रं परिशोधयितव्यं, यथा त्रयाणाम् अपायानां प्रज्ञप्तिर् अपि न भविष्यति, सर्वदृष्टिगतानां प्रज्ञप्तिर्
अपि न भविष्यति, रागदोषमोहानां प्रज्ञप्तिर् अपि न भविष्यति, यावद् द्वयस्य नामधेयम् अपि न भविष्यति, अनित्यदुष्खानात्माशुभप्रज्ञप्तिर् अपि न भविष्यति, परिग्राहकप्रज्ञप्तिर् अपि न भविष्यति, अहंकारममकारप्रज्ञप्तिर् अपि न भविष्यति, फलव्यवस्थानप्रज्ञप्तिर् अपि न भविष्यति, अन्यत्र शून्यतानिमित्ताप्रणिहितस्य समाधेर् घोषः प्रचरिष्यति, त्यागेच्छतायाः यावत् प्रज्ञेच्छतायाः सर्वेषां सत्त्वानां छन्दाद् एव वृक्षेभ्यो घोषा निश्चरिष्यन्ति वातेरितेभ्यः एवं सर्वेभ्यो ऽध्यात्मिकबाह्येभ्यो धर्मेभ्यो घोषा निश्चरिष्यन्ति, शून्यम् इति वानिमित्तम् इति वाप्रणिहितैन् इति वा शब्दो निश्चरिष्यति, अनुत्पादानिरोधानां शब्दो निश्चरिष्यति, यथैव सर्वधर्माणां नैःस्वाभाव्यं तथाइव शब्दो निश्चरिष्यति, सर्वधर्माः सर्वधर्मैः शून्या इति, यथैतेषां धर्माणां स्वभावस् तथाइव शब्दो निश्चरिष्यत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच् छून्यन् न तत्र निमित्तम् अस्ति तद् अप्रणिहितम् एषा सैवं रूपाधर्मदेशना निश्चरिष्यति रात्रौ दिवसे वा स्थिताणां वा निषण्णानां वा शयनानां वा चङ्क्रमतां वा इदृशाः सर्वधर्मदेशना निश्चरिष्यन्ति. तत्र बुद्धक्षेत्रे यदासौ बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यात्, तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वस्य महासत्त्वस्यैव सतो ये दशदिग्लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते (प्स्प्_6-8:130) सर्वे ऽस्य वर्णं भाषिष्यन्ते, ये च तस्य वर्णं सत्त्वा श्रोष्यन्ति नामधेयं वा ते सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोध्यौ. तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न कस्यचित् सत्त्वस्य संशयो भविष्यति, अयं धर्मो ऽयन् न धर्मः. तत् कस्य हेतोः? या खलु पुनः सर्वधर्माणां धर्मता न तत्र कश्चिद् अधर्मः सर्व एव स धर्मः. तत्र ये सत्त्वा अकुशलमूलग्रस्ता वानवरोपितकुशलमूला वा बुद्धेषु वा बुद्धश्रावकेषु वा कल्याणमित्रापरिगृहीता
आत्मदृष्टिम् आलीयन्ते यावत् पश्यकदृष्टिम् आलीयन्ते, अन्तेषु तिष्ठन्ति, उच्छेदे वा शाश्वते वा, आत्मना मिथ्याग्रहेण गृहीता असम्यक्संबुद्धेषु सम्यक्संबुद्धसंज्ञिन्, सम्यक्संबुद्धेषु वासम्यक्संबुद्धसंज्ञिनस् ते ऽधर्मे धर्म इति वदन्ति, ते धर्मं प्रतिक्षिपन्ति ते धर्मं प्रतिक्षिप्य कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते, तांस् ते बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् संसारपर्यापन्नांस् ततः पापकदृष्टिगताद् विवेचयन्ति विवेच्य नियते राशौ प्रतिष्ठापयन्ति. ते तत्र प्रतिष्ठापिता न पुनर् अपायेषूपपद्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, यस्य परिशुद्धस्य न किंचित् सत्त्वानां वैकल्यं भविष्यति लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु सास्रवेषु वा धर्मेष्व् अनास्रवेषु वा धर्मेषु संस्कृतेषु वासंस्कृतेषु वा धर्मेषु यावत् सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ.
इति बुद्धक्षेत्रविशुद्धिनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतः?
भगवान् आह: नियतः सुभूते बोधिसत्त्वो महासत्त्वो नियतः.
सुभूतिर् आह: कतमे राशौ नियतः श्रावकराशौ वा प्रत्येकबुद्धराशौ वा?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकराशौ वा नियतः प्रत्येकबुद्धराशौ वा नियतो ऽपि तु बुद्धराशौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः.
सुभूतिर् आह: किं पुनर् बोधिसत्त्वो महासत्त्वो नियतः प्रथमचित्तोत्पादिक (प्स्प्_6-8:131) उताहो ऽविनिवर्तनीयो ऽथ चरमभविकः?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वा नियतः चरमभविको वा नियतो ऽपि तु प्रथमचित्तोत्पादिको नियतः.
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतो ऽपायेषूपपत्स्यते?
भगवान् आह: न सुभूते नियतः पतितो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते. तत् किं मन्यसे? सुभूते अपि त्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामि वा अनागामि वार्हन् वा प्रत्येकबुद्धो वा नियतो ऽपायेषूपपत्स्यन्ते.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानं ददाति शीलं रक्षति क्षान्तिं संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति, मैत्रीं करुणां मुदिताम् उपेक्षां सत्त्वेषु भावयति, सर्वान् अकुशलान् धर्मान् प्रहाय तिष्ठति, सो ऽपायेषूपपत्स्यते नेदं स्थानं विद्यते, दीर्घायुष्केषु वा देवेषूपपत्स्यते नेदं स्थानं विद्यते, यत्रापचारः कुशलानां धर्माणां प्रत्यन्तेषु वा जनपदेषूपत्स्यते नेदं स्थानं विद्यते, मिथ्यादृष्टिकेषु वा कुलेषूपपद्यते नेदं स्थानं विद्यते, तत्र चोपपत्स्यते यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दः श्रुयते नेदं स्थानं विद्यते, अक्रियादृष्टिकेषु वा कुलेषूपपत्स्यते नेदं स्थानं विद्यते, अपि तु खलु सुभूते प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽध्याशयेन दशाकुशलान् कर्मपथान् अध्यापद्येत नेदं स्थानं विद्यते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्व एवं कुशलधर्मसमन्वागतो यद् उत नाप्रतिरूपेषु स्थानेषूपपत्स्यते, तत् किं तथागतेनात्मना जातकानि निर्दिष्टानि, इमे पुनः कुशला धर्माः क्वगताः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न पुनः सुह्बूते बोधिसत्त्वो महासत्त्वो ऽसंचिन्त्यतम् आत्मभावं परिगृह्णाति, (प्स्प्_6-8:132) येनात्मभावेन सत्त्वानाम् अर्थः कर्तव्यः तम् आत्मभावं सत्त्वानाम् अर्थाय प्रतिगृह्णाति, किं पुनः सुभूते ऽस्त्य् एतद् अर्हतः प्रत्येकबुद्धस्य वा उपायकौशल्यं येनोपायकौशल्येन समन्वागतस् तिर्यग्योनाव् उपपन्नः स्यात्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तथागतस्य तद् उपायकौशल्यम् अस्ति येन तत्रोपपन्नः स्याद्, ये च तत्र वधाय पराक्रमन्ते तान् अनुत्तरायां क्षान्तौ समादापयति विनये प्रतिष्ठापयति तेषाम् एव चार्थे आत्मानं परित्यजयति, न च तेषां सत्त्वानां विहेठना भवति, तद् अनेन ते सुह्बूते पर्यायेनैवं वेदितव्यं तथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयमाणो ऽनुत्तरायां सम्यक्संबोधौ तिर्यग्योनौ वर्तते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषु भगवन् कुशलधर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्व इमम् एवंरूपम् आत्मभावं परिगृह्णाति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वन् तत् सुभूते कुशलं कर्म यद् बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्यं, सर्वकुशलधर्मपरिपूरिर् अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णेन न कश्चिद् धर्मो यो न परिपूरयितव्यो येन परिपूरितेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, तद् बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय सर्वकुशलधर्मपरिपूर्यै शिक्षितवयं यत्र शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति सर्ववासनानुसंधिं प्रहास्यति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावच् छुक्लधर्मसमन्वागत आर्येणानास्रवेण धर्मेणापायेषूपपद्यते तिर्यग्योनौ वा?
भगवान् आह: किं पुनः सुभूते तथागत आर्यो ऽनास्रवः?
सुभूतिर् आह: आर्यो भगवन्न् अनास्रवः.
भगवान् आह: किं पुनस् तथागतस् तिर्यग्योनिगतं प्राणिनम् आत्मानम् अभिनिर्मिणोति, यद् अभिनिर्माय बुद्धकृत्यं कुर्यात्?
सुभूतिर् आह: कुर्याद् भगवन् कुर्यात् सुगत.
भगवान् आह: किं पुनस् तथागतस् तिर्यग् भवति?
(प्स्प्_6-8:133)
सुभूतिर् आह: नो भगवन्.
भगवान् आह: किं पुनस् तिर्यग्योनेर् दुःखं प्रत्यनुभवति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानाश्रवेण धर्मेण समन्वगतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतम् अन्यान् परिपाचयेद् यथा तथागतः.
सुभूतिर् आह: किं पुनर् भगवंस् तथागतस् तन् निर्मितम् अभिनिर्मिणोति, यद् अभिनिर्माय कर्म कारयति, येन कर्मणा परेषां प्रीतिर् जायते?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतस् तत् तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
सुभूतिर् आह: न हि भगवन् दुष्खा अपाया?
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारा मायां दर्शयति, हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वान्यान् वा विविधान् प्राणकजातान् दर्शयत्य् अपि तु स हस्ती वा भवति, अश्वो वा बलीवर्दविग्रहो वान्ये वा विविधाः प्राणकजाता भवन्ति.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति येनात्मभावेण समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
सुभूतिर् आह: महोपायकुशलो बोधिसत्त्वो महासत्त्वो यो नाम भगवन्न् आर्येणानास्रवेण धर्मेण समन्वागतो येन येन ह्य् आत्मभावेन शक्यते सत्त्वानाम् अर्थः कर्तुन् तं तम् एवात्मभावं परिगृह्णाति.
इति सम्यक्संबोधिप्रतिनियमनिवेशनकर्म
कतमेषु भगवन् शुक्लेषु धर्मेषु स्थित्वा इदम् एवंरूपम् उपायकौशल्यं करोति येन तैर् न लिप्यते?
भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो (प्स्प्_6-8:134) महासत्त्व एवंरूपेणोपायकौशल्येन समान्वगतो भवति, येनोपायकौशल्येन समन्वागतः पूर्वदक्षिणपश्चिमोत्तरस्याम् अधमूर्धं विदिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति, न तत्र क्वचित् स्पृश्यते. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः सर्वथैव धर्मान् नोपलभते, यद् वा स्पृश्येत येन वा स्पृश्येत यो वा स्पृश्येत्. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावशून्याः तत्र न शून्यतया शून्यता संस्पृश्यते नैव शून्यतां कश्चित् संस्पृशति, नापि शून्यता संस्पृश्यते, तत् कस्य हेतोः? तथा हि स्वभावशून्यतया शून्यता नोपलभ्यते, इयं सानुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थितो नान्येषु धर्मेषु?
भगवान् आह: कतमो वा सुभूते धर्मोए यः प्रज्ञापारमितायां नान्तर्गतः?
सुभूतिर् आह: यद् भगवन् प्रज्ञापारमितास्वभावेन शून्या, तत् कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गताः, न हि भगवञ् छून्यतायां कश्चिद् धर्मान्तर्गतः?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न पुनः सुभूते सर्वधर्माः सर्वधर्मैः शून्याः, न च सर्वधर्माः शून्यतायाम् अन्तर्गताः.
इत्य् अप्रमेयसत्त्वार्थनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मे शून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदी वालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु च बुद्धेषु भगवन्सु कुशलमूलान्य् अवरोपयत्य्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्धवं विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति.
(प्स्प्_6-8:135)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तान् सर्वान् शून्यान् पश्यति, ये ऽपि तत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि बुद्धा भगवन्तः स्वभावेण शून्या, अन्यत्र नामसंकेतात् प्रज्ञाप्तिम् उपादाय निर्दिश्यन्ते, सा च सर्वा प्रज्ञप्तिः स्वभावेन शून्या. यदि ते लोकधातवो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या अभविष्यंस्, तत्प्रादेशिकी शून्यताभविष्यद् यस्मात् प्रादेशिकी शून्यता नोपलभ्यते तस्मात् सर्वधर्मा सर्वधर्मैः शून्याः.
अत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा दिव्यञ् चक्षुर् अभिनिर्हरति, दिव्यं श्रोत्रम् ऋद्धिविधिज्ञानं पूर्वनिवासं च्युत्युपपत्तिम् अभिनिर्हरति. आभिर् अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यानुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं, यद् इयं बोधिसत्त्वस्य महासत्त्वस्याभिज्ञापारमितायां बोधिर् अन्तर्गता, अभिज्ञासु बोधिर् अन्तर्गता मार्गयितव्यायां मार्गयमाणो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेणात्मनस् तान् कुशलान् धर्मान् पश्यति, परांश् च कुशलेषु धर्मेषु नियोजयति, न च कुशलेषु धर्मेष्व् अभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वकुशला धर्माः स्वभावेन शून्याः, न च शून्यता क्वचिद् अभिनिवेक्ष्यते यद् अभिनिवेशम् आस्वादयिष्यति निःस्वभावशून्यता.
तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर् अभिनिर्हरति येन चक्षुषा सर्वधर्मा शून्यान् पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मान् आगम्य तत् कर्माभिनिरूपयति, यया कर्माभिनिरुक्त्या सत्त्वानान् धर्मं देशयति न पुनः सत्त्वप्रज्ञप्तिम् उप्लभ्यते, इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिज्ञा अभिनिर्हरति, यास्व् अभिज्ञास्व् अभिज्ञा करुणाधर्माः कर्तव्यास् तान् करोति.
तद् बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां दिशि पश्चिमायां दिश्य् उत्तरस्यां दिश्य् अध ऊर्ध्वलोकधातुषु यावद् विदिक्षु लोकधातुषु सत्त्वान् पश्यति, (प्स्प्_6-8:136) स तत्रर्द्ध्या गत्वा सत्त्वानाम् अर्थं करोति, यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा ध्यानेन यदि वा प्रज्ञया यदि वा सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् यदि वाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् यदि वा श्रावकप्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यं करोति.
तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवं धर्मं देशयति, ददत दानन् दुष्खं हि भोः पुरुषा दारिद्र्यन् न च दारिद्र्येण शक्यम् आत्मनो ऽर्थः कर्तुं प्राग् एव परस्य, तस्माद् यूयम् आत्मना च सुखिनो भविष्यथ परांश् च सुखयिष्यथ मा दारिद्र्येणान्येषां मांसानि खादयन्तो न मोक्ष्यथ त्रिभिर् अपायैः.
ये दुःशीला सत्त्वास् तेषाम् एवं धर्मं देशयति, दुःखं हि भोः पुरुषा दौःशील्यं न च दौःशील्येन शक्यम् आत्मनो ऽथः कर्तुं प्राग् एव परस्य, दौःशील्यस्य च यो विपाको नरको वा तिर्यग्योनिर् वा यमलोको वा तत्र यूयं त्रिष्व् अपायेषु प्रपतिता आत्मानम् एव न शक्यथोद्धर्तुं प्राग् एव परं, तद् भवद्भिर् एकदौशील्यचित्तस्याप्य् अवकाशो न दातव्यः, मा पश्चात् प्रभूतं कालं तप्यत.
ये सत्त्वाः प्रतिहतचित्ताः परस्य चं क्रुध्यन्ति व्यापद्यन्ते दोषम् उत्पादयताम् एषाम् एवं धर्मं देशयति, मा भवन्तो ऽन्योन्यं क्षुभ्यथान्योन्यं व्यापद्यध्वे मा दोषम् उत्पादयत क्षुब्धचित्तस्य हि न कश्चित् कुशलो धर्म आमुखी भवति, तद् भवन्तो ऽन्योन्यम् एवं क्षुब्धचित्ता व्यापन्नचित्ताः स्थानम् एतद् विद्यते यन् नरकं वा प्रपतथा तिर्यग्योनिं वा यमलोकं वा, तद् भवद्भिर् एकचित्तेनापि न क्षोब्धव्यं प्राग् एवान्येषां चित्तानाम् अवकाशो दातव्यः.
ये कुशीदाः सत्त्वास् तान् वीर्ये नियोजयति तेषाम् एवं धर्मं देश्यति, मा भवन्तः कौशीद्यम् आपद्यध्वं न कुसीदानां हीनवीर्याणां काचिच् छुभा प्रवृत्तिः स्थानम् एतद् विद्यते यत् कुशीदानान् नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि कुशीदचित्तस्यावकाशो न दातव्यः प्राग् एवान्येषां चित्तानाम्.
ये विक्षिप्तचित्ताः सत्त्वास् तान् सर्वान् ध्याने नियोजयति, तेषां एवं (प्स्प्_6-8:137) धर्मं देशयति, मा भवन्तो मुषितस्मृतयो विक्षिप्तचित्ताश् च भवतन् मुषितस्मृतीनाम् विक्षिप्तचित्तानां वा कुशला धर्मा भवन्ति स्थानम् एतद् विद्यते, यं मुषितस्मृतीनां विक्षिप्तचित्तानां वा नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि विक्षिप्तचित्तस्यावकाशो न दातव्यः, प्राग् एवान्येसाञ् चित्तानाम्.
ये दुष्प्रज्ञाः सत्त्वास् तान् सर्वान् प्रज्ञायां नियोजयति, तेषाम् एवं धर्मं देशयति, मा यूयं दौष्प्रज्ञचित्तम् उत्पादयेध्वं नाप्रज्ञानां सुगतिगमनं भवति स्थानम् एतद् विद्यते यद् दुष्प्रज्ञानां नरको वा तिर्यग्योनिर् वा यमलोको वा, तद् भवद्भिर् एकचित्तोत्पादो ऽपि प्रज्ञाविरहितो नोत्पादयितव्यं प्राग् एवान्येषां चित्तोत्पादानाम् अवकाशो दातव्यः.
ये रागचरिताः सत्त्वास् तान् शुभभावनायां नियोजयति, ये मार्गे ऽस्थिताः सत्त्वास् तान् मार्गे नियोजयति यदि वा श्रावकमार्गे नियोजयति, यदि वा प्रत्येकबुद्धमार्गे नियोजयति तेषाम् एवं धर्मं देशयति, यत्र भवन्तो ऽभिनिविष्टात् ते धर्माः स्वभावेन शून्याः, न स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुम् अनभिनिविष्टा च शून्यता.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् उपकारं करोति.
नास्ति स सुभूते बोधिसत्त्वो महासत्त्वो यः शक्तो ऽभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मदेशनां कर्तुम्, उत्पथप्रस्थितान् वा सत्त्वान् मार्गे ऽवतारयितुं नेदं स्थानं विद्यते. तद्यथा सुभूते ऽपक्षः पक्षी न शक्नोत्य् आकाशे क्रमितुम्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनागम्याभिज्ञा न शक्नोति सत्त्वानां धर्मं देशयितुं, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
स इमाभिर् अभिज्ञाभिर् अभिनिर्हृताभिर् यद् आकाङ्क्षति सत्त्वानाम् अर्थं कर्तुं तत् करिष्यति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण गङ्गानदीवालुकोपमान् लोकधातून् द्रक्ष्यति तत्र सत्त्वा उत्पन्नास् तान् द्रक्ष्यति, दृष्ट्वा च तान् सत्त्त्वान् ऋद्ध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तथाइव तेषां धर्मं देशयिष्यति, यदि वा दानकथां (प्स्प्_6-8:138) यदि वा शीलकथां यदि वा क्षान्तिकथां यदि वा वीर्यकथां यदि वा ध्यानकथां यदि वा प्रज्ञाकथां यावन् निर्वाणकथां वा.
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभौ शब्दौ श्रोष्यति मानुष्यञ् चामानुष्यञ् च, तत्र ये गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयति, तन् दिव्येन श्रोत्रधातुना श्रुत्वा तथाइवोद्ग्रहीष्यति तथाइवोद्गृह्य सत्त्वानां धर्मं देशयति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति स तेन चेतःपर्यायज्ञानेन सुविशुद्धेन सत्त्वानां चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तेषां तथाइव धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
सो ऽनेकविधं पूर्वनिवासम् अनुस्परिष्यति, अप्य् आत्मनः परेषाम् अपि स तेन पूर्वनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यति, एवंनामानि ते ऽभूवन् पूर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तत्र ये सत्त्वाः पूर्वनिवासानुस्मृत्यधिमुक्तिका भविष्यन्ति तेभ्यस् तथाइव धर्मं देशयिष्यति दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
सो ऽनेकविविधया ऋद्ध्या समन्वागतो गङ्गानदीवालुकोपमान् लोकधातून् गत्वा बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयिष्यति कुशलमूलान्य् अवरोप्य तद् एव पुनर् बुद्धक्षेत्रम् आगमिष्यति, आगत्य तेषां सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
तस्यास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानं सुपरिशुद्धं भविष्यति, स तेनास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानेन सुविशुद्धेन सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् (प्स्प्_6-8:139) निर्वाणकथां वा.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
स इमाभिर् अभिज्ञाभिर् निहृताभिर् यं यम् एवाकाङ्क्षिष्यत्य् आत्मभावं प्रतिग्रहीतुं तं तम् एवात्मभावं प्रतिग्रहीष्यति, न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति, नैवास्यानुनय प्रतिघौ भविष्यथः. तद्यथापि नाम सुभूते बुद्धनिर्मितः पुरुषः सर्वकृत्यानि करोति, न च तेन सुखेन वा दुष्खेन वा लिप्यते.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताभिज्ञाभिर् विक्रीडितव्यम् एवं विक्रीडं बुद्धक्षेत्रं च परिशोधयिष्यति सत्त्वान् परिपाचयिष्यति.
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन परिशुद्धेषु बुद्धक्षेत्रेषु परिपाचितेषु सत्त्वेषु शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. तत् कस्य हेतोः? नास्ति हि सुभूते अङ्गहानिर् अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायां सम्यक्समोधौ.
इति बुद्धोपसंक्रमणोपासनादिनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भागवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वे कुशला धर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि.
सुभूतिर् आह: ते पुनर् भगवन् कतमे कुशला धर्मा यैः कुशलैः धर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय सुभूते दानपारमिता कुशलो धर्मस् तत्र च याविकल्पना यद् दानं न जानातीदं दानं यस्यार्थे दातव्यं येन दातव्यं, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय, यया पारमितयात्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये (प्स्प्_6-8:140) मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कुशला धर्मास् तत्र च याविकल्पना, यत् प्रज्ञां न जानातीयं प्रज्ञा यस्यार्थे भावयितव्या येन भावयितव्या, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यया प्रज्ञापारमितया, आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च.
एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्तबोध्यङ्गानि, आर्याष्टाङ्गो मार्गः सर्वशून्यताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयः सर्वधारणीमुखानि सर्वसमाधयः शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य कुशला धर्मास् तेषु चाविकल्पना यद् बुद्धधर्मान् न जानातीमे बुद्धधर्मा यस्यार्थे भावयितव्या येन भावयितव्यास् ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यैर् बुद्धधर्मैर् आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति च तरिष्यन्ति च, यावन्तः सुभूते केचिद् बोधये मार्गास् तान् कुशलान् धर्मान् बोधिसत्त्वेन महासत्त्वेन परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयितव्यम्.
इति बोध्यङ्गनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्मा बोधिसत्त्वधर्माः, बुद्धधर्माः पुनः कतमे?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मान् सुभूतिर् एवम् आह, यदीमे धर्मा बोधिसत्त्वधर्मा बुद्धधर्माः पुनः कतमे? एत एव सुभूते बुद्धधर्मा यद् (प्स्प्_6-8:141) एभिर् धर्मैः सर्वाकारज्ञताम् अभिसंबुध्यते तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसंधिः प्रहीयते, तां बोधिसत्त्वो महासत्त्वो ऽभिसंबुध्यते तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मा एकक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धा अयं विशेसो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य. तद् यथापि नाम सुभूते अन्य एव प्रतिपन्नको ऽन्यः फलस्थः, न च ताव् उभाव् अपि नाग्रपुद्गलौ, एवम् एव सुभूते बोधिसत्त्वा महासत्त्व आनन्तर्यमार्गप्रतिपन्नकस् तथागतः पुनर् अर्हन् सम्यक्संबुद्धः सर्वधर्मेष्व् अनावरणज्ञानप्राप्तः, अयं सुभूते विशेषो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्माः स्वलक्षणशून्यास् तत् कथं स्वलक्षणशून्येषु धर्मेषु विशेषो वा नानाकरणं वोपलभ्यते? अयं नैरयिको ऽयं तैर्यग्योनिको ऽयं यामलौकिको ऽयं देवो ऽयं मनुष्यो ऽयं गोत्रभूमिर् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति, यथैव भगवन्न् इमे पुद्गला नोपलभ्यन्ते तथाइव भगवन् कर्म नोपलभ्यते, यथैव भगवन् कर्म नोपलभ्यते तथाइव विपाको नोपलभ्यते.
एवम् उक्ते भगवान् आयुष्मण्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि स्वलक्षणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते, ये स्वलक्षणशून्यान् धर्मान् सत्त्वा नाभिजानन्ति ते कर्माभिसंकुर्वन्ति दुश्चरितं वा सुचरितं वा सास्रवं वानास्रवं वा, ते दुश्चरितेन कर्मणा त्रिष्व् अपायेषु प्रपतन्ति, नरकेषु वा तिर्यग्योनौ वा यमलोके वा, सुचरितेन देवमनुष्येषूपपद्यन्ते, अनाच्छेद्य रूपधातौ चोपपद्यन्ते, तद् बोधिसत्त्त्वो महासत्त्वो दानपारमितायां चरन्, शीलपारमितायां चरन्, क्षान्तिपारमितायां चरन्, वीर्यपारमितायां चरन्, ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरन्, उपायपारमितायां चरन्, प्रणिधानपारमितायां चरन्, बलपारमितायां चरन्, ज्ञानपारमितायां चरन्, अध्यात्मशून्यतायां (प्स्प्_6-8:142) चरन्, बहिर्धाशून्यतायां चरन्, अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्, पञ्चस्व् अभिज्ञासु चरन्, दशसु बोधिसत्त्वभूमिषु चरन्, दशसु तथागतबलेषु चरन्, चतुर्षु वैशारद्येषु चरन्, चतसृषु प्रतिसंवित्सु चरन्, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन्न् अच्छिद्रचारीमान् बोधिसत्त्वधर्मान् उत्पादयति यानुत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नो ऽनुत्त्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्य सत्त्वानाम् अर्थं करोति, येनार्थेन कृतेन न पुनर् विप्रणस्यन्ति येन विप्रणाशेण पञ्चगतिके संसारे प्रपतेयुः.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पञ्चगतिकः संसार उपलब्धः?
भगवान् आह: न सुभूते.
सुभूतिर् आह: किं पुनर् भगवता कृष्णां वा शुक्लं वा कर्मोपलब्धम्?
भगवान् आह: न सुभूते.
सुभूतिर् आह: यदि नोपलब्धं कुतो नरकस् तिर्यग्योनिर् यमलोकः प्रज्ञप्तो देवमनुष्याः प्रज्ञप्ताः, स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञप्ताः, बोधिसत्त्वो महासत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः?
भगवान् आह: किं पुनः सुभूते एते सत्त्वा जानन्ति स्वलक्षणशून्याः सर्वधर्मा इति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: यदि सुभूते सत्त्वा एवं जानीयुः स्वलक्षणशून्याः सर्वधर्मा इति, न बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेतानुत्तरायां सम्यक्संबोधौ स्थित्वा न सत्त्वान् मोचयेत्, त्रिभ्यो ऽपायेभ्यो यावत् पञ्चगतिकात् संसाराद्, यस्मात् तर्हि सुभूते (प्स्प्_6-8:143) सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मांस् ते ऽज्ञता न परिमुच्यन्ते पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवताम् अन्तिके श्रुत्वा स्वलक्षणशून्यान् सर्वधर्मान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेत्, इमे धर्मास् तथा न संविद्यन्ते यथा बालपृथग्जना अभिनिविष्ठास् ते सत्त्वा असतो ऽसंविद्यमानां धर्मान् स्वयम् एव विकल्पयन्त्य् उपलभन्ते वासत्त्वे सत्त्वसंज्ञिनो ऽरूपे रूपसंज्ञिनो ऽवेदनायां वेदनासंज्ञिनो ऽसंज्ञायां संज्ञासंज्ञिनो ऽसंस्कारेषु संस्कारसंज्ञिनो ऽविज्ञाञे विज्ञानसंज्ञिनो ऽस्कन्धेषु स्कन्धसंज्ञ्मो ऽधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनो ऽप्रतीत्यसमुत्पादे प्रतीत्यसमुत्पादसंज्ञ्मो ऽप्रतीत्यसमुत्पन्नेषु धर्मेषु प्रतीत्यसमुत्पन्नधर्मसंज्ञिनो ऽप्रतीत्यसमुत्पादाङ्गे प्रतीत्यसमुत्पादाङ्गसंज्ञिनो ऽलोकोत्तरेषु लोकोत्तरसंज्ञिनो ऽसास्रवेषु सास्रवसंज्ञिनः, नानास्रवेष्व् अनास्रवसंज्ञिनो ऽसंस्कृतेषु धर्मेषु संस्कृतधर्मसंज्ञिनः, संस्कृतेषु धर्मेषु असंस्कृतधर्मसंज्ञिनः, असंविद्यमानानां विपर्यासे ऽविपर्यस्तचित्ताः कायेन वाचा मनसा च कर्माभिसंस्कुर्वन्ति, ते पञ्चगतिकात् संसाराद् न परिमुच्यन्ते, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् सर्वान् अन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचर्यां चरति, यया चर्यया चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
इति कर्मफलसंबन्धो विप्रणासनिवेशनकर्म
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य दुष्खञ् च दुष्खसमुदयं च दुष्खनिरोधञ् च दुःखनिरोधगामिनीञ् च प्रतिपदम् आख्याति देशयति प्रकाशयति विवृणोति विभजति प्रज्ञापयति प्रतिष्ठापयति, एषु चतुर्ष्व् आर्यसत्येषु सर्वान्तर्गताः कुशला धर्मा ये केचिद् बोधिपक्ष्या धर्मा यैर् बोधिपाक्षिकैर् धर्मैस् त्रयाणां रत्नानां व्यवस्थानं भविष्यति, कतमेषां त्रयाणाम्? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एतेषां त्रयाणां रत्नानां प्रादुर्भावात् सत्त्वाः परिमुच्यन्ते पञ्चगतिकात् संसारात्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् दुःखज्ञानेन परिनिर्वान्ति, अथ दुष्खेन परिनिर्वान्ति? उताहो समुदयज्ञानेन परिनिर्वान्ति, अथ समुदयेन परिनिर्वान्ति? उताहो (प्स्प्_6-8:144) निरोधज्ञानेन परिनिर्वान्ति, अथ निरोधेन परिनिर्वान्ति? उताहो मार्गज्ञानेन परिनिर्वान्ति, अथ मार्गेण परिनिर्वान्ति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुष्खज्ञानेन परिनिर्वान्ति न दुष्खेन, न समुदयज्ञानेन न समुदयेन, न निरोधज्ञानेन न निरोधेन, न मार्गज्ञानेन परिनिर्वान्ति न मार्गेण, या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुनर् दुःखेन परिनिर्वान्ति न दुष्खज्ञानेन, न समुदयेन न समुदयज्ञानेन, न निरोधेन न निरोधज्ञानेन, न मार्गेण परिनिर्वान्ति न मार्गज्ञानेन.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् चतुर्णाम् आर्यसत्यानां समता?
भगवान् आह: यत्र सुभूते न दुष्खन् न दुष्खज्ञानं, यत्र न समुदयो न समुदयज्ञानं, यत्र न निरोधो न निरोधज्ञानं, यत्र न मार्गो न मार्गज्ञानम्, अपि तु खलु सुभूते या एषां चतुर्णाम् आर्यसत्याणां तथतावितथतानन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता यस्योत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्माधातुर् यासंप्रमोषधर्मतायै अपरिहाणधर्मतायै संप्रवर्तते, तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा सत्यानुबोधये चरति, यथा सत्यान्य् अनुबोधव्यानि.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा चरन् सत्यान्य् अनुबुध्यते, अभिसंबुध्य तथत्वाय प्रतिपद्यते, यथा प्रतिपद्यमानो न श्रावकभूमिं पतति न प्रत्येकबुद्धभूमिं पतति बोधिसत्त्वनियामम् अवक्रामति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सो धर्मो यस्यान्तं पश्यति, तथा च पश्यति यथा न कञ्चिद् धर्मम् उपलभते, अनुपलंभमानः सर्वधर्मा शून्या इति पश्यति, सत्यपर्यापन्नां (प्स्प्_6-8:145) वा असत्यपर्यापन्नां वा तं सर्वे शुन्या इति पश्यति, स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो गोत्रभूमौ स्थितो भवति, तस्य गोत्रभूमौ स्थितस्य न मूर्धविनिपातो भवति येन मूर्धविनिपातेन श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेत्, स इह गोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीर् उत्पादयति, स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति, चत्वार्य् आर्यसत्यान्य् अनुबुध्यते, स दुःखञ् च परिजानाति न च दुष्खारम्बणं चित्तम् उत्पादयति, समुदयञ् च प्रजहाति न च समुदयारम्बणं चित्तम् उत्पादयति, निरोधञ् च साक्षात्करोति न च निरोधारम्बणं चित्तम् उत्पादयति, मार्गञ् च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति, अन्यत्र बोधिनिम्नेन चित्तेन बोधिप्रवेशेन बोधिप्राग्भारेण चित्तेन सर्वधर्मान् यथावत् पश्यति.
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् यथावत् पश्यति?
भगवान् आह: सर्वधर्मान् शून्यान् पश्यति.
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् शून्यान् पश्यति?
भगवान् आह: यद् उत स्वलक्षणशून्यान् सर्वधर्मान् पश्यति, यो ऽनयैवंरूपया विपश्यनया सर्वधर्माः शून्या इति पश्यति, न च कस्यचिद् धर्मस्य स्वभावं पश्यति, यत्र स्वभावे स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
सुभूतिर् आह: एवं सति भगवन्न् अभावस्वभावा बोधिः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, यथा वदसि, अभावस्वभावा सुभूते बोधिः, सा न बुद्धेन कृता न प्रत्येकबुद्धेन नार्हता नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् य इह समाधौ चरन्त्य् अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति.
इति सत्यदर्शनविवेशनकर्म
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तदा भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां (प्स्प्_6-8:146) शिक्षितुकामेन रूपे कथं शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु विज्ञाने कथं शिक्षितव्यम्? चक्षुरायतने श्रोत्रायतने घ्राणायतने जिह्वायतने कायायतने मनआयतने कथं शिक्षितव्यम्? रूपायतने शब्दायतने गन्धायतने रसायतने स्प्रष्टव्यायतने धर्मायतने कथं शिक्षितव्यम्? चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ, श्रोत्रधातौ शब्दधातौ श्रोत्रविज्ञानधातौ, घ्राणधातौ गन्धधातौ घ्राणविज्ञानधातौ, जिह्वाधातौ रसधातौ जिह्वाविज्ञानधातौ, कायधातौ स्प्रष्टव्यधातौ कायविज्ञानधातौ, मनोधातौ धर्मधातौ मनोविज्ञानधातौ कथं शिक्षितव्यम्? चक्षुःसंस्पर्शायतने श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शायतने कथं शिक्षितव्यम्? अविद्यायां संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणे कथं शिक्षितव्यम्? दुष्खसत्ये समुदयसत्ये निरोधसत्ये मार्गसत्ये कथं शिक्षितव्यम्? रूपिषु धर्मेष्व् अरूपिषु सनिदर्शनेष्व् अनिदर्शनेषु सप्रतिघेष्व् अप्रतिघेषु संस्कृतेष्व् असंस्कृतेषु सास्रवेष्व् अनास्रवेषु सावद्येष्व् अनवद्येषु हीनेषु प्रणीतेष्व् अध्यात्मिकेषु वा बाह्येषु वा दृष्टश्रुतमतविज्ञातेष्व् अतीतानागतप्रत्युत्पन्नेषु कुशलाकुशलव्याकृताव्याकृतेषु कामप्रतिसंयुक्तेषु रूपप्रतिसंयुक्तेष्व् आरूप्यप्रतिसंयुक्तेषु शैक्षेष्व् अशैक्षेषु नैवशैक्षनाशैक्षेषु कथं शिक्षितव्यम्? रागे प्रतिघे माने ऽविद्यायां दृष्टौ विचिकित्सायां कथं शिक्षितव्यम्? मात्सर्ये दाने दौःशील्ये शीले व्यापादे क्षान्तौ कौशीद्ये वीर्ये विक्षेपे ध्याने दौष्प्रज्ञे प्रज्ञायां कथं शिक्षितव्यम्? विकल्पे शून्यतायां निमित्ते आनिमित्ते मिथ्याप्रणिहिते सम्यक्प्रणिहिते, शुभे ऽशुभे धर्मे कथं शिक्षितव्यम्? क्लेशे क्लेशप्रहाणे संक्लेशे व्यवदाने संसारे निर्वाणे धातौ कथं शिक्षितव्यम्? बुद्धधर्मेषु कथं शिक्षितव्यम्?
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: प्रज्ञापारमितायां चरता मैत्रेय बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां शिक्षितुकामेन, नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् (प्स्प्_6-8:147) बुद्धधर्मा इति शिक्षितव्यम्.
अथ मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदा भगवन् सवस्तुकम् इदं नामधेयम् उपलभ्यते, यद् इदं रूपम् इति, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं यावद् बुद्धधर्मा इति, यद् उत संस्कारनिमित्तम् उपादाय, तदा कथं बोधिसत्त्वेन महासत्त्वेन नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् बुद्धधर्मा इति शिक्षितव्यम्, अथावस्तुकम् एवं सति तस्य नाम्नस् तद् अपि नाममात्रं न प्रयुज्यते यद् इदं रूपम् इति नाममात्रं न प्रयुज्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, यावद् बुद्धधर्मा इति नाममात्रं न प्रयुज्यते.
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं वेदना संज्ञा संस्कारा विज्ञानम्, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं यावद् बुधधर्मा इति, यतश् च मैत्रेय तेन संस्कारनिमित्तेन वस्तूनि रूपम् इत्य् एतस्मिन् नाम्नि रूपम् इति संप्रत्ययो भवति, प्रत्ययागमः प्रतिसंवेदनः, तेन च मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति, तत् किं मन्यसे? मैत्रेय स्याद् इहैकत्यस्य तस्मिन्न् एव संस्कारनिमित्ते वस्तूनि संज्ञा वा प्रज्ञप्तिर् वा नाम वानुव्यवहारो वाभिनिवेशो वा.
[मैत्रेय] आह: एवं भगवन्.
[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: (प्स्प्_6-8:148) एवं सति भगवन्न् उपलब्ध एव भवति रूपस्य स्वभावो यत् तत् संस्कारनिमित्तं वस्तु, यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: संस्कारनिमित्ते वस्तूनि नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो रूपम् इति, तत् किं मन्यसे? मैत्रेय स्वभावो वा स रूपस्य प्रज्ञप्तिमात्रं वेति.
[मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.
भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति रूपस्य स्वभाव इति, यत् तत् संस्कारनिमित्तवस्तु यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. तत् किं मन्यसे? मैत्रेय स्वभावो वा स वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रज्ञप्तिमात्रं वेति.
[मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.
भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां स्वभाव इति?
मैत्रेय आह: सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं रूपं, सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, रूपस्य यद् इदन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां, यद् इदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति.
भगवान् आह: तत् किं मन्यसे? मैत्रेय यद् रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं, यद् वेदनेति संज्ञेति संस्कारा (प्स्प्_6-8:149) इति विज्ञानम् इति यावद् बुद्धधर्मा इति, नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् अपि नु तस्योत्पादो वा प्रज्ञायते व्ययो वा संक्लेशो वा व्यवदानं वा.
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] तत् कुतस् तवैवं भवति मैत्रेय उपलब्ध एव स्वभावो भवति रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणाम् इति पेयालम्?
मैत्रेय आह: किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव रूपं, किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव वेदना संज्ञा संस्कारा विज्ञानं, न सन्त्य् एव यावद् बुद्धधर्माः.
भगवान् आह: नाहं मैत्रेय सर्वशः स्वलक्षणेन रूपन् नास्तीति वदामि, नाहं मैत्रेय सर्वशः स्वलक्षणेन वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा न सन्तीति वदामि.
मैत्रेय आह: कथं भगवन् रूपम् अस्ति? कथं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति?
भगवान् आह: लोकसंकेतव्यवहारतो मैत्रेय रूपम् अस्ति न तु परमार्थतो लोकसंकेतव्यवहारतो मैत्रेय वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति नो परमार्थतः.
मैत्रेय आह: यथा खल्व् अहं भगवन् भगवतो भाषितस्यार्थम् आजानामि निरभिलप्य एव धातुः परमार्थतः, सचेद् भगवन् निरभिलप्यो धातुः परमार्थतः, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र रूपम् इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते परमार्थतो न भवति, सचेत् तन् न परमार्थः तत् कथं निरभिलप्यो धातुर् भवति संस्कारनिमित्तं वस्तु निरभिलप्यो धातुर् इति न युज्यते.
भगवान् आह: तेन हि मैत्रेय त्वाम् एवात्र प्रतिपक्षामि यथा ते क्षमते तथाइवं व्याकुरु. तत् किं मन्यसे? मैत्रेय यथा ते निरभिलप्य धातौ प्रज्ञाप्रचारो भवति, उपलभसे त्वं तस्मिन् समये संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकनामधेयं प्रक्षिप्तं यद् (प्स्प्_6-8:150) इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.
[मैत्र्य आह:] नो हीदं भगवन्.
[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, यत् तत् संस्कारनिमित्तं वस्तुस् तन् निरभिलप्याद् धातोर् नान्यन् नाप्य् अनन्यन्, स च तस्मात् संस्कारनिमित्ताद् वस्तुनो नान्यो निरभिलप्यो धातुर् नाप्य् अनन्यो यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति, वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, संस्कारनिमित्ताच् चेद् वस्तुनो मैत्रेय निरभिलप्यो धातुर् अन्यः स्याद् अपीदानीं सर्वकालं पृथग्जनाः परिनिर्वायुर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेरन्, अनन्यश् चेन् मैत्रेय संस्कारनिमित्ताद् वस्तुनो निरभिलप्यो धातुः स्याद् अपीदानीं तद् अपि निमित्तं नोपलभ्येत्, यतस् तस्य निरभिलप्यस्य धातोः प्रतिवेधो भवेत्. तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, न तस्मात् संस्कारनिमित्ताद् वस्तुनो ऽन्यो निरभिलप्यो धातुर्, नापि तस्माद् अनन्यो निरभिलप्यो धातुर् यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.
मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानस् तत् संस्कारनिमित्तं वस्तु नोपलभते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, तत् कथं भगवन् विद्यमानं नोपलभते?
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: न हि मैत्रेय तस्य संस्कारनिमित्तस्य वस्तुनः काचिद् विद्यमानता वाविद्यमानता वा. तत् कस्य हेतोः? यस्मिन् हि वा मैत्रेय समये तत् संस्कारनिमित्तं वस्तु विकल्पयसि तस्मिन् समये तत् संस्कारनिमित्तं वस्तु विकल्पतो ग्रहणम् एति, तस्मिन् वा पुनः समये निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानो न विकल्पयसि तस्मिन् समये निर्विकल्पतो ग्रहणम् एति.
मैत्रेय आह: एवं भगवन्.
भगवान् आह: न त्व् एवं सति मैत्रेय विकल्पमात्रम् एतद् यद् उत संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं (प्स्प्_6-8:151) यद् इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, विकल्पमात्रे वा पुनस् तस्य निर्विकल्पे वा धातौ वर्तमानस्य विकल्पेष्व् अपगतेषु कतमा तस्य विद्यमानता वाविद्यमानता वोपलभ्यते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति?
मैत्रेय आह: प्रज्ञापारमितायां चरता भगवन् बोधिसत्त्वेन महासत्त्वेन धर्मप्रभेदकौशल्ये वर्तमानेन कतिभिर् आकारै रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या? कतिभिर् आकारैर् वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या?
भगवान् आह: त्रिभिर् मैत्रेयाकारैर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मप्रभेदकौशल्ये वर्तमानेन रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, वेदना संज्ञा संस्कारा विज्ञानं यावद् बुध्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, यद् उतेदं परिकल्पितं रूपम् इदं विकल्पितं रूपम् इदं धर्मता रूपम् इति, यद् उतेयं परिकल्पिता वेदना इयं विकल्पिता वेदना इयं धर्मता वेदना, यद् उत इयं परिकल्पिता संज्ञा इयं विकल्पिता संज्ञा इयं धर्मता संज्ञा, यद् उतेमे परिकल्पिताः संस्कारा इमे विकल्पिताः संस्कारा इमे धर्मता संस्काराः, इदं परिकल्पितं विज्ञानम् इदं विकल्पितं विज्ञानम् इदं धर्मता विज्ञानम्, इमे यावत् परिकल्पिता बुद्धधर्मा इमे विकल्पिता बुद्धधर्मा इमे धर्मता बुद्धधर्माः.
मैत्रेय आह: कतमद् भगवन् परिकल्पितं रूपम्? कतमद् विकल्पितं रूपम्? कतमद् धर्मता रूपं? कतमा भगवन् परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं? कतमा विकल्पैता वेदना संज्ञा संस्कारा विज्ञानं? कतमा धर्मता वेदना संज्ज्ञा संस्कारा विज्ञानं? यावत् कतमे भगवन् परिकल्पिता बुधधर्माः? कतमे विकल्पिता बुद्धधर्माः? कतमे धर्मता बुद्धधर्माः?
भगवान् आह: या मैत्रेय तस्मिन् संस्कारनिमित्ते वस्तूनि रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य रूपस्वभावतया परिकल्पतेनेदं परिकल्पितं रूपं, यत् मैत्रेय तस्मिन् संस्कारनिमित्ते (प्स्प्_6-8:152) वस्तूनि वेदनेति संज्ञेति संस्कार इति विज्ञानम् इति यावद् बुद्धधर्मा इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य वेदनास्वभावतया संज्ञास्वभावतया संस्कारस्वभावतया विज्ञानस्वभावतया यावद् बुद्धधर्मस्वभावतया परिकल्पनेयं परिकल्पिता, वेदना संज्ञा संस्कारा विज्ञानं यावद् इमे परिकल्पिता बुद्धधर्माः, या पुनस् तस्य संस्कारनिमित्तस्य वस्तुनो विकल्पमात्रधर्मतायाम् अवस्थानता विकल्पप्रतीत्याभिलपनता तत्रेदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारो रूपम् इति, वेदनेति संज्ञेति संस्कारा इति, विज्ञानम् इति यावद् बुद्धधर्मा इति, इदं विकल्पितं रूपम् इयं विकल्पिता वेदना इयं विकल्पिता संज्ञा इमे विकल्पिताः संस्कारा इदं विकल्पितं विज्ञानम् इमे विकल्पिता बुद्धधर्माः. या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवेयं धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् यत् तेन परिकल्पितरूपेण तस्य विकल्पितरूपस्य नित्यं नित्यकालं ध्रुवं ध्रुवकालं निःस्वभावता धर्मनैरात्म्यं तथता भूतकोटिर् इदं धर्मता रूपम् इयं धर्मता वेदना संज्ञा संस्कारा विज्ञानम् इमे यावद् बुद्धधर्माः.
मैत्रेय आह: एषां भगवन् त्रयाणां रूपाणां कतमद् रूपम् अद्रव्यं द्रष्टव्यं? कतमत् सद्रव्यं द्रष्टव्यं? कतमन् नैवाद्रव्यं न सद्रव्यं द्रष्टव्यं परमार्थप्रभावितं? आसां भगवंस् तिषृणां वेदनानां तिषृणां संज्ञानां त्रयाणां संस्काराणां त्रयाणां विज्ञानानां त्रयाणां यावद् बुद्धधर्माणां कतमे ऽद्रव्या द्रष्टव्या? कतमे सद्रव्या द्रष्टव्या? कतमे नैवाद्रव्या द्रष्टव्या न सद्रव्यान् परमार्थप्रभाविताः?
भगवान् आह: यत् मैत्रेय परिकल्पितं रूपम् इदम् अद्रव्यं द्रष्टव्यं, यद् विकल्पितं रूपम् इदं विकल्पितं रूपं सद्रव्यताम् उपादाय सद्रव्यं द्रष्टव्यं नो तु स्वतन्त्रवृत्तितः, यद् धर्मता रूपं तन् नैवाद्रव्यं सद्रव्यं परमार्थप्रभावितं द्रष्टव्यं, (प्स्प्_6-8:153) या मैत्रेय परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये परिकल्पिता बुद्धधर्मा इमे ऽद्रव्या द्रष्टव्याः, या विकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये विकल्पिता बुद्धधर्मा इमे विकल्पितसद्रव्यताम् उपादाय सद्रव्या द्रष्टव्या नो तु स्वतन्त्रवृत्तितः, या मैत्रेय धर्मता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये मैत्रेय धर्मता बुद्धधर्मास् ते नैवाद्रव्या न सद्रव्याः परमार्थेन प्रभाविता द्रष्टव्याः.
मैत्रेय आह: यद् उक्तं भगवन् भगवताद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य्, अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति तद् एवं रूपप्रभेदप्रज्ञप्तौ सत्याम्, एवं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तौ सत्यां, किं संधाय निर्दिष्टं भगवता अद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य् अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृतेति.
भगवान् आह: तत् किं मन्यसे? मैत्रेय या परिकल्पिते रूपे ऽद्रव्यता रूपं वा तन् न वेति.
[मैत्र्य] आह: नो हीदं भगवन्.
[भगवान् आह:] या पुनस् तत्र नामसंज्ञाप्रज्ञप्तिव्यवहारमात्रता रूपम् इत्य् अपि नु तद् रूपम्?
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यत् परिकल्पितं रूपं तन् न रूपं नारूपं यत् पुना रूपं नारूपं तद् अद्वयं, इदं च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या विकल्पितस्य रूपस्य सद्रव्यता अपि नु तद् रूपं यद् उपादाय नामसंज्ञाप्रज्ञप्तिव्यवहारो भवति रूपम् इति.
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] तत् किं मन्यसे? मैत्रेय या निमित्तेन परिकल्पितेन रूपेण परिकल्पितस्य रूपस्य तत् स्वभावतासल्लक्षणतापि नु तद् (प्स्प्_6-8:154) रूपम्.
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] तद् अनेन ते मैत्रेय पर्यायेणैवं वेदितव्यं, यद् विकल्पितं रूपम् अपि न रूपन् नारूपं यत् पुनर् न रूपं नारूपं तद् अद्वयम्, इदञ् च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या धर्मता रूपस्य नैरात्म्यप्रभाविततापि नु तद् रूपम्.
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] या पुनस् तथाइवं धर्मता रूपस्य रूपधर्मता अपि नु तद् रूपम्?
[मैत्रेय] आह: नो हीदं भगवन्.
[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यद् धर्मता रूपम् अपि न रूपं नारूपं यन् न रूपं नारूपं तद् अद्वयम् इदं च संधायोक्तं मयाद्वयस्यैषा गणना कृता यद् इदं रूपम् इति वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु पेयालं कर्तव्यम्.
मैत्रेय आह: प्रज्ञापारमितायां चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य रूप एवम् अद्वयलक्षणकुशलस्य वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु एवम् अद्वयलक्षणकुशलस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, कथं लक्षणपरिज्ञा? कथं लक्षणप्रहाणं? कथं लक्षणसाक्षात्क्रिया? कथं लक्षणभावना द्रष्ट्रव्या?
भगवान् आह: प्रज्ञापारमितायां मैत्रेय चरतो बोधिसत्त्वस्य महासत्त्वस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, रूपस्य यन् न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् रूपस्य (प्स्प्_6-8:155) न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, या रूपस्य न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया, या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया रूपप्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावनाया, एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावना.
मैत्रेय आह: प्रज्ञापारमितायां भगवंश् चरतो बोधिसत्त्वस्य महासत्त्वस्यैवं परिज्ञाप्रहाणसाक्षात्क्रियाभावनासमन्वागतस्य कतमं निर्वाणम्?
भगवान् आह: गम्भीरं मैत्रेय परमगम्भीरं बोधिसत्त्वानां महासत्त्वानां निर्वाणम्.
मैत्रेय आह: केन कारणेन बोधिसत्त्वानां महासत्त्वानाम् एवं गम्भीरं परमगम्भीरं निर्वाणम्?
भगवान् आह: बोधिसत्त्वानां महासत्त्वानां मैत्रेय निर्वाणं यन् निर्वाणं नानिर्वाणं तेन गम्भीरं परमगम्भीरम् इत्य् उच्यते.
मैत्रेय आह: कथं भगवन् बोधिसत्त्वानां महासत्त्वानां न निर्वाणं भवति?
भगवान् आह: परार्थं मैत्रेयारभ्य संसारापरित्यागो न निर्वाणम्, आत्मार्थम् आरभ्य निर्वाणापरित्यागो नानिर्वाणम्.
मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः परार्थम् आरभ्य संसारं न परित्यजति संसारात् परित्यागात् कथम् अनेन निर्वाणं न परित्यक्तं भवति? सचेद् भगवन् बोधिसत्त्वो महासत्त्व आत्मार्थम् आरभ्य निर्वाणं न परित्यजति निर्वाणापरित्यागात् कथम् अनेन संसारो न परित्यक्तो भवति?
भगवान् आह: इह मैत्रेय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संसारम् अपि संसारतो न विकल्पयति, निर्वाणम् अपि निर्वाणतो न विकल्पयति, तस्यैवम् अविकल्पयतः समम् एतद् भवति (प्स्प्_6-8:156) यद् उत संसारश् च निर्वाणश् च. तत् कस्य हेतोः? तथा हि स यथा संसारं संसारतो ऽविकल्पयन् संसारान् नोद्विजति, तथाइव निर्वाणं निर्वाणतो ऽविकल्पयन् निर्वाणतो नोद्विजत्य् एवम् अविकल्पधातुप्रतिष्ठितस्यानया युक्त्या न संसारपरित्यागो न निर्वाणपरित्यागो वेदितव्यः.
मैत्रेय आह: न नु भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाविकल्पधातुप्रतिष्ठितेन संसारो यथैव न त्यक्तस् तथा नादत्तः कथम् अत्यक्तो भवति? निर्वाणं यथा न त्यक्तं तथा नादत्तं कथं अत्यक्तं भवति?
भगवान् आह: नाहं मैत्रेय संसारस्यैवम् आदानं वानादानं वा वदामि, निर्वाणस्यैवम् आदानं वानादानं वा वदाम्य् अपि तु मैत्रेय प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्याविकल्पधात्वालम्बनेन ज्ञानेन चित्तवशिताम् अनुप्राप्तस्य दशदिशि लोके गङ्गानदीवालुकोपमेषु लोकधातुसूपायकौशल्येन संसारसांदर्शनताम् उपादायाहं परिनिर्वृताणां बोधिसत्त्वानां महासत्त्वानां संसारस्यापरित्यागं वदामि, शून्यताम् उपलंभधातुप्रतिष्ठानताम् उपादाय निर्वाणस्यापरित्यागं वदामि.
मैत्रेय आह: अविकल्पनाया भगवन् कथं समस्तलक्षणं द्रष्टव्यम्?
भगवान् आह: यच् च मैत्रेय रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यावद् ये च बुद्धधर्मा या च रूपस्य शून्यता या च वेदनाया या च संज्ञाया या च संस्काराणां या च विज्ञानस्य या च यावद् बुद्धधर्माणां शून्यता, तेषां च धर्माणां तस्याश् च शून्यताया या भावाभावाद्वयता या चाप्रपञ्चना इदं मैत्रेय अविकल्पनायाः समस्तलक्षणं द्रष्टव्यम्.
मैत्रेय आह: किं नु भगवन् सर्वेषां श्रावकाणाम् एकांशेनैकांशिकी निर्वाणप्रतिष्ठा भवति?
भगवान् आह: नो हीदं मैत्रेय, तत् कस्य हेतोः? हि नानाधातुको ऽयं मैत्रेय लोको ऽनेकधातुकस् तस्मिंश् च नानाधातुकेषु भूताः सत्त्वगोत्रप्रभृतय उपलभ्यन्ते, अस्ति मैत्रेय सत्त्वानां सा गोत्रजातिर् (प्स्प्_6-8:157) यादित एव प्रणीतं विशेसं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति, अस्ति सा गोत्रजातिर् यादित एवं हीणं विशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति तेनैव च संतुष्टो भवति, अस्ति सा गोत्रजातिर् यादित एव हीनविशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति न च तावता संतुष्टो भवति, तत उत्तरि प्रणीतं विशेषं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति.
मैत्रेय आह: यो भगवंस् तृतीयः सत्त्वो गोत्रभूमिः, सो ऽर्हत्त्वं प्राप्यानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयमानो ऽनुपपद्यमानश् च कथं प्राप्नोत्य् उपपत्तिश् चास्य भगवता प्रतिपत्तौ च न व्याकृता?
भगवान् आह: नो ऽहं मैत्रेय कर्मक्लेशवशेन तस्योपपत्तिं प्रज्ञापयामि, अपि त्व् अचिन्त्यान् निर्वाणपारगामिनीम् अर्हतो ऽप्य् उपपत्तिं प्रज्ञापयामि.
मैत्रेय आह: आश्चर्यं भगवन् यावद् उदाराशया बोधिसत्त्वा महासत्त्वा माहात्म्याध्याशयाश् च, यत्रेदानीम् आदित एव प्रणीतं विशेषं प्रार्थयन्ति, प्रणीतम् एव विशेषम् अधिगच्छन्ति, कतमा भगवन् बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता? कतमा च माहात्म्याध्याशयता?
भगवान् आह: यन् मैत्रेय बोधिसत्त्वो महासत्त्वः शक्रत्वलोकपालत्वचक्रवर्तित्वसर्वाकारलोकसंपत्तिभिर् अनर्थिनो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयति, तासु च निःसंगता निरवग्रहता चेयं बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता. तत् पुनर् बोधिसत्त्वा महासत्त्वास् तद् असक्तिसुखम् अनवग्रहसुखं निर्वृत्तिसुखं च सर्वसत्त्वसाधारणम् इच्छन्तो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयन्ति, यद् उत संसारापरित्यागतया इयम् एषां माहात्म्याध्याशयता द्रष्टव्या.
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: आश्चर्याद्भुता भगवन् बोधिसत्त्वधर्माः, आश्चर्याद्भुता भगवन् बोधिसत्त्वशिक्षा, आश्चर्यान् अद्भुतान् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वधर्मान् अनुप्राप्तुकामेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्.
(प्स्प्_6-8:158)
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् ते न बुद्धैः कृता न प्रत्येकबुद्धैर् नार्हद्भिर् नानागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृतास् तत् कुत एषां धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते? इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मानुष्याः, अनेन कर्मणा नैरयिका अनेन कर्मणा तिर्यग्योनिका अनेन कर्मणा यामलौकिका अनेन कर्मणा मनुष्याः, अनेन कर्मणा कामधातुका देवाः, अनेन कर्मणा ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, अनेन कर्मणा परीत्ताभा अप्रमाणाभा आभास्वराभाः, अनेन कर्मणा परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः, अनेन कर्मणा अनभ्रकाः पुण्यप्रसवा वृहत्फलाः, अनेन कर्मणा अस्पृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, अनेन कर्मणा आकाशानन्त्यायतनसमापत्तयो विज्ञानानन्त्यायतनसमापत्तय आकिञ्चन्यायतनसमापत्तयो नैवसंज्ञानासंज्ञायतनसमापत्तयः, अनेन कर्मणा स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो, ऽनेन कर्मणा बोधिसत्त्वो महासत्त्वो, ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावस्य हि भगवन् न काचित् क्रिया यया नरकं वा गच्छच्छेत्, तिर्यग्योनिं वा यमलोकं वा देवं वा मनुष्यं वा कामधातुं वा रूपधातुं वा आरूप्यधातुं वा गच्छेत्, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वा प्राप्स्यति, बोधिसत्त्वो महासत्त्वो बोधिसत्त्वमार्गे वा चरिष्यति, सर्वाकारज्ञतां वा प्राप्स्यति, यान् प्राप्य सत्त्वान् संसारात् परिमोचयिष्यति.
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं, बालपृथग्जना हि सुभूते यावद् आर्यधर्मेष्व् अकोविदास् ते अभावस्वभावान् धर्मान् न जानन्ति, ते विपर्याससमुत्थितैर् विकल्पैर् विविधानि कर्माण्य् उपस्थापयन्ति, तेषां तादृशाम् एवात्मभावा भवन्ति, यदि वा नैरयिका यदि वा तैर्यग्योनिका यदि वा यामलौकिका यदि वा मनुष्येषु यदि वा कामधातुषु देवेषु यदि वा रूपधातुकेषु (प्स्प्_6-8:159) देवेषु यदि वा आरूप्यधातुकेषु देवेषु यावद् अभावस्य न कर्म न क्रिया न फलं, यः पुनर् अभावो ऽभाव एव सः. यत् पुनः सुभूतिर् एवम् आह: यः स्रोताअपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वो मार्गज्ञतायां चरति तथागतो वा सर्वाकारज्ञताम् अनुप्राप्नोति. तत् किं मन्यसे? सुभूते नाभावो मार्गो नाभावः स्रोतआपत्तिफलन् नाभावः सकृदागामिफलन् नाभावो ऽनागामिफलन् नाभावो ऽर्हत्त्वन् नाभावः प्रत्येकबोधिर् नाभावो यावत् सर्वाकारज्ञता.
सुभूतिर् आह: अभावो भगवन् मार्गो ऽभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो नागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिर् अभावो यावत् सर्वाकारज्ञता.
भगवान् आह: किं पुनः सुभूते ऽभावो धर्मो ऽभावं धर्मम् अनुप्राप्नोति?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: इति हि सुभूते यश् चाभावो यश् च मार्गः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन ये सत्त्वाश् चतुर्भिर् विपर्यासैर् अभिनिविष्टाः पञ्चसु स्कन्धेष्व् अनित्ये नित्यसंज्ञिनो ऽनात्मन्य् आत्मसंज्ञिनो दुःखे सुखसंज्ञिनो ऽशुभे शुभसंज्ञ्मो भावेष्व् अभिनिविष्टास् तांस् तान् भावेभ्यो विवेचयति.
इति चतुर्विपर्यासनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अस्ति भगवन् अवस्तु भूतं भव्यं तथतावितथता यत्र स्थित्वा बालपृथग्जना इदं वस्त्व् इत्य् अभिनिवेशेनाभिनिविश्य भूतं भव्यं तथतावितथता कर्माभिसंकुर्वन्ति येन कर्मणा पञ्चगतिकान् संसारान् न परिमुच्यन्ते.
भगवान् आह: नास्ति सुभूते ऽन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि वस्तु यत्र स्थित्वा बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति, अन्यत्र विपर्यासेन.
सुभूतिर् आह: कथं भगवन् विपर्यासेन बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति?
(प्स्प्_6-8:160)
भगवान् अह: तेन हि सुभूते उपमान् ते करिष्यामि, अस्यैवार्थस्य भूयस्या मात्रया प्रसिद्धये यथा पण्डिता जानीयुस्, तत् किं मन्यसे? सुभूते किञ्चित् स्वप्ने दर्शिनस् तद् वस्त्व् अस्ति यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरेत्.
सुभूतिर् आह: स्वप्न एव तावद् भगवन् नास्ति कुतः पुनस् तत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरिष्यति.
भगवान् आह: तत् किं मन्यसे? सुभूते ऽस्ति स कश्चिद् धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वानास्रवो वा संस्कृतो वासंस्कृतो वा यो न स्वप्नोपमः.
सुभूतिर् आह: नास्ति भगवन् स कश्चिद् धर्मः संस्कृतो वासंस्कृतो वा सास्रवो वानास्रवो वा लौकिको वा लोकोत्तरो वा यो न स्वप्नोपमः.
भगवान् आह: तत् किं मन्यसे? सुभूते कश्चित् स्वप्ने पञ्चगतिकः संसारो विद्यते?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे? सुभूते काश्चित् स्वप्ने मार्गभावना भवति, यां मार्गभावनाम् आगम्य न संक्लिश्येत वा न व्यवदायेत वा.
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् स्वप्नो ऽप्रज्ञप्तिको ऽप्रज्ञपनीयः सर्वपदव्यञ्जनैः.
भगवान् आह: तत् किं मन्यसे? सुभूते यदादर्शमण्डले प्रतिबिम्बो दृश्यते किञ्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्?
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् प्रतिबिम्बो ऽन्यत्र बालपृथग्जनानाम् उल्लापनात् तत् कुतस् तस्य कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्.
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् प्रतिबिम्बकस् (प्स्प्_6-8:161) तत् कुतस् तस्य मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे? सुभूते या सा प्रतिश्रुत्का नदीकुञ्जवनपर्वातकन्दराभ्यवकाशोदकप्रत्यासन्नतो निश्चरति किन् तस्याः प्रतिश्रुत्कायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
सुभूतिर् आह: नो भगवन् न वस्तुका सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
भगवान् आह: तत् किं मन्यसे? सुभूते किन् तस्याः प्रतिश्रुत्का या मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदापयेत.
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया सा भगवन् प्रतिश्रुत्का नास्ति कुतस् तस्या मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत्, न व्यवदायेत्.
भगवान् आह: तत् किं मन्यसे? सुभूते या सा मरीच्याम् अनुदके उदकसंज्ञा अनदीषु वा नदीसंज्ञा अनगरेषु नगरसंज्ञा अनुद्यानेष्व् उद्यानसंज्ञा किं तस्या मरीचिसंज्ञायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया भगवंस् तस्यां मरीच्याम् उदकं नास्ति नैव नदी नैव नगरन् नैवोद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुर्मोहनतायास् तत् कुतो ऽस्याः कर्म भविष्यति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
भगवान् आह: तत् किं मन्यसे? सुभूते किं तस्यां विपर्यस्तायां संज्ञायां मार्गभावना भवति यां मार्गभावनाम् आगम्य न (प्स्प्_6-8:162) संक्लिश्येत न व्यवदायेत.
सुभूतिर् आह: नो भगवन् न हि विपर्यस्तायां भगवन् संज्ञायाम् अस्ति मार्गभावना यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारेण विविधा मायाभिनिर्मिता, यदि वा हस्तिकायो यदि वाश्वकायो यदि वा बलीवर्दकायो यदि वा पत्तिकायो यदि वा जनपदकायो यदि वा स्त्रीरूपं यदि वा पुरुषरूपम् अपि नु तस्या मायायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
सुभूतिर् आह: नो भगवन् न हि मायाया भगवन् वस्त्व् अस्त्य् अन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि यत्र स्थित्वा कर्माभिसंकुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत् मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
सुभूतिर् आह: नो भगवन् न वस्तु कस्य भगवन् धर्मस्य कुतो मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे? सुभूते यत् पुनस् तथागतनिर्मितो ऽभिनिर्मिणोत्य् अन्यन् निर्मितं किं तस्य निर्मितस्य कर्मास्ति येन कर्मणा नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् निर्मितः.
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य निर्मितस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न वयवदायेत.
सुभूतिर् आह: नो भगवन्.
(प्स्प्_6-8:163)
भगवन् अह: तत् किं मन्यसे? सुभूते कश्चिद् अत्र संक्लिश्येत वा व्यवदायेत वा.
सुभूतिर् आह: न कश्चिद् भगवन् संक्लिश्येत वा व्यवदायेत वा.
भगवान् आह: यथैव सुभूते न संक्लिश्येत वा न व्यवदायेत वा तथाइव नास्ति संक्लेशो वा व्यवदानं वा. तत् कस्य हेतोः? अहंकारममकारे हि सुभूते स्थिताः सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, यथैव भूतदर्शी न संक्लिश्यते वा न व्यवदायते वा तथाइव सुभूते नास्ति संक्लेशो वा व्यवदानं वा.
इति निर्वस्तुकविपर्यासज्ञाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतं वेति भगवन् न संक्लिश्यते न वयवदायते, अभूतं वेति भगवन् न संक्लिश्यते न व्यवदायते, तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्वभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावस्यापि भगवन् न संक्लेशो न व्यवदानम्, अभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावाभावस्यापि भगवन् न संक्लेशो न व्यवदानं तत्र यद् एतद् भगवता व्यवदानन् निर्दिष्टन् तत् कथम् इदं भगवन् भवति?
भगवान् आह: या एषा सुभूते सर्वधर्माणां समता तन् मयोक्तं व्यवदानम्.
सुभूतिर् आह: सा पुनः कतमा सर्वधर्माणां समता?
भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता, या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता धर्मधातुम् इदम् उच्यते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवह्रियते न पुनः परमार्थेनानिरभिलप्यो हि सो ऽप्रव्याहारः सर्वाकारघोषवाक्यथातीतः.
इति व्यवदाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमास् तत् कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमैः (प्स्प्_6-8:164) सर्वधर्मैः प्रतिश्रुत्कोपमैः प्रतिभासोपमैः प्रतिबिम्बोपमैर् मरीच्युपमैर् मायोपमैर् गन्धर्वनगरोपमैर् निर्मितकोपमैर् धर्मैर् अवस्तुकेष्व् अद्रव्येष्व् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति, दानपारमितापरिपूर्यै, शीलपारमितापरिपूर्यै, क्षान्तिपारमितापरिपूर्यै, वीर्यपारमितापरिपूर्यै, ध्यानपारमितापरिपूर्यै, प्रज्ञापारमितापरिपूर्यै, उपायपारमितापरिपूर्यै, प्रणिधानपारमितापरिपूर्यै, बलपारमितापरिपूर्यै, ज्ञानपारमितापरिपूर्यै, अभिज्ञापारमितापरिपूर्यै, चत्वारि ध्यानानि समापद्यते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानां परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् परिपूरयति, पञ्चेन्द्रियाणि परिपूरयति, पञ्चबलानि परिपूरयति, सप्तबोध्यङ्गानि परिपूरयति, आर्याष्टाङ्गं मार्गं परिपूरयति, अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः परिपूरयति, चत्वार्य् आर्यसत्यानि परिपूरयति, शून्यतानिमित्ताप्रणिहितानि समापद्यते, पञ्चाभिज्ञाः परिपूरयति, अध्यात्मशून्यतां भावयति, बहिर्धाशून्यतां भावयति, अध्यात्मबहिर्धाशून्यतां भावयति, यावद् अभावस्वभावशून्यतां भावयति, सर्वसमाधीन् सर्वधारणीमुखानि परिपूरयति, दशबोधिसत्त्वभूमीः
परिपूरयति, दशतथागतबलानि परिपूरयति, चत्वारि वैशारद्यानि परिपूरयति, चतस्रः प्रतिसंविदः परिपूरयति, अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति द्वात्रिंशन्महापुरुषलक्षणानि परिपूरयत्य् अशीत्यनुव्यञ्जनानि परिपूरयति, यावत् त्रिसाहस्रे महासाहस्रे लोकधाताव् आभासकरीम् आभां परिनिष्पादयति, ब्रह्मस्वरतां परिनिष्पादयति, तत्रैकेन स्वरेण दशसु दिक्षु लोकधातुषु यथाधिमुक्तानां सत्त्वानां चेतसैव चित्तम् आज्ञाय धर्मं देशयति.
भगवान् आह: तत् किं मन्यसे? सुभूते नैते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, ये त्वया परिकीर्तिताः.
सुभूतिर् आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, कथं भगवन् स्वप्नोपमेषु (प्स्प्_6-8:165) सर्वधर्मेषु यावन् निर्मितकोपमेषु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरति? न च भगवन् स्वप्नो भूतो न प्रतिश्रुत्का भूता न प्रतिभासो भूतो न प्रतिबिम्बं भूतं न मरीचिर् भूता न माया भूता न गन्धर्वनगरं भूतं न निर्मितको भूतो न च भगवन् शक्यम् अभूतेन दानपारमितायां चरितुं शीलपारमितायां चरितुं क्षान्तिपारमितायां चरितुं वीर्यपारमितायां चरितुं ध्यानपारमितायां चरितुं प्रज्ञापारमितायां चरितुं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सर्वशून्यतास्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरितुम्.
भगवान् आह: तत् किं मन्यसे? सुभूते दानपारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सप्तत्रिंशद्बोधिपक्ष्यधर्माः सर्वशून्यता आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सर्वे ते सुभूते धर्मा अनभिसंस्कृता अनभिनिर्वृत्ता न शक्या अनभिसंस्कृतैर् धर्मैः सर्वाकारज्ञताम् अनुप्राप्तुम्.
अपि तु खलु पुनः सुभूते सर्व एते धर्मा मार्गस्यावाहनाय संवर्तन्ते, न पुनः फलस्याधिगमाय, य एतेषां धर्माणाम् अनुत्पादो ऽप्रादुर्भावो ऽलक्षणम् अपि तत्, अतो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यान् कुशलान् धर्मान् नोपलभते, यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्, यदि वा अध्यात्मशून्यतां यदि वा बहिर्धाशून्यतां यदि वाध्यात्मबहिर्धाशून्यतां यदि वा यावद् अभावस्वभावशून्यतां यदि वार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि यदि वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मांस् तान् सर्वान् मायोपमा इति जानाति.
(प्स्प्_6-8:166)
न चेमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यत्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमीर् दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनान्य् अपरिपूर्य सर्वाकारवरोपेतं ज्ञानम् अपरिपूर्य सत्त्वान् अपरिपाच्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नैतत् स्थानं विद्यते, यान् यान् एव कुशलान् धर्मान् आरभते तांस् तान् कुशलान् धर्मान् स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति.
स प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन्न् अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु चरन्न् अष्टविमोक्षेषु चरन् नवानुपूर्वविहारसमापत्तिषु चरन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरन्, पञ्चस्व् अभिज्ञासु चरन् सर्वसमाधिषु चरन् सर्वधारणीमुखेसु चरन् दशबोधिसत्त्वभूमिषु चरन् दशसु तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतसृषु प्रतिसंवित्सु चरन्न् अष्टादशावेणिकबुद्धधर्मेषु चरन् यावत् सर्वाकारवरोपेतसर्वाकारज्ञतायां चरन् स्वप्नोप्मान् जानाति, प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति, तांश् च सर्वसत्त्वान् स्वप्ने चरतः स जानाति प्रतिश्रुत्कायां प्रतिभासे प्रतिबिम्बे मरीच्यां मायायां गन्धर्वनगरे निर्मितके चरतो जानाति.
तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां न भावतो नाभावतो (प्स्प्_6-8:167) गृह्णाति यं गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् सर्वधर्मान् ज्ञात्वा न भावतो गृह्णाति नाभावतो गृह्णाति यां गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, अग्राह्या प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्या स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा, अग्राह्या अध्यात्मशून्यता, अग्राह्या बहिर्धाशून्यता, अग्राह्या अध्यात्मबहिर्धाशून्यता, अग्राह्या यावद् अभावस्वभावशून्यता, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाण्य् अग्राह्याणि शून्यतानिमित्ताप्रणिहितान्य् अग्राह्या अभिज्ञा अग्राह्या दशबलवैशारद्यप्रतिसंविदो ऽग्राह्या अष्टादशावेणिका बुद्धधर्मा, अग्राह्याः सर्वधर्मास् तद् बोधिसत्त्वो महासत्त्वो ऽग्राह्यान् सर्वधर्मान् विदित्वा अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निमितकोपमाः. न चाग्राह्याणां धर्माणाम् अग्राह्यता शक्ताभिलपितुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानाम् अर्थायानुत्तरायां सम्यक्संबोधौ प्रतिष्ठते.
स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति तत् सर्वसत्त्वानां कृतशः, यच् छीलं रक्षति, यां क्षान्तिं संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तत् सर्वसत्त्वानां कृतशो न पुनर् आत्मार्थम्.
न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृतशः स प्रज्ञापारमितायां चरन् सत्त्वो न सत्त्वे सत्त्वसंज्ञायां स्थिता नात्मन्य् (प्स्प्_6-8:168) आत्मसंज्ञायां स्थिता, न जीवे जीवसंज्ञायां स्थिता, न जन्तौ जन्तुसंज्ञायां स्थिता, न पोषे पोषसंज्ञायां स्थिता, न पुरुषे पुरुषसंज्ञायां स्थिता, न पुद्गले पुद्गलसंज्ञायां स्थिता, न मनुजे मनुजसंज्ञायां स्थिता, न मानवे मानवसंज्ञायां स्थिता, न कारके कारकसंज्ञायां स्थिता, न वेदके वेदकसंज्ञायां स्थिता, न जानके जानकसंज्ञायां स्थिता, न पश्यके पश्यकसंज्ञायां स्थिता, बोधिसत्त्वो महासत्त्वो विपर्यासाद् विवेचयति, विपर्यासाद् विवेच्यामृते धातौ प्रतिष्ठापयति, यत्र प्रतिष्ठितानाम् एते समुदाचारो न प्रवर्तन्ते, आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा पोषसंज्ञा पुरुषसंज्ञा पुद्गलसंज्ञा मनुजसंज्ञा मानवसंज्ञा कारकसंज्ञा वेदकसंज्ञा जानकसंज्ञा पश्यकसंज्ञा, स सर्वान् इमान् निमिञ्जितसंमिञ्जितविस्पन्दितप्रपञ्चितान् विवेच्यान्यतमान्यतमेन चेतसा बहुलम् उपसंपद्य विहरति, अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् आत्मना न केषुचिद् धर्मेष्व् अभिनिविशते सर्वसत्त्वांश् चानभिनिवेशे प्रतिष्ठापयति लोकव्यवहारेण न पुनः परमार्थेन.
इति व्यवदाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः किं पुनः स धर्मो लोकव्यवहारेणाभिसंबुद्धो ऽर्थपरमार्थेन?
भगवान् आह: लोकव्यवहारेण सुभूते व्यवह्रियते ऽयं तथागतेन धर्मो ऽभिसंबुद्धो ऽनेन धर्मेणायं धर्मो ऽसंबुद्धो ऽयं तथागतेन धर्मो देशित इति, न पुनस् तत्र कश्चिद् उपलभ्यते, तत् कस्य हेतोः? उपलंभो ह्य् एषो ऽनेन धर्मेणायं धर्मो ऽभिसंबुद्ध इति, न च द्वयेन काचित् प्राप्तिर् नाभिसमयः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न द्वयेनाभिसमयः किं पुनर् अद्वयेनाभिसमयः?
भगवान् आह: न द्वयेनाभिसमयो नाद्वयेनाभिसमयः, एष एवात्राभिसमयो यत्र न द्वयं नाद्वयं, तत् कस्य हेतोः? प्रपञ्च एष यो ऽयम् एषाम् अभिसमयो न च धर्मसमतायां प्रपञ्चो ऽस्ति (प्स्प्_6-8:169) निष्प्रपञ्चा धर्मसमता.
सुभूतिर् आह: अभावस्वभावानां भगवन् सर्वधर्माणां का समता?
भगवान् आह: एषैवात्र समता यत्र न भावो ऽभावो वा कीर्तितो, न च धर्मसमता परिकीर्त्य तेन चान्यो ऽपि धर्म उपलभ्यते धर्मसमतायां, सर्वधर्मविनिर्वृत्ता हि धर्मसमता, अगतिर् अविषयो धर्मसमता यस्य कस्यचिद् बालपृथग्जनस्य वार्यस्य वा.
सुभूतिर् आह: किं पुनर् भगवन् धर्मसमता तथागतस्याप्य् अविषयः?
भगवान् आह: अविषयः सुभूते सर्वार्याणां श्रद्धानुसारिणां वा धर्मानुसारिणां वाष्टमकानां वा स्रोतआपन्नानां वा सकृदागामिनां वानागामिनां वार्हतां वा श्रावकाणां वा प्रत्येकबुद्धानां वा बोधिसत्त्वानां महासत्त्वानां वा तथागतस्याप्य् अविषयः सर्वधर्मसमता.
सुभूतिर् आह: न पुनर् भगवन् सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
भगवान् आह: स्यात् सुभूते सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाणां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां, या च तथागतस्यार्हतः सम्यक्संबुद्धस्य समता समतैव समता, या च बालपृथग्जनसमता, या चार्यसमता, एकैवैषा समता, एकसमतायां न द्वयम् अस्ति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, सर्व एते सुभूते धर्माः समतायां नोपलभ्यन्ते, इमे बालपृथग्जनाः, अयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोताअपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः.
(प्स्प्_6-8:170)
सुभूतिर् आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते, ऽयं बालपृथग्जनो ऽयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, अविशेषो वा भगवन् भविष्यति बालपृथग्जनानाञ् च श्रद्धानुसारिणां च धर्मानुसारिणां चाष्टमकानाञ् च स्रोतआपन्नानां च सकृदागामिनाञ् चानागामिनाञ् चार्हतां च प्रत्येकबुद्धानाञ् च बोधिसत्त्वानां महासत्त्वानाञ् च तथागतस्यार्हतः सम्यक्संबुद्धस्य च.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अविशेषो धर्मसमतायां बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्.
सुभूतिर् आह: यदि भगवन्न् अविशेषो बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां, कुत एषां भगवंस् त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य?
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्माणां धर्मसमता.
सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, नान्यद् बुद्धरत्नं नान्यद् धर्मरत्नं नान्यत् संघरत्नं नान्या धर्माणां धर्मसमता, सचेद् भगवन् बुद्धरत्नं धर्मरत्नं संघरत्नं या च धर्माणां धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अग्राह्या अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् कथं भगवन्न् एषाम् अलक्षणानां धर्माणां फलव्यवस्थानं करोति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् (प्स्प्_6-8:171) अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति?
भगवान् आह: यदि तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तदाभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्यद् अपि नरको वा न प्रज्ञायते, तिर्यग्योनिर् वा यमलोको वा देवो वा मनुष्यो वा चातुर्महाराजिका वा देवास् त्रयस्त्रिंशा वा यामा वा तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मपार्षद्यो वा ब्रह्मपुरोहिता वा महाब्रह्माणो वा परीत्ताभा वा अप्रमाणाभा वा आभास्वरा वा परीत्तशुभा वा अप्रमाणशुभा वा शुभकृत्स्ना वा अनभ्रका वा पुण्यप्रसवा वा बृहत्फला वा असंज्ञिसत्त्वा वा अस्पृहा वा अतपा वा सुदृशा वा सुदर्शना वा अकनिष्ठा वा देवाः, आकाशानन्त्यायतनसमापत्तयो वा विज्ञानानन्त्यायतनसमापत्तयो वा आकिञ्चन्यायतनसमापत्तयो वा नैवसंज्ञानासंज्ञायतनसमापत्तयो वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गा वा, अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा, यावद् अभावस्वभावशून्यता वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा, अभिज्ञा वा दशबलवैशारद्यप्रतिसंविदो वावेणिकबुद्धधर्मा वा महामैत्री महाकरुणा द्वात्रिंशन्महापुरुषलक्षणानि वाशीत्यनुव्यञ्जनानि वा, दशबोधिसत्त्वभूमयो वा, दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा, उपायपारमिता वा प्रणिधानपारमिता वा बलपारमिता वा ज्ञानपारमिता वा, एवं त्रीणि रत्नानि, बुद्धरत्नं धर्मरत्नं संघरत्नं, श्रावकयानं प्रत्येकबुद्धयानम् अनुत्तरं महायानम्, एवं श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाः स्रोताअपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वाकारवरोपेतञ् च ज्ञानं न प्रज्ञायन्ते?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तस्मात् तर्हि सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् (प्स्प्_6-8:172) अयं पुरुषकारो यद् धर्मसमतायाश् च न चलन्ति, धर्माणां च व्यवस्थानं कुर्वन्ति.
सुभूतिर् आह: किं भगवन् यथा चैव तथागतो धर्मतायाश् च न चलति, तथाइव बालपृथग्जनापि न चलति श्रद्धानुसारी धर्मानुसारी अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वस् तथाइव सर्वधर्मा न चलन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते धर्मताया न चलन्ति न विवर्तन्ते, यैव सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव बालपृथग्जनानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव श्रद्धानुसारिणां धर्मानौसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सर्व एते धर्मा धर्मतां न व्यतिवर्तन्ते, तत् कस्य हेतोः? तथा ह्य् एषैव धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता नान्या काचिद् अनुधर्मता.
सुभूतिर् आह: यदि भगवन् या धर्माणां धर्मता सैव धर्मता बालपृथग्जनानां सैव श्रद्धानुसारिणां सैव धर्मानुसारिणां सैवाष्टमकानां सैव स्रोतआपन्नानां सैव सकृदागामिनां सैवानागामिनां सैवार्हतां सैव प्रत्येकबुद्धानां सैव बोधिसत्त्वानां महासत्त्वानां सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणास्? तद्यथा रूपं वेदना संज्ञा संस्कारा विज्ञानं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, अन्यैव च भगवन् रूपस्य धर्मता, अन्या वेदनायाः अन्या संज्ञाया अन्या संस्काराणाम् अन्या विज्ञानस्य धर्मता, अन्या चक्षुषः श्रोत्रघ्राणजिह्वाकायानां धर्मता, अन्या मनसो धर्मता, अन्या रूपशब्दगन्धरसस्प्र्ष्टव्यानां (प्स्प्_6-8:173) धर्मता अन्या धर्माणां धर्मता, अन्या चक्षुर्विज्ञानधर्मता, अन्या चक्षुःसंस्पर्शधर्मता, अन्या चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता, एवं श्रोत्रघ्राणजिह्वाकायाः, अन्या मनोविज्ञानधर्मता, अन्या मनःसंस्पर्शधर्मता, अन्या मनःसंस्पर्शप्रत्ययवेदनाधर्मता, अन्या पृथिवीधातुधर्मता, अन्याब्धातुधर्मता, अन्या तेजोधातुधर्मता, अन्या वायुधातुधर्मता, अन्या आकाशधातुधर्मता, अन्या विज्ञानधातुधर्मता, अन्या स्कन्धधर्मता, अन्या धातुधर्मता, अन्या आयतनधर्मता, अन्या प्रतीत्यसमुत्पादधर्मता, अन्या प्रतीत्यसमुत्पन्नधर्मता, अन्याविद्याधर्मता, अन्या संस्कारधर्मता, अन्या विज्ञानधर्मता, अन्या नामरूपधर्मता, अन्या षडायतनधर्मता, अन्या स्पर्शधर्मता, अन्या वेदनाधर्मता, अन्या तृष्नाधर्मता, अन्योपादानधर्मता, अन्या भवधर्मता, अन्या जातिधर्मता, अन्या जरामरणधर्मता, अन्या शोकपरिदेवदुष्खदौर्मनस्योपायासधर्मता, अन्या रागधर्मता, अन्या द्वेषधर्मता, अन्या मोहधर्मता, अन्या दृष्टिधर्मता, अन्या ध्यानानां धर्मता, अन्या अप्रमाणानां धर्मता, अन्या आरूप्यसमापत्तीनां धर्मता, अन्या स्मृत्युपस्थानानां धर्मता, अन्या सम्यक्प्रहाणानां धर्मता, अन्या ऋद्धिपादानां धर्मता, अन्या इन्द्रियाणां धर्मता, अन्या बलानां धर्मता, अन्या बोध्यङ्गानां धर्मता, अन्या आर्याष्टाङ्गस्य मार्गस्य धर्मता, अन्या शून्यताया धर्मता, अन्या आनिमित्तस्य धर्मता, अन्या अप्रणिहितस्य धर्मता, अन्या अध्यात्मशून्यताया धर्मता, अन्या बहिर्धाशून्यताया धर्मता, अन्या अध्यात्मबहिर्धाशून्यताया धर्मता, अन्या यावद् अभावस्वभावशून्यताया धर्मता, अन्या अष्टविमोक्षधर्मता, अन्या नवानुपूर्वविहारसमापत्तिधर्मता, अन्या आर्यसत्यधर्मता, अन्या अभिज्ञाधर्मता, अन्या दानपारमिताधर्मता, अन्या शीलपारमिताधर्मता, अन्या क्षान्तिपारमिताधर्मता, अन्या वीर्यपारमिताधर्मता, अन्या ध्यानपारमिताधर्मता, अन्या प्रज्ञापारमिताधर्मता, अन्या उपायपारमिताधर्मता, अन्या प्रणिधानपारमिताधर्मता,
अन्या बलपारमिताधर्मता, अन्या ज्ञानपारमिताधर्मता, अन्या प्रथमाया बोधिसत्त्वभूमेर् (प्स्प्_6-8:174) धर्मता, अन्या यावद् दशभूम्या बोधिसत्त्वभूमेर् धर्मता, अन्या दशानां तथागतबलानां धर्मता, अन्या चतुर्णां वैशारद्यानां धर्मता, अन्या चतसृणां प्रतिसंविदां धर्मता, अन्या अष्टादशानाम् आवेणिकानां बुद्धधर्माणां धर्मता, अन्या महामैत्र्या धर्मता, अन्या महाकरुणायां धर्मता, अन्या द्वात्रिंशन्महापुरुषलक्षणानां धर्मता अन्या अशीत्यनुव्यञ्जनानां धर्मता, अन्या संस्कृतस्य धातोर् धर्मता, अन्या असंस्कृतस्य धातोर् धर्मता. तत् कथं भगवन् नैवं विलक्षणानां सर्वधर्माणां धर्मतायां व्यवस्थानं नोपलभ्यते? यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणाञ् च नानात्वं करोति, न चाकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं, कथं च बोधिसत्त्वो महासत्त्वः भूमेर् भूमिं संक्रामति बोधिसत्त्वन्यामम् अवक्रामति, यया नियामावक्रान्त्या श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वातिक्रम्य ऽभिज्ञाः परिपूरयति, याभिर् अभिज्ञाभिर् विक्रीडमानो दानपारमितया परिपूर्णः, शीलपारमितया परिपूर्णः, क्षान्तिपारमितया परिपूर्णः, वीर्यपारमितया परिपूर्णः, ध्यानपारमितया परिपूर्णः, प्रज्ञापारमितया परिपूर्णः, उपायपारमितया परिपूर्णः, प्रणिधानपारमितया परिपूर्णः, बलपारमितया परिपूर्णः, ज्ञानपारमितया परिपूर्णः, विक्रीडमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति, यैः कुशलैर् मूलैः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिगृह्णाति.
भगवान् आह: यद् आयुष्मान् सुभूतिर् एवम् आह, यदि भगवन् या धर्माणां धर्मता, सैव पृथग्जनानां धर्मता, सैव श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां धर्मता, सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मता, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणा विलक्षणानाञ् च धर्माणां धर्मता कथम् एकलक्षणा युक्तेति.
भगवान् आह: तत् किं मन्यसे? सुभूते या रूपस्य धर्मता, किं (प्स्प्_6-8:175) न शून्या सा, य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य धर्मता, किं न शून्या सा, या स्कन्धधात्वायतनानां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पन्नानां धर्माणां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पादाङ्गानां धर्मता, किं न शून्या सा, या लौकिकलोकोत्तराणां धर्माणां धर्मता, किं न शून्या सा, या सास्रवानास्रवाणां धर्माणां धर्मता, किं न शून्या सा, या संस्कृतासंस्कृतां धर्माणां धर्मता, किं न शून्या सा, या बालपृथग्जनानां धर्मता, या श्रद्धानुसारिधर्मता, या धर्मानुसारिधर्मता, या अष्टमकधर्मता या स्रोतआपन्नधर्मता, या सकृदागामिधर्मता, या अनागामिधर्मता, या अर्हद्धर्मता, या प्रत्येकबुद्धधर्मता, या बोधिसत्त्वधर्मता, या तथागतधर्मता, किं न शून्या सा.
सुभूतिर् आह: शून्या सा भगवन् शून्या सा सुगत.
भगवान् आह: तत् किं मन्यसे? सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, रूपलक्षणं वा वेदना संज्ञा संस्कारा विज्ञानलक्षणं वा, स्कन्धधात्वायतनलक्षणं वा, प्रतीत्यसमुत्पादलक्षणं वा, प्रतीत्यसमुत्पन्नधर्मलक्षणं वा प्रतीत्यसमुत्पादाङ्गलक्सणं वा, लौकिकलोकोत्तराणां वा धर्माणां लक्षणं सास्रवानास्रवाणां वा धर्माणां लक्षणं, संस्कृतासंस्कृतानां वा धर्माणां लक्षणं, बालपृथग्जनानां वा लक्षणं श्रद्धानुसारिणां वा लक्षणं, धर्मानुसारिणां वा लक्षणम् अष्टमकानां वा लक्षणं, स्रोतआपन्नानां वा लक्षणं सकृदागामिनां वा लक्षणम् अनागामिनां वा लक्षणम् अर्हतां वा लक्षणं प्रत्येकबुद्धानां वा लक्षणं बोधिसत्त्वानां महासत्त्वानां वा लक्षणं तथागतानां वा लक्षणम्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, या धर्माणां धर्मता न तत्र पृथग्जना नान्यत्र पृथग्जनेभ्यः, न तत्र श्रद्धानुसारी नान्यत्र श्रद्धानुसारिणः, न तत्र धर्मानुसारी नान्यत्र धर्मानुसारिणः, न तत्राष्टमको नान्यत्राष्टमकान्, न तत्र स्रोतआपन्नो नान्यत्र स्रोतआपन्नान्, न तत्र सकृदागामी नान्यत्र सकृदागामिनो, न तत्रानागामी नान्यत्रानागामिनः, न तत्रार्हन् नान्यत्रार्हतः, न तत्र प्रत्येकबुद्धो नान्यत्र प्रत्येकबुद्धान्, न तत्र बोधिसत्त्वो नान्यत्र बोधिसत्त्त्वान्, न तत्र तथागतो नान्यत्र (प्स्प्_6-8:176) तथागतात्.
इति व्यवदानसंभारनिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् धर्मता संस्कृता उताहो ऽसंस्कृता?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न संस्कृता नासंस्कृता, न च संस्कृतव्यतिरेकेणासंस्कृत उपलभ्यते, न चासंस्कृतव्यतिरेकेण संस्कृत उपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यश् च संस्कृतो धातुर् यश् चासंस्कृतो धातुर् द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यद् उतालक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्यवहरति न पुनः परमार्थेन, न च परमार्थे कश्चित् कायसंस्कारे न वाक्संस्कारे न मनःसंस्कारे नान्यत्र कायसंस्कारान् नान्यत्र वाक्संस्कारान् नान्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते, येषां धर्माणां संस्कृतासंस्कृतानां समता स परमार्थस् तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति, सत्त्वानां च कृत्यं करोति.
सुभूतिर् आह: यदि भगवन् सर्वधर्माः शून्यास् तन् न कस्यचिद् धर्मस्य कश्चिद् धर्मः किंचित् करोति, अकिंचित्करेष्व् अकिंचनेषु निष्किंचनेषु चाधर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति सत्त्वानां च कृत्यं करोति दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वाचं भाषसे, यच् छून्यता अकिंचना निष्किंचना न कस्यचित् किंचित् करोति कृत्यं वा अकृत्यं वा, यदि सुभूते एते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयं तथागतस्य वृषभिता भवेत्, यच् छून्यतायाश् च न चलति, सत्त्वांश् चात्मसंज्ञाया विवेचयति, आत्मसंज्ञाया विवेच्य शून्यतया मोचयति संसाराद्, एवं सत्त्वसंज्ञाया विवेचयति जीवसंज्ञाया जन्तुसंज्ञायाः पोषसंज्ञायाः पुरुषसंज्ञायाः पुद्गलसंज्ञाया मनुजसंज्ञाया मानवसंज्ञायाः कारकसंज्ञाया वेदकसंज्ञाया जानकसंज्ञायाः पश्यकसंज्ञायाश् च विवेचयति, रूपसंज्ञाया विवेचयति, (प्स्प्_6-8:177) वेदनासंज्ञाया विवेचयति, संज्ञासंज्ञाया विवेचयति, संस्कारसंज्ञाया विवेचयति, विज्ञानसंज्ञाया विवेचयति, चक्षुःसंज्ञाया विवेचयति, श्रोत्रसंज्ञाया विवेचयति, घ्राणसंज्ञाया विवेचयति, जिह्वासंज्ञाया विवेचयति, कायसंज्ञाया विवेचयति, मनःसंज्ञाया विवेचयति, चक्षुर्विज्ञानसंज्ञाया विवेचयति, चक्षुःसंस्पर्शसंज्ञाया विवेचयति, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञाया विवेचयति, मनःसंस्पर्शसंज्ञाया विवेचयति, मनःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, रूपसंज्ञाया विवेचयति, शब्दसंज्ञाया गन्धसंज्ञाया रससंज्ञायाः स्पर्शसंज्ञाया धर्मसंज्ञाया विवेचयति, पृथिवीधातुसंज्ञाया विवेचयति, अब्धातुसंज्ञाया विवेचयति, तेजोधातुसंज्ञाया विवेचयति, वायुधातुसंज्ञाया विवेचयति, आकाशधातुसंज्ञाया विवेचयति, विज्ञानधातुसंज्ञाया विवेचयति, स्कन्धसंज्ञाया विवेचयति, धातुसंज्ञाया विवेचयति, आयतनसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादसंज्ञाया विवेचयति, प्रतीत्यसमुत्पन्नधर्मसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादाङ्गसंज्ञाया विवेचयति, अविद्यासंज्ञाया विवेचयति, संस्कारसंज्ञाया विज्ञानसंज्ञाया नामरूपसंज्ञाया षडायतनसंज्ञायाः स्पर्शसंज्ञाया वेदनासंज्ञायास् तृष्णासंज्ञाया उपादानसंज्ञाया भवसंज्ञाया जातिसंज्ञाया जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञाया विवेचयति,
संस्कृतधातुसंज्ञाया विवेचयति, असंस्कृतधातुसंज्ञाया विवेचयति, असंस्कृते च धातौ प्रतिष्ठापयति, स चासंस्कृतो धातुः शून्यः.
इति संस्कृतासंस्कृताव्यतिभेदपरिज्ञाननिवेशनकर्म
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन भगवन् न संस्कृतो धातुः शून्यः?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सत्त्वसंज्ञया सुभूते शून्यो यावद् असंस्कृतसंज्ञया, अपि तु खलु सुभूते यन् निर्मितो ऽन्यन् निर्मितं निर्मिणोति, कच्चित् तस्य तद् वस्त्व् अस्ति यन् न शून्यता?
सुभूतिर् आह: नो भगवन् निर्मितस्य हि भगवन् न कच्चिद् वस्त्व् (प्स्प्_6-8:178) अस्ति यन् न शून्यता, य च शून्यता यश् च निर्मितः, उभाव् एतौ धर्मौ, न संयुक्तौ न विसंयुक्तौ द्वाव् एतौ शून्यतया शून्यौ, तत् किं विनिगूहितम् इयं शून्यतायं निर्मितः. तत् कस्य हेतोः? तथा हि ताव् उभाव् अपि शून्यतायान् नोपलभ्यते, इयं शून्यतायं निर्मितः.
भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यश् च निर्मितो या च शून्यता उभयम् एतच् छून्यता.
सुभूतिर् आह: यदि भगवन्न् इमे लौकिका धर्मा निर्मिता अपि नु इमे लोकोत्तरा धर्मा निर्मिताः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि, पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि, शून्यतानिमित्ताप्रणिहितानि, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता पञ्चाभिज्ञा अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशपारमिता दशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा, यच् च तेषां फलं येन ते पुद्गलाः प्रज्ञाप्यन्ते, श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वः तथागतो ऽर्हन् सम्यक्संबुद्धो ऽपि नु भगवन्न् इमे धर्मा निर्मिताः.
भगवान् आह: यत्र पुनः सर्वधर्मा निर्मितास् तत्र कश्चिच् छ्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः, कश्चित् कर्मनिर्मितो ऽनेन सुभूते पर्यायेण सर्वधर्मा निर्मितकोपमा अनानाकरणाः.
सुभूतिर् आह: यत् पुनर् इदं भगवन् प्रहाणं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबुद्धभूमिर् वा निर्मिता सर्ववासनानुसंधिप्रहाणम् अपि निर्मितम्?
भगवान् आह: ये केचित् सुभूते धर्मा उत्पादिता वा निरोधिता वा सर्व एते निर्मिताः.
सुभूतिर् आह: कतमो भगवन् धर्मो यो न निर्मितकः?
भगवान् आह: यस्य नोत्पादो न निरोधः स धर्मो न निमितः.
(प्स्प्_6-8:179)
सुभूतिर् आह: स पुनः कतमो भगवन्?
भगवान् आह: असंमोषधर्मो न निर्मितः.
सुभूतिर् आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति, न च द्वये नोपलभ्यते, न च कश्चिद् धर्मो यो न शून्यस् तस्माद् भगवन् संमोषधर्मो निर्मितको भवेत्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावेन शून्यास् ते न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न बोधिसत्त्वैर् महासत्त्वैः कृता न तथागतैः कृता, या च स्वभावशून्यता तन् निर्वाणम्.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आदिकर्मिको भगवन् पुद्गलः कथम् अववदितव्यः? कथम् अनुशासितव्यो यत् स्वभावशून्यतां परिजानीयात्?
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते पूर्वं भावो ऽभविष्यत् पश्चाद् अभावो भविष्यति? नात्र सुभूते भावो नाभावो न स्वभावो न परभावः, कुत एव स्वभावशून्यता भविष्यति?
इति निर्वाणनिवेशनकर्म
इत्य् उक्तानि कर्माणीत्य् उक्तो धर्मकायाभिसंबोधः
इदम् अवोचद् भगवान् आत्तमनसो मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः, आयुष्मांश् च सुभूतिर् आयुष्मांश् च शारिपुत्र आयुष्मांश् चानन्दः, शक्रश् च देवानाम् इन्द्रः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति.
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यानि प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां धर्मकायाधिकारः शिक्षापरिवर्तो नामाष्टमः समाप्त इति
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्,
तेषाञ् च यो निरोध एवंवादी महाश्रमणः.
ओं गते 2 पारगते पारसंगते बोधि स्वाहा.
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0