पञ्चविंशब्राह्मण · भाग 6180
(प्ब् 16.11.14) एषो सहस्रस्य प्रतिष्टुतिः
(प्ब् 16.11.15) सहस्रम् अन्यम् अभितिष्ठतीत्य् आहुः सहस्रम् अन्यो ऽन्वातिष्ठतीति
(प्ब् 16.11.16) ककुभं प्राचीम् उदूहत्य् अथ यद् एषा द्विपदा ककुभो लोके क्रियते सहस्रस्यैव सो ऽन्वास्थायः
(प्ब् 16.11.17) अनुष्टुभं संपद्यते वाग् अनुष्टुब् वाक् त्रिरात्रस् तेन त्रिरात्रम् आप्नोति
(प्ब् 16.12.1) आदित्याश् चाङ्गिरसश् चादीक्षन्त ते स्वर्गे लोके ऽस्पर्धन्त ते ऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस् त आदित्या एतम् अपश्यंस् तं सद्यः परिक्रीयायास्यम् उद्गातारं वृत्वा तेन स्तुत्वा स्वर्गं लोकम् आयन्न् अहीयन्ताङ्गिरसः
(प्ब् 16.12.2) भ्रातृव्यवान् यजेत
(प्ब् 16.12.3) भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद
(प्ब् 16.12.4) तस्मा अमुम् आदित्यम् अश्वं श्वेतं कृत्वा दक्षिणाम् आनयंस् ते प्रतिगृह्य व्यभ्रंशत स एतान्य् आयास्यान्य् अपश्यत् तैर् आत्मानं समश्रीणात्
(प्ब् 16.12.5) तद् आयास्यानि भवन्ति भेषजायैव शान्त्यै
(प्ब् 16.12.6) स्वर्गकामो यजेत
(प्ब् 16.12.7) बृहतीं संपद्यते बृहत्या वै देवाः स्वर्गं लोकम् आयन् स्वर्गम् एवैतेन लोकम् आप्नोति
(प्ब् 16.12.8) पशुकामो यजेत
(प्ब् 16.12.9) पशवो वै बृहती पशुष्व् एव प्रतितिष्ठति
(प्ब् 16.13.1) एतस्यैवैकविंशम् अग्निष्टोमसाम कृत्वामयाविनं याजयेत्
(प्ब् 16.13.2) प्राणो वै त्रिवृत् प्राण आदित्यः प्राणैर् एष व्यृध्यते य आमयावी प्राणैर् एवैनं समर्धयति [थुस् बि; क्स्स् सेएम्स् तो रेअद् समर्ङ्घयति]
(प्ब् 16.13.3) विराजं संपद्यते ऽप वा एतस्माद् अन्नाद्यं क्रामति य आमयाव्य् अन्नं विराड् अन्नद्यम् एवास्मिन् दधाति
(प्ब् 16.13.4) एकविंशो ऽग्निष्टोमो भवत्य् अप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्य् एव तिष्ठति
(प्ब् 16.13.5) एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराट् प्रतिष्ठैकविंशो ऽत्त्य् अन्नं प्रतितिष्ठति
(प्ब् 16.13.6) उर्वरा वेदिर् भवत्य् एतद् वा अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति
(प्ब् 16.13.7) खल उत्तरवेदिर् अत्र हि स रसः समवैति सरसम् एव यज्ञं करोति
(प्ब् 16.13.8) खलेवाली यूपो भवत्य् एतया हि तं रसम् उत्कृषन्ति
(प्ब् 16.13.9) त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय
(प्ब् 16.13.10) सर्वा दिशो ऽश्वरथाः सोमप्रवाका विधावन्ति
(प्ब् 16.13.11) सर्वाभ्य एवास्मै दिग्भ्यो ऽन्नाद्यम् अवरुन्धे
(प्ब् 16.13.12) योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवम् इव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद् वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति
(प्ब् 16.13.13) सक्षीरदृतयो रथा भवन्ति ततो यन् नवनीतम् उदियात् तदाज्ये ऽपि कार्यं सद्यस्त्वाय
(प्ब् 16.14.1) अथैषो ऽङ्गिरसाम् अनुक्रीः
(प्ब् 16.14.2) एतेन वा अङ्गिरस आदित्यान् आप्नुवन् यो हीन आनुजावर इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहाम् आप्नुवन् ह्य् एतेनाङ्गिरस आदित्यान्
(प्ब् 16.14.3) तस्य चतुर्विंशौ पवमानौ
(प्ब् 16.14.4) चतुर्विंशत्यक्षरा गायत्री गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन्न् इमान् एवैतेन लोकान् व्याप्नोति
(प्ब् 16.14.5) तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते
(प्ब् 16.14.6) उभये स्तोमा युग्मन्तश् चायुजश् [थुस् बि; क्स्स् चार्युजश्] च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 16.14.7) विराजं संपद्यते ऽन्नं विराड् अन्नाद्यम् एवावरुन्धे
(प्ब् 16.14.8) एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 16.15.1) अथैष विश्वजिच् छिल्पः
(प्ब् 16.15.2) शिल्पं वा एष स्तोमानां पश्यति गृहे शिल्पं य एवं वेद
(प्ब् 16.15.3) तस्याष्टादशौ पवमानौ
(प्ब् 16.15.4) चक्रीवान् वा एष यज्ञः कामाय यं कामं कामयते तम् एतेनाभ्यश्नुते यत्र हि चक्रीवता कामयते तद् अभ्यश्नुते
(प्ब् 16.15.5) स्वर्गकामो यजेत
(प्ब् 16.15.6) स्वर्गो लोकः पृष्ठानि स्वर्गम् एवैतेन लोकम् आप्नोति
(प्ब् 16.15.7) तेजो ब्रह्मवर्चसं पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिंस् तेजो ब्रह्मवर्चसं दधाति
(प्ब् 16.15.8) अन्नं पशवः पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिन्न् अन्नाद्यं पशून् दधाति
(प्ब् 16.15.9) तद् आहुर् नानालोकानि पृष्ठानि यद् एकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो यजमानो ऽप्रतिष्ठातोर् इति
(प्ब् 16.15.10) एकविंशं होतुः पृष्ठं भवति प्रतिष्ठा वा एकविंशो मध्य एव यज्ञस्य प्रतितिष्ठत्य् एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 16.15.11) द्वाव् एताव् एकविंशौ भवतो द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु च प्रतिष्ठापयति
(प्ब् 16.16.1) अथैष एकत्रिकः प्रजापतेर् उद्भित्
(प्ब् 16.16.2) एतेन वै प्रजापतिर् एषां लोकानाम् उदभिनत्
(प्ब् 16.16.3) कृतस्तोमो वा एष उद्भिन्नं ह्य् एव कृतस्य
(प्ब् 16.16.4) यद् एकया स्तुवन्त्य् एको वै प्रजापतिः प्रजापतिम् एवाप्नोत्य् अथ यत् तिसृभिस् त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 16.16.5) ता उ चतस्रस् संपद्यन्ते चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति
(प्ब् 16.16.6) गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे
(प्ब् 16.16.7) प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते
(प्ब् 16.16.8) ऽऽअया रुचा हरिण्या पुनानऽऽ इत्य् आर्भवः पवमानः
(प्ब् 16.16.9) सर्वेषां वा एषा छन्दसां रूपं सर्वेष्व् एव छन्दःस्व् आर्भवं पवमानं प्रतिष्ठापयति
(प्ब् 16.16.10) तस्यां गायत्रपार्श्वं न गायत्राद् एति न साम्नो न निधनात्
(प्ब् 17.1.1) देवा वै स्वर्गं लोकम् आयंस् तेषां दैवा अहीयन्त व्रात्यां प्रवसन्तस् त आगच्छन् यतो देवाः स्वर्गं लोकम् आयंस् तेन तं स्तोमं न छन्दो ऽविन्दन् येन तान् आप्स्यंस् ते देवा मरुतो ऽब्रुवन्न् एतेभ्यस् तं स्तोमं तच् छन्दः प्रयच्छत येनास्मान् आप्नवान् इति तेभ्य एतं षोडशं स्तोमं प्रायच्छन् परोक्षम् अनुष्टुभं ततो वै ते तान् आप्नुवन्
(प्ब् 17.1.2) हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यं चरन्ति न कृषिं वणिज्यां षोडशो वा एतत् स्तोमः समाप्तुम् अर्हति
(प्ब् 17.1.3) मरुत्स्तोमो वा एष यानि क्षुद्राणि छन्दांसि तानि मरुताम्
(प्ब् 17.1.4) ककुभं प्राचीम् उदूहत्य् अथ यद् एषा द्विपदा ककुभो लोके क्रियते रूपेणैवेनांस् तत् समर्धयति
(प्ब् 17.1.2) ऽऽअधाहीन्द्र गिर्वणऽऽ इति विषमं छन्दो विषम इव वै व्रातः सर्वान् एवैतान् समान् करोति
(प्ब् 17.1.6) तासु द्यौतानम्
(प्ब् 17.1.7) द्युतानो मारुतस् तेषां गृहपतिर् आसीत् त एतेन स्तोमेनायजन्त ते सर्व आर्ध्नुवन् यद् एतत् साम भवत्य् ऋध्या एव
(प्ब् 17.1.8) यन् निरुक्तं निधनम् उपेयुर् गृहपतिर् एवर्ध्नुयाद् अपेतर आर्ध्नीताथ यद् अनिरुक्तम् उपयन्ति सर्वान् एवैतान् ऋद्धौ भूतौ प्रतिष्ठापयति
(प्ब् 17.1.9) गरगिरो वा एते ये ब्रह्माद्यं जन्यम् अन्नम् अदन्त्य् अदुरुक्तवाक्यं दुरुक्तम् आहुर् अदण्ड्यं दण्डेन घ्नन्तश् चरन्त्य् अदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निर्हन्तुम् अर्हति यद् एते चत्वारः षोडशा भवन्ति तेन पाप्मनो ऽधि निर्मुच्यन्ते
(प्ब् 17.1.10) ऽऽदेवो वो द्रविणोदाऽऽ इत्य् अग्निष्टोमसाम कार्यं देवतास्व् एवैनान् प्रतिष्ठापयति
(प्ब् 17.1.11) अथो खल्व् आहुः ऽऽअदर्शि गातुवित्तमऽऽ इत्य् एव सतोबृहतीषु कार्यं विषम इव वै व्रातः सर्वान् एवैनान् सतोबृहतः करोति
(प्ब् 17.1.12) तद् आहुः शिथिलम् इव वा एतत् छन्दश् चराचरं यत् सतोबृहती ऽऽदेवो वो द्रविणोदा ऽऽ इत्य् एव कार्यम्
(प्ब् 17.1.13) एषा वै प्रतिष्ठिता बृहती या पुनःपदा तद् यत् पदं पुनर् आरभते तस्मात् पुत्रो मातरम् अध्येति
(प्ब् 17.1.14) उष्णीषं च प्रतोदश् च ज्याह्णोडश् च विपथश् च फलकास्तीर्णः कृष्णशं वासः कृष्णवलक्षे अजिने रजतो निष्कस् तद् गृहपतेः
(प्ब् 17.1.15) वलूकान्तानि दामतूषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानहौ द्विषंहितान्य् अजिनानि
(प्ब् 17.1.16) एतद् वै व्रात्यधनं यस्मा एतद् ददति तस्मिन्न् एव मृजाना यान्ति
(प्ब् 17.1.17) त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिम् अभिसमायन्ति त्रयस्त्रिंशद् धि देवा आर्ध्नुवन् ऋध्या एव
(प्ब् 17.2.1) अथैष षट्षोडशी ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन्
(प्ब् 17.2.2) अभिपूर्वेण वा एते पाप्मना गृहीता ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसन्ति यत् षट्षोडशानि स्तोत्राणि भवन्ति तेन पाप्मानो ऽधि निर्मुच्यन्ते
(प्ब् 17.2.3) यद् एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठाया एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 17.2.4) उक्थो भवति पशवो वा उक्थानि पशवो नृशंसम् अग्र्यं परिणयन्ति पशुभिर् एवैनान् अग्र्यं परिणयति
(प्ब् 17.3.1) अथैष द्विषोडशो ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन्
(प्ब् 17.3.2) हीना वा एते अहीयन्ते ये कनिष्ठाः सन्तो व्रात्यां प्रवसन्ति यत् त्रिवृतः पवमाना भवन्ति मुखं वै त्रिवृत् स्तोमानां मुखत एवैनान् यज्ञस्य परिणयति
(प्ब् 17.3.3) यद् वै षोडशे स्तोत्रे भवतस् तेन पाप्मनो ऽधि निर्मुच्यन्ते
(प्ब् 17.3.4) एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 17.4.1) अथैष शमनीचामेढ्राणां स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन्
(प्ब् 17.4.2) अग्राद् अग्रं रोहन्त्य् ऊर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय
(प्ब् 17.4.3) एतेन वै शमनीचामेढ्रा अयजन्त तेषां कुषीतकः सामश्रवसो गृहपतिर् आसीत् तान् लुशाकपिः खार्गलिर् अनुव्याहरद् अवाकीर्षत कनीयांसौ स्तोमाव् उपागुर् इति तस्मात् कौषीतकानां न कश् चनातीव जिहीते यज्ञाव कीर्णा हि
(प्ब् 17.5.1) इन्द्रो वै त्रिशिरसं त्वाष्ट्रम् अहंस् तम् अश्लीला वाग् अभ्यवदत् सो ऽग्निम् उपाधावत् स एतद् अग्निस्तोत्रम् अपश्यत् तद् आत्मन्य् अधिविधाय तेनैनम् अयाजयत् तेनास्याश्लीलां वाचम् अपाहन्
(प्ब् 17.5.2) अपाश्लीलां वाचं हते य एवं वेद
(प्ब् 17.5.3) यो ऽपूत इव स्याद् अग्निष्टुता यजेताग्निनैवास्य पाप्मानम् अपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति
(प्ब् 17.5.4) तद् आहुर् यत् त्रिवृद् भवत्य् एकस्माद् एवाङ्गात् पाप्मानम् अपहन्ति मुखाद् एवेति
(प्ब् 17.5.5) ज्योतिष्टोम एव कार्यः
(प्ब् 17.5.6) यत् त्रिवृद् भवति यद् एवास्य मुखतो ऽपूतं तत् तेनापहन्ति यत् पञ्चदशो यद् एवास्योरस्तो बाह्वोर् अपूतं तत् तेनापहन्ति यत् सप्तदशो यद् एवास्य मध्यतो ऽपूतं तत् तेनापहन्ति यद् एकविंशो यद् एवास्य पदोर् अष्ठीवतोर् अपूतं तत् तेनापहन्ति
(प्ब् 17.5.7) वैश्वानरं वा एष प्रविशतीत्य् आहुर् यो ऽग्निष्टुता यजत इति वारवन्तीयम् अग्निष्टोमसाम कार्यं तस्य यद् अपूतं तद् अग्निः क्षापयत्य् अथेतरः शुचिः पूत उदेति
(प्ब् 17.6.1) त्रिवृद् अग्निष्टुद् अग्निष्टोमस् तस्य वायव्यास्व् अग्निष्टोमसाम
(प्ब् 17.6.2) ब्रह्मवर्चसकामो यजेत
(प्ब् 17.6.3) तेजो वै त्रिवृद् ब्रह्मवर्चसं यद् वायव्यास्व् अग्निष्टोमसाम भवत्य् उपैवैनं तद् धमति
(प्ब् 17.6.4) यथा हिरण्यं निष्टपेद् एवम् एनम् अग्निष्टुन् निष्टपति
(प्ब् 17.7.1) एतस्यैव रेवतीषु वारवन्तीयम् अग्निष्टोमसाम कृत्वा पशुकामो यजेत
(प्ब् 17.7.2) जरत्कक्षो वा एष यो ऽपशुर् यथा वै जरत्कक्षे पशवो न रमन्त एवम् एतस्मिन् पशवो न रमन्ते यो ऽपशुर् यदा वै जरत्कक्षम् अग्निर् दहत्य् अथैनम् अभिवर्षत्य् अथास्मिन्न् ओषधयो जायन्ते ऽथ वै तस्मिन् पशवो रमन्ते
(प्ब् 17.7.3) रमन्ते ऽस्मिन् पशवो य एवं वेद
(प्ब् 17.7.4) यद् एवास्यापशव्यं तद् अग्निष्टुन् निर्दहति यद् अग्निष्टुन् निर्दहति तद् अद्भी रेवतीभिः शमयति
(प्ब् 17.8.1) ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत
(प्ब् 17.8.2) यस्मिन् वा यज्ञक्रतौ विभ्रंशेत
(प्ब् 17.8.3) अग्निर् वा एतस्य हव्यम् अत्ति यो यज्ञे विभ्रंशते न देवता हव्यं गमयत्य् अग्निम् एवैकधर्ध्नोति
(प्ब् 17.8.4) यद् वै संशीर्यते ऽथान्यन् निष्कुर्वन्ति तेन तद् याति यदा वाव तन् निष्कुर्वन्त्य् अथ तद् याति येष्व् एव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तैर् एव यजेत येष्व् एव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तेष्व् एव प्रतितिष्ठति
(प्ब् 17.9.1) सप्तदशेनाग्निष्टुतान्नाद्यकामो यजेत
(प्ब् 17.9.2) अन्नं वै सप्तदशो ऽग्निर् अन्नाद्यस्य प्रदाताग्निर् एवास्मा अन्नाद्यं प्रयच्छति
(प्ब् 17.9.3) अन्नादो भवति य एवं वेद
(प्ब् 17.9.4) सर्वः सप्तदशो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति
(प्ब् 17.10.1) त्रिवृद् अग्निष्टोमस् तस्यानिरुक्तं प्रातःसवनम्
(प्ब् 17.10.2) प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अपाक्रामन् स एतद् अनिरुक्तं प्रातःसवनम् अपश्यत् तेनासां मध्यं व्यवैत् ता एनम् उपावर्तन्त पर्य् एनम् आविशन्
(प्ब् 17.10.3) ग्रामकामो यजेत यद् एतद् अनिक्तं प्रातःसवनं भवति मध्यम् एवासां व्यवैत्य् उपैनम् आवर्तन्ते पर्य् एनं विशन्ति
(प्ब् 17.10.4) स एष प्रजापतेर् अपूर्वो नास्मात् पूर्वो भवति य एवं वेद
(प्ब् 17.11.1) त्रिवृद् अग्निष्टोमः
(प्ब् 17.11.2) तस्य प्रातःसवने सन्नेषु नाराशंसेष्व् एकादशदक्षिणा व्यादिशत्य् अश्वद्वादशा मध्यन्दिने ता उभयीर् अपाकरोत्य् एकादश तृतीयसवने ता वशायाम् अपाकरोति
(प्ब् 17.11.3) त्रयस्त्रिंशद् एता दक्षिणा भवन्ति त्रयस्त्रिंशद् देवता देवता एवाप्नोत्य् अश्वश् चतुस्त्रिंशो दक्षिणानां प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवाप्नोति
(प्ब् 17.11.4) स एष बृहस्पतिसवो बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति स एतेनायजत स देवानां पुरोधाम् अगच्छत्
(प्ब् 17.11.5) गच्छति पुरोधां य एवं वेद
(प्ब् 17.11.6) स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन् स एतेन यजेत
(प्ब् 17.11.7) गच्छति स्थापत्यं य एवं वेद
(प्ब् 17.11.8) कृष्णाजिने ऽध्य् अभिषिच्यत एतद् वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्य् अभिषिच्यते
(प्ब् 17.11.9) आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन् धत्ते
(प्ब् 17.12.1) त्रिवृद् अग्निष्टोमः स सर्वस्वारो यः कामयेतानामयतामुं लोकम् इयाम् इति स एतेन यजेत
(प्ब् 17.12.2) प्राणो वै त्रिवृत् प्राणः स्वरः प्राणान् एवास्य बहिर् णिरादधाति ताजक् प्रमीयते
(प्ब् 17.12.3) त्रिवृद् वै स्तोमानां क्षेपिष्ठो यत् त्रिवृद् भवत्य् आशीयः संगच्छाता इत्य् अनन्तो वै स्वरो ऽनन्तो ऽसौ लोको ऽनन्तम् एवैनं स्वर्गं लोकं गमयति
(प्ब् 17.12.4) अभिवत्यः प्रवत्यो भवन्त्य् अस्माद् एवैनं लोकात् स्वर्गं लोकं गमयन्ति
(प्ब् 17.12.5) आर्भवपवमाने स्तूयमान औदुम्बर्या दक्षिणा प्रावृतो निपद्यते तद् एव संगच्छते
(प्ब् 17.12.6) स एष शुनस्कर्णस्तोम एतेन वै शुनस्कर्णो बाष्किहो ऽयजत तस्माच् छुनस्कर्णस्तोम इत्य् आख्यायते
(प्ब् 17.13.1) त्रिवृद् अग्निष्टोमो वैश्वदेवस्य लोकः
(प्ब् 17.13.2) आग्नेयी प्रतिपद् वैश्वदेवः पशुर् बार्हस्पत्यानुबन्ध्या
(प्ब् 17.13.3) न यूपं मिन्वन्ति नोत्तरवेदिं निवपन्ति
(प्ब् 17.13.4) परिधौ पशुं नियुञ्जन्ति
(प्ब् 17.13.5) पञ्चाशद् दक्षिणा
(प्ब् 17.13.6) अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति
(प्ब् 17.13.7) ततश् चतुर्षु मासेषु वरुणप्रघासानां लोके द्विदिवः
(प्ब् 17.13.8) वारुणी प्रतिपन् मारुतः पशुः
(प्ब् 17.13.1) कवती प्रतिपद् वारुणः पशुः
(प्ब् 17.13.10) मैत्रावरुण्य् अनूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशू नियुञ्जन्ति
(प्ब् 17.13.11) शतं दक्षिणा अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति
(प्ब् 17.13.12) ततश् चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रः
(प्ब् 17.13.13) अनीकवती प्रतिपद् आग्नेयः पशुर् मारुती प्रतिपद् ऐन्द्राग्नः पशुर् वैश्वकर्मणी प्रतिपद् एकादशिनी पशवः सौर्यानूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशून् नियुञ्जन्ति पञ्चाशच्छतं दक्षिणा
(प्ब् 17.13.14) अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति
(प्ब् 17.13.15) ततश् चतुर्षु मासेषु शुनासीर्यस्य लोके ज्योतिष्टोमो ऽग्निष्टोमः
(प्ब् 17.13.16) उपवती प्रतिपद् वायव्यः पशुर् आश्विन्य् अनूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशुं नियुञ्जन्ति द्वादशं शतं दक्षिणा
(प्ब् 17.13.17) अग्निः संवत्सरः सूर्यः परिवत्सरश् चन्द्रमा इदावत्सरो वायुर् अनुवत्सरो ऽग्निं संवत्सरं वैश्वदेवेनाप्नोति सूर्यं परिवत्सरं वरुणप्रघासैश् चन्द्रमसम् इदावत्सरं साकमेधैर् वायुम् अनुवत्सरं शुनासीर्येण
(प्ब् 17.13.18) हविर्यज्ञैर् वै देवा इमं लोकम् अभ्यजयन्न् अन्तरिक्षं पशुमद्भिः सोमैर् अमुम् इमान् एव लोकान् आप्नोत्य् एषु लोकेषु प्रतितिष्ठति य एवं वेद
(प्ब् 17.14.1) यदाग्निहोत्रं जुहोत्य् अथ दश गृहमेधिन आप्नोत्य् एकया रात्र्या, यदा दश संवत्सरान् अग्निहोत्रं जुहोत्य् अथ दर्शपूर्णमासयाजिनम् आप्नोति, यदा दश संवत्सरान् दर्शपूर्णमासाभ्यां यजते ऽथाग्निष्टोमयाजिनम् आप्नोति, यदा दशभिर् अग्निष्टोमैर् यजते ऽथ सहस्रयाजिनम् आप्नोति, यदा दशभिः सहस्रैर् यजते ऽथायुतयाजिनम् आप्नोति, यदा दशभिर् अयुतैर् यजते ऽथ प्रयुतयाजिनम् आप्नोति, यदा दशभिः प्रयुतैर् यजते ऽथ नियुतयाजिनम् आप्नोति, यदा दशभिर् नियुतैर् यजते ऽथार्बुदयाजिनम् आप्नोति, यदा दशभिर् अर्बुदैर् यजते ऽथ न्यर्बुदयाजिनम् आप्नोति, यदा दशभिर् न्यर्बुदैर् यजते ऽथ निखर्वकयाजिनम् आप्नोति, यदा दशभिर् निखर्वकैर् यजते ऽथ बद्वयाजिनम् आप्नोति, यदा दशभिर् बद्वैर् यजते ऽथाक्षितयाजिनम् आप्नोति यदा दशभिर् अक्षितैर् यजते ऽथ गौर् भवति, यदा गौर् भवत्य् अथाग्निर् भवति यदाग्निर् भवत्य् अथ संवत्सरस्य गृहपतिम् आप्नोति
(प्ब् 17.14.2) यदा संवत्सरस्य गृहपतिर् भवत्य् अथ वैश्वदेवस्य मात्राम् आप्नोत्य् अतो वा इतरे परस्तरां परस्तराम् एव सर्वे
(प्ब् 17.14.3) एतान् एव लोकान् आप्नोत्य् एतान् लोकान् जयति य एवं वेद
(प्ब् 18.1.1) सप्तदशो ऽग्निष्टोमः
(प्ब् 18.1.2) देवाश् च वा असुराश् च प्रजापतेर् द्वयाः पुत्रा आसंस् ते ऽसुरा भूयांसो बलीयांस आसन् कनीयांसो देवास् ते देवाः प्रजापतिम् उपाधावन् स एतम् उपहव्यम् अपश्यत्
(प्ब् 18.1.3) स ऐक्षत यन् निरुक्तम् आहरिष्याम्य् असुरा मे यज्ञं हनिष्यन्तीति सो ऽनिरुक्तम् आहरत्
(प्ब् 18.1.4) स उत्तमे स्तोत्रे ऽऽदेवो वो द्रविणोदाऽऽ इति देवान् अभिपर्यावर्तत
(प्ब् 18.1.5) ततो देवा अभवन् परासुराः
(प्ब् 18.1.6) भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद
(प्ब् 18.1.7) अथो खल्व् आहुः ऽऽयज्ञायज्ञा वो अग्नयऽऽ इत्य् एव कार्यम्
(प्ब् 18.1.8) अग्निर् वै सर्वा देवतास् तेन न देवतानां कां चनान्तर् एति
(प्ब् 18.1.9) इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् स प्रजापतिम् उपाधावत् तस्मा एतम् उपहव्यं प्रायच्छत् तं विश्वे देवा उपाह्वयन्त तस्माद् उपहव्यः
(प्ब् 18.1.10) अभिशस्यमानं याजयेत्
(प्ब् 18.1.11) देवता वा एतं परिव्रजन्ति यम् अनृतम् अभिशंसन्ति देवता एवास्यान्नम् आदयन्ति
(प्ब् 18.1.12) तस्य पूतस्य स्वदितस्य मनुष्या अन्नम् अदन्ति
(प्ब् 18.1.13) ग्रामकामो यजेत
(प्ब् 18.1.14) मारुती भवति मरुतौ वै देवानां विशो विशम् एवास्मा अनुनियुनक्त्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 18.1.15) पशुकामो यजेत पौषी भवति
(प्ब् 18.1.16) पशवो वै पूषा पशून् एवावरुन्धे
(प्ब् 18.1.17) वैश्वदेवी भवति विश्वे ह्य् एनं देवा उपाह्वयन्त
(प्ब् 18.1.18) बृहत्सामा भवति
(प्ब् 18.1.19) प्रजापतिर् ह्य् एनम् इन्द्राय प्रायच्छत्
(प्ब् 18.1.20) अश्वः श्यवो दक्षिणा
(प्ब् 18.1.21) स ह्य् अनिरुक्तः
(प्ब् 18.1.22) स ब्रह्मणे देयः
(प्ब् 18.1.23) ब्रह्मा वा ऋत्विजाम् अनिरुक्तः स्वेनैवैनं तद् रूपेण समर्धयति
(प्ब् 18.1.24) यावद् ध वै कुमारे सद्यो जात एनो नास्मिंस् तावच् च नैनो भवति य एवं वेद
(प्ब् 18.2.1) सप्तदशो ऽग्निष्टोमः
(प्ब् 18.2.2) तस्य द्वादश दीक्षोपसदः
(प्ब् 18.2.3) स्वर्गकामो यजेत
(प्ब् 18.2.4) द्वादश मासाः संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गम् एवैतेन लोकम् आप्नोति
(प्ब् 18.2.5) घृतव्रतो भवति
(प्ब् 18.2.6) देवव्रतं वै घृतं देवव्रतेनैव देवता अप्येति
(प्ब् 18.2.7) उत्तरेणोत्तरेण काण्डेनोपैत्य् उत्तर उत्तर एषां लोकानां ज्यायान् स्वर्गस्य समष्ट्यै
(प्ब् 18.2.8) बृहत्साम भवति बृहता वै देवाः स्वर्गं लोकम् आयन् स्वर्गम् एवेतेन लोकम् आप्नोति
(प्ब् 18.2.9) ऋतम् उक्त्वा प्रसर्पन्त्य् ऋतेनैवैनं स्वर्गं लोकं गमयन्ति
(प्ब् 18.2.10) सोमचमसो दक्षिणा देवतयैव देवता अप्येति
(प्ब् 18.2.11) औदुम्बरो भवत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्धे
(प्ब् 18.2.12) सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय
(प्ब् 18.2.13) सर्वः सप्तदशो भवति
(प्ब् 18.2.14) द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गम् एवैतेन लोकम् आप्नोति
(प्ब् 18.3.1) सप्तदशो ऽग्निष्टोमः
(प्ब् 18.3.2) तस्य दीक्षणीयायाम् इष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायां चत्वारि चतुर्विंशतिमानानि प्रातः प्रथमायाम् उपसद्य् अष्टौ चतुर्विंशतिमानान्य् अपराह्णे प्रथमायाम् उपसदि षोडशचतुर्विंशतिमानानि प्रातर् मध्यमायाम् उपसदि द्वात्रिंशतं चतुर्विंशतिमानान्य् अपराह्णे मध्यमायाम् उपसदि चतुःषष्टिं चतुर्विंशतिमानानि प्रातर् उत्तमायाम् उपसद्य् अष्टाविंशतिशतं चतुर्विंशतिमानान्य् अपराह्ण उत्तमायाम् उपसदि द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशोर् वपायां चत्वार्य् अष्टाविंशतिशतमानानि प्रातः पशोर् वपायाम् अष्टाव् अष्टाविंशतिशतमानानि प्रातःसवने सन्नेषु नाराशंसेषु षोडशाष्टाविंशतिशतमानानि माध्यन्दिने सवने ऽनडुच्छतं च रुक्मो होतुः स्रग् उद्गातुर् द्वात्रिंशतम् अष्टाविंशतिशतमानानि तृतीयसवने सन्नेषु नाराशंसेषु चतुःषष्टिम् अष्टाविंशतिशतमानान्य् उदयनीयायाम् इष्टाव् अष्टाविंशतिशतम् अष्टाविंशतिशतमानानि वशाया वपायाम्
(प्ब् 18.3.3) एष वा अनडुहो लोकम् आप्नोति य एवं वेद
(प्ब् 18.3.4) एष वै ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वान् एतेन यजते
(प्ब् 18.4.1) सप्तदशो ऽग्निष्टोमः
(प्ब् 18.4.2) तस्य प्रातःसवनीयान् सोमान् प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने
(प्ब् 18.4.3) पशुकामो यजेत
(प्ब् 18.4.4) यत् सर्वाणि सवनान्य् आशीर्वन्ति भवन्त्य् अनुसवनम् एवैनं पशुभिः सर्मर्धयति प्रजा त्व् अस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति
(प्ब् 18.4.5) वैश्यं याजयेत्
(प्ब् 18.4.6) एतद् वै वैश्यस्य समृद्धं यत् पशवः पशुभिर् एवैनं समर्धयति
(प्ब् 18.4.7) तस्य कण्वरथन्तरं पृष्ठम्
(प्ब् 18.4.8) सदोविशीयं ब्रह्मसाम
(प्ब् 18.4.9) पशवो वै कण्वरथन्तरं पशवः सदोविशीयम् आभिपूर्वान् एवास्मिन् पशून् दधाति
(प्ब् 18.4.10) सर्वः सप्तदशो भवति
(प्ब् 18.4.11) द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवो ऽनुप्रजायन्ते तान् एवाप्त्वावरुन्धे
(प्ब् 18.5.1) सप्तदश उक्थ्यः
(प्ब् 18.5.2) इन्द्रो वृत्रम् अहन् स विष्वङ्वीर्येण व्यार्च्छत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छंस् तं न किं चनाधिनोत् तं तीव्रसोम एवाधिनोत्
(प्ब् 18.5.3) सोमातिपवितं याजयेत्
(प्ब् 18.5.4) छिद्र इव वा एष यं सोमो ऽतिपवते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
(प्ब् 18.5.5) राजानम् अपरुद्धं याजयेत्
(प्ब् 18.5.6) विड् वा एतम् अतिपवते यो राजापरुध्यते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
(प्ब् 18.5.7) ग्रामकामो यजेत
(प्ब् 18.5.8) ग्रामो वा एतम् अतिपवते यो ऽलं ग्रामाय सन् ग्रामं न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
(प्ब् 18.5.9) प्रजाकामो यजेत प्रजा वा एतम् अतिपवते यो ऽलं प्रजायाः सन् प्रजां न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
(प्ब् 18.5.10) पशुकामो यजेत पशवो वा एतम् अतिपवन्ते यो ऽलं पशुभ्यः सन् पशून् न विन्दते यत् तीव्रसोमेन यजते पिहित्या [थुस् बि; ऽपिहित्या क्स्स्] एवाच्छिद्रतायै
(प्ब् 18.5.11) आमयाविनं याजयेत् प्राणा वा एतम् अतिपवन्ते य आमयावी यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
(प्ब् 18.5.12) शतम् आशिरं दुहन्ति तीव्रयन्त्य् एवैनम्
(प्ब् 18.5.13) तत् ता उ एव दक्षिणाः
(प्ब् 18.5.14) अभ्य् अभिसोमान् उन्नयन्ति तीव्र एनं धिनवद् इत्य् उभाव् अध्वर्यू सर्वे चमसाध्वर्यवो ऽच्छावाकाय प्रतिगृणन्ति तीव्रयन्त्य् एवैनम्
(प्ब् 18.5.15) तद् अभक्षयन्त ऋत्विजश् चमसान् अवजिघ्रन्ति तीव्रयन्त्य् एवैनं तत् तान् अच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्य् एवैनम्
(प्ब् 18.5.16) तद् यत् सवनानि व्यवभक्षयेयुर् अपक्रामुका यजमानाच् छ्रीः स्यात् सकृत्सकृत् सवनानाम् अन्ततो भक्षयन्ति सवनानाम् असंभेदाय
(प्ब् 18.5.17) रथन्तरं साम भवति
(प्ब् 18.5.18) इयं वै रथन्तरम् अस्यां वा एष न प्रतितिष्ठति यो न प्रतितिष्ठत्य् अस्याम् एवैनं प्रतिष्ठापयति
(प्ब् 18.5.19) श्रायन्तीयं ब्रह्मसाम भवत्य् एतद् एवास्मिञ् छ्रीणाति
(प्ब् 18.5.21) वाग् अनुष्टुप् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति
(प्ब् 18.5.22) विशोविशीयम् अग्निष्टोमसाम भवत्य् एतद् एवास्मिन् सर्वं प्रतिष्ठापयति
(प्ब् 18.5.23) उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 18.5.24) उक्थ्यो भवति पशवो वा उक्थानि पशुष्व् एव प्रतितिष्ठति
(प्ब् 18.6.1) सप्तदश उक्थ्यः षोडशिमान् सप्तदशी
(प्ब् 18.6.2) यावान् वै प्रजापतिर् ऊर्ध्वस् तावांस् तिर्यङ्
(प्ब् 18.6.3) यावन्त इमे लोका ऊर्ध्वास् तावन्तस् तिर्यञ्चः
(प्ब् 18.6.4) वाजपेययाजी वाव प्रजापतिम् आप्नोति
(प्ब् 18.6.5) यत् सप्तदश स्तोत्राणि तेनोर्ध्वम् अप्नोति यत् सर्वः सप्तदशस् तेन तिर्यञ्चम्
(प्ब् 18.6.6) तस्य नानावीर्याणि सवनानि
(प्ब् 18.6.7) अनिरुक्तं प्रातःसवनं वाजवन् माध्यन्दिनं सवनं चित्रवत् तृतीयसवनम्
(प्ब् 18.6.8) यद् अनिरुक्तं प्रातःसवनं भवत्य् अनिरुक्तो वै प्रजापतिः प्रजापतिम् एवाप्नोति यद् वाजवन् माध्यन्दिनं सवनं अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै यच् चित्रवत् तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 18.6.9) वियोनिर् वाजपेय इत्य् आहुः प्राजापत्यः सन् निरुक्तसामेति यद् अनिरुक्तं प्रातःसवनं तेन सयोनिः
(प्ब् 18.6.10) रथन्तरं साम भवत्य् आशीय उज्झित्यै
(प्ब् 18.6.11) इयं वै रथन्तरम् अस्याम् एवाध्य् अभिषिच्यते
(प्ब् 18.6.12) तस्माद् वाजपेययाज्य् अप्रत्यवरोही
(प्ब् 18.6.13) अस्यां हि सो ऽध्य् अभिषिच्यते
(प्ब् 18.6.14) अभीवर्तो ब्रह्मसाम भवति ब्रह्मणो वा एष ऋषभ ऋषभताम् एवैनं गमयति
(प्ब् 18.6.15) यज्ञायज्ञीयम् अनुष्टुभि भवति वाग् अनुष्टुप् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति
(प्ब् 18.6.16) वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
(प्ब् 18.6.17) उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 18.6.18) गौरीवितं षोडशिसाम भवति
(प्ब् 18.6.19) अतिरिक्तं गौरीवितम् अतिरिक्तः षोडश्य् अतिरिक्त एवातिरिक्तं दधाति
(प्ब् 18.6.20) तद् आहुर् जामि वा एतद् यज्ञे क्रियते यद् उद्वंशीयाद् गौरीवितेन स्तुवते स्वारात् स्वारेणेति
(प्ब् 18.6.21) न जाम्य् अस्ति सवनं संतिष्ठते
(प्ब् 18.6.22) उक्थं शस्यते वषट्कारो ऽन्तरा तेनाजामि
(प्ब् 18.6.23) अपच्छिद् इव वा एतद् यज्ञकाण्डं यत् षोडशी तेनाजामि
(प्ब् 18.6.24) यज्ञारण्ये संतिष्ठत इत्य् आहुर् अत्य् उक्थान्य् एत्य् अति षोडशिनं न रात्रिं प्राप्नोतीति
(प्ब् 18.6.25) विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति
(प्ब् 18.6.26) एषा वै प्रजापतेः पशुष्ठा तनूर् यच् छिपिविष्टः प्राणो वै बृहत् प्राण एव पशुषु प्रतितिष्ठति
(प्ब् 18.6.27) बृहता स्तुवन्ति बृहद् अमुं लोकम् आप्तुम् अर्हति तम् एवाप्नोति
(प्ब् 18.7.1) प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति स एतं वाजपेयम् अपश्यद् वाजपेयो वा एष वाजम् एवैतेन स्वर्गं लोकम् आप्नोति
(प्ब् 18.7.2) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिर् अवरुन्धे
(प्ब् 18.7.3) वाजवत्यो माध्यन्दिने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 18.7.4) अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति भूमानं ताभिर् अवरुनधे
(प्ब् 18.7.5) सर्वः सप्तदशो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति
(प्ब् 18.7.6) हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद् रूपं क्रियते
(प्ब् 18.7.7) एष मे ऽमुष्मिन् लोके प्रकाशो ऽसद् इति
(प्ब् 18.7.8) ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधाति
(प्ब् 18.7.9) आजिं धावन्ति यजमानम् उज्जापयन्ति स्वर्गम् एवैनं तल् लोकम् उज्जापयन्ति
(प्ब् 18.7.10) नाकं रोहति स्वर्गम् एव तल् लोकं रोहति
(प्ब् 18.7.11) सरजसे रोहति मनुष्यलोकाद् एवैनम् अन्तर् दधाति
(प्ब् 18.7.12) वाजिनां साम ब्रह्मा रथचक्रे ऽभिगायति वाजो वै स्वर्गो लोकः स्वर्गम् एवैनं तल् लोकम् उज्जापयति
(प्ब् 18.7.13) विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गम् एव तल् लोकं रूढ्वा ब्रध्नस्य विष्टपम् अभ्यतिक्रामति
(प्ब् 18.8.1) अग्निष्टोमं प्रथमम् आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखम् एवारभ्य सवमाक्रमते
(प्ब् 18.8.2) अथैषो ऽभिषेचनीयः
(प्ब् 18.8.3) तस्य द्वात्रिंशाः पवमाना द्वात्रिंशदक्षरा ऽनुष्टुब् वाग् अनुष्टुब् यावती वाक् तयैव सूयते
(प्ब् 18.8.4) संशर इव वा एष छन्दसां यद् विषमा स्तोमा अयथापूर्वम् इति
(प्ब् 18.8.5) यत् समाः पवमानास् तेनासंशरस् तेन यथापूर्वम्
(प्ब् 18.8.6) आत्मना वा अग्निष्टोमेनर्ध्नोत्य् आत्मना पुण्यो भवत्य् अथ यद् उक्थानि पशवो वा उक्थानि विड् उक्थानि यद् उक्थानि भवन्त्य् अनुसन्तत्या एव
(प्ब् 18.8.7) ऽऽवायो शुक्रो अयामितऽऽ इति वायव्या प्रतिपद् भवति वाग् वै वायुर् वाचम् एवास्य यज्ञमुखे युनक्ति तयाभिषिच्यते सर्वस्या एव वाचः सूयते सर्वा एनं वाचो राजेति वदन्ति
(प्ब् 18.8.8) संभार्या भवन्ति पृष्ठान्य् एव ताभिर् युनक्ति यन् नानादेवत्यास् तेन युनक्ति वीर्यं वै पृष्ठानि वीर्य एवाध्य् अभिषिच्यते
(प्ब् 18.8.9) यन्ति वा एते यज्ञमुखाद् इत्य् आहुर् ये संभार्याः कुर्वत इति
(प्ब् 18.8.10) यत् ऽऽपवस्य वाचो अग्रियऽऽ इति तेन यज्ञमुखान् न यन्ति
(प्ब् 18.8.11) ऽऽदविद्युतत्या रुचा-ऽऽ इति छन्दसां रूपं छन्दांस्य् एवास्य यज्ञमुखे युनक्ति तैर् अभिषिच्यते
(प्ब् 18.8.12) ऽऽएतम् उ त्यं दश क्षिपऽऽ इत्य् आदित्या आदित्या वा इमाः प्रजास् तासाम् एव मध्यतः सूयते
(प्ब् 18.8.13) ऽऽपवस्वेन्दो वृषा सुतऽऽ वृषण्वत्यो भवन्ति त्रिष्टुभो रूपं वीर्यं वै त्रिष्टुप् वीर्य एवाध्य् अभिषिच्यते
(प्ब् 18.8.14) ऽऽउत्ते शुष्मास ईरतऽऽ इत्य् उद्वत्यो भवन्त्य् उद्वद् वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यस् तस्माद् उद्वत्यो भवन्ति
(प्ब् 18.8.15) ऽऽपवमानस्य ते कवऽऽ इति प्राणानां कॢप्त्यै
(प्ब् 18.8.16) ऽऽअध क्षपा परिष्कृतऽऽ इत्य् अनुष्टुप् प्रथमानुष्टुब् उत्तमा वाग् वा अनुष्टुब् वाचैव प्रयन्ति वाचम् अभ्युद्यन्ति
(प्ब् 18.8.17) छिन्नम् इव वा एतद् यद् एकर्चा यद् एतावानुष्टुभौ तृचाव् अभितो भवतो बहवः पुरएतारो भवन्ति बहवः पश्चापिनः
(प्ब् 18.8.18) सौर्यानुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 18.9.1) वरुणस्य वै सुषुवाणस्य भर्गो ऽपाक्रामत् स त्रेधापतद् भृगुस् तृतीयम् अभवच् छ्रायन्तीयं तृतीयम् अपस् तृतीयं प्राविशत्
(प्ब् 18.9.2) यद् भार्गवो होता भवति तेनैव तद् इन्द्रियं वीर्यम् आप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तद् इन्द्रियं वीर्यम् आप्त्वारुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तद् इन्द्रियं वीर्यम् आप्त्वावरुन्धे
(प्ब् 18.9.3) दशमी भवति
(प्ब् 18.9.4) दश चमसा दश चमसाध्वर्यवो दश दश चमसम् अभियन्त्य् आ दशमात् पुरुषाद् अन्वाख्याय प्रसर्पन्ति दश समृद्धो ह्य् एष यज्ञ एनं वाव ते तद् यज्ञम् अन्वैच्छन् य एतेन यजत एतद् एवेन्द्रियं वीर्यम् आत्त्वास्मिन् दधाति
(प्ब् 18.9.5) सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सराद् एवेन्द्रियं वीर्यम् आप्त्वावरुन्धे
(प्ब् 18.9.6) इन्द्रो वृत्रम् अहंस् तस्येयं चित्राण्य् उपैद् रूपाण्य् असौ नक्षत्राणाम् अवकाशेन पुण्डरीकं जायते यत् पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद् रूपं क्षत्रं प्रतिमुञ्चते
(प्ब् 18.9.7) द्वादश पुष्करा भवन्ति द्वादश मासाः संवत्सरः संवत्सरे ऽन्तर् भूतं च भव्यं च भूतेन चैवैनं भव्येन च समर्धयति
(प्ब् 18.9.8) स्रग् उद्गातुस् सौर्य उद्गाता न वै तस्मै व्यौच्छद् अथो व्य् एवास्मै वासयति
(प्ब् 18.9.9) रुक्मो होतुर् आग्नेयो होताथो अमुम् एवास्मा आदित्यम् उन्नयति
(प्ब् 18.9.10) प्राकाशाव् अध्वर्योर् याव् इव ह्य् अध्वर्यू अथो चक्षुषी एवास्मिन् दधाति
(प्ब् 18.9.11) अश्वः प्रस्तोतुः प्राजापत्यो ऽश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्य् अश्वः प्रोथति प्रेव प्रस्तोता स्तौति
(प्ब् 18.9.12) धेनुः प्रतिहर्तुः पय एवास्मिन् दधाति
(प्ब् 18.9.13) वशा मैत्रावरुणस्य वशं मा नयाद् इति
(प्ब् 18.9.14) ऋषभो ब्राह्मणाच्छंसिनो वीर्यं वा ऋषभो वीर्यम् एवास्मिन् दधाति
(प्ब् 18.9.15) वासः पोतुः पवित्रत्वाय
(प्ब् 18.9.16) वरासी नेष्टुर् अनुलम्बेव ह्य् एषा होत्रा
(प्ब् 18.9.17) स्थूरि यवाचितम् अच्छावाकस्य स्थूरिर् इव ह्य् एषा होत्राथो निर्वरुणत्वायैव यवा न वै तर्हि यद् अस्यां दक्षिणा अभ्य् अभवन्न् अथो अस्य त एव तेनाभीष्टाः प्रीता भवन्ति
(प्ब् 18.9.18) अनड्वान् अग्नीधो युक्त्यै
(प्ब् 18.9.19) अजः सुब्रह्मण्यायै
(प्ब् 18.9.20) वत्सतर्य् उन्नेतुः साण्डस् त्रिवत्सो ग्रावस्तुतो मिथुनत्वाय
(प्ब् 18.9.21) द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणो द्वादश मासाः संवत्सरः संवत्सर एव प्रतितिष्ठत्य् अथ यद् गर्भिण्यो वाग् वै धेनुर् मन्त्रो गर्भो वाच्य् एवास्य मन्त्रं दधात्य् आमन्त्रणीयो भवत्य् अथ यद् धेनुभव्या द्वादश पयांसि तान्य् एवास्मिन् दधाति तस्माद् आहुः पयस्वी राजा पुण्य इति
(प्ब् 18.10.1) यो वै सवाद् एति नैनं सव उपनमत्य् अथ यः सामभ्य एति पापीयान् सुषुवाणो भवति
(प्ब् 18.10.2) संभार्या भवन्ति पृष्ठान्य् एव ताभिर् युनक्ति
(प्ब् 18.10.3) एतानि वाव सामानि यत् पृष्ठानि
(प्ब् 18.10.4) यत् संभार्या भवन्ति तद् एव सामभ्यो नैति
(प्ब् 18.10.5) यानि देवराज्ञां सामानि तैर् अमुष्मिन् लोक ऋध्नोति यानि मनुष्यराज्ञां तैर् अस्मिन्न् उभयोर् अनयोर् लोकयोर् ऋध्नोति देवलोके च मनुष्यलोके च
(प्ब् 18.10.6) सामत्रिष्टुभ्य् अध्य् अभिषिच्यते वीर्यं वै साम त्रिष्टुप् वीर्य एवाध्य् अभिषिच्यते
(प्ब् 18.10.7) एकादश राजसामानि भवन्त्य् एकादशाक्षरा त्रिष्टुब् ओजो वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये ऽध्य् अभिषिच्यते
(प्ब् 18.10.8) यत् त्रिवृतम् अभिषेचनीये कुर्युर् ब्रह्म क्षत्रायापिदध्युर् यत् त्रिवृतम् उद्धरन्ति ब्रह्म तत् क्षत्राद् उद्धरन्ति तस्माद् भरतां प्रतिदण्डा ब्रह्मणा न हि ते त्रिवृतम् अभिषेचनीये कुर्वन्ति
(प्ब् 18.10.9) एकविंशो ऽभिषेचनीयस्योत्तमः सप्तदशो दशपेय एकविंशः केशवपनीयस्य प्रथमः क्षत्रं वा एकविंशो विट् सप्तदशः क्षत्रेणैवास्मै विशम् उभयतः परिगृह्णात्य् अनपक्रामुकास्माद् विट् भवति
(प्ब् 18.10.10) यद् वै राजसूयेनाभिषिच्यते तत् स्वर्गं लोकम् आरोहति स यद् इमं लोकं नोपावरोहेद् अति जनं वा गच्छेद् उद् वा माद्येद् यद् एषो ऽर्वाचीनस्तोमः केशवपनीयो भवत्य् अस्य लोकस्यानुद्धानाय यथा शाखायाः शाखाम् आलम्भम् उपावरोहेद् एवम् एतेनेमं लोकम् उपावरोहति प्रतिष्ठायै
(प्ब् 18.11.1) इन्द्रो वृत्रम् अहन् स विष्यङ्वीर्येण व्यभ्रंशत स एतच् छ्रायन्तीयम् अपश्यत् तेनात्मानं समश्रीणाद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यच् छ्रायन्तीयं ब्रह्मसाम भवति पुनर् एवात्मानं संश्रीणाति
(प्ब् 18.11.2) यज्ञायज्ञीयम् अनुष्टुभि भवति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति वाग् अनुष्टुब् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति
(प्ब् 18.11.3) वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यद् वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
(प्ब् 18.11.4) अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेनेन्द्रियस्य वा एषा वीर्यस्य परिगृहीतिः
(प्ब् 18.11.5) अप्रतिष्ठितो वा एष यो राजसूयेनाभिषिच्यते यदा वा एतेन द्विरात्रेण यजते ऽथैव प्रतिष्ठा
(प्ब् 18.11.6) यावन्ति संवत्सरस्याहोरात्राणि तावत्य एताः स्तोत्रीयाः संवत्सर एव प्रतितिष्ठति
(प्ब् 18.11.7) अग्निष्टोमः पूर्वम् अहर् अतिरात्र उत्तरं नानैवाहोरात्रयोः प्रतितिष्ठति
(प्ब् 18.11.8) अमावास्यायां पूर्वम् अहर् उद्रिष्ट [एम्. चलन्द्: उद्दृष्ट] उत्तरं नानैवार्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वम् अहर् व्यष्टकायाम् उत्तरं नानैव मासोः प्रतितिष्ठति तद् आहुर् य एव समानपक्षे पुण्याहनी स्यातां तयोर् एव कार्यं समृध्यै
(प्ब् 18.11.9) अपशव्यो द्विरात्र इत्य् आहुर् द्वे ह्य् एते छन्दसी गायत्रं च त्रैष्टुभं च जगतीम् अन्तर्यन्तीति न तेन जगती कृता यत् तृतीयसवने क्रियते
(प्ब् 18.11.10) यदा वा एषाहीनस्याहर् भजते साह्वस्य वा सवनम् अथैव जगती कृता त्रैशोकम् उत्तरस्याह्नो ब्रह्मसाम भवति वैखानसम् अच्छावाकसाम यच् छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः
(प्ब् 18.11.11) व्युष्टिर् वा एष द्विरात्रो व्य् एवास्मै वासयति
(प्ब् 19.1.1) अथैष राट्
(प्ब् 19.1.2) यो राज्य आशंसमानो राज्यं न प्राप्नुयात् स एतेन यजेत राजैवैनं राजानं करोति तं तु वैराजेति वदेयुर् यं राजा राजानं कुर्याद् राजैवैनं राजानं करोति
(प्ब् 19.1.3) छन्दो ऽन्ये यज्ञाः संपद्यन्ते स्तोमम् एष वीर्यं वै स्तोमो वीर्य एवाध्य् अभिषिच्यते
(प्ब् 19.1.4) अष्टाव् एकविंशाः संस्तुतो भवत्य् अष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश् च पुरोहितश् च महिषी च सूतश् च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा राष्ट्रं समुद्यच्छन्त्य् एतेष्व् एवाध्य् अभिषिच्यते
(प्ब् 19.1.5) क्षत्रं वा एकविंशः प्रतिष्ठा क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद
(प्ब् 19.2.1) अथैष विराड् अन्नाद्यकामो यजेत
(प्ब् 19.2.2) परोक्षम् अन्ये यज्ञा विराजं संपद्यन्ते प्रत्यक्षम् एष विराजं संपन्नः
(प्ब् 19.2.3) प्रत्यक्षम् एतेनान्नाद्यम् अवरुन्धे ऽन्नादो भवति य एवं वेद
(प्ब् 19.2.4) सर्वो दशदशी भवति दशाक्षरा विराड् वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 19.2.5) ता उ पञ्च पञ्च भवन्ति पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञ एव पशुषु प्रतितिष्ठति
(प्ब् 19.2.6) एतेनैव प्रतिष्ठाकामो यजेत दशभिर् वा इदं पुरुषः प्रतिष्ठितो ऽस्याम् एव प्रतितिष्ठति
(प्ब् 19.3.1) अथैष औपशदः
(प्ब् 19.3.2) गन्धर्वाप्सरसां स्तोमः प्रजाकामो यजेत गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वाप्रजस्ताया वेशते तेषाम् अत्र सोमपीथस् तान् स्वेन भागधेयेन प्रीणाति ते ऽस्मै तृप्ताः प्रीताः प्रजां प्रयच्छन्ति
(प्ब् 19.3.3) एकैका स्तोत्रीयोपजायते प्रजाम् एवास्मा उपजनयति
(प्ब् 19.3.4) ककुभं प्राचीम् उदूहति पुरुषो वै ककुब् गर्भ एव स मध्यतो धीयते
(प्ब् 19.3.5) अथ यद् एषा द्विपदा ककुभो लोके क्रियते गर्भ एव तद् धि तं प्रजनयति
(प्ब् 19.3.6) च्यावनं भवति प्रजातिर् वै च्यावनम्
(प्ब् 19.3.7) प्रजायते बहुर् भवति य एवं वेद
(प्ब् 19.3.8) वसिष्ठस्य जनित्रे भवतो वसिष्ठो वा एते पुत्रहतः सामनी अपश्यत् स प्रजया पशुभिः प्राजायत यद् एते सामनी भवतः प्रजात्यै
(प्ब् 19.3.9) द्वे संस्तुतानां विराजम् अतिरिच्येते द्वे स्त्रिया ऊने प्रजननाय प्रजननम् एव तत् क्रियते प्रजात्यै
(प्ब् 19.4.1) अथैष पुनःस्तोमः
(प्ब् 19.4.2) यो बहु प्रतिगृह्य गरगीर् इव मन्येत स एतेन यजेत
(प्ब् 19.4.3) यैकादशी यद् एव पूर्ववयसे बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति प्रातःसवनाय तन् निहरति
(प्ब् 19.4.4) अथ या द्वादशी यद् एवोत्तरवयसे बहु प्रतिगृह्णति यद् गरं गिरति यद् अनन्नम् अत्ति तृतीयसवनाय तन् निहरति
(प्ब् 19.4.5) वैराजो वै पुरुषः स मध्यतो ऽशुद्धो मध्यत एवैनं पाप्मनो मुञ्चति
(प्ब् 19.4.6) शुद्धाशुद्धीये भवतः
(प्ब् 19.4.7) इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् सो ऽशुद्धो ऽमन्यत स एते शुद्धाशुद्धीये अपश्यत् ताभ्याम् अशुध्यत्
(प्ब् 19.4.8) यद् एव बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति यद् अशुद्धो मन्यते तद् एताभ्यां शुध्यति
(प्ब् 19.4.9) गौषूक्तं चाश्वसूक्तं च भवतः
(प्ब् 19.4.10) गौषूक्तिश् चाश्वसूक्तिश् च बहु प्रतिगृह्य गरगिराव् अमन्येतां ताव् एते सामनी अपश्यतां ताभ्यां गरं निरघ्नाताम्
(प्ब् 19.4.11) यद् एव बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति तद् एताभ्यां निर्हते
(प्ब् 19.4.12) पञ्चदश स्तोत्राणि भवन्त्य् ओजो वीर्यं पञ्चदशः पाप्मन एवैनं मुक्त्वौजसा वीर्येण समर्धयति
(प्ब् 19.5.1) अथैष चतुष्टोमः
(प्ब् 19.5.2) पशुकामो यजेत
(प्ब् 19.5.3) यच् चतसृभिर् बहिष्पवमानं भवति चतुष्पादाः पशवः पशून् एवावरुन्धे
(प्ब् 19.5.4) यद् अष्टाभिर् आज्यान्य् अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति
(प्ब् 19.5.5) यत् द्वादशो माध्यन्दिनः पवमानो द्वादश मासाः संवत्सरः संवत्सरं पशवो ऽनु प्रजायन्ते तान् एवावरुन्धे
(प्ब् 19.5.6) यत् षोडशानि पृष्ठानि षोडश कलाः पशवः कलाशस् तत् पशून् आप्नोति
(प्ब् 19.5.7) यद् विंश आर्भवः पाङ्क्तत्वम् एषां तद् आप्नोति
(प्ब् 19.5.8) यच् चतुर्विंशो ऽग्निष्टोमश् चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे
(प्ब् 19.5.9) प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते
(प्ब् 19.5.10) एकं साम बहूनि छन्दांसि तस्माद् एको बहून् पोषान् पुष्यति
(प्ब् 19.5.11) आत्मा वा अग्निष्टोमः पशवश् छन्दांस्य् आत्मन्य् एव तत् पशून् प्रतिष्ठापयति नोक्थो नाग्निष्टोमो न हि ग्राम्याः पशवो नारण्याः
(प्ब् 19.6.1) अथ यस्य चत्वारि स्तोत्राणि चतसृभिश् चत्वार्य् अष्टाभिश् चत्वारि द्वादशभिश् चत्वारि षोडशभिः स गां नातिवदति
(प्ब् 19.6.2) षोडशकलाः पशवः कलाशस् तत् पशून् [क्स्स् & बि: प्रशून्] आप्नोति
(प्ब् 19.6.3) उक्थ्यः षोडशिमान् भवति पशवो वा उक्थानि वज्रः षोडशी वज्रेणैवास्मै पशून् परिगृह्णात्य् अनपक्रामुका अस्मात् पशवो भवन्ति नोक्थो नातिरात्रो न हि ग्राम्याः पशवो नारण्याः
(प्ब् 19.7.1) असुराणां वै बलस् तमसा प्रावृतो ऽश्मापिधानश् चासीत् तस्मिन् गव्यं वस्व् अन्तर् आसीत् तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिम् अब्रुवन्न् इमान् न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद् बलभिदाभिनत् तान् उत्सेधेनैवोदसृजन् निषेधेन पर्यगृह्णात्
(प्ब् 19.7.2) पशुकामो यजेत
(प्ब् 19.7.3) यद् उद्भिदा यजेत बलम् एवस्मै विच्यावयति यद् बलभिदा बलम् एवास्मै भिनत्ति
(प्ब् 19.7.4) उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशून् उत्सिध्य निषेधेन परिगृह्णाति
(प्ब् 19.7.5) ऽऽयज्ञ इन्द्रम् अवर्धयद्ऽऽ इति ब्रह्मण आज्यं रूपेण समृद्धम्
(प्ब् 19.7.6) सप्तिसप्तदशौ भवतो यत् सप्तभिः स्तुवन्ति सप्त ग्राम्याः पशवः पशून् एवावरून्धे सप्तपदा शक्वरी पशवः शक्वरी पशून् एवावरून्धे ऽथ यत् सप्तदशभिः प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति
(प्ब् 19.7.7) गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते
(प्ब् 19.8.1) अथैषो ऽपचितिर् अपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति
(प्ब् 19.8.2) तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेजसैवास्मै ब्रह्मवर्चसेनापचितिं विन्दति
(प्ब् 19.8.3) उभे बृहद्रथन्तरे भवत उभाभ्याम् एवास्मै बृहद्रथन्तराभ्याम् अपचितिं विन्दति
(प्ब् 19.8.4) भर्गयशसी भवतो भर्गेणैवास्मै भर्गो दधाति यशसा यशः
(प्ब् 19.8.5) उभये स्तोमा युग्मन्तश् चायुजश् चोभयैर् एवास्मै स्तोमैर् अपचितिं विन्दति
(प्ब् 19.8.6) तद् आहुर् विलोमान स्तोमा ईश्वरा यजमानं विक्षेतोर् वि ह्य् अतियन्तीति
(प्ब् 19.8.7) एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 19.9.1) अथैष सर्वस्तोमो ऽपचितिर् अपचितिकामो यजेत सर्वैर् एवास्मै स्तोमैर् अपचितिं विन्दति
(प्ब् 19.9.2) विराजं संपद्यत एष वा अपचितो यो ऽन्नादो ऽन्नं विराड् अन्नाद्यम् एवास्मिन् दधाति
(प्ब् 19.9.3) उभे बृहद्रथन्तरे भवतो भर्गयशसी भवत उभये स्तोमाश् छन्दोमाश् च पृष्ठ्याश् चोभयैर् एवास्मै स्तोमैर् अपचितिं विन्दति
(प्ब् 19.9.4) तस्य छन्दोमाः पृष्ठानि पशवो वै छन्दोमा अन्नं पृष्ठान्य् अभिपूर्वम् एवास्मिन्न् अन्नाद्यं पशून् दधाति यच् छन्दोमवांस् तेन द्वादशाहयाजिनम् आप्नोति
(प्ब् 19.9.5) तद् आहुर् नानालोकाः स्तोमाश् छन्दोमाश् च पृष्ठ्याश् च यद् एकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो [चोर्र्. चलन्द्; बि & क्स्स् ईश्वरा] यजमानो ऽप्रतिष्ठातोर् इति
(प्ब् 19.9.6) एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशः प्रतिष्ठाम् एव तद् अभ्यायन्ति
(प्ब् 19.10.1) पक्षी वा एष स्तोमः
(प्ब् 19.10.2) पक्ष्य् एष निधीयते
(प्ब् 19.10.3) न वा अपक्षः पक्षिणम् आप्नोत्य् अथ यद् एष पक्ष्य् अपक्षिणि निधीयते तस्मात् पक्षिणः पक्षैः पतन्ति
(प्ब् 19.10.4) पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
(प्ब् 19.10.5) त्रिवृताव् अभितो भवतस् तेजो ब्रह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसम् अवरुन्धे
(प्ब् 19.10.6) अथ पञ्चदशौ वीर्यं वै पञ्चदशो वीर्यम् एवावरुन्धे
(प्ब् 19.10.7) अथ सप्तदशौ पशवो वै सप्तदशः पशून् एवावरुन्धे
(प्ब् 19.10.8) अथैकविंशौ प्रतिष्ठा वा एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 19.10.9) अथ त्रिणवाव् इमे वै लोकास् त्रिणव एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 19.10.10) अथ त्रयस्त्रिंशो वर्ष्म वै त्रयस्त्रिंशः
(प्ब् 19.10.11) वर्ष्म स्वानां भवति य एवं वेद
(प्ब् 19.10.12) एष वाव ब्रध्नस्य विष्टपो यद् एतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपम् आरोहति
(प्ब् 19.10.13) मध्यतो वा अग्निर् वरिष्ठस् तस्माद् एते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
(प्ब् 19.10.14) त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणम् अभ्युदेति
(प्ब् 19.11.1) अथैष ज्योतिः
(प्ब् 19.11.2) तस्य त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि चतुर्विंशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि
(प्ब् 19.11.3) प्राणो वै त्रिवृद् आत्मा पञ्चदशः
(प्ब् 19.11.4) मुखं गायत्र्य् अन्नं वै सप्तदशो मुखत एव तद् अन्नं धत्ते
(प्ब् 19.11.5) अन्नम् अत्त्य् अन्नादो भवति य एवं वेद
(प्ब् 19.11.6) माध्यन्दिनेन वै पवमानेन देवाः स्वर्गं लोकम् आयन् यद् एष चतुर्विंशो माध्यन्दिनः पवमानो भवति स्वर्गस्य लोकस्याक्रान्त्यै चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते
(प्ब् 19.11.7) उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 19.11.8) पक्षि वा एतच् छन्दः पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
(प्ब् 19.11.9) मध्यतो वा अग्निर् वरिष्ठस् तस्माद् एते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
(प्ब् 19.11.10) एका संस्तुतानां विराजम् अतिरिच्यत एकाकिनम् एवैनम् अन्नाद्यस्याध्यक्षं करोति
(प्ब् 19.11.11) ज्योतिर् वा एषो ऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वान् एतेन यजते
(प्ब् 19.12.1) अथैष ऋषभः
(प्ब् 19.12.2) ऋषभो वा एष स्तोमानाम् ऋषभतां गच्छति य एवं वेद
(प्ब् 19.12.3) राजन्यं याजयेद् ऋषभो वै पशूनाम् अधिपती राजन्यो मनुष्याणाम्
(प्ब् 19.12.4) यो वा अस्ति सो ऽधिपतिः
(प्ब् 19.12.5) अधिपतिः समानानां भवति य एवं वेद
(प्ब् 19.12.6) तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशम् एवास्मै सवनाभ्यां परिगृह्णात्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 19.12.7) समन्तं भवति समन्ताम् एवास्मै विशं करोत्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 19.12.8) उभे बृहद्रथन्तरे भवत इयं वै रथन्तरं द्यौर् बृहदेवास्माल् लोकाद् गायत्र्य् एवामुष्माद् उभयोर् अनयोर् लोकयोः प्रतितिष्ठति
(प्ब् 19.12.9) अनुष्टुभि बृहद् भवत्य् अन्तो वा अनुष्टुप् छन्दसाम् अन्तो बृहत् साम्नाम् अन्तो राजन्यो मनुष्याणाम् अन्त एव तद् अन्तं प्रतिष्ठापयति तस्माद् यो राजन्यानां हीयते न स पुनरग्रं पर्येति
(प्ब् 19.13.1) यो वै वाजपेयः स राजसूयो यो राजसूयः स वरूणसवो ऽथैष गोसवः स्वाराज्यो वा एष यज्ञः
(प्ब् 19.13.2) स्वाराज्यं गच्छति य एवं वेद
(प्ब् 19.13.3) प्रजापतिर् हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
(प्ब् 19.13.4) परमेष्ठितां गच्छति य एवं वेद
(प्ब् 19.13.5) उभे बृहद्रथन्तरे भवतस् तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
(प्ब् 19.13.6) अयुतं दक्षिणास् तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
(प्ब् 19.13.7) प्रतिदुहाभिषिच्यते तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
(प्ब् 19.13.8) बृहतः स्तोत्र प्रत्यभिषिच्यते तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
(प्ब् 19.13.9) अनुद्धते दक्षिणत आहवनीयस्याभिषिच्यते ऽस्याम् एवानन्तर्हिते ऽध्य् अभिषिच्यते
(प्ब् 19.13.10) सर्वः षट्त्रिंशस्तेन गोसवः
(प्ब् 19.14.1) अथैष मरुत्स्तोम एतेन वै मरुतो ऽपरिमितां पुष्टिम् अपुष्यन्न् अपरिमितां पुष्टिं पुष्यति य एवं वेद
(प्ब् 19.14.2) यद् गणशः स्तोमास् तेन मरुत्स्तोमो गणशो हि मरुतः
(प्ब् 19.14.3) एतेनैव त्रीन् याजयेत्
(प्ब् 19.14.4) यत् त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठन्ति
(प्ब् 19.14.5) यत् त्रीणि पञ्चदशानि नाना वीर्ये
(प्ब् 19.14.6) यत् त्रीणि सप्तदशानि नाना पशुषु
(प्ब् 19.14.7) यत् त्रीण्य् एकविंशानि नाना प्रतितिष्ठन्ति
(प्ब् 19.14.8) प्रतितिष्ठति य एवं वेद
(प्ब् 19.15.1) अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो वा यजेत प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलायम् एव भवति
(प्ब् 19.15.2) एतेनैव द्वौ याजयेत्
(प्ब् 19.15.3) यत् षट् त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठतो यत् द्वे पञ्चदशे नाना वीर्ये यत् द्वे सप्तदशे नाना पशुषु यत् द्वे एकविंशे नाना प्रतितिष्ठतः प्रतितिष्ठति य एवं वेद
(प्ब् 19.16.1) अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः
(प्ब् 19.16.2) एतेन वा इन्द्रो ऽत्य् अन्या देवता अभवद् अत्य् अन्याः प्रजा भवति य एवं वेद
(प्ब् 19.16.3) राजन्यं याजयेत्
(प्ब् 19.16.4) सर्वः पञ्चदशो भवत्य् ओजो वीर्यं पञ्चदश ओजसैवैनं वीर्येण समर्धयति
(प्ब् 19.16.5) ऐन्द्रीषु भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयति
(प्ब् 19.16.6) उक्थ्यो भवति पशवो वा उक्थानि विड् उक्थानि विशम् एवास्मै पशून् अनुनियुनक्त्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 19.16.7) पञ्चदश स्तोत्राणि पञ्चदशानि भवन्त्य् ओजो वीर्यं पञ्चदशो ऽभिपूर्वम् एवास्मिन्न् ओजो वीर्यं दधाति
(प्ब् 19.17.1) अथैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्राग्नी अत्य् अन्या देवता अभवताम् अत्य् अन्याः प्रजा भवति य एवं वेद
(प्ब् 19.17.2) त्रिवृत् पञ्चदशो भवति
(प्ब् 19.17.3) ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशो ब्रह्मण इव चास्य क्षत्रस्येव च प्रकाशो भवति य एवं वेद
(प्ब् 19.17.4) राजा च पुरोहितश् च यजेयाताम्
(प्ब् 19.17.5) गायत्रीं च जगतीं च संपद्यते
(प्ब् 19.17.6) तेजो ब्रह्मवर्चसं गायत्र्या ब्राह्मणो ऽवरुन्धे विशं राजा जगत्या प्रविशति
(प्ब् 19.17.7) पुरोधाकामो यजेत
(प्ब् 19.17.8) बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति स एतेनायजत स देवानां पुरोधाम् अगच्छद् गच्छति पुरोधां य एवं वेद
(प्ब् 19.18.1) अथैष विघनः
(प्ब् 19.18.2) इन्द्रो ऽकामयत पाप्मानं भ्रातृव्यं विहन्याम् इति स एतं विघनम् अपश्यत् तेन पाप्मानं भ्रातृव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद
(प्ब् 19.18.3) यत् त्रिवृद् भवति प्राणांस् तेनावरुन्धे यत् द्वादशः संवत्सरं तेन यत् पञ्चदशो वीर्यं तेन यत् सप्तदशो ऽन्नाद्यं तेन यद् एकविंशः प्रतिष्ठा तेन यन् नवदशः प्रजननं तेन यच् चतुर्विंशो ब्रह्मवर्चसं तेन यत् त्रिणवो वज्रं भ्रातृव्याय प्रहरति
(प्ब् 19.18.4) पशुकामो यजेत बृहतीं संपद्यते पशवो वै बृहती पशून् एवावरुन्धे
(प्ब् 19.18.5) षड् एता बृहत्यो भवन्ति षड् ऋतवः संवत्सरः संवत्सरं पशवो ऽनु प्रजायन्ते तान् एवाप्त्वावरुन्धे
(प्ब् 19.19.1) इन्द्रम् अदेव्यो माया अयचन्त स प्रजापतिम् उपाधाववत् तस्मा एतं विघनं प्रायच्छत् तेन सर्वा मृधो व्यहत यद् व्यहत तद् विघनस्य विघनत्वम्
(प्ब् 19.19.2) सर्वा मृधो विहते य एवं विद्वान् विघनेन यजते यम् एवं विद्वान् विघनेन याजयति
(प्ब् 19.19.3) पशुकामो यजेत पशवो वै बृहती पशुष्व् एव प्रतितिष्ठति
(प्ब् 20.1.1) त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशो ऽग्निष्टोमः सोक्थ्यः पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.1.2) ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेताभिक्रमो वा एष स्तोमानाम् अभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोति
(प्ब् 20.1.3) एषो ऽग्निष्टोम एष उक्थ्य एषो ऽतिरात्रो ऽग्निष्टोमेन वै देवा इमं लोकम् अभ्यजयन्न् उक्थ्यैर् अन्तरिक्षं रात्र्यामुं लोकम् अजयन्न् अहोरात्राभ्याम् अभ्यवर्तन्त
(प्ब् 20.1.4) पराच्यो वा अन्या व्युच्छन्ति प्रतीच्यो ऽन्या एषा वाव प्रतीची व्युच्छति याश्विनेन व्युच्छति प्रतीचीर् एवास्मा उषसो विवासयति
(प्ब् 20.1.5) द्वे संस्तुतानां विराजम् अतिरिच्येते एषा वै स्तनवती विराट् यं कामं कामयते तम् एतां दुग्धे
(प्ब् 20.1.6) त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणम् अभ्युदेति
(प्ब् 20.2.1) त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.2.2) सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 20.2.3) यत् त्रिवृद् बहिष्पवमानं भवति तत् त्रिवृतं स्तोमम् आप्नोति गायत्रीं छन्दो यत् पञ्चदशान्य् आज्यानि तत् पञ्चदशं स्तोमम् आप्नोति त्रिष्टुभं छन्दो यत् सप्तदशो माध्यन्दिनः पवमानस् तत् सप्तदशं स्तोमम् आप्नोति जगतीं छन्दो यद् एकविंशानि पृष्टानि तद् एकविंशं स्तोमम् आप्नोत्य् अनुष्टुभं छन्दो यत् त्रिणव आर्भवस् तत् त्रिणवं स्तोमम् आप्नोति पङ्क्तिं छन्दो यत् त्रयस्त्रिंशो ऽग्निष्टोमस् तत् त्रयस्त्रिंशं स्तोमम् आप्नोति विराजं छन्दो यद् उष्णिक्ककुभौ क्रियेते तद् उष्णिक्ककुभाव् आप्नोति यद् आश्विनं शस्यते तत् सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 20.2.4) प्राञ्चं वै त्रयस्त्रिंशो यज्ञं प्रभुजति तम् अध्वर्युर् एकादशिन्या पुरस्तात् प्रत्युद्यच्छत्य् एकादश रशना एकादश पशव एकादश यूपा भवन्ति तत् त्रयस्त्रिंशे त्रयस्त्रिंशं प्रतिष्ठापयति
(प्ब् 20.2.5) तया समुद्यतया रात्र्या यं यं कामं कामयते तं तम् अभ्यश्नुते यं यं कामं कामयते तं तम् अभ्यश्नुते य एवं वेद
(प्ब् 20.3.1) त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं छन्दोमा इतराणि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमम् अथैकविंशम् अथ सप्तदशम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिस् त्रिवृत् प्रथमम् अतिरिक्तस्तोत्रम् अथ पञ्चदशम् अथ सप्तदशम् अथैकविंशम्
(प्ब् 20.3.2) प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् अग्निष्टोमेन नाप्नोत् तान् उक्थैर् नाप्नोत् तान् षोडशिना नाप्नोत् तान् रात्र्या नाप्नोत् तान् सन्धिना नाप्नोत् तान् आश्विनेन नाप्नोत् तान् अग्निम् अब्रवीद् इमान् म ईप्सेति तान् अग्निस् त्रिवृता स्तोमेन जराबोधीयेन साम्ना नाप्नोत् तान् इन्द्रम् अब्रवीद् इमान् म ईप्सेति तान् इन्द्रः पञ्चदशेन स्तोमेन सत्त्रासाहीयेन साम्ना नाप्नोत् तान् विश्वान् देवान् अब्रवीद् इमान् म इप्सतेति तान् विश्वे देवाः सप्तदशेन स्तोमेन मार्गींयवेण साम्ना नाप्नुवंस् तान् विष्णुम् अब्रवीद् इमान् म ईप्सेति तान् विष्णुर् एकविंशेन स्तोमेनाप्नोद् वारवन्तीयेनावारयतेदं विष्णुर् विचक्रम इति व्यक्रमत
(प्ब् 20.3.3) यस्मात् प्र प्रेव पशवो भ्रंशेरन् स एतेन यजेत
(प्ब् 20.3.4) एतेन वै देवा जैत्वानि जित्वा यं यं कामम् अकामयन्त तं तम् आप्नुवन् यं कामं कामयते तम् एतेनाप्नोति
(प्ब् 20.3.5) तद् अप्तोर्याम्नो ऽप्तोर्यामत्वम्
(प्ब् 20.4.1) त्रिवृद् बहिष्पवमानं पञ्चदशं होतुर् आज्यं नवसप्तदशानि स्तोत्राण्य् एकविंशो ऽग्निष्टोमः सोक्थः पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.4.2) नवसप्तदशेनातिरात्रेण प्रजाकामो यजेत नव वै प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तद् अधि प्रजापतेः प्रजाः प्रजायन्ते
(प्ब् 20.4.3) ककुभं प्राचीम् उदूहति पुरुषो वै ककुप् गर्भो वा एष मध्यतो धीयते
(प्ब् 20.4.4) तस्यां साकमश्वम्
(प्ब् 20.4.5) प्रजापतिः प्रजा असृजत ता न प्राजायन्त स एतत् सामापश्यत् ता अश्वो भूत्वाभ्यजिघ्रत् ताः प्राजायन्त प्रजननं वा एतत् साम
(प्ब् 20.4.6) प्रजायते बहुर् भवति य एवं वेद
(प्ब् 20.4.7) द्विपदां ककुभो लोके करोति गर्भम् एव तद्धितं मध्यतः प्रजनयति
(प्ब् 20.4.8) अतिरात्रो भवत्य् अहोरात्रे वा अनु प्रजाः प्रजायन्ते ऽहोरात्रे एवानु प्रजया पशुभिः प्रजायते
(प्ब् 20.5.1) त्रिवृत् बहिष्पवमानं पञ्चदशान्य् आज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशो ऽग्निष्टोमः सप्तदशान्य् उक्थानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.5.2) विषुवतातिरात्रेण ज्येष्ठं ज्यैष्ठिनेयं याजयेद् विषुवान् वा एष स्तोमानां विषुवान् एव भवति यद् एक एकविंशो भवत्य् एकविंशो वा इतो ऽसाव् आदित्य द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका
(प्ब् 20.5.3) असाव् आदित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
(प्ब् 20.5.4) एष वा उदेति न वा एनम् अन्यत् ज्योतिषां ज्योतिः प्रत्युदेति
(प्ब् 20.5.5) नैनम् अन्यः स्वेषु प्रत्युदेति य एवं वेद
(प्ब् 20.6.1) पञ्चदशं बहिष्पवमानं त्रिवृन्त्य् आज्यानि सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् गोष्टोमेनातिरात्रेण भ्रातृव्यवान् यजेत गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्त रात्र्यानपजय्यम् अजयन्न् एभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य रात्र्यानपजय्यं जयति
(प्ब् 20.7.1) त्रिवृत् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् आयुष्टोमेनातिरात्रेण स्वर्गकामो यजेतोर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय यद् अतिरात्रो भवत्य् अहोरात्राभ्याम् एव स्वर्गं लोकम् एति
(प्ब् 20.8.1) त्रिवृत् बहिष्पवमानं पञ्चदशं होतुर् आज्यं सप्तदशं मैत्रावरुणस्य पञ्चदशं ब्राह्मणाच्छंसिनः सप्तदशम् अच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुः पृष्ठम् एकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन एकविंशम् अच्छावकस्य त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् अभिजितातिरात्रेण भ्रातृव्यवान् यजेताभिजिता वै देवा असुरान् इमान् लोकान् अभ्यजयत् रात्र्यानपजय्यम् अजयन्न् अभिजितैव भ्रातृव्यम् इमान् लोकान् अभिजित्य रात्र्यानपजय्यं जयति
(प्ब् 20.9.1) त्रिवृत् बहिष्पवमानं पञ्चदशं होतुर् आज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशम् अच्छावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवं मैत्रावरुणस्य
(प्ब् 20.9.1) सप्तदशं ब्राह्मणाच्छंसिन एकविंशम् अच्छावाकस्य त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिः त्रिवृत् सन्धिर् विश्वजितातिरात्रेण पशुकामो यजेत
(प्ब् 20.9.2) रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन् नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस् तत् पशवः प्रजायन्ते रूपाणि विकरोति यद् वार्षाकपम् ऋतुषु प्रतितिष्ठति यद् एवयामरुत्
(प्ब् 20.10.1) त्रिवृत् आतिरात्रेण ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृत् ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्धे तेजसि ब्रह्मवर्चसे प्रतितिष्ठति पञ्चदशेनातिरात्रेण वीर्यकामो यजेतौजो वीर्यं पञ्चदश ओज एव वीर्यम् अवरुन्ध ओजसि वीर्ये प्रतितिष्ठति सप्तदशेनातिराच्रेणान्नाद्यकामो यजेतान्नं वै सप्तदशो ऽन्नाद्यम् एवावरुन्ध एकविंशेनातिरात्रेण प्रतिष्ठाकामो यजेत प्रतिष्ठा वा एकविंशो यद् अतिरात्रो भवत्य् अहोरात्रयोर् एव प्रतितिष्ठति
(प्ब् 20.11.1) ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहः सर्वस्तोमो ऽतिरात्र उत्तरम्
(प्ब् 20.11.2) तस्य चतुर्विंशं बहिष्पवमानं पञदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमम् अथैकविंशम् अथ सप्तदशम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.11.3) अङ्गिरसः स्वर्गं लोकम् आयंस् तेषां हविष्मांश् च हविष्कृच् चाङ्गिरसाव् अहीयेता ताव् आगच्छेतां यतो ऽङ्गिरसः स्वर्गं लोकम् आयंस् ताव् अतप्येतां ताव् एते सामनी अपश्यतां ताभ्यां द्विरात्रम् अतन्वातां तेन स्वर्गं लोकम् ऐताम्
(प्ब् 20.11.4) यः पौण्यो हीन इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहाम् आप्नुतां हि ताव् अङ्गिरसः
(प्ब् 20.11.5) प्रजाकामो यजेत द्वितीयं ह्य् एतद् यत् प्रजाः
(प्ब् 20.11.6) स्वर्गकामो यजेत द्वितीयाद् धि लोकात् परो लोको ऽभिप्रक्रम्यो दुराधो द्विरात्र इत्य् आहुर् यद् अग्निष्टोमः पूर्वम् अहर् भवत्य् उक्थ्यम् अन्तर्यन्ति यद्य् उक्थ्यो ऽग्निष्टोमम्
(प्ब् 20.11.7) यज् ज्योतिर् उक्थ्यः पूर्वम् अहर् भवति नाग्निष्टोमम् अन्तर्यन्ति नोक्थानि
(प्ब् 20.11.8) तद् आहुर् एषा वाव यज्ञस्य मात्रा यद् अग्निष्टोमो यद् अग्निष्टोमः पूर्वम् अहर् भवति यज्ञस्य मात्रां नातिक्रामत्य् अथोत्तरस्याह्न उक्थेभ्यो ऽधि रात्रिम् उपयन्ति तेनोक्थान्य् अनन्तरितानि
(प्ब् 20.11.9) चतुर्विंशं बहिष्पवमानं भवत्य् उत्तरस्याह्नश् चतुर्विंशत्य् अक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
(प्ब् 20.11.10) उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 20.11.11) सर्वस्तोमो ऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 20.12.1) अथ यस्य ज्योतिर् उक्थ्यः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम्
(प्ब् 20.12.2) तिस्रः पूर्वस्याह्नो विराजम् अतिरिच्यन्ते द्वाभ्याम् उत्तरम् अहर् विराज ऊनम् ऊनातिरिक्तं वा अनुप्रजाः प्रजायन्ते
(प्ब् 20.12.3) प्र प्रजया प्र पशुभिर् जायते य एवं वेद
(प्ब् 20.12.4) एका संस्तुतानां विराजम् अतिरिच्यते एकाकिनम् एवैनम् अन्नाद्यस्याध्यक्षं करोति
(प्ब् 20.12.5) एतेन वै चित्ररथं कापेया अयाजयंस् तम् एकाकिनम् अन्नाद्यस्याध्यक्षम् अकुर्वंस् तस्माच् चैत्ररथीनाम् एकः क्षत्रपतिर् जायते ऽनुलम्ब इव द्वितीयः
(प्ब् 20.13.1) अथ यस्य त्रिवृत् पञ्चदशो ऽग्निष्टोमः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम्
(प्ब् 20.13.2) मिथुनाभ्यां स्तोमाभ्याम् उत्तरम् अहः प्रजनयन्ति तत् प्रजातं श्व आरभन्ते चक्रे वा एते साकंवृती यत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयते तम् एतेनाभ्यश्नुते यत्र यत्र हि चक्रीवता कामयते तत् तद् अभ्यश्नुते
(प्ब् 20.13.3) अथ यद् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै
(प्ब् 20.13.4) एतेन वै कपिवनो भौवायन इष्ट्वारूक्षताम् अगच्छत्
(प्ब् 20.13.5) अरूक्षो भवति य एवं विद्वान् एतेन यजते
(प्ब् 20.14.1) त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातःसवनं सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थम् एकविंशं प्रातःसवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंश आर्भवश् चतुस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि षोडशं प्रथमं रात्रिषाम पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 20.14.2) प्रजापतिर् वा इदम् एक आसीत् तस्य वाग् एव स्वम् आसीद् वाग् द्वितीया स ऐक्षतेमाम् एव वाचं विसृजा इयं वा इदं सर्वं विभवन्त्य् एष्यतीति स वाचं व्यसृजत सेदं सर्वं विभवन्त्य् ऐत् सोर्ध्वोदातनोद् यथापां धारा सन्ततैवं तस्या एति तृतीयम् अच्छिनत् तद् भूमिर् अभवद् अभूद् इव वा इदम् इति तद् भूमेर् भूमित्वं केति तृतीयम् अच्छिनत् तद् अन्तरिक्षम् अभवद् अन्तर् एव वा इदम् इति तद् अन्तरिक्षस्यान्तरिक्षत्वं हो इति तृतीयम् ऊर्ध्वम् उदास्यत् तत् द्यौर् अभवद् अद्युतद् इव वा इति तद् दिवो दिवत्वम्
(प्ब् 20.14.3) एषा वाव प्रत्यक्षं वाग् यज् जिह्वाग्रेणैतद् वाचो वदति यद् एति मध्येनैतद् वाचो वदति यत् केति सर्वयैतद् वाचो रसो ऽध्यूर्ध्व उद्वद् अति यद्धो इति
(प्ब् 20.14.4) यद् एतानि रूपाण्य् अन्वहं व्यज्यन्ते मुखत एव तद् वाचं विसृजन्ते मुखतो यज्ञियं कर्म
(प्ब् 20.14.5) प्रजापतिर् वा इदम् एकाक्षरां वाचं सतीं त्रेधा व्यकरोत् त इमे लोका अभवन् रूक्षा अनुपजीवनाः स ऐक्षत कथम् इमे लोका लोम गृह्णीयुः कथम् उपजीवनीयाः स्युर् इति स एतं त्रिरात्रम् अपश्यत् तम् आहरत् तेनेमान् लोकान् अन्वातनोत् ततो वा इमे लोका लोमागृह्णंस् तत उपजीवनीया अभवंस् त्रिरात्रस्य वा इदं पुष्टं त्रिरात्रस्योदरणं यद् इदम् एषु लोकेष्व् अधि
(प्ब् 20.14.6) गच्छति पशूनां भूमानं द्विपदां चतुष्पदां य एवं वेद
(प्ब् 20.14.7) प्रजापतिर् यद् वाचं व्यसृजत साक्षरद् एवेति प्रथमं क्षेति द्वितीयं रेति तृतीयं येन येन वै रूपेण प्रजापतिर् वाचं व्यसृजत तेन तेन रूपेणाज्यानि चारभ्यन्ते ऽहानि चाप्यन्ते
(प्ब् 20.13.8) तद् आहुर् ब्रह्मवादिनो ऽक्षरेस्थो वै त्रिरात्र इत्य् एकाक्षरा वै वाक् त्र्यक्षरम् अक्षरं त्र्यक्षरः पुरुषः स वा एनं वेदेत्य् आहुर् य एनं पुरुषसम्मितं वेदेति
(प्ब् 20.15.1) एतेन वै देवा एषु लोकेष्व् आर्ध्नुवन्न् एतेन स्वर्गं लोकमायन्
(प्ब् 20.15.2) वाग् वै त्रिरात्रो वाचो रूपेणाज्यानि चाहानि च विभज्यन्त एकाक्षरा वै वाक् त्र्यक्षरम् अक्षरम् अक्षरस्य रूपेण विभज्यन्ते त्रयो गन्धर्वास् तेषाम् एषा भक्तिर् अग्नेः पृथिवी वायोर् अन्तरिक्षम् असाव् आदित्यस्य द्यौस् त्रयो घर्मास उषसं सचन्ते
(प्ब् 20.15.3) अग्निर् उषसं सचते वायुर् उषसं सचते ऽसाव् आदित्य उषसं सचते
(प्ब् 20.15.4) त्रीणि मिथुनानि तान्य् एषः
(प्ब् 20.15.5) मिथुनं द्वे सम्भवतो मिथुनाद् यत् प्रजायते तत् तृतीयम्
(प्ब् 20.15.6) इन्द्रो वृत्राय वज्रम् उदयच्छत् सो ऽब्रवीन् मा मे प्रहर्षीर् अस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तद् अस्मै प्रायच्छत् तद् विष्णुः प्रत्यगृह्णात् स द्वितीयं स तृतीयम् उदयच्छत् स एवाब्रवीन् मा मे प्रहार्षीर् अस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तद् अस्मै प्रायच्छत् तद् विष्णुः प्रत्यगृह्णाद् एतद् वाच तद् अभ्यनूच्यते
(प्ब् 20.15.7) उभौ जिग्यथुर् न पराजयेथे न पराजिग्ये कतरश् च नैनोः इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वितद् (?) ऐरयेथाम् इति
(प्ब् 20.15.8) एतद् वा आभ्यां तत् सहस्रं प्रायच्छत्
(प्ब् 20.15.9) तस्यैषा भक्तिर् य आर्षेयो विद्वांस् तस्मै प्रथमे ऽहनि देयं यथा वा इयं एवं स प्रतिष्ठितेयं प्रतिष्ठितः सः
(प्ब् 20.15.10) यो ऽनार्षेयो विद्वांस् तस्मै द्वितीये ऽहनि देयं यथा वा अन्तरिक्षम् एवं सो ऽन्तरिक्षम् इत्य् अन्तरिक्षं विदुर् वेदं तस्य विदुः
(प्ब् 20.15.11) य आर्षेयो विद्वांस् तस्मै तृतीये ऽहनि देयं यथा वै द्यौर् एवं स द्यौर् इति दिवं विदुर् बन्धु तस्य विदुः
(प्ब् 20.15.12) शतान्य् अन्वहं दीयन्ते एषा वाव यज्ञस्य मात्रा यच् छतं सैव साविच्छिन्ना दीयते दशतो ऽन्वहं दीयन्ते दशाक्षरा विराड् वैराजो यज्ञः सैव सा विच्छिन्ना दीयते
(प्ब् 20.15.13) त्रयस्त्रिंशच् च त्रीणि च शतानि प्रथमे ऽहनि देयास् तथा द्वितीये तथा तृतीये
(प्ब् 20.15.14) अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयम् अग्नीधः
(प्ब् 20.15.15) काम्यासि प्रियासि हव्यासीडे रन्ते सरस्वति महि विश्रुत एतानि ते ऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूतात्
(प्ब् 20.16.1) इदं वाव प्रथमेनाह्ना व्यकरोद् यद् इदम् अस्याम् अध्यायत् त मूलम् इदं द्वितीयेन यद् इदं प्राणाद् एजत्य् अदस् तृतीयेन यद् वर्षति यन् नक्षत्राणि यद् अमुं लोकं भेजे
(प्ब् 20.16.2) तद् आहुर् ब्रह्मवादिनो महाव्रतं वा एतद् यद् एष त्रिरात्र इति तस्यै तद् एव मुखं यद् एतेषाम् अह्वां बहिष्पवमानं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्माग्निष्टोमसामानि पुच्छम्
(प्ब् 20.16.3) यद् एवासाव् उदेति तन् मुखं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्माग्निः पुच्छम्
(प्ब् 20.16.4) यद् एवासाव् उदेति तन् मुखं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्मा यद् अस्तम् एति तत् पुच्छम्
(प्ब् 20.16.5) एतावान् वाव त्रिरात्रो गायत्रः प्राणस् त्रैष्टुभं चक्षुर् जागतं श्रोत्रं सर्वम् आयुर् एति य एवं वेद
(प्ब् 20.16.6) तद् आहुर् ब्रह्मवादिनः कियांस् त्रिरात्र इतीयान् इति ब्रूयाद् इयद्धयेतद् अभ्य् अथो इयान् इति ब्रूयाद् इयद्धयेवैतद् अभिपरा3ङ् अर्वा3ङ् इत्य् आहुः पराङ् इति ब्रूयात् पराङ् हि वदति पराङ् पश्यति पराङ् प्राणित्य् एका3 द्वा3 उ त्रया3 इत्य् आहुर् एक इति ब्रूयात् समानो ह्य् एष यत् प्राणो ऽपानो व्यानस् तद् यथा वा अदो मणौ सूत्रम् ओतम् एवम् एषु लोकेषु त्रिरात्र ओतः शोभते ऽस्य मुखं य एवं वेद
(प्ब् 20.16.7) यद् वै त्रिरात्रस्य सलोम तद् अस्य विलोम यद् अस्य विलोम तद् अस्य सलोम तद् यद् एतत् परं सद् अहर् अवरं क्रियते यजमानायैव तत् पशून् परिगृह्णाति प्रजननाय न ह्य् अमुष्मिन् लोके पशवः प्रजायन्ते
(प्ब् 20.16.8) एते वाव छन्दसां वीर्यवत्तमे यद् गायत्री च त्रिष्टुप् च यद् एते अभितो भवतो मध्ये जगती वीर्यवतीभ्याम् एव तच् छन्दोभ्यां पशून् परिगृह्णाति प्रजननाय न ह्य् अमुष्मिन् लोके पशवः प्रजायन्ते
(प्ब् 20.16.9) असौ वाव त्रिरात्रो यथोदेत्य् एवं प्रथमम् अहर् यथा मध्यन्दिन एवं द्वितीयं यथास्तम् एत्य् एवं तृतीयं गच्छत्य् अमुष्यसायुज्यं गच्छति सावेश्यं य एवं वेद
(प्ब् 21.1.1) इन्द्रो मरुतः सहस्रम् अजिनात् स्वां विशं सोमाय राज्ञे प्रोच्य तस्माद् राज्ञे प्रोच्य विंश जिनन्ति तौ यमो ऽशृणोन् मरुतो ह सहस्रम् अज्याशिष्टाम् इति स आगच्छत् सो ऽब्रवीद् उप मास्मिन् सहस्रे ह्वयेथाम् इति तम् उपाह्वयेतां स यमो ऽपश्यद् एकाङ्गां सहस्रे ऽपि सहस्रस्य पयो बिभ्रतीं सो ऽब्रवीद् इयम् एव ममास्तु सहस्रं युवां विकल्पयेथाम् इति ताव् अब्रूतां यथा वाव त्वम् एतां पश्यस्य् एवम् आवम् एतां पश्याव इति
(प्ब् 21.1.2) तया वा इदं सहस्रं विकल्पयामहा इत्य् अब्रुवंस् ताम् उदके प्रावेशयंस् ते ऽब्रवन् न शानाहरामहै यस्मै न इयं प्रथमायादेष्यति इति ते ऽंशान् आहरन्त सोमस्य प्रथम ऐद् अथेन्द्रस्याथ यमस्य
(प्ब् 21.1.3) ते ऽब्रुवन् सोमाय राज्ञ उदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा बभ्रुः पिङ्गाक्ष्य् एकवर्षोदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयसः सा या सोमक्रयणी सैव सा
(प्ब् 21.1.4) तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयसः सोमः क्रीतो भवति य एवं विद्वान् सोमं क्रीणाति यस्मा एवं विदुषे सोमं क्रीणन्ति
(प्ब् 21.1.5) ते ऽब्रुवन्न् इन्द्रायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा शबली पष्ठौह्य् उदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयसः सा %येन्द्रियैष्या सैव सा
(प्ब् 21.1.6) तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयस इन्द्रियैष्या दत्ता भवति य एवं विद्वान् इन्द्रियैष्यां ददाति यस्मा एवं विदुष इन्द्रियैष्यां ददाति
(प्ब् 21.1.7) ते ऽब्रुवन् यमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा जरती कुष्ठाशृङ्ग्यद् ऐद् धूम्रा वा दित्यौहीर्मतो ह्रसीयसी तृतीयेन चात्मनः तृतीयेन च सहस्रस्य पयसः सा यानुस्तरणी सैव सा
(प्ब् 21.1.8) तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयसो ऽनुस्तरणी कृता भवति य एवं विद्वान् अनुस्तरणीं करोति यस्मा एवं विदुषे ऽनुस्तरणीं कुर्वन्ति नाचकृवान् मन्यते
(प्ब् 21.1.9) तद् आहुर् ब्रह्मवादिनो न वा अमुष्मिन् लोके सहस्रयाड् अलोको ऽस्तीति तद् यावद् इतः सहस्रस्य गौर् गवि प्रतिष्ठिता तावद् अस्माल् लोकाद् असौ लोकः सरस्रयाजी वा इमान् लोकान् व्याप्नोत्य् अथो यावत् सहस्रं योजनान्य् अथो सहस्रम् आश्वीनान् यथो यावत् सहस्रम् अह्नयानि तद् गवा गवा स्पृणोति समाक्रमणाय वा एता दीयन्ते
(प्ब् 21.1.10) सहस्रं यद् असृजत तस्य तार्प्यं योनिर् आसीद् यत् तार्प्यं प्रत्यस्य नयति सयोनित्वाय
(प्ब् 21.2.1) प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराच्य आयन् नत्स्यति न इति बिभ्यत्यः सो ऽब्रवीद् उप मा वर्तध्वं तथा वै वो ऽत्स्यामि यथाद्यमाना भूयस्यः प्रजनिष्यथ इति ताभ्यो वैनं ऋतं ब्रूहीत्य् अब्रुवंस् ताभ्य ऋतनिधनेनर्तम् अब्रवीद् ईनिधनेनावयत् त्रिणिधनेन प्राजनयद् एतैर् ह वा इदं सामभिर् मृत्युः प्रजा अत्ति च प्रजनयति
(प्ब् 21.2.2) अद्यमानस्य भूयो भवति य एवं वेद
(प्ब् 21.2.3) ज्येष्ठसामानि वा एतानि श्रेष्ठसामानि प्रजापतिसामानि
(प्ब् 21.2.4) गच्छति ज्यैष्ठयं श्रैष्ठयं य एवं वेद
(प्ब् 21.2.5) एतैर् वै सामभिः प्रजापतिर् इमान् लोकान् सर्वान् कामान् दुग्धे यद् आच्या दुग्धे तद् आच्या दोहानाम् आच्या दोहत्वम्
(प्ब् 21.2.6) सर्वान् इमान् लोकान् कामान् दुग्धे य एवं विद्वान् एतैस् सामभिः स्तुते
(प्ब् 21.2.7) इमे वै लोका एतानि सामान्य् अयम् एवर्तनिधनम् अन्तरिक्षम् ईनिधनं द्यौस् त्रिणिधनम्
(प्ब् 21.2.8) यथा क्षेत्रज्ञः क्षेत्राण्य् अनुसञ्चरत्य् एवम् इमान् लोकान् अनुसञ्चरति य एवं वेद
(प्ब् 21.2.9) अग्नेर् वा एतानि वैश्वानरस्य सामानि यत्र वा एतैर् अशान्तैः स्तुवन्ति तत् प्रजा देवो घातुको भवत्य् अग्निम् उपनिधाय स्तुवते स्वाया एव तद् देवतायाः साम्येक्षाय नमस्कृत्योद्गायति शान्तैस् स्तुवन्ति
(प्ब् 21.3.1) वाग् वै शबली तस्यास् त्रिरात्रो वत्सस् त्रिरात्रो वा एतां प्रदापयति
(प्ब् 21.3.2) तद् य एवं वेद तस्मा एषा प्रत्ता दुग्धे
(प्ब् 21.3.3) यो ऽलम् अन्नाद्याय सन्न् अथान्नं नाद्यात्
(प्ब् 21.3.4) बरासीं परिधाय तप्तं पिबन् द्वादश रात्रीर् अधः शयीत
(प्ब् 21.3.5) या द्वादशी स्यात् तस्या उपव्युषं शबलीहोमं हुत्वा पुरा वाग्भ्यः सम्प्रवदितोर् यत्र ग्राम्यस्य पशोर् नाशृणुयात् तद् अरण्यं परेत्य दर्भस्तम्बम् आलभ्य शबलि शबलीति त्रिर् आह्वयेद् यद् अन्यच् छुनश् च गर्दभाच् च प्रतिवाश्यते सा समृद्धा
(प्ब् 21.3.6) यदि न प्रतिवाश्येत संवत्सरे पुनर् आह्वयेत
(प्ब् 21.3.7) शबलि समुद्रो ऽसि विश्वव्यचा ब्रह्म देवानां प्रथमजा ऋतस्यान्नम् असि शुक्रम् असि तेजो ऽस्य् अमृतम् असि तां त्वा विद्म शबलि दीद्यानां तस्यास्ते पृथिवी पादो ऽन्तरिक्षं पादो द्यौः पादः समुद्रः पाद एषासि शबलि तां त्वा विद्म सा न इषम् ऊर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शचिष्ठा व्रतम् अनुगेषं स्वाहा
(प्ब् 21.4.1) चतुष्टोमो ऽग्निष्टोम एकविंश उक्थ्यः सर्वस्तोमो ऽतिरात्रः
(प्ब् 21.4.2) प्रजापतेर् वा अक्ष्य् अश्वत् तत् परापतत् तद् अश्वो ऽभवत् तद् अश्वस्याश्वत्वं तद् देवा अश्वमेधेन प्रत्यदधुर् एष वाव प्रजापतिं सर्वं करोति यो ऽश्वमेधेन यजते
(प्ब् 21.4.3) एष वाव सशरीरः सम्भवत्य् अमुष्मै लोकाययो ऽश्वमेधी
(प्ब् 21.4.4) सरघा वा अश्वस्य सक्थ्य् आवृहत् तद् देवाश् चतुष्टोमेन प्रत्यदधुर् यच् चतुष्टोमो भवत्य् अश्वस्य सर्वत्वाय
(प्ब् 21.4.5) यत् तिस्रो ऽनुष्टुभश् चतस्रो गायत्रीः करोति तस्मात् त्रिभिस् तिष्ठन् प्रतितिष्ठति सर्वान् पलायमानः प्रतिदधाति
(प्ब् 21.4.6) अन्तो वा अश्वः पशूनाम् अन्तो ऽनुष्टुप् छन्दसाम् अन्तो विष्णुर् देवतानाम् अन्तश् चतुष्टोमस् स्तोमानाम् अन्तस् त्रिरात्रो यज्ञानां यद् वैप्लव्यो ऽनुष्टुभः प्रतिपदो भवन्ति चतुष्टोम स्तोमस् त्रिरात्रो यज्ञो ऽन्त एव तदन्तं प्रतिष्ठापयति
(प्ब् 21.4.7) एकविंशम् अहर् भवति यस्मिन्न् अश्व आलभ्यत एकविंशो वा इतो ऽसाव् आदित्यो द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
(प्ब् 21.4.8) तस्य महानाम्न्यः पृष्ठं भवन्ति
(प्ब् 21.4.9) अन्यद्-अन्यद् वा एताश् छन्दो ऽन्योन्य एते पशव आलभ्यन्त एता वा एतं समाप्नुवन्ति यन् महानाम्न्यः पृष्ठं भवन्त्य् अश्वस्य सर्वत्वाय
(प्ब् 21.4.10) पार्थुरश्मं ब्रह्मसाम भवति
(प्ब् 21.4.11) ईश्वरो वा एषो ऽयतो ऽधृतः परां परावतम् एतो रश्मिना वा अश्वो धृतो यत् पार्थुरश्मं ब्रह्मसाम भवत्य् अश्वस्यैव यत्यै
(प्ब् 21.4.12) सर्वस्तोमो ऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 21.4.13) एकयूपो वैकादशिनी वान्येषां यज्ञानां भवत्य् एकविंशिन्य् अश्वमेधस्य खादिरो वा बैल्वो वा पार्णो वा ऽन्येषां यज्ञानां भवति नैचुदार एकविंशत्यरत्निर् अश्वमेधस्य नान्येषां पशूनां तेजन्या अवद्यन्त्य् अवद्यन्त्य् अश्वमेधस्य दक्षिणतो ऽन्येषां पशूनाम् अवद्यन्त्य् उत्तरतो ऽश्वमेधस्य प्लक्षशाखास्व् अन्येषां पशूनाम् अवद्यन्ति वेतसशाखास्व् अश्वमेधस्य यूपे ग्राम्यान् पशून् नियुञ्जन्त्य् आरोकेष्व् आरण्यान् धारयन्त्य् आ ग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ति
(प्ब् 21.5.1) त्रयस् त्रिवृतो ऽतिरात्राः सर्वे षोडशिमन्तः
(प्ब् 21.5.2) यो राज्य आशंसेत स एतेन यजेत
(प्ब् 21.5.3) राजा वा एष स्तोमानां राज्यम् एवास्मिन् दधाति
(प्ब् 21.5.4) यदाक्षाराणि प्रथमम् अहर् भजन्त एकाक्षरा वै वाग् वाचो ऽनतिवादाय
(प्ब् 21.5.5) अथ यत् द्व्यक्षरणिधनम् आज्यदोहं भवत्य् उत्तरयोर् अहोर् अभिसन्तत्या अन्वहम् आज्यदोहानि भवन्त्य् अन्वहम् एवैनं पशुभिः समर्धयन्ति
(प्ब् 21.5.6) सर्वे षोडशिमन्तो भवन्तीन्द्रियं वीर्यं षोडशीन्द्रियेणैवैनान् वीर्येण समर्धयति
(प्ब् 21.6.1) चतुर्विंशाः पवमानास् त्रिवृन्त्य् आज्यानि पञ्चदशानि पृष्ठानि सप्तदशो ऽग्निष्टोमश् चतुश्चत्वारिंशाः पवमानाः पञ्चदशान्य् आज्यानि सप्तदशानि पृष्ठान्य् एकविंशो ऽग्निष्टोमः सोक्थो ऽष्टाचत्वारिंशाः पवमाना एकविंशान्य् आज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिश् छन्दोमपवमानः
(प्ब् 21.6.2) पशुकामो यजेत्
(प्ब् 21.6.3) पशवो वै छन्दोमा यच् छन्दोमाः पवमाना भवन्ति पशूनेवावरून्धे
(प्ब् 21.6.4) उभये स्तोमा युग्मन्तश् चायुजश् च तत् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 21.7.1) त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनम् अष्टाचत्वारिंशं तृतीयसवनं सोक्थम् एकविंशं प्रातस्सवनन् त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् अन्तर्वसुः
(प्ब् 21.7.2) इमे लोकास् त्रिरात्रः
(प्ब् 21.7.3) अस्तीव वा अयं लोको ऽस्तीवासौ छिद्रम् इवान्तरिक्षम्
(प्ब् 21.7.4) अस्तीव त्रिरात्रस्य प्रथमम् अहर् अस्तीवोत्तमं छिद्रम् इव मध्यतः
(प्ब् 21.7.5) पशवो वै छन्दोमा यच् छन्दोमा मध्यतो भवन्त्य् अपिहित्या एवाच्छिद्रतायै
(प्ब् 21.8.1) त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनम् अष्टाचत्वारिंशं तृतीयसवनं सोक्थम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिः पराकः
(प्ब् 21.8.2) पराकेण वै देवाः स्वर्गं लोकमायन् स्वर्गकामो यजेत पराङ् एवैतेन स्वर्गं लोकम् आक्रमते
(प्ब् 21.8.3) यद् वा एतस्याकं तद् अस्य पराक् तत् पराकस्य पराकत्वम्
(प्ब् 21.8.4) न वै तत्र जग्मुषे किञ्चनाऽकम्
(प्ब् 21.8.5) नास्मा अकं भवति य एवं वेद
(प्ब् 21.8.6) प्रजायास् त्व् अकॢप्तः पराङ् ह्य् एवैतेन स्वर्गं लोकम् आक्रमते तद् यद् एकविंशः षोडशी भवति पञ्चदशी रात्रिस् त्रिवृत् सन्धिस् तेनास्मिन् लोके प्रतितिष्ठति
(प्ब् 21.9.1) चतुर्विंशाः पवमानास् त्रिवृन्त्य् आज्यानि पञ्चदशानि पृष्ठानि सप्तदशो ऽग्निष्टोमश् चतुर्विंशाः पवमानाः पञ्चदशान्य् आज्यानि सप्तदशानि पृष्ठान्य् एकविंशो ऽग्निष्टोमः सोक्थश् चतुर्विंशाः पवमानाः सप्तदशान्य् आज्यान्य् एकविंशनि पृष्ठानि त्रिणवो ऽग्निष्टोमः सोक्थश् चतुर्विंशाः पवमाना एकविंशान्य् आज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धि
(प्ब् 21.9.2) अत्रिर् अकामयत चत्वारो मे वीरा आजायेरन्न् इति स एतम् अपश्यत् तस्य चत्वारो वीरा आजायन्तास्य चत्वारो वीरा जायन्ते य एवं वेद
(प्ब् 21.9.3) एकं स्तोमम् उत्सृज्यैकम् अभ्यारभते वीरजननं वै स्तोमो वीरम् एवास्मै तत् प्रजनयति
(प्ब् 21.9.4) चतुर्विंशाः पवमाना भवन्ति चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
(प्ब् 21.9.5) उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 21.9.6) अग्निष्टोमः प्रथमम् अहर् ऊक्थो द्वितीयं षोडशी तृतीयम् अतिरात्रश् चतुर्थं नानावीर्यतायै
(प्ब् 21.9.7) नानावीर्याण्य् अहानि करोति
(प्ब् 21.9.8) गायत्रं वै प्रथमम् अहस् त्रैष्टुभं द्वितीयं जागतं तृतीयम् आनुष्टुभं चतुर्थम्
(प्ब् 21.9.9) तद् आहुर् यत् तृतीये ऽहनि षोडशिनं गृह्णीयुस् तृतीयेनाह्नानुष्टुभम् आप्नुयुर् अच्छन्दश् चतुर्थम् अहः स्याद् आनुष्टुभो वै षोडशीति
(प्ब् 21.9.10) चतुर्थे ऽहनि षोडशी ग्रहीतव्यः स्व आयतने षोडशी गृह्यते
(प्ब् 21.9.11) छन्दोभिर् अहानि नानावीर्याणि करोति
(प्ब् 21.9.12) नौधसं प्रथमस्याह्नो ब्रह्मसाम श्यैतं द्वितीयस्य श्रायन्तीयं तृतीयस्य त्रैशोकं चतुर्थस्य
(प्ब् 21.9.13) तद् आहुर् अपभ्रंश इव वा एष यत् ज्यायसः छन्दसो ऽधि कनीयश् छन्द उपैतीति
(प्ब् 21.9.14) तद्यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय
(प्ब् 21.9.15) कालेयं प्रथमस्याहो ऽच्छावाकसाम माधुच्छन्दसं द्वितीयस्य रौरवं तृतीयस्य समन्तं चतुर्थस्य नानावीर्यतायै नानावीर्याण्य् अहानि करोति
(प्ब् 21.9.16) ऽऽअभित्वा वृषभा सुतऽऽ इति तृतीयस्याह्नो रथन्तरं ऽऽकस्तम् इन्द्र त्वा वसवऽऽ इति वामदेव्यं ऽऽयज्ञा यथा अपूर्वऽऽ इति चतुर्थस्याह्नो बृहत् ऽऽएद् उ मधोर् मदिन्तरम्ऽऽ इति वामदेव्यं छन्दसां नानावीर्यतायै नानावीर्याण्य् अहानि कारोति
(प्ब् 21.10.1) त्रिवृत् पञ्चदशो ऽग्निष्टोमः प्रथमम् अहः
(प्ब् 21.10.2) अथोत्तरस्याह्नोश् चतुर्विंशं वहिष्पवमानं पञ्चदशानि त्रीण्य् आज्यानि सप्तदशम् अच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशे द्वे पृष्ठे एकविंशं तृतीयसवनंं सोक्थम्
(प्ब् 21.10.3) तृतीयस्याह्न एकविंशं बहिष्पवमानं त्रीणि चाज्यानि पञ्चदशम् अच्छावाकस्य चतुर्विंशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणवं तृतीयसवनं द्वे चोक्थे एकविंशम् अच्छावाकस्य
(प्ब् 21.10.4) चतुर्थस्याह्नश् चतुर्विशाः पवमानाः पञ्चदशं होतुर् आज्यं सप्तदशानि त्रीण्य् एकविंशानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 21.10.5) जमदग्निः पुष्टिकाम एतम् आहरत् स इमान् पोषान् अपुष्यत्
(प्ब् 21.10.6) यद् इदम् आहुर् नवा ऊर्वौ पलितौ सञ्जानाते इति
(प्ब् 21.10.7) तत् सर्वान् एवैतेन पोषान् पुष्यति
(प्ब् 21.10.8) जगती छन्दोभिः सम्पद्यते
(प्ब् 21.10.9) जगती वै छन्दसां परमं पोषं पुष्टा परमम् एवैते पोषं पुष्यति
(प्ब् 21.10.10) पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशाः पशुष्वेव प्रतितिष्ठन्ति
(प्ब् 21.10.11) अग्ने वेर् होत्र वेर् अध्वरम् आपितरं वैश्वानरम् अवसे ऽकर् इन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.12) देवाव् अश्विनौ मधुकशयाद्येमं यज्ञं यजमानाय मिमिक्षतम् इन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.13) देव विष्ण उर्व् अद्यास्मिन् यज्ञे यजमानायाधि विक्रमस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.14) देव सोम रेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.15) देव सवितः सुसावित्रम् अद्यास्मिन् यज्ञे यजमानासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.16) देव धातः सुधाताद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.17) देवा ग्रावाणो मधुमतीम् अद्यास्मिन् यज्ञे यजमानाय वाचं वदतेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.18) देव्य् अनुमते ऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.19) देव्य् अदिते स्वादित्याम् अद्यास्मिन् यज्ञे यजमानायासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.20) देव्य आपो नन्नम्यध्वम् अद्यास्मिन् यज्ञे यजमानायेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.21) सदस्सदः प्रजावान् ऋभुर् जुषाण इन्द्राय देवेभ्यो जुहुता हविस् स्वाहा
(प्ब् 21.10.22) देव त्वष्टः सुरेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
(प्ब् 21.10.23) आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस् त्रिकपालः सौम्यश् चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारूतः सप्तकपालो बार्हस्पत्यो ऽष्टाकपालो मैत्रो नवकपालो वारूणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः
(प्ब् 21.11.1) त्रिवृत प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातस्सवनं सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं सप्तदशं प्रातस्सवनम् एकविंशं माध्यन्दिनं सवनं त्रिणवं तृतीयसवनं सोक्थम् एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 21.11.2) वसिष्ठः पुत्रहतो हीन इवामन्यत स एतम् अपश्यत् सो ऽग्रं पर्यैद् यो हीन इव मन्येत स एतेन यजेत
(प्ब् 21.11.3) यत् स्तोमात् स्तोमम् अभिसंक्रामत्य् अग्राद् एवाग्रं रोहति वसिष्ठस्य जनित्रे भवतः प्रजात्यै
(प्ब् 21.11.4) प्रत्यवरोहीण्य् उत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै
(प्ब् 21.12.1) त्रिवृद् अग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थ एकविंशो ऽतिरात्रो विश्वामित्रस्य सञ्जयः
(प्ब् 21.12.2) जह्नुवृचीवन्तो राष्ट्र आहिंसन्त स विश्वामित्रो जाह्नवो राजैतम् अपश्यत् स राष्ट्रम् अभवद् अराष्ट्रम् इतरे
(प्ब् 21.12.3) भ्रातृव्यवान् यजेत
(प्ब् 21.12.4) भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद
(प्ब् 21.12.5) ज्योतिर् वा एष विहृतः
(प्ब् 21.12.6) ज्योतिः प्रजानां भवति य एवं वेद
(प्ब् 21.12.7) चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति
(प्ब् 21.12.8) एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 21.13.1) द्वे त्रिवृती सवने पञ्चदशम् एकं द्वे पञ्चदशे सवने सप्तदशम् एकं द्वे सप्तदशे सवने एकविंशम् एकं द्वे एकविंशे सवने त्रिणवम् एकं द्वे त्रिणवे सवने त्रयस्त्रिंशम् एकं प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः
(प्ब् 21.13.2) देवाश् च वा असुराश् चास्पर्धन्त ते न व्यजयन्त ते ऽब्रुवन् वाचो मिथुनेन विजयामहै यतरे नो वाचो मिथुनं न प्रतिविन्दांस् ते परा भवान् इति ते देवा एक इत्य् अब्रुवन्न् एकेत्य् असुरा वाचो मिथुनं प्रत्यविन्दन् द्वाव् इति देवा अब्रुवन् द्वे इत्य् असुरा वाचो मिथुनं प्रत्यविन्दनंस् त्रय इति देवा अब्रुवंस् तिस्र इत्य् असुरा वाचो मिथुनं प्रत्यविन्दंश् चत्वार इति देवा अब्रुवंश् चतस्त्र इत्य् असुरा वाचो मिथुनं प्रत्यविन्दन् पञ्चेति देवा अब्रुवन् नासुरा अविन्दंस् ततो देवा अभवन् परासुराः
(प्ब् 21.13.3) भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद
(प्ब् 21.13.4) संवत्सरं वा एषां तद् वीर्यम् अन्नाद्यम् अवृञ्जत
(प्ब् 21.13.5) संवत्सरं वीर्यम् अन्नाद्यं भ्रातृव्यस्य वृङ्क्ते य एवं वेद
(प्ब् 21.13.6) पञ्चरात्रो वा एष पाङ्क्तः पुरूषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति
(प्ब् 21.13.7) आस्थरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमाव् अहर् वहतो यं कामं कामयते तम् एतेनाभ्यश्नुते
(प्ब् 21.13.8) यत्र यत्र ह्य् अस्थूरिणा कामयते तत् तद् अभ्यश्नुते
(प्ब् 21.13.9) अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
(प्ब् 21.13.10) प्रत्यवरोहीण्य् उत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै
(प्ब् 21.14.1) त्रिवृद् अग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थः पञ्चदश उक्थः सप्तदशो ऽतिरात्रः पञ्चशारदीयो मरुतां स्तोमः
(प्ब् 21.14.2) यः कामयेत बहु स्याम् इति स एतेन यजेत
(प्ब् 21.14.3) मरूतो वै देवानां भूयिष्ठा बहुर् एव भवति
(प्ब् 21.14.4) सप्तदशं स्तोमा नातियन्ति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति
(प्ब् 21.14.5) अगस्त्यो वै मरूद्भ्य उक्ष्णः प्रौक्षत् तान् इन्द्रायाबध्नात् ते वज्रम् आदायाभ्यपतन् स एतत् कयाशुभीयम् अपश्यत् तेनाशमयत्
(प्ब् 21.14.6) यत् कयाशुभीयं शस्यते शान्त्या एव
(प्ब् 21.14.7) सप्तदश पृश्नीन् उक्ष्णः पञ्चवर्षान् सप्तदश पृश्नीस् त्रिवत्सा अप्रवीतास् तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति
(प्ब् 21.14.8) ततः संवत्सरे नवनीतपृश्नीर् अरूणा आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे राजीवा आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे पिशङ्गीर् आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे सारङ्गीर् आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् पोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति
(प्ब् 21.14.9) ततः संवत्सरे सोमा भवन्ति
(प्ब् 21.14.10) त्रींस् त्रीन् अन्वहम् आलभन्ते पञ्चोत्तमे ऽहनि
(प्ब् 21.14.11) अजो ऽग्नीषोमीयः
(प्ब् 21.14.12) ऐन्द्रा मारूतो उक्षाणो मारूत्यो वत्सतर्यः
(प्ब् 21.14.13) यदि रूद्रो ऽभिमन्योताग्नये रूद्रवते पुरोडाशम् अष्टाकपालं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.14) यदि संशीर्यैत भौमम् एककपालं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.15) यद्य् अवसीदेर् नैरृतं चरुं निरूप्याथान्यम् आलभेत यद्य् अप्सु म्रियेतापोनप्त्रीयं चरुं निरूप्याथान्यम् आलभेत यद्य् अन्धस्यात् सौर्यं चरुं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.16) यदि श्लवणो वा कुटो वा स्याद् बार्हस्पत्यं चरुं निप्याथान्यम् आलभेत
(प्ब् 21.14.17) यदि पलायेत वायव्यं चरुं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.18) यदि प्रासहाजयेयुर् इन्द्राय प्रसह्वन एकादशकपालं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.19) यद्य् अन्येन मृत्युना म्रियेत प्राजापत्यं द्वादशकपालं निरूप्याथान्यम् आलभेत
(प्ब् 21.14.20) एतेन वा एकयावा गान्दमो वेतस्वतीष्ट्वा सर्वाम् ऋद्धिम् आर्ध्नोत्
(प्ब् 21.14.21) सर्वाम् ऋद्धिम् ऋध्नोति य एवं वेद
(प्ब् 21.15.1) ज्योतिष्टोमो ऽग्निष्टोमो गौर् उक्थ्यो महाव्रतं गौर् उक्थ्य आयुर् अतिरात्रः
(प्ब् 21.15.2) संवत्सरो वै व्रतं तस्य वसन्त ऋतुर् मुखं ग्रीष्मश् च वर्षाश् च पक्षौ शरन् मध्यं हेमन्तः पुच्छम्
(प्ब् 21.15.3) तस्माच् छरदम् ओषधयो ऽभिसम्पच्यन्ते शरद् धि मध्यं संवत्सरस्य
(प्ब् 21.15.4) अकृतं वा एते कुर्वन्ति ये पुरा संवत्सरात् व्रतम् उपयन्ति
(प्ब् 21.15.5) एतद् वै व्रतम् आप्तं यत् पञ्चरात्रे पञ्च ह्य् ऋतवः
(प्ब् 21.15.6) आप्तेन व्रतेन स्तुते सर्वम् आयुर् एति य एवं वेद
(प्ब् 22.1.1) पृष्ठयः षडहः
(प्ब् 22.1.2) ऋतवो न प्रत्यतिष्ठंस् त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामो यजेत प्रत्य् एव तिष्ठति
(प्ब् 22.1.3) षड् वा ऋतव ऋतुष्व् एवैतेन प्रतितिष्ठति पृष्ठयः षडहो भवति प्रत्यक्षम् ऋध्यै
(प्ब् 22.1.4) प्रत्यक्षं ह्य् एतेनर्तव आर्ध्नुवन्न् ऋध्या एव
(प्ब् 22.2.1) त्रिवृद् अग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर् गौर् आयुर् अतिरात्रः
(प्ब् 22.2.2) यः कामयेत सर्वम् आयुर् इयाम् इति स एतेन यजेत
(प्ब् 22.2.3) यत् त्र्यहः पुरस्ताद् भवति त्रयः प्राणापानव्यानास् त एव तत् संधीयन्ते
(प्ब् 22.2.4) अथ यत् ज्योतिर् गौर् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै
(प्ब् 22.3.1) अभ्यासङ्ग्यः पञ्चाहो विश्वजिद् अतिरात्रः
(प्ब् 22.3.2) अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत्सत्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रम्
(प्ब् 22.3.3) सत्त्रम् इव वा एतद् यद् अनुलोमं पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिंस् तद् ओजो वीर्यं दधाति
(प्ब् 22.3.4) अन्नं पृष्ठान्य् अन्नाद्यम् एवास्मिन् दधाति
(प्ब् 22.3.5) पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठति
(प्ब् 22.3.6) अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
(प्ब् 22.3.7) विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै
(प्ब् 22.4.1) पृष्ठयः षडहो महाव्रतम् अतिरात्रः
(प्ब् 22.4.2) सप्त ऋषय एतेनार्ध्नुवंस् तेनर्द्धिस् तस्माद् एतेन यजन्त ऋद्ध्या एव
(प्ब् 22.4.3) सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्य् एवैतेनाप्नोति
(प्ब् 22.4.4) सप्त ग्राम्याः पशवस् तान् एतेनाप्नोति
(प्ब् 22.4.5) व्रतं सप्तमस्याह्नः पृष्ठं भवति तद् ध्य् अनाप्तम् अन्नं वै व्रतम् अन्नाद्यम् एवैतेनाप्नोति
(प्ब् 22.4.6) पृष्ठयः षडहो भवति प्रत्यक्षम् ऋध्यै
(प्ब् 22.4.7) प्रत्यक्षं ह्य् एतेन सप्त ऋषय आर्ध्नुवन्न् ऋध्या एव
(प्ब् 22.5.1) पृष्ठयः षडहः सप्तदशं महाव्रतम् अतिरात्रः
(प्ब् 22.5.2) तस्य त्रिवृच् छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
(प्ब् 22.5.3) एतेन वै प्रजापतिः प्रजा असृजत
(प्ब् 22.5.4) प्र प्रजया प्र पशुभिर् जायते य एवं वेद
(प्ब् 22.5.5) सप्तदशो वै प्रजापतिर् यत् सप्तदशं व्रतं भवति प्रजापतिम् एवाप्नोति
(प्ब् 22.5.6) यत् त्रिवृच् छिरो भवति नव प्राणाः प्राणेष्व् एव प्रति तिष्ठति
(प्ब् 22.5.7) यत् पञ्चदशौ पक्षौ सवीवधत्वाय
(प्ब् 22.5.8) सप्तदश आत्मा भवति प्रजापतिर् वै सप्तदशः प्रजा पतिम् एवाप्नोति
(प्ब् 22.5.9) एकविंशं पुच्छ भवति प्रतिष्ठित्यै
(प्ब् 22.6.1) पृष्ठयः षडहश् छन्दोमपवमानं महाव्रतम् अतिरात्रः
(प्ब् 22.6.2) पशुकामो यजेत
(प्ब् 22.6.3) पशवो वै छन्दामाः
(प्ब् 22.6.4) यच् छदोमाः पवमाना महाव्रतस्य भवन्ति पशूनेवावरून्धे
(प्ब् 22.6.5) उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 22.7.1) अभ्यासङ्ग्यः पञ्चाहो ऽथ त्रयस्त्रिंशाम् अहस् तस्य चतुस्त्रिंशो ऽग्निष्टोमः सप्तदशं महाव्रतम् अतिरात्रस् तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच् छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
(प्ब् 22.7.2) एतेन वै जमदग्निः सर्वान् पोषान् अपुष्यत् सर्वान् एवैतेन पोषान् पुष्यति
(प्ब् 22.7.3) यद् अभ्यासङ्ग्यः पञ्चाहः पुरस्ताद् भवति सन्तत्या एव
(प्ब् 22.7.4) अथैतत् त्रयस्त्रिंशम् अहस् त्रयस्त्रिंशद् देवता देवता एवाप्नोति
(प्ब् 22.7.5) तस्य चतुस्त्रिंशो ऽग्निष्टोमः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवाप्नोति
(प्ब् 22.7.6) चतुर्विंशं बहिष्पवमानं भवति महाव्रतस्य चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
(प्ब् 22.7.7) उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते
(प्ब् 22.7.8) यत् त्रिवृच् छिरो भवति नव प्राणाः प्राणेष्व् एव प्रतितिष्ठति यत् पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् एकविंशं पुच्छं भवति प्रतिष्ठित्यै
(प्ब् 22.8.1) ज्योतिष्टोमो ऽग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ऽभिजिद् अग्निष्टोमो विश्वजिद् अग्निष्टोमः सर्वजिद् अग्निष्टोमः सर्वस्तोमो ऽतिरात्रः
(प्ब् 22.8.2) एतेन वा इन्द्रो ऽत्य् आन्या देवता अभवद् अत्य् अन्या प्रजा भवति य एवं वेद
(प्ब् 22.8.3) यत् ज्योतिर् गौर् आयुस् त्र्यहः पुरस्ताद् भवति प्रज्ञातान् स्तोमानुपैतीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 22.8.4) अथाभिजिद् अभिजिता वै देवा इमान् लोकान् अभ्यजयन् विश्वजिता विश्वम् अजयन् सर्वजिता सर्वम् अजयन्
(प्ब् 22.8.5) सर्वस्तोमातिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 22.9.1) चत्वारि त्रिवृन्त्य् अहान्य् अग्निष्टोममुखानि विश्वजिन् महाव्रतं ज्योतिष्टोमो ऽतिरात्रः
(प्ब् 22.9.2) एतेन वै प्रजापतिः पुरूषम् असृजत स सर्वस्यान्नाद्यस्याधिपत्यम् अगच्छत्
(प्ब् 22.9.3) सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद
(प्ब् 22.9.4) शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश् चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत् पृष्ठान्य् उपैति शिर एवात्मानम् अनुसन्दधाति
(प्ब् 22.9.5) एतद् वै पुरूषम् अकस् तस्मा अन्नम् एव व्रतम् अपिदधाति
(प्ब् 22.9.6) अथ यत् ज्योतिष्टोमो ऽतिरात्रो भवत्य् अकॢप्तस्य कॢप्त्यै
(प्ब् 22.10.1) पृष्ठयः स्तोमः षडहो विश्वजिद् अतिरात्रः
(प्ब् 22.10.2) अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रं सत्त्रम् इव वा एतद् यद् अनुलोमं पृष्ठानि यदैकधा पृष्ठानि भवत्य् एकधैवास्मिंस् तेजो वीर्यं दधात्य् अन्नं पृष्ठान्य् अन्नाद्यम् एवास्मिन् दधाति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठति
(प्ब् 22.10.3) यद् वै मनुष्याणां प्रत्यक्षं तद्देवानां परोक्षमथ यन्म मनुष्याणां परोक्षं तद्देवानां प्रत्यक्षम्
(प्ब् 22.10.4) एतद् वै परोक्षं व्रतं यद् विश्वजित् प्रत्यक्षम् एवैतेनान्नाद्यम् अवरुन्धे
(प्ब् 22.11.1) पृष्ठयः षडहो महाव्रतं ज्योतिष्टोमो ऽतिरात्रः
(प्ब् 22.11.2) एतेन वै देवा देवत्वम् अगच्छन्
(प्ब् 22.11.3) देवत्वं गच्छति य एवं वेद
(प्ब् 22.11.4) एतद् वै व्रतम् आप्तं यद् अष्टरात्रे ऽग्निष्टोमो हि व्रतं सम्पद्यते
(प्ब् 22.11.5) अथ यत् ज्योतिष्ठोमो ऽतिरात्रो भवत्य् अकॢप्तस्य कॢप्त्यै
(प्ब् 22.11.6) अष्टरात्रेण वै देवाः सर्वम् आश्नुवत
(प्ब् 22.11.7) सर्वम् अश्नुते य एवं वेद
(प्ब् 22.12.1) पृष्ठयः षडहो ज्योतिर् गौर् आयुर् अतिरात्रो देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य एतेन नवरात्रेणामृतत्वं प्रायच्छत्
(प्ब् 22.12.2) एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति
(प्ब् 22.12.3) सर्वम् आयुर् एति वसीयान् भवति य एवं वेद
(प्ब् 22.12.4) नवरात्रो वा एष नव प्राणाः प्राणेष्व् एव प्रतितिष्ठति
(प्ब् 22.12.5) पृष्ठयः षडहो भवति प्रत्यक्षम् ऋद्धया अथ यत् ज्योतिर् गौर् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै
(प्ब् 22.13.1) ज्योतिष्टोमो ऽग्निष्ठोमो गौर् उक्थ्य आयुर् उक्थ्यो ऽभ्यासङ्ग्यः पञ्चाहो विश्वजिद् अतिरात्रः पशुकामो यजेत
(प्ब् 22.13.2) यत् ज्योतिर् गौर् आयुस् त्र्यहः पुरस्ताद् भवति प्रज्ञातान् स्तोमानुपैतीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 22.13.3) अथ यद् अभ्यासङ्ग्यः पञ्चाहो मध्यतो भवति पाङ्क्तः पुरूषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति
(प्ब् 22.13.4) विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै
(प्ब् 22.14.1) त्रिवृद् अग्निष्टोमः पञ्चदश उक्थ्यस् त्रिवृद् अग्निष्टोमः सप्तदशो ऽग्निष्टोम एकविंश उक्थ्यः सप्तदशो ऽग्निष्टोमस् त्रिणवो ऽग्निष्टोमस् त्रयस्त्रिंश उक्थ्यस् त्रिणवो ऽग्निष्टोमो विश्वजिद् अतिरात्रः
(प्ब् 22.14.2) इन्द्रो ऽसुरान् हत्वाकार्यं चकृवां अमन्यत तं देवा एतेन स्तोमेनायाजयन् स पाप्मनो नैर्दश्यम् अगच्छत्
(प्ब् 22.14.3) तस्माद् इषुहतो वा दण्डहतो वा दशमीं नैर्दश्यं गच्छति
(प्ब् 22.14.4) दश दशिनी वा एषा विराड् अन्नं विराड् अन्नाद्यम् एवास्मिन् दधाति
(प्ब् 22.14.5) अग्निष्टोमेन वै देवा असुरान् निगृह्य मध्यत उक्थैः प्रजया पशुभिः प्राजायन्ताग्निष्टोमेनैव भ्रातृव्यं निगृह्य मध्यत उक्थ्यैः प्रजया पशुभिः प्रजायते
(प्ब् 22.14.6) त्रिककुब् वा एष यज्ञः
(प्ब् 22.14.7) त्रिककुप् समानानां च प्रजानां च भवति य एवं वेद
(प्ब् 22.15.1) त्रयस्त्रिवृतो ऽग्निष्टोमास् त्रयः पञ्चदश उक्थ्यास् त्रयः सप्तदश उक्थ्या एकविंशो ऽतिरात्रः कुसुरुविन्ददशरात्रः
(प्ब् 22.15.2) यः कामयेत बहु स्याम् इति स एतेन यजेत
(प्ब् 22.15.3) यद् गणशः स्तोमो बहुर् एव भवति
(प्ब् 22.15.4) सह त्रिवृत सह पञ्चदशाः सह सप्तदशाः
(प्ब् 22.15.5) एकविंशो ऽतिरात्रो भवति प्रतिष्ठित्यै
(प्ब् 22.15.6) ज्योतिर् वा एष विहृतः
(प्ब् 22.15.7) ज्योतिष् प्रजानां भवति य एवं वेद
(प्ब् 22.15.8) चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति
(प्ब् 22.15.9) एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशः प्रत्य् एव तिष्ठति
(प्ब् 22.15.10) एतेन वै कुसुरूविन्द औद्दालकिर् इष्ट्वा भूमानम् आश्नुत
(प्ब् 22.15.11) भूमानम् अश्नुते य एवं वेद
(प्ब् 22.16.1) अभ्यासङ्ग्यः पञ्चाहश् चत्वारश् छन्दोमः विश्वजिद् अतिरात्रः पशुकामो यजेत
(प्ब् 22.16.2) यद् अभ्यासङ्ग्यः पञ्चाहः पुरस्ताद् भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति
(प्ब् 22.16.3) छन्दोमा मध्यतो भवन्ति पशवो वै छन्दोमाः पशूनाम् अवरुध्यै
(प्ब् 22.16.4) विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै
मूल पाठ: Pañcaviṃśabrāhmaṇa · Data entry Martin Kümmel Arlo Griffiths Masato Kobayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0