पञ्चविंशब्राह्मण · भाग 4160
(प्ब् 12.11.7) त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते
(प्ब् 12.11.8) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 12.11.9) और्णायवं भवति
(प्ब् 12.11.10) अङ्गिरसो वै सत्त्रम् आसत तेषाम् आप्तः स्पृतः स्वर्गो लोक आसीत् पन्थानं तु देवयानं न प्राजानंस् तेषां कल्याण आङ्गिरसो ध्यायम् उदव्रजत् स ऊर्णायुं गन्धर्वम् अप्सरसां मध्ये प्रेङ्खयमाणम् उपैत् स इयाम् इति यां याम् अभ्यदिशत् सैनम् अकामयत तम् अभ्यवदत् काल्याणा3 इत्य् आसो वै वः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदं साम स्वर्ग्यं लोकम् एष्य् अथ मा तु वोचोहम् अदर्शम् इति
(प्ब् 12.11.11) स ऐत् कल्याणः सो ऽब्रवीद् आप्तो वै नः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं प्रजानीम इदं साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकम् एष्याम इति कस् ते ऽवोचद् इत्य् अहम् एवादर्शम् इति तेन स्तुत्वा स्वर्गं लोकम् आयन्न् अहीयत कल्याणो ऽनृतं हि सो ऽवदत् स एषः श्वित्रः
(प्ब् 12.11.12) स्वर्ग्यं वा एतत् साम स्वर्गलोकः पुण्यलोको भवत्य् और्णायवेन तुष्टुवानः
(प्ब् 12.11.13) बृहत्कं भवति
(प्ब् 12.11.14) सामार्षेयेण प्रशस्तं त्वं हीत्य् अन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयते षोडशिनम् उ चैवैतेनोद्यच्छति
(प्ब् 12.11.15) आतीषादीयं भवति
(प्ब् 12.11.16) आयुर् वा आतीषादीयम् आयुषो ऽषरुध्यै
(प्ब् 12.11.17) आतमितोर् निधनम् उपयन्त्य् आयुर् एव सर्वम् आप्नुवन्ति
(प्ब् 12.11.18) नानदं भवति
(प्ब् 12.11.19) ज्यायो ऽभ्यारम्भम् अतिहाय पञ्चम् अहः षष्ठस्याह्न आरम्भस् तेन षष्ठम् अहर् आरभन्ते सन्तत्यै
(प्ब् 12.11.20) षोडशाक्षरेण प्रस्तौति षोडशिनम् उ चैवैतेनोद्यच्छति
(प्ब् 12.11.21) आन्धीगवं भवति
(प्ब् 12.11.22) कयोर् अन्नाद्यम् अवरून्ध आन्धीगवेन तुष्टुवानः
(प्ब् 12.11.23) वात्सप्रं भवति
(प्ब् 12.11.24) एतस्मिन् वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः
(प्ब् 12.11.25) वत्सप्रीर् भालन्दनः श्रद्धां नाविन्दत स तपो ऽतप्यत स एतद् वात्सप्रम् अपश्यत् स श्रद्धाम् अविन्दत श्रद्धा विन्दामहा इति वै सत्त्रम् आसते विन्दते श्रद्धाम्
(प्ब् 12.11.26) ईनिधनं तथा ह्य् एतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः
(प्ब् 12.12.1) ऽऽअग्निं वो वृधन्तम्ऽऽ इति
(प्ब् 12.12.2) अवर्धन्त ह्य् एतर्हि यजमानम् एव तथा वर्धयन्ति
(प्ब् 12.12.3) ऽऽवयम् उ त्वाम् अपूर्व्य-ऽऽ इत्य् अपूर्वां ह्य् एतर्हि प्रजापतेस् तनूम् अगच्छन्न् अपूर्वम् एवैतया यजमानं गमयन्ति
(प्ब् 12.12.4) ऽऽइमम् इन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम्ऽऽ इति ज्यैष्ठं ह्य् एतर्हि वाचो ऽगच्छन् ज्यैष्ठ्यम् एवैतया यजमानं गमयन्ति
(प्ब् 12.12.5) सैन्धुक्षितं भवति
(प्ब् 12.12.6) सिन्धुक्षिद् वै राजन्यर्षिर् ज्योग् अपरुद्धश् चरन् स एतत् सैन्धुक्षितम् अपश्यत् सो ऽवागच्छत् प्रत्यतिष्ठद् अवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः
(प्ब् 12.12.7) सौभरं भवति बृहतस् तेजः
(प्ब् 12.12.8) पन्नम् इव वै चतुर्थम् अहस् तद् एतेन बृहतस् तेजसोत्तभ्नोति सौभरेण
(प्ब् 12.12.9) वसिष्ठस्य प्रियं भवति
(प्ब् 12.12.10) एतेन वै वसिष्ठ इन्द्रस्य प्रेमाणम् अगच्छत् प्रेमाणं देवतानां गच्छति वासिष्ठेन तुष्टुवानः स्तोमः
(प्ब् 12.13.1) इन्द्रश् च बृहच् च समभवतां तम् इन्द्रं बृहद् एकया तन्वात्य् अरिच्यत तस्या अबिभेदनया माभिभविष्यतीति सो ऽब्रवीत् षोडशी ते ऽयं यज्ञक्रतुर् अस्त्व् इति स षोडश्य् अभवत् तद् अस्य जन्म
(प्ब् 12.13.2) अतिश्रिया भ्रातृव्यं रिच्यते यो गायत्रीषु द्विपदासु बृहता षोडशिना स्तुते
(प्ब् 12.13.3) ऽऽउप नो हरिभिः स्तुतम्ऽऽ इत्य् एता वै गायत्र्यो द्विपदा एतासु स्तोतव्यम्
(प्ब् 12.13.4) इन्द्रः प्रजापतिम् उपाधावद् वृत्रं हनानीति तस्मा एताम् अनुष्टुभम् अपहरसं प्रायच्छत् तया नास्तृणुत यद् अस्तृता व्यनदत् तन् नानदस्य नानदत्वम्
(प्ब् 12.13.5) तं पुनर् उपाधावत् तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् तम् अस्तृणुत
(प्ब् 12.13.6) स्तृणुते तं यं तुस्तूर्षते य एवं वेद
(प्ब् 12.13.7) तस्माद् धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्य् अस्मै निर्माय प्रायच्छत्
(प्ब् 12.13.8) एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने
(प्ब् 12.13.9) गौरीवितं भवति
(प्ब् 12.13.10) गौरीवितिर् वा एतच् छाक्त्यो ब्रह्मणो ऽतिरिक्तम् अपश्यत् तद् गौरीवितम् अभवद् अतिरिक्तं एतद् अतिरिक्तेन स्तुवन्ति यद् गौरीवितेन षोडशिनं श्वस्तनवान् भवत्य् अपि प्रजाया उपकॢप्तः
(प्ब् 12.13.11) विशालं लिब्जया श्रूत्याभ्यधाद् इति होवाचोपोदितिर् गोपालेयो ऽनुष्टुभि नानदम् अकर् गौरीवितेन षोडशिनम् अस्तोष्टाञ्जसा श्रियम् उपागान् न श्रिया अवपद्यत इति
(प्ब् 12.13.12) एष वै विशालं लिब्जया भूत्याभिदधाति यो ऽनुष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुते ऽञ्जसा श्रियम् उपैति न श्रिया अवपद्यते
(प्ब् 12.13.13) शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री स्याम् इति
(प्ब् 12.13.14) वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवास्मै वज्रं स्पृणोति वज्री भवति
(प्ब् 12.13.15) अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा वाग् अतिवदेत्
(प्ब् 12.13.16) वज्रो वै षोडशी वाग् अनुष्टुब् वज्रेणैवास्मै वाचं स्पृणोति नैनं वाग् अतिवदति
(प्ब् 12.13.17) ऽऽअसावि सोम इन्द्र तऽऽ इत्य् एतासु स्तोतव्यम्
(प्ब् 12.13.18) विराट्स्व् अन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै षोडशी वैराजम् अन्नं वज्रेणैवास्मा अन्नं स्पृणोत्य् अन्नादो भवति
(प्ब् 12.13.19) ऽऽप्र वो महे वृधे भरध्वम्ऽऽ इत्य् एतासु स्तोतव्यम्
(प्ब् 12.13.20) त्रयस्त्रिंशदक्षरा वा एता विराजो यद् एकविंशतिः प्रतिष्ठा सा यद् द्वादश प्रजातिः सा
(प्ब् 12.13.21) प्रतिष्ठाय प्रजायते नो चान्तस्थायां जीर्यते य एवं वेद
(प्ब् 12.13.22) अथ वा एता एकपदास् त्र्यक्षरा विष्णोश् छन्दो भुरिजः शक्वर्यः
(प्ब् 12.13.23) एताभिर् वा इन्द्रो वृत्रम् अहन् क्षिप्रं वा एताभिः पाप्मानं हन्ति क्षिप्रं वसीयान् भवति
(प्ब् 12.13.24) चतुस्त्रिंशदक्षराः संस्तुतो भवति त्रयस्त्रिंशद्देवत्ताः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवोपयन्त्य् अरिष्ट्यै
(प्ब् 12.13.25) हिरण्यं सम्प्रदायं षोडशिना स्तुवते ज्योतिष्मान् अस्य षोडशी भवति
(प्ब् 12.13.26) अश्वः कृष्ण उपतिष्ठति साम्येक्षयाय भ्रातृव्यलोकम् एव स विधमंस् तिष्ठति
(प्ब् 12.13.27) एकाक्षरं वै देवानाम् अवमं छन्द आसीत् सप्ताक्षरं परमं नवाक्षरम् असुराणाम् अवमं छन्द आसीत् पञ्चदशाक्षरं परमं देवाश् च वा असुराश् चास्पर्धन्त तान् प्रजापतिर् आनुष्टुभो भूत्वान्तरातिष्ठत् तं देवासुरा व्यह्वयन्त स देवान् उपावर्तत ततो देवा अभवन् परासुराः
(प्ब् 12.13.28) भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद
(प्ब् 12.13.29) ते देवा असुराणाम् एकाक्षरेणैव पञ्चदशाक्षरम् अवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टाव् अवृञ्जत
(प्ब् 12.13.30) एवम् एव भ्रातृव्याद् भूतिं वृङ्क्ते य एवं वेद
(प्ब् 12.13.31) अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन इव वै तर्हि देवा आसन् भूयस्विनो ऽसुराः कनीयस्विन भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद
(प्ब् 12.13.32) ऽऽयस्माद् अन्यो न परो ऽस्ति जातो य आबभूव भुवनानि विश्वा। प्रजापतिः प्रजया सम्विदानस् त्रीणि ज्योतीं षि सचते स षोडशी-ऽऽ इत्य् उद्गाता ग्रहम् अवेक्षते
(प्ब् 12.13.33) ज्योतिष्मान् अस्य षोडशी भवति य एवं वेद
(प्ब् 12.13.34) एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति
(प्ब् 13.1.1) ऽऽगोवित् पवस्व वसुविद् धिरण्यविद्ऽऽ इति पञ्चमस्याह्नः प्रतिपद् भवति
(प्ब् 13.1.2) गोविद् वा एतद् वसुविद् धिरण्यविद्यच् छक्वर्यः
(प्ब् 13.1.3) पशवश् शक्वर्यः सर्वं पशुभिर् विन्दते
(प्ब् 13.1.4) ऽऽत्वं सुवीरो असि सोमविश्वविद्ऽऽ इत्य् एष याव सुवीरो यस्य पशवस् तद् एव तद् अभिवदति
(प्ब् 13.1.5) तास् ते क्षरन्तु मधुमद् घृतं पयऽऽ इति मधुमद् वै घृतं पयः पशवः क्षरन्ति तद् एव तद् अभिवदति
(प्ब् 13.1.6) ऽऽपवमानस्य विश्वविद्ऽऽ इत्य् अनुरूपो भवति
(प्ब् 13.1.7) विश्वम् एव तद्वित् तम् अभिवदति विश्वं हि पशुभिर् विन्दते
(प्ब् 13.1.8) ऽऽप्र ते सर्गा असृक्षत-ऽऽ इति सृष्टानीव ह्य् एतर्ह्य् अहानि
(प्ब् 13.1.9) पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम्, अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरुपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै
(प्ब् 13.1.10) सप्तर्चौ भवतः छन्दसां धृत्यै
(प्ब् 13.1.11) चतुरृचो भवति प्रतिष्ठायै
(प्ब् 13.1.12) तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्य् उद्यन्ति
(प्ब् 13.1.13) त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद् वा एष पुष्टः
(प्ब् 13.2.1) ऽऽतव श्रियो वर्षस्य् एव विद्युतऽऽ इत्य् आग्नेयम् आज्यं भवति
(प्ब् 13.2.2) श्रीर् वै पशवः श्रीः शक्वर्यः तद् एव तद् अभिवदति
(प्ब् 13.2.3) ऽऽअग्नेश् चिकित्र उषसाम् इवेतयऽऽ इतीतानीव ह्य् एतर्ह्य् अहानीति
(प्ब् 13.2.4) ऽऽआ ते यतेन्ते रथ्यो यथा पृथग्ऽऽ इत्य् एव ह्य् एतर्ह्य् अहानि यतन्ते
(प्ब् 13.2.5) ऽऽपुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण-ऽऽ इति मैत्रावरुणम्
(प्ब् 13.2.6) यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णाति तद् एव तद् अवयजति
(प्ब् 13.2.7) ऽऽउत्तिष्ठन्न् ओजसा सह-ऽऽ इत्य् ऐन्द्रम्
(प्ब् 13.2.8) पञ्च वा ऋतव उत्थानस्य रूपम् ओजसा सहेत्य् ओजसैव वीर्येण सहोत्तिष्ठन्ति
(प्ब् 13.2.9) ऽऽइन्द्राग्नी युवाम् इमऽऽ इति राथन्तरम् ऐन्द्राग्नम्
(प्ब् 13.2.10) रथन्तरम् एतत् परोक्षं यच् छक्वर्यो राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः
(प्ब् 13.3.1) ऽऽअर्षा सोम द्युमत्तमऽऽ इति विष्णुमत्यो गायत्र्यो भवन्ति
(प्ब् 13.3.2) ब्रह्म वै गायत्री यज्ञो विष्णुर् ब्रह्मण्य् एव तद् यज्ञं प्रतिष्ठापयति
(प्ब् 13.3.3) ऽऽसोम उष्वाणस् सोतृभिर्ऽऽ इति सिमानां रूपं स्वेनैवैतास् तद् रूपेण समर्धयति
(प्ब् 13.3.4) ऽऽयत् सोम चित्रम् उक्थ्यम्ऽऽ इति गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
(प्ब् 13.3.5) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 13.3.6) यण्वं भवति पशवो वै यण्वं पशूनाम् अवरुध्यै
(प्ब् 13.3.7) सन्ततं गायति यज्ञस्य सन्तत्ये
(प्ब् 13.3.8) अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 13.3.9) शाकलं भवति
(प्ब् 13.3.10) एतेन वै शकलः पञ्चमे ऽहनि प्रत्यतिष्ठत् प्रतितिष्ठति शाकलेन तुष्टुवानः
(प्ब् 13.3.11) वार्शं भवति
(प्ब् 13.3.12) वृशो वैजानस् त्र्यरुणस्य त्रैधातवस्यैक्ष्वाकस्य पुरोहित आसीत् स ऐक्ष्वाको ऽधावयत् ब्राह्मणकुमारं रथेन व्यच्छिनत् स पुरोहितम् अब्रवीत् तव मा पुरोधायाम् इदम् ईदृग् उपागाद् इति तम् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वार्शं कामम् एवैतेनावरुन्धे
(प्ब् 13.3.13) अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 13.3.14) मानवं भवति
(प्ब् 13.3.15) एतेन वै मनुः प्रजापतिं भूमानम् अगच्छत् प्रजायते बहुर् भवति मानवेन तुष्टुवानः
(प्ब् 13.3.16) आनूपं भवति
(प्ब् 13.3.17) एतेन वै वध्र्यश्व आनूपः पशूनां भूमानम् आश्नुत पशूनां भूमानम् अश्नुत आनूपेन तुष्टुवानः
(प्ब् 13.3.18) वाम्रं भवति
(प्ब् 13.3.19) मामार्षेयेण प्रशस्तं यं वै गाम् अश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्य् अहर् एवैतेन प्रशंसन्ति
(प्ब् 13.3.20) अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 13.3.21) त्रिणिधनम् आग्नेयं भवति प्रतिष्ठायै
(प्ब् 13.3.22) अग्रिः सृष्टो नोददीप्यत तं प्रजापतिर् एतेन साम्नोपाधमत् स उददीप्यत दीप्तिश् च वा एतत् साम ब्रह्मवर्चसं च दीप्तिश् चैवैतेन ब्रह्मवर्चसं चावरुन्धे
(प्ब् 13.3.23) शैशवं भवति
(प्ब् 13.3.24) शिशुर् वा आङ्गिरसो मन्त्रकृतां मन्त्रकृद् आसीत् स पित्.ऋन् पुत्रका इत्य् आमन्त्रयत, तं पितरो ऽब्रुवन् न धर्मं करोषि यो नः पित्.ऋन् सतः पुत्रका इत्य् आमन्त्रयम इति, सो ऽब्रवीद् अहं वाव वः पितास्मि यो मन्त्रकृद् अस्मीति, तं देवेष्व् अपृच्छन्त ते देवा अबुवन्न् एष वाव पिता यो मन्त्रकृद् इति तद् वै स उदजयद् उज्जयति शैशवेन तुष्टुवानः
(प्ब् 13.3.25) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 13.3.26) विष्णुमत्यो गायत्र्यो भवन्ति तद् उ त्रैष्टुभाद् रूपान् न यन्ति स्तोमः
(प्ब् 13.4.1) इन्द्रः प्रजापतिम् उपाधावद् वृत्रं हनानीति तस्मा एतच् छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छद् एतेन शक्नुहीति तच् छक्वरीणां शक्वरीत्वं सीमानम् अभिनत् तत् सिमा मह्न्यम् अकरोत् तन् मह्न्या महान् घोष आसीत् तन् महानाम्न्यः
(प्ब् 13.4.2) दिशः पञ्चपदा दाधारर्तून् षट्पदा छन्दांसि सप्तपदा पुरुषं द्विपदा
(प्ब् 13.4.3) द्व्योपशाः संस्तुता भवन्ति तस्माद् द्व्योपशाः पशवः
(प्ब् 13.4.4) इडे अभितो ऽथकारं तस्माच् छृङ्गे तीक्ष्णीयसी स्तूपात्
(प्ब् 13.4.5) उपक्षुद्रा गायति तस्माद् उपक्षुद्राः पशवः
(प्ब् 13.4.6) अंसश्लिष्टा गायति तस्माद् असंश्लिष्टाः पशवः
(प्ब् 13.4.7) नानारूपा गायति तस्मान् नानारूपाः पशवः
(प्ब् 13.4.8) आपो वै क्षीररसा आसंस्ते देवाः पापवसीयसाद् अबिभयुर् यद् अप उपनिधाय स्तुवते पापवसीयसो विधृत्यै
(प्ब् 13.4.9) विधृतिः पापवसीयसो भवति य एवं वेद
(प्ब् 13.4.10) गायत्रम् अयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनं मधुनामुष्मिंल् लोक उपतिष्ठते, त्रैष्टुभम् अयनं भवत्य् ओजस्कामस्याथकारणिधन माज्येनामुष्मिंल् लोक उपतिष्ठते, जागतम् अयनं भवति पशुकामस्येडानिधनं पयसामुष्मिंल् लोक उपतिष्ठते
(प्ब् 13.4.11) अञ्जसार्यो माल्यः शक्वरीः प्रारौत्सीद् इति होवाचालम्मं पारिजानतं रजनः कौणयो यद्य् एनाः प्रतिष्ठापं शक्ष्यतीत्य् एतद् वा एतासाम् अञ्जयति प्रतिष्ठिता य आभिः क्षिप्रं प्रस्तुत्य क्षिप्रम् उद्गायति
(प्ब् 13.4.12) शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते
(प्ब् 13.4.13) पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठम् एव तत् पशुभ्यः पर्यस्यन्ति तम् एवैनान् प्रवर्त्यन्त्य् अविस्रंसाय
(प्ब् 13.4.14) ऽऽइन्द्रो मदाय वावृधऽऽ इत्य् अवर्धन्त ह्य् एतर्हि
(प्ब् 13.4.15) तासु बार्हद्गिरम्
(प्ब् 13.4.16) ऽऽस्वादोर् इत्था विषुवतऽऽ इति विषुवान् वै पञ्चमम् अहस् तासु रायोवाजीयम्
(प्ब् 13.4.7) इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर् बृहद्गिरी रायोवाजस् ते ऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्य् अहम् इतीन्द्रो ऽब्रवीत् तान् आधिनिधाय परिचार्यं चरद् (?) वर्धयंस् तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वम् इति, क्षत्रं मह्यम् इत्य् अब्रवीत् पृथुरश्मिस् तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यम् इत्य् अब्रवीत् बृहाद्गिरिस् तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून् मह्यम् इत्य् अब्रवीद् रायोवाजस् तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति
(प्ब् 13.4.18) पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस् तद् रूपेण समर्धयति स्तोमः
(प्ब् 13.5.1) ऽऽअसाव्य् अंशुर् मदाय-ऽऽ इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 13.5.2) ऽऽअभि द्युम्नं बृहद्यशऽऽ इत्य् अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोस् सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः
(प्ब् 13.5.3) ऽऽप्राणा शिशुर् महीनाम्ऽऽ इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास् तद् रूपेण समर्धयति
(प्ब् 13.5.4) ऽऽपवस्व वाजसातयऽऽ इति वैष्णव्यो ऽनुष्टुभो भवन्ति
(प्ब् 13.5.5) यज्ञो वै विष्णुर् यद् अत्र नापि क्रियते तद् विष्णुना यज्ञेनापि करोति
(प्ब् 13.5.6) ऽऽइन्दुर् वाजी पवते गोन्योघाऽऽ इति सिमानां रूपं स्वेनैवैनास् तद् रूपेण समर्धयति
(प्ब् 13.5.7) त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते
(प्ब् 13.5.7) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 13.5.9) सन्तनि भवति पञ्चमस्याह्नस् सन्तत्यै
(प्ब् 13.5.90) वाग् वा एषा प्रतता यद् द्वादशाहस् तस्या एष विषुवान् यत् पञ्चमम् अहस् ताम् एवैतेन सन्तनोति
(प्ब् 13.5.11) च्यावनं भवति
(प्ब् 13.5.12) प्रजातिर् वै च्यावनं प्रजायते बहुर् भवति च्यावनेन तुष्टुवानः
(प्ब् 13.5.13) एभ्यो वै लोकेभ्यो वृष्टिर् अपाक्रामत् तां प्रजापतिश् च्यावनेनाच्यावयद् यद् अच्यावयत् तच् च्यावनस्य च्यावनत्वं च्यावयति वृष्टिं च्यावनेन तुष्टुवानः
(प्ब् 13.5.14) क्रोष भवति
(प्ब् 13.5.15) एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्य् आक्रोशत् पशुनाम् अवरुध्यै क्रोशं क्रियते
(प्ब् 13.5.16) गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम्
(प्ब् 13.5.17) ऋषभः शाक्वरो भवति
(प्ब् 13.5.18) पशवो वै शक्वर्यः पशुष्व् एव तन् मिथुनम् अप्य् अर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
(प्ब् 13.5.19) पार्थं भवति
(प्ब् 13.5.20) एतेन वै पृथुर् वैन्य उभयेषां पशूनाम् आधिपत्यम् आश्नुतोभयेषां पशुनाम् आधिपत्यम् अश्नुते पार्थेन तुष्टुवानः
(प्ब् 13.5.21) अष्टेडः पदस्तोभो भवति
(प्ब् 13.5.22) इन्द्रो वृत्राय वज्रम् उदयच्छत् तं षोडशभिर् भोगैः पर्यभुजत् स एतं पदस्तोभम् अपश्यत् तेनापावेष्टयद् अपावेष्टयन्न् इव गायेत् पाप्मनो ऽपहत्यै
(प्ब् 13.5.23) पाप्मा वाव स तम् अगृह्णात् तं पदस्तोभेनापाहताप पाप्मानं हते पदस्तोभेन तुष्टुवानः
(प्ब् 13.5.24) पदोर् उत्तमम् अपश्यत् तत् पदस्तोभस्य पदस्तोभत्वम्
(प्ब् 13.5.25) द्वादशनिधनो भवति प्रतिष्ठायै
(प्ब् 13.5.26) दाशस्पत्यं भवति
(प्ब् 13.5.27) यां वै गां प्रशंसन्ति दाशस्पत्येति तां प्रशंसन्त्य् अहर् एवैतेन प्रशंसन्ति
(प्ब् 13.5.28) निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः
(प्ब् 13.6.1) ऽऽआते अग्न इधीमहि-ऽऽ इति
(प्ब् 13.6.2) अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वायैव
(प्ब् 13.6.3) ऽऽइन्द्राय साम गायत-ऽऽ इति पूर्णाः ककुभस् तेनानशनायुको भवति
(प्ब् 13.6.4) पुरुषो वै ककुप् पुरुषम् एव तन् मध्यतः प्रीणाति
(प्ब् 13.6.5) ऽऽअसावि सोम इन्द्र तऽऽ इति सिमानां रूपं स्वेनैवैनांस् तद् रूपेण समर्धयति
(प्ब् 13.6.6) सञ्जयं भवति
(प्ब् 13.6.7) देवाश् च वा असुराश् च समदधत यतरे नः सञ्जयांस् तेषां नः पशवो ऽसान् इति ते देवा असुरान् सञ्जयेन समजयन् यत् समजयंस् तस्मात् सञ्जयं पशूनाम् अवरुध्यै सञ्जयं क्रियते
(प्ब् 13.6.8) सौमित्रं भवति
(प्ब् 13.6.9) दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियान् अवलिहत्य् अचरत् ताम् इन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तम् अब्रवीद् इमाम् अच्छा ब्रूष्वेति ताम् अच्छा ब्रूत सैनम् अब्रवीन् नाहैतन् न शुश्रुव प्रियम् इव तु मे हृदयस्येति ताम् अज्ञपयत् तां संस्कृते ऽहतां तद् वाव तौ तर्ह्य् अकामयेतां कामसनि साम सौमित्रं कामम् एवैतेनावरुन्धे
(प्ब् 13.6.10) सुमित्रः सन् क्रूरम् अकर् इत्य् एनं वाग् अभ्यवदत् तं शुग् आर्च्छत् स तपो ऽतप्यत स एतत् सौमित्रम् अपश्यत् तेन शुचम् अपाहतापशुचं हते सौमित्रेण तुष्टुवानः
(प्ब् 13.6.11) महावैश्वामित्रं भवति
(प्ब् 13.6.12) पाप्मानं हत्वा यद् अमहीयन्त तन् महावैश्वामित्रस्य महावैश्वामित्रत्वम्
(प्ब् 13.6.13) हाया इहया ओहा ओहेति पशून् एवैतेन न्यौहन्त
(प्ब् 13.6.14) त्रीडं भवति त्रिरात्रस्य धृत्यै
(प्ब् 13.6.15) द्रवन्तीम् इडाम् उत्तमाम् उपयन्ति षष्ठस्याह्नः सन्तत्यै
(प्ब् 13.6.16) त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद् वा एष पुष्ठः
(प्ब् 13.7.1) ऽऽज्योतिर् यज्ञस्य पवते मधुप्रियम्ऽऽ इति षष्ठस्याह्नः प्रतिपद् भवति
(प्ब् 13.7.2) ज्योतिर् वै गायत्री छन्दमां ज्योतिः रेवती साम्नां ज्योतिस् त्रयस्त्रिंशः स्तोमानां ज्योतिर् एव तत् सम्यक् संदधास्य् अपि ह पुत्रस्य पुत्रो ज्योतिष्मान् भवति
(प्ब् 13.7.3) ऽऽमधु प्रियम्ऽऽ इति पशवो वै रेवत्यो मधुप्रियं तद् एव तद् अभिवदति
(प्ब् 13.7.4) ऽऽमदिन्तमो मत्सर इन्द्रियो रसऽऽ इतीन्द्रियं वै वीर्यं रसः पशवस् तद् एव तद् अभिवदति
(प्ब् 13.7.5) ऽऽअमृक्षत प्रवाजिनऽऽ इत्य् अनुरूपो भवति
(प्ब् 13.7.6) सृष्टानीव ह्य् एतर्ह्य् अहानि
(प्ब् 13.7.7) पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै
(प्ब् 13.7.8) दशर्चौ भवतो दशाक्षरा विराट् वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 13.7.9) उत्तरो दशर्चो भवति सोदर्क इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय
(प्ब् 13.7.10) यत्र वे देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन्
(प्ब् 13.7.11) चतुरृचो भवति प्रतिष्ठायै
(प्ब् 13.7.12) ध्वस्रे वै पुरुषन्ती तरन्तपुरुमीढाभ्यां वैतदश्विभ्यां सहस्राण्य् अदित्सतां ताव् ऐक्षेतां कथं नाव् इदम् आत्तम् अप्रतिगृहीतं स्याद् इति तौ प्रत्य् एतां ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे (दप्रहे) तरत् स मन्दी धावतीति ततो वै तत् तयोर् आत्तम् अप्रतिगृहीतम् अभवत्
(प्ब् 13.7.13) आत्तम् अस्याप्रतिगृहीतं भवति य एवं वेद
(प्ब् 13.7.14) विनाराशंसो भवत्य् उभयस्यान्नाद्यस्यावरुध्यै मानुषस्य च दैवस्य च
(प्ब् 13.7.15) तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 13.7.16) त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
(प्ब् 13.8.1) ऽऽइमं स्तोमम् अर्हते जातवेदसऽऽ इत्य् आग्नेयम् आज्यं भवति सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन्
(प्ब् 13.8.2) ऽऽप्रतिवां सूर उदितऽऽ इति सूरवन् मैत्रावरुणम्
(प्ब् 13.8.3) अन्तो वै सूरो ऽन्त एतत् षष्ठम् अहर् अह्नाम् अन्त एव तद् अन्ते स्तुवते प्रतिष्ठायै
(प्ब् 13.8.4) ऽऽभिन्धि विश्वा अपद्विषऽऽ इत्य् ऐन्द्रं सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन्
(प्ब् 13.8.5) ऽऽयज्ञस्य हि स्थ ऋत्विजऽऽ इत्य् ऐन्द्राग्नं सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् स्तोमः
(प्ब् 13.9.1) ऽऽइन्द्रायेन्दो मरुत्वतऽऽ इति मरुत्वत्यो गायत्र्यो भवन्ति
(प्ब् 13.9.2) मरुत्वद् धि माध्यन्दिनं सवनम्
(प्ब् 13.9.3) ऽऽमृज्यमानः सुहस्त्य-ऽऽ इति सिमानां रूपम्
(प्ब् 13.9.4) समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्य् अधिरेवत्यः प्रजायन्ते
(प्ब् 13.9.5) ऽऽएतम् उ त्यं दश क्षिपऽऽ इत्य् आदित्या आदित्या वा इमाः प्रजास् तासाम् एव मध्यतः प्रतितिष्ठति
(प्ब् 13.9.6) गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
(प्ब् 13.9.7) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 13.9.8) इषोवृधीयं भवति
(प्ब् 13.9.9) पशवो वा इषोवृधीयं पशूनाम् अवरुध्या इषे वै पञ्चमम् अहर् वृधे षष्ठम् अवर्धन्त ह्य् एतर्हि यजमानम् एवैतेन वर्धयन्ति
(प्ब् 13.9.10) क्रौञ्चं भवति
(प्ब् 13.9.11) क्रुङ्ङ् एष्यम् अहर् अविन्दद् एष्यम् इव वै षष्ठम् अहर् एवैतेन विन्दन्ति
(प्ब् 13.9.12) वाजदावर्यो भवन्ति
(प्ब् 13.9.13) अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नम् अथ गौर् अथाश्वो ऽथ पुरुषो वाजी
(प्ब् 13.9.14) रेवत्यो भवन्ति प्रतिष्ठायै
(प्ब् 13.9.15) षण्णिधनी षड्रात्रस्य धृत्यै
(प्ब् 13.9.16) आपो वै रेवत्यस् ता यत् पृष्ठं कुर्युर् अपशुर् यजमानः स्यात् पशून् अस्य निर्दहेयुर् यत्र वा आपो विवर्तन्ते तद् ओषधयो जायन्ते ऽथ यत्रावतिष्ठन्ते निर्मृतुकास् तत्र भवन्ति तस्मात् पवमाने कुर्वन्ति पराचा हि पवमानेन स्तुवते
(प्ब् 13.9.17) मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यद् एतान्य् एवं सामानि क्रियन्त एवम् एव प्रत्तां दुग्धे
(प्ब् 13.9.18) औक्ष्णोरन्ध्रे भवतः
(प्ब् 13.9.19) उक्ष्णोरन्ध्रो वा एताभ्यां काव्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 13.9.20) वाजजिद् भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये षष्ठम् अहर् आगच्छन्ति
(प्ब् 13.9.21) अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै
(प्ब् 13.9.22) वरुणसाम भवति
(प्ब् 13.9.23) एतेन वै वरुणो राज्यम् आधिपत्यम् अगच्छद् यशो ऽभवद् राज्यम् आधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः
(प्ब् 13.9.24) अङ्गिरसां गोष्ठो भवति
(प्ब् 13.9.25) पशवो वै रेवत्यो गौष्ठम् एव तत् पशुभ्यः पर्यस्यन्ति तम् एवैनान् प्रवर्तयन्त्य् अविस्रंसाय
(प्ब् 13.9.26) इहवद् वामदेव्यं भवति
(प्ब् 13.9.27) एतेन वै वामदेवो ऽन्नस्य पुरोधाम् अगच्छद् अन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै
(प्ब् 13.9.28) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 13.9.29) मरुत्वत्यो गायत्र्यो भवन्ति तद् उ त्रैष्टुभाद् रूपान् न यन्ति स्तोमः
(प्ब् 13.10.1) यातयामान्य् अन्यानि छन्दांस्य् अयातयामा गायत्री तस्माद् गायत्रीषु स्तुवन्ति
(प्ब् 13.10.2) ऽऽसुरूप कृत्नुम् ऊतयऽऽ इत्य् अभ्यारम्भेण षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठम् अहर् आरभन्ते सन्तत्यै
(प्ब् 13.10.3) ऽऽउभे यद् इन्द्र रोदसीऽऽ इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठम् अहर् आरभन्ते सन्तत्यै
(प्ब् 13.10.4) रेवतीषु वारवन्तीयं पृष्ठं भवति
(प्ब् 13.10.5) अपां वा एष रसो यद् रेवत्यो रेवतीनां रसो यद् वारवन्तीयं सरसा एव तद् रेवतीः प्रयुङ्क्ते यद् वारवन्तीयेन पृष्ठेन स्तुवते
(प्ब् 13.10.6) रेवद् वा एतद् रैवत्यं यद् वारवन्तीयम् अस्य रेवान् रेवात्या जायते
(प्ब् 13.10.7) रेवान् भवति य एवं वेद
(प्ब् 13.10.8) केशिने वा एतद् दाल्भ्याय सामाविर् अभवत् तद् एनम् अब्रवीद् अगातारो मा गायन्ति मा मयोद्गासिषुर् इति कथं त आगा भगव इत्य् अब्रवीद् आगेयम् एवास्म्य् आगायन्न् इव गायेत् प्रतिष्ठायै तद् अलम्मं पारिजानतं पश्चादक्षं शयानम् एताम् आगां गायन्तम् अजानात् तम् अब्रवीत् पुरस् त्वा दधा इति तम् अब्रुवन् को न्व् अयं कस्मा अलम् इत्य् अलं नु वै मह्यम् इति तद् अलम्मस्यालम्मत्वम्
(प्ब् 13.10.9) इहेहेति गायेत् प्रतिष्ठायै
(प्ब् 13.10.11) ऋषभो रैवतो भवति
(प्ब् 13.10.11) पशवो वै रैवत्यः पशुष्व् एव तन् मिथुनम् अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
(प्ब् 13.10.12) श्येनो भवति
(प्ब् 13.10.13) श्येनो ह वै पूर्वप्रेतानि वयांस्य् आप्नोति पूर्वप्रेतानीव वै पूर्वाण्य् अहानि तेषाम् आप्त्यै श्येनः क्रियते
(प्ब् 13.10.14) श्येनो वा एतद् अहः सम्पारयितुम् अर्हति स हि वयसाम् आशिष्ठस् तस्यानपहननाय सम्पारणायैतत् क्रियते ऽन्तो हि षष्ठं चाहः सप्तमं च
(प्ब् 13.10.15) ब्रह्मवादिनो वदन्ति यद् बृहद् आयतनानि पृष्ठान्य् अथैते द्वे गायत्र्यौ द्वे जगत्यौ क्व तर्हि बृहत्यो भवन्तीति
(प्ब् 13.10.16) ये द्वे जगत्योः पदे ते गायत्र्या उपसम्पद्येते तत् सर्वा बृहत्यो भवन्त्य् आयतने पृष्ठानि यातयत्यायतनवान् भवति
(प्ब् 13.10.17) षट्पदासु स्तुवन्ति षड्रात्रस्य धृत्यै
(प्ब् 13.10.18) सप्तपदया यजति सप्तमस्याह्नः सन्तत्यै स्तोमः
(प्ब् 13.11.1) ऽऽपरिस्वानो गिरिष्ठाऽऽ इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै
(प्ब् 13.11.2) ऽऽससुन्वेयो वसूनाम्ऽऽ इति पशवो वै वसु पशूनाम् अवरुध्यै
(प्ब् 13.11.3) ऽऽतं वस्सखायो मदाय-ऽऽ इति वालखिल्याः
(प्ब् 13.11.4) वालखिल्याव् एतौ तृचौ षष्ठे चाहनि सप्तमे च
(प्ब् 13.11.5) यद् एतौ वालखिल्यौ तृचौ भवतो ऽह्नोर् एव व्यतिषङ्गयाव्यतिस्रंसाय सन्तत्यै
(प्ब् 13.11.6) ऽऽसोमाः पवन्त इन्दवऽऽ इत्य् अनुष्टुभो निभसदो भवन्ति प्रतिष्ठायै
(प्ब् 13.11.7) ऽऽअया पवा पवस्वैना वसूनि-ऽऽ इति त्रिष्टुभस् सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते
(प्ब् 13.11.8) गायत्रं भवति यद् एव गायत्रस्य ब्रह्माणम्
(प्ब् 13.11.9) वैदन्वातानि भवन्ति
(प्ब् 13.11.10) विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहंस् तं शुग् आर्च्छत् स तपो ऽतप्यत स एतानि वैदन्वतान्य् अपश्यत् तैः शुचम् अपाहतापशुचं हते वैदन्वतैस् तुष्टुवानः
(प्ब् 13.11.11) भरद्वाजस्य लोमत भवति
(प्ब् 13.11.12) पशवो वै लोम पशूनाम् अवरुध्यै
(प्ब् 13.11.13) तद् उ दीर्घम् इत्य् आहुर् आयुर् वै दीर्घम् आयुषो ऽवरुध्यै
(प्ब् 13.11.14) कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम्
(प्ब् 13.11.15) कर्णश्रवा वा एतद् आङिगरसः पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्ट्यै
(प्ब् 13.11.16) गौरीवितं भवति गौर्:इवितस्य ब्राह्मणम्
(प्ब् 13.11.17) मधुश्च्युन्निधनं भवति
(प्ब् 13.11.18) परमस्यान्नाद्यस्यावरुध्यै परमं वा एतद् अन्नाद्य यन् मधु
(प्ब् 13.11.19) प्रजापतेर् वा एतौ स्तनौ यद् घृतश्च्युन्निधनं च मधुश्च्युन्निधनं च यज्ञो वै प्रजापतिस् तम् एताभ्यां दुग्धे यं कामं कामयते तं दुग्धे
(प्ब् 13.11.20) क्रौञ्चे भवतः
(प्ब् 13.11.22) श्नौष्ठं भवति
(प्ब् 13.11.23) श्नुष्टिर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात् लोकान् न च्यवते तुष्टुवानः
(प्ब् 13.11.24) अग्नेर् वा एतद् वैश्वानरं साम दीदिहीति निधनम् उपयन्ति दीदा एव ह्य् अग्निर् वैश्वानरः
(प्ब् 13.11.25) निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः
(प्ब् 13.12.1) ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता3 इति
(प्ब् 13.12.2) उदयनत एव कार्याः पुरुषो वै द्विपदाः प्रतिष्ठायै
(प्ब् 13.12.3) वाचा वै सर्वं यज्ञं तन्वते तस्मात् सर्वां वाचं पुरुषो वदति सर्वा ह्य् अस्मिन् संस्तुता प्रतितिष्ठति
(प्ब् 13.12.4) गूर्दो भवति
(प्ब् 13.12.5) गोपायनानां वै सत्त्रम् आसीनानां किरातकुल्याव् असुरमाये अन्तःपरिध्य् असून् प्राकिरतां ते ऽऽअग्रे त्वन् नो अन्तमऽऽ इत्य् अग्निम् उपासीदंस् तेनासून् अस्पृण्वंस् तद् वाव ते तर्ह्य् अकामयन्त कामसनि साम गूर्दः कामम् एवैतेनावरुन्धे
(प्ब् 13.12.6) गोतमस्य भन्द्र भवति
(प्ब् 13.12.7) आशिषम् एवास्मा एतेनाशास्ते साम हि सत्याशीः
(प्ब् 13.12.8) एतेन वै गोतमो जेमानं महिमानम् अगच्छत् तस्माद् ये च पराञ्चो गोतमाद् ये चार्वाञ्चस् त उभये गोतमा ऋषयो ब्रुवते
(प्ब् 13.12.9) उद्वंशपुत्रा भवति
(प्ब् 13.12.10) यद् वा उद्वंशीयं तद् उद्वंशपुत्रः
(प्ब् 13.12.11) अर्धेडाम् अतिस्वरति
(प्ब् 13.12.12) तस्माद् ऊधर्धारा अति चरन्तीडायाम् अन्ततः पशुषु प्रतितिष्ठति
(प्ब् 13.12.13) कॢप्त उपरिष्टाद् ऋक् साम च विमुच्येते अभ्य् उ स्वरेण सप्तमम् अहः स्वरति सन्तत्यै
(प्ब् 13.12.14) ऊहुषीव वा एतर्हि वाग् यदा षडहः सन्तिष्ठते न बहु वदेन् नान्यं पृच्छेन् नान्यस्मै प्रब्रूयात्
(प्ब् 13.12.15) मधु वाशयेद् घृतं वा यथेहुषो बहं प्रत्यनक्ति तथा तत्
(प्ब् 13.12.16) त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
(प्ब् 14.1.1) आप्यन्ते वा एतत् स्तोमाश् छन्दांसि यत् षडह आप्यते
(प्ब् 14.1.2) आप्ते षडहे छन्दांसि स्तोमान् कृत्वा प्रयन्ति
(प्ब् 14.1.3) ऽऽप्र काव्यम् उशनेवर ब्रुवाणऽऽ इति गायत्र्या रूपेण प्रयन्ति
(प्ब् 14.1.4) इयं वै गायत्र्य् अस्याम् एव प्रतिष्ठाय प्रयन्ति
(प्ब् 14.1.5) त्रिष्टुप् प्रतिपद् भवति
(प्ब् 14.1.6) ओजो वीर्यं त्रिष्टुबोजस्येव वीर्ये पराक्रम्य प्रयन्ति
(प्ब् 14.1.7) स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै
(प्ब् 14.1.8) हरिवत्यो भवन्ति छन्दोमानाम् अयातयामतायै
(प्ब् 14.1.9) द्वादशर्चौ भवतः
(प्ब् 14.1.10) द्वादश मासाः संवत्सरः संवत्सरम् एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
(प्ब् 14.1.11) चतुर्विंशतिर् भवन्ति चतुर्विंशतिर् अर्धमासाः संवत्सरः संवत्सरम् एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
(प्ब् 14.1.12) दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर् ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन् पक्षिणः पतन्त्य् अवापक्षाः पद्यन्ते
(प्ब् 14.1.13) ये वै विद्वांसस् ते पक्षिणो ये ऽविद्वांसस् ते ऽपक्षास् त्रिवृत् पञ्चदशाव् एव स्तोमौ पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति
(प्ब् 14.1.14) चतुर्विंश एव स्तोमो भवति तेज से ब्रह्मवर्चसाय
(प्ब् 14.2.1) ऽऽमूर्धानं दिवो अरतिम् पृथिव्याऽऽ इत्य् आग्रेयम् आज्यं भवति
(प्ब् 14.2.2) मूर्धा वा एष दिवो यस् तृतीयस् त्रिरात्रः
(प्ब् 14.2.3) ऽऽवैश्वानरम् ऋत आजातम् अग्निम्ऽऽ इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद् धाम्ना परोक्षम् उपशिक्षति
(प्ब् 14.2.4) ऽऽप्र वो मित्राय गायत-ऽऽ इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम प्रियेणैवैनौ तद् धाम्ना परोक्षम् उपशिक्षति
(प्ब् 14.2.5) ऽऽइन्द्रायाहि चित्रभानव्ऽऽ इत्य् आर्भवम् ऐन्द्रम् ऋभवो वा इन्द्रस्य प्रियं धाम प्रियेणैवैनं तद् धाम्ना परोक्षम् उपशिक्षति
(प्ब् 14.2.6) ऽऽतम् ईडिष्व यो अर्चिषा-ऽऽ इत्य् अनिरुक्तम् ऐन्द्राग्नं देवतानाम् अनभिधर्षायोत्तमार्धे ऽनिराह देवतानाम् अप्रणाशाय स्तोमः
(प्ब् 14.3.1) ऽऽवृषा पवस्व धारय-ऽऽ इति गायत्री भवत्य् अह्नो धृत्यै
(प्ब् 14.3.2) वृषण्वत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः
(प्ब् 14.3.3) ऽऽपुनानः सोम धारय-ऽऽ इति धृत्यै
(प्ब् 14.3.4) ऽऽप्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम्ऽऽ इति प्रवत्यो भवन्ति प्रणिनीषेण्यम् इव ह्य् एतद् अहः
(प्ब् 14.3.5) जगत्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
(प्ब् 14.3.7) सन्तनि भवति सप्तमस्याह्नः सन्तत्यै
(प्ब् 14.3.8) यथा वै व्योकसौ विप्रद्रवत एवम् एते षष्ठं चाहः सप्तमं च विप्रद्रवतस् तौ यथा समानीय संयुज्याद् एवम् एवैते एतेन साम्ना संयुनक्ति
(प्ब् 14.3.10) यज्ञो वै देवेभ्यो ऽपाक्रामत् स सुपर्णरूपं कृत्वाचरत् तं देवा एतैः सामभिरारभन्त यज्ञ इव वा एष यच् छन्दोमा यज्ञस्यैवैष आरम्भः
(प्ब् 14.3.11) रोहितकूलीयं भवत्य् आजिजित्यायै
(प्ब् 14.3.12) एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिम् अजयत्
(प्ब् 14.3.13) विश्वामित्रो भरतानां मनस्सत्यायात् सो ऽदन्तिभिर् नाम जनतयांशं प्रास्यते मां मां यूयं अस्तिकां जयाथेमानि मह्यं यूयं पूरयाथ यदीमाव् इदं रोहिताव् अश्माचितं कूलम् उद्वहात इति स एते सामनी अपश्यत् ताभ्यां युक्त्वा प्रासेधत् स उद्जयत्
(प्ब् 14.3.14) आजिर् वा एष प्रततो यद् द्वादशाहस् तस्यैते उज्जित्यै
(प्ब् 14.3.15) कण्वरथन्तरं भवति तेजो वा एतद् रथन्तरस्य यत् कण्वरथन्तरम्
(प्ब् 14.3.16) सरसम् एव तद् रथन्तरं प्रयुङ्क्ते यत् कण्वरथन्तरेण सप्तमे ऽहनि स्तुवते
(प्ब् 14.3.17) जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर् बार्हतं षष्ठम् अहर् बार्हतं सप्तमं यत् कण्वरथन्तरं भवति तेनाजामि
(प्ब् 14.3.18) गौङ्गवं भवति
(प्ब् 14.3.19) अग्निर् अकामयतान्नादः स्याम् इति स तपो ऽतप्यत स एतद् गौङ्गवम् अपश्यत् तेनान्नादो ऽभवद् यद् अन्नं वित्वा गर्दद्यद् अगङ्गूयत् तद् गौङ्गवस्य गौङ्गवत्वम् अन्नाद्यस्यावरुध्यै गौङ्गवं कियते
(प्ब् 14.3.20) यत् साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषो ऽसामेति वै सत्त्रम् आसते सत्याशिष एव भवन्ति
(प्ब् 14.3.21) आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै
(प्ब् 14.3.22) अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानाम् अन्नम् आश्नात् स व्यभ्रंशत स एतान्य् आयास्यान्य् अपश्यत् तैर् आत्मानं समश्रीणाद् विभ्रष्टम् इव वै सप्तमम् अहर् यद् एतत् साम भवत्य् अहर् एव तेन संश्रीणाति
(प्ब् 14.3.23) प्रवद्भर्गवं भवति
(प्ब् 14.4.1) ऽऽवयं घत्वा सुतावन्तऽऽ इति बृहत्यो वर्षीयश्छन्द आक्रमते ऽनपभ्रंशाय
(प्ब् 14.4.2) ऽऽनकिष् टं कर्मणा नशद्ऽऽ इति बृहत्यः सत्यो ऽभ्यारम्भेण जगत्यः
(प्ब् 14.4.3) अपभ्रंश इव वा एष यज् ज्यायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एता अभ्यारम्भेण जगत्यो भवन्त्य् अह्न एव प्रत्युत्तम्भाय
(प्ब् 14.4.4) अभिनिधनं काण्वं भवित
(प्ब् 14.4.5) अभिनिधनेन वा इन्द्रो वृत्राय वज्रं प्राहरत् तम् अस्तृणुत स्तृणुते भ्रातृव्यम् अभिनिधनेन तुष्टुवानः
(प्ब् 14.4.7) वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस् तान् रहस्युर् देवमलिम्लुड् मुनिमरणे ऽमारयत् तं देवा अब्रुवन् क्व तर्षयो (?) ऽभूवान्न् इति तान् प्रैषम् ऐच्छत् तान् नाविन्दत् स इमान् लोकान् एकधारेणापुनात् तान् मुनिमरणे ऽविन्दत् तान् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वैखानसं कामम् एवैतेनावरुन्धे स्तोमः
(प्ब् 14.5.1) ऽऽयस् ते मदो वरेण्यऽऽ इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 14.5.2) ऽऽएषस्य धारया सुतऽऽ इति ककुभः सत्यो ऽभ्यारम्भेण त्रिष्टुभः
(प्ब् 14.5.3) अपभ्रंश इव वा एष यत् ज्यायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एता अभ्यारम्भेण त्रिष्टुभो भवन्त्य् अह्न एव प्रत्युत्तम्भाय
(प्ब् 14.5.4) ऽऽसखाय आनिषीदत-ऽऽ इति वालखिल्या वालखिल्याव् एतौ तृचौ षष्ठे चाहनि सप्तमे च यद् एतौ वाखिल्यौ तृचौ भवतो ऽह्नोर् एव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै
(प्ब् 14.5.5) ऽऽपुरोजिती वो अन्धसऽऽ इति विराड् अन्नं विराड् अन्नाद्यस्यावरुध्यै
(प्ब् 14.5.6) ऽऽप्र वाज्य् अक्षार्ऽऽ इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिः
(प्ब् 14.5.7) अथो एतद् (?) ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते
(प्ब् 14.5.8) ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात्
(प्ब् 14.5.9) ऽऽये सोमासः परावति-ऽऽ इति परावतम् इव वा एतर्हि यज्ञो गतस् तम् एवैतेनान्विच्छन्ति
(प्ब् 14.5.12) दक्षणिधनं भवति
(प्ब् 14.5.13) प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अबला इवाच्छदयंस् तास्व् एतेन साम्ना दक्षायेत्य् ओजो वीर्यम् अदधाद् यद् एतत् साम भवत्य् ओज एव वीर्यम् आत्मन् धत्ते
(प्ब् 14.5.14) शार्करं भवति
(प्ब् 14.5.15) इन्द्रं सर्वाणि भूतान्य् अस्तुवन् स शर्करं शिशुमारर्षिम् उपेत्याब्रवीत् स्तुहि मेति सो ऽपः प्रस्कन्दन्न् अब्रवीद् एतावतो ऽहं त्वां स्तुयाम् इति तस्माद् अपां वेगम् अवेजयत् स हीन इवामन्यत स एतत् सामापश्यत् तेनापो ऽनुसमाश्नुत तद् वाव स तर्ह्य् अकामयत कामसनि साम शार्करं कामम् एवैतेनावरुन्धे
(प्ब् 14.5.13) प्लवो भवति
(प्ब् 14.5.17) समुद्रं वा एते प्रस्नान्तीत्य् आहुर् ये द्वादशाहम् उपयन्तीति यो वा अप्लवः समुद्रं प्ररुनाति न स तत उदेति यत प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 14.5.18) अतिविश्वानि दुरिता तरेमेति यद् एवैषां दुष्टुतं दुश्शस्तं तद् एतेन तरन्ति
(प्ब् 14.5.19) एकादशाक्षरणिधनो भवत्य् एकादशाक्षरा त्रिष्टुब् ओजीवीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति
(प्ब् 14.5.20) गौरीवितं भवति यद् एव गौरीवितस्य ब्रह्मणम्
(प्ब् 14.5.21) कार्तयशं भवति
(प्ब् 14.5.22) हीति निधनम् उपयन्ति पाप्मनो ऽपहत्यै
(प्ब् 14.5.23) अप पाप्मानं हते कार्तयशेन तुष्टुवानः
(प्ब् 14.5.24) साहैविषं भवति
(प्ब् 14.5.25) सुहविर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 14.5.26) ब्रह्मावादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषश् छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानाम् अयातयामतायै
(प्ब् 14.5.27) जराबोधीयं भवत्य् अन्नाद्यस्यावरुध्यै
(प्ब् 14.5.28) अन्नं वै जराबोधीयं मुखं गायत्री मुख एव तद् अन्नं धत्ते ऽन्नम् अत्ति
(प्ब् 14.5.29) अन्नादो भवति य एवं वेद
(प्ब् 14.5.30) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 14.5.31) इडान्ताः पावमाना भवन्ति पशवो वा इडाः पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः
(प्ब् 14.6.1) ऽऽआ ते वत्सो मनो यमद्ऽऽ इत्य् अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वायैव
(प्ब् 14.6.2) ऽऽत्वं न इन्द्राभर-ऽऽ इति पूर्णाः ककुभः
(प्ब् 14.6.3) अपभ्रंश इव वा एष यज् जयायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एताः पूर्णाः ककुभो भवन्त्य् अनपभ्रंशाय
(प्ब् 14.6.6) वत्सश् च वै मेधातिथिश् च काण्वाव् आस्तां तं वत्सं मेधातिथिर् आक्रोशद् अब्राह्मणो ऽसि शूद्रापुत्र इति सो ऽब्रवीद् ऋतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयान् इति वात्सेन वत्सो व्यैन् मैधातिथेन मेधातिथिस् तस्य न लोम च नौषत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वात्सं कामम् एवैतेनावरुन्धे
(प्ब् 14.6.7) सौश्रवसं भवति
(प्ब् 14.6.8) उपगुर् वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् स कुत्सः पर्यशपद् य इन्द्रं यजाता इति स इन्द्रः सुश्रवसम् उपेत्याब्रवीद् यजस्व माशनायामिवा इति तम् अयजत स इन्द्रः पुरोडाशस् तः कुत्सम् उपेत्याब्रवीद् अयक्षत मा क्व ते परिशप्तम् अभूद् इति कस् त्वा यष्टेति सुश्रवा इति स कुत्स औरव उपागाः सौश्रवसस्योद्गायत औदुम्बर्या शिरो ऽच्छिनत् स शुश्रवा इन्द्रम् अब्रवीत् त्वत्तनाद् वै मेदम् ईदृग् उपागाद् इति तम् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम सौश्रवसं कामम् एवैतेनावरुन्धे
(प्ब् 14.6.9) वीङ्कं भवति
(प्ब् 14.6.10) च्यवनो वै दाधीचो ऽश्विनोः प्रिय आसीत् सो ऽजीर्यत् तम् एतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानम् अकुरुतां तद् वाव तौ तर्ह्य् अकामयेतां कामसनि साम वीङ्कं कामम् एवैतेनावरुन्धे
(प्ब् 14.6.11) चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
(प्ब् 14.7.1) ऽऽशिशुं जज्ञानं हर्यतं मृजन्तिऽऽ इत्य् अष्टम् अस्य् आह्नः प्रतिद् भवति
(प्ब् 14.7.2) शिशुर् इव वा एष सप्तमेनाह्ना जायते तम् अष्टमेनाह्ना मृजन्ति
(प्ब् 14.7.3) स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै
(प्ब् 14.7.4) हरिवत्यो भवन्ति छन्दोमानाम् अयातयामतायै
(प्ब् 14.7.5) नवर्चा भवन्ति
(प्ब् 14.7.7) पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 14.7.8) बाणवान् भवत्य् अन्तो वै बाणो ऽन्त एतद् अष्टमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै
(प्ब् 14.7.9) त्रयस् तृचा भवन्ति प्राणापानानां सन्तत्यै
(प्ब् 14.8.1) ऽऽअग्निं वो देवम् अग्निभिः सजोषाऽऽ इत्य् आग्नेयम् आज्यं भवति
(प्ब् 14.8.2) अग्निभिर् इत्य् एव पूर्वाण्य् अहानि अभि समिद्धान्य् अष्टमम् अहर् अभिसमिन्धे
(प्ब् 14.8.3) ऽऽमित्रं वयं हवामहऽऽ इति बार्हतं मैत्रावरुणम्
(प्ब् 14.8.4) उग्रगाधम् इव वा एतच् छन्दोमास् तद् यथात उग्रगाधे व्यातिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय
(प्ब् 14.8.5) ऽऽतम् इन्द्रं वाजयामसि-ऽऽ इत्य् ऐन्द्रम्
(प्ब् 14.8.6) अष्टमेन वै देवा अह्नेन्द्रम् अवाजयन् नवमेन पाप्मानम् अघ्नन्न् अहर् एवैतेन वाजयन्ति
(प्ब् 14.8.7) ऽऽइन्द्रे अग्ना नमो बृहद्ऽऽ इति बार्हतम् ऐन्द्राग्नम्
(प्ब् 14.8.8) उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रपे व्यतिषजति छन्दोमानाम् असंव्याथाय स्तोमः
(प्ब् 14.9.1) ऽऽअध्वर्यो अद्रिभिः सुतम्ऽऽ इति गायत्री भवत्य् अह्नो धृत्यै
(प्ब् 14.9.2) गायत्र्यः सत्यस् त्रिष्टुभोरूपेण त्रैष्टुभं ह्य् एतद् अहः
(प्ब् 14.9.3) ऽऽअभि सोमास आयवऽऽ इत्य् अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोः सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः
(प्ब् 14.9.4) ऽऽधर्ता दिवः पवते कृत्व्यो रसऽऽ इत्य् अधृत इव वा एषस् त्र्यहो यद् धर्तेति धृत्या एव
(प्ब् 14.9.5) जगत्यस् सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते
(प्ब् 14.9.6) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 14.9.7) वैरूपं भवति
(प्ब् 14.9.8) पशवो वै वैरूपं पशूनाम् अवरुध्यै विरूपः संवत्सरो विरूपम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 14.9.9) आशु भार्गवं भवति
(प्ब् 14.9.10) अहर् वा एतद् अव्लीयत तद् देवा आशुनाभ्यधिन्वंस् तद् आशोर् आशुत्वम्
(प्ब् 14.9.11) मार्गीयवं भवति
(प्ब् 14.9.12) देवं वा एतं मृगयुर् इति वदन्त्य् एतेन वै स उभयेषां पशूनाम् आधिपत्यम् आश्नुतोभयेषां पशूनाम् आधिपत्यम् अश्नुते मार्गीयवेण तुष्टुवानः
(प्ब् 14.9.13) सौमित्रं भवति
(प्ब् 14.9.14) यद् एव सौमित्रस्य ब्राह्मणम्
(प्ब् 14.9.15) ऐटतं भवति
(प्ब् 14.9.16) इटन् वा एतेन काव्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 14.9.17) साकमश्वं भवति यद् एव साकमश्वस्य ब्राह्मणम्
(प्ब् 14.9.18) तद् उ धुरां सामेत्य् आहुः प्राणा वै धुरः प्राणानाम् अवरुध्यै
(प्ब् 14.9.19) विलम्बसौपर्णं भवति
(प्ब् 14.9.20) आत्मा वा एष सौपर्णानां यद् अष्टमे ऽहनि पक्षाव् एताव् अभितो भवतो ये सप्तमनवमयोर् वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद् विलम्बसौपर्णम्
(प्ब् 14.9.22) स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते
(प्ब् 14.9.23) द्वितीयं ह्य् एतद् रूपं यच् छन्दोमाः
(प्ब् 14.9.24) पशवो वै वामदेव्यं पशवश् छन्दोमाः पशुष्व् एव तत् पशून् संदधाति
(प्ब् 14.9.25) गायत्रपार्श्वं भवति
(प्ब् 14.9.26) अहर् वा एतद् अव्लीयत तद् देवा गायत्रपार्श्वेन समतन्वंस् तस्माद् गायत्रपार्श्वम्
(प्ब् 14.9.27) त्रिरात्रो यद् व्यशीर्यत तम् एतैः सामभिर् अभिषज्यन् गायत्रपार्श्वेनोपायच्छन् सन्तनिना समतन्वन् संकृतिना समस्कुर्वन् प्रतिष्ठितौ पूर्वौ त्रिरात्राव् अप्रतिष्ठित एष यद् एतान्य् एव सामानि क्रियन्त एतस्यैव प्रतिष्ठित्यै
(प्ब् 14.9.28) पौरुहन्मनं भवति
(प्ब् 14.9.29) पुरुहन्मा वा एतेन वैखानसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 14.9.30) अभ्याघात्यं भवत्य् अभ्याघात्यसामानो हि छन्दोमाः
(प्ब् 14.9.31) द्वैगतं भवति
(प्ब् 14.9.32) द्विगद् वा एतेन भार्गवो द्विः स्वर्गं लोकम् अगच्छद् आगत्य पुनर् अगच्छत् द्वयोः कामयोर् अवरुध्यै द्वैगतं क्रियते
(प्ब् 14.9.33) हारायणं भवति
(प्ब् 14.9.34) इन्द्रस् तेजस्कामो हरस्कामस् तपो ऽतप्यत, स एतद् धारायणम् अपश्यत् तेन तेजो हरो ऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः
(प्ब् 14.9.35) अछिद्रं भवति
(प्ब् 14.9.66) यद् वा एतस्याह्नश् छिद्रम् आसीत् तद् देवा अच्छिद्रेणाप्य् औहंस् तद् अच्छिद्रस्याच्छिद्रत्वम्
(प्ब् 14.9.37) बार्हदुक्थं भवति
(प्ब् 14.9.38) बृहदुक्थो वा एतेन वाम्नेयो ऽन्नस्य पुरोधाम् अगच्छद् अन्नं वै ब्रह्मणः पुरोधाम् अन्नाद्यस्यावरुध्यै
(प्ब् 14.9.39) उद्वद् भार्गवं भवति
(प्ब् 14.9.40) प्रवता वै देवाः स्वर्गं लोकं प्रायन्न् उद्वतोदायन्
(प्ब् 14.9.41) निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः
(प्ब् 14.10.1) ऽऽक ईं वेद सुते सचा-ऽऽ इति सतोबृहत्यः
(प्ब् 14.10.2) अपभ्रंश इव वा एष यस् सप्तमे ऽहनि सतोबृहत्यो भवन्ति नाष्टमे तस्माद् अष्टमे कार्या अनपभ्रंशाय
(प्ब् 14.10.3) तदाहुः शिथिलम् इव वा एतच् छन्दो यत् सतोबृहातीत्य् एषा वै प्रतिष्ठिता बृहती या पुनःपदा यद् इन्द्र प्राग् अपाग् उदग् इति दिशां विमर्शः प्रतिष्टित्यै
(प्ब् 14.10.4) तासु नैपातिथं ब्रह्मसाम
(प्ब् 14.10.5) सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 14.10.6) ऽऽउभयं शृणवच् च नऽऽ इति
(प्ब् 14.10.7) यच् च पृष्ठानि यानि चैतान्य् अहानि तेषाम् उभयेषां सन्तत्यै
(प्ब् 14.10.8) तासु वैयश्वम्
(प्ब् 14.10.9) व्यश्वो वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत् पृष्ठानाम् अन्ततः क्रियते स्तोमः
(प्ब् 14.11.1) ऽऽपवस्व देव आयुषग् इन्द्रं गच्छतु ते मदऽऽ इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 14.11.3) ऽऽप्राणा शिशुर् महीनाम्ऽऽ इति प्राणवत्यो भवन्ति प्राणान् एव तद् यजमाने दधाति
(प्ब् 14.11.4) ऽऽअभी नो वाजसातमम्ऽऽ इत्य् अभीति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः
(प्ब् 14.11.5) ऽऽपवस्व सोम महान् समुद्रऽऽ इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिर् अथो एतद् ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात्
(प्ब् 14.11.6) ऽऽहिन्वन्ति सूरम् उस्रयऽऽ इति गायत्र्यः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते
(प्ब् 14.11.7) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 14.11.8) स्वाशिराम् अर्को भवति
(प्ब् 14.11.9) अन्नं वा अर्को ऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानाम् अरुध्यै
(प्ब् 14.11.90) सुरूपं भवति
(प्ब् 14.11.12) पशवो वै सुरूपं पशूनाम् अवरुध्यै
(प्ब् 14.11.12) भासं भवति भाति तुष्टुवानः
(प्ब् 14.11.13) पदनिधनं राथन्तरं ह्य् एतद् अहः
(प्ब् 14.11.14) स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत् स न व्यरोचत तस्यात्रिर् भासेन तमो ऽपाहन् स व्यरोचत यद् वै तद् भा अभवत् तद् भासस्य भासत्वम्
(प्ब् 14.11.15) तम इव वा एतान्य् अहानि यच् छन्दोमास् तेभ्य एतेन साम्ना विवासयति
(प्ब् 14.11.16) काक्षीवतं भवति
(प्ब् 14.11.17) काक्षीवान् वा एतेनौशिजः प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवति काक्षीवतेन तुष्टुवानः
(प्ब् 14.11.18) आसितं भवति
(प्ब् 14.11.19) असितो वा एतेन दैवलस् त्रयाणां लोकानां दृष्टिम् अपश्यत् त्रयाणां कामानाम् अवरुध्या आसितं क्रियते
(प्ब् 14.11.20) ऐषिरं भवति
(प्ब् 14.11.22) त्रैतं भवति प्रतिष्ठायै
(प्ब् 14.11.23) पदनिधनं राथन्तरं राथन्तरं ह्य् एतद् अहः
(प्ब् 14.11.24) नाथविन्दु साम विन्दते नाथं नाथविन्दून्य् एतान्य् अहानि यत् छन्दोमा नाथम् एवैतैर् विन्दते
(प्ब् 14.11.25) गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम्
(प्ब् 14.11.26) कौत्सं भवति
(प्ब् 14.11.27) एतेन वै कुत्सो ऽन्धसो विपानम् अपश्यत् स ह स्म वै सुरादृतिनोपवसथं धारयत्य् उभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते
(प्ब् 14.11.28) शुद्धाशुद्धीयं भवति
(प्ब् 14.11.29) इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् सो ऽशुद्धो ऽमन्यत स एतच् छुद्धाशुद्धीयम् अपश्यत् तेनाशुध्यच् छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः
(प्ब् 14.11.30) क्रौञ्चं भवति यद् एव क्रौञ्चस्य ब्राह्मणं यत् द्वितीये ऽहनि
(प्ब् 14.11.31) रयिष्ठं भवति
(प्ब् 14.11.32) पशवो वै रयिष्ठं पशूनाम् अवरुध्यै
(प्ब् 14.11.33) औदलं भवति
(प्ब् 14.11.34) उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवत्य् औदलेन तुष्टुवानः
(प्ब् 14.11.36) ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषछन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदाश् छन्दोमानाम् अयातयामतयौ
(प्ब् 14.11.37) विशोविशीयं भवति
(प्ब् 14.11.38) अग्निर् अकामयत विशो विशो ऽतिथिस् स्यां विशो विश आतिथ्यम् अश्नुवीयेति स तपो ऽतप्यत स एतद् विशोविशीयम् अपश्यत् तेन विशो विशो ऽतिथिर् अभवत् विशो विश आतिथ्यम् अश्नुत विशो विशो ऽतिथिर् भवति विशो विश आतिथ्यम् अश्नुते विशोविशीयेन तुष्टुवानः
(प्ब् 14.11.39) गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 14.11.40) इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः
(प्ब् 14.12.1) ऽऽप्रेष्ठं वो अतिथिम्ऽऽ इत्य् आतिथ्यस्यैव तद् रूपं क्रियते
(प्ब् 14.12.2) ऽऽऐन्द्र नो गधि प्रिय-ऽऽ इतीन्द्रियस्य वीर्यस्यावरुध्यै
(प्ब् 14.12.3) ऽऽपुरां भिन्दुर् युवा कविर् अमितौजा अजायत। इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतऽऽ इति धृत्या एव
(प्ब् 14.12.4) औशनं भवति
(प्ब् 14.12.5) उशना वै काव्यो ऽकामयत यावान् इतरेषां काव्यानां लोकस् तावन्तं स्पृणुयाम् इति स तपो ऽतप्यत स एतद् औशनम् अपश्यत् तेन तावन्तं लोकम् अस्पृणोद् यावान् इतरेषां काव्यानाम् आसीत् तद् वाव स तर्ह्य् अकामयत कामसनि सामौशनं कामम् एवैतेनावरुन्धे
(प्ब् 14.12.6) सांवर्तं भवति
(प्ब् 14.12.7) देवानां वै यज्ञं रक्षांस्य् अजिघांसंस् तान्य् एतेन इन्द्रः संवर्तम् अपावपद् यत् संवर्तम् अपावपत् तस्मात् सांवर्तं पाप्मा वाव स तान् असचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः
(प्ब् 14.12.8) मारुतं भवति
(प्ब् 14.12.9) मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रम् आसते भूयिष्ठा एव भवन्त्य् ऋतुमन्ति पूर्वाण्य् अहान्य् अनृतवः छन्दोमा यद् एतत् साम भवति तेनैतान्य् अहान्य् अहान्य् ऋतुमन्ति भवन्ति
(प्ब् 14.12.10) चतुश्चत्वारिंश एव स्तोमो भवत्य् ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्ये त्रिष्टुप्
(प्ब् 15.1.1) ऽऽअक्रान् समुद्रः परमे विधर्मन्न्ऽऽ इति नवमस्याह्नः प्रतिपद् भवति
(प्ब् 15.1.2) परमं वा एतद् अहर् विधर्म विधर्म वा एतद् अन्यैर् अहर्भिर् अहर् यन् नवमं ज्येष्ठं हि वरिष्ठम्
(प्ब् 15.1.3) ऽऽमत्सि वायुम् इष्टये राधसे नऽऽ इति वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णति तद् एव तद् अवयजति
(प्ब् 15.1.4) स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै
(प्ब् 15.1.5) दशर्चो भवति दशाक्षरा विराट वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 15.1.6) सप्रभृतयो भवान्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन्
(प्ब् 15.1.7) अष्टर्चो भवति
(प्ब् 15.1.8) (अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति) अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे
(प्ब् 15.1.9) षडृचा भवन्त्य् ऋतूनां धृत्यै
(प्ब् 15.1.10) चत्वारः षडृचा भवन्ति चतुर्विंशतिर् अर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
(प्ब् 15.1.11) सवान् उत्तमः षडृचो भवत्य् उभयस्य परोक्षप्रत्यक्षस्यावरुध्यै
(प्ब् 15.1.12) तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 15.1.13) अष्टाचत्वारिंश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
(प्ब् 15.2.1) ऽऽअगन्म महा नमसा यविष्ठम्ऽऽ इत्य् आग्नेयम् आज्यं भवति
(प्ब् 15.2.2) गच्छन्तीव वा एते ये नवमम् अहर् गच्छन्ति
(प्ब् 15.2.3) ऽऽयो दीदाय समिद्धस्वे दुरोणऽऽ इति दीदायेव ह्य् एष यो नवभिर् अहर्भिस् तुष्टुवानः ऽऽस्वाहुतम्ऽऽ इति स्वाहुतो ह्य् एष यो नवभिर् अहर्भिर् आहुतो ऽऽविश्वतः प्रत्यञ्चम्ऽऽ इति विश्वतो ह्य् एष प्रत्यङ्
(प्ब् 15.2.4) ऽऽत्वं वरुण उत मित्रो अग्नऽऽ इति वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णति तद् एव तद् अवयजति
(प्ब् 15.2.5) ऽऽमित्रं हुवे पूतदक्षम्ऽऽ इति राथन्तरं मैत्रावरुणम्
(प्ब् 15.2.6) उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय
(प्ब् 15.2.7) ऽऽमहां इन्द्रो य ओजसा-ऽऽ इत्य् ऐन्द्रम् अष्टमेन वै देवा अह्नेन्द्रम् अवाजयन्न् अवमेन पाप्मानम् अघ्नन्न् अहर् एवैतेन महयन्ति
(प्ब् 15.2.8) ऽऽता हुवे ययोर् इदम्ऽऽ इति राथन्तरम् ऐन्द्राग्नम्
(प्ब् 15.2.9) उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय स्तोमः
(प्ब् 15.3.1) ऽऽपवमानस्य जिघ्नतो हरेश् चन्द्रा असृक्षतऽऽ इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानाम् अयातयामतायै
(प्ब् 15.3.2) ऽऽपवमानस्य जिघ्नतऽऽ इति वै बृहतो रूपं ऽऽहरेश् चन्द्रा असृक्षत-ऽऽ इति जगत्या उभयोः सहरूपम् उपैति साम्नश् च छन्दसश् च
(प्ब् 15.3.3) ऽऽपरीतो षिञ्चता सुतम्ऽऽ इति परिवत्यो भवन्त्य् अन्तो वै नवमम् अहस् तस्यैताः पर्याप्त्यै
(प्ब् 15.3.4) ऽऽअसावि सोमो अरुषो वृषा हरिर्ऽऽ इति जगत्यस् सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
(प्ब् 15.3.5) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 15.3.6) भरद्वाजस्यादारसृद् भवति
(प्ब् 15.3.7) दिवोदासं वै भरद्वाजपुरोहितं ननाजनाः पर्ययन्त स उपासीदद् ऋषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुम् अविन्दद् गातुविद् वा एतत्सामानेन दारे नासृन्मेति तद् अदारसृतो ऽदारसृत्त्वं विन्दते गातुं न दारे धावत्य् अदारसृता तुष्टुवानः
(प्ब् 15.3.8) सुरूपं भवति यद् एव सुरूपस्य ब्राह्मणम्
(प्ब् 15.3.9) हरिश्रीनिधनं भवति
(प्ब् 15.3.10) पशवो वै हरिश्रियः पशूनाम् अवरुध्यै श्रियं च हरश् चोपैति तुष्टुवानः
(प्ब् 15.3.11) सैन्धुक्षितं भवति यद् एव सैन्धुक्षितस्य ब्राह्मणम्
(प्ब् 15.3.12) गतनिधनं वाभ्रवं भवति गत्यै
(प्ब् 15.3.13) वभ्रुर् वा एतेन कौम्भ्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 15.3.14) इडानां संक्षारो भवति
(प्ब् 15.3.15) पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति
(प्ब् 15.3.16) ऋषभः पावमानो भवति
(प्ब् 15.3.17) पशवो वै छन्दोमाः पशुष्व् एव तन् मिथुनम् अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
(प्ब् 15.3.18) पृष्ठं भवति
(प्ब् 15.3.19) पृष्ठं वा एतद् अह्नां यन् नवमं पृष्ठ एव तत् पृष्ठेन स्तुवते प्रतिष्ठायै
(प्ब् 15.3.20) कौल्मलबर्हिषं भवति
(प्ब् 15.3.21) कुल्मलबर्हिर् वा एतेन स्वर्गं लोकम् अपश्यत् प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवति कौल्मलबर्हिषेण तुष्टुवानः
(प्ब् 15.3.22) अर्कपुष्पं भवति
(प्ब् 15.3.23) अन्नं वै देवा अर्क इति वदन्ति रसम् अस्य पुष्पाम् इति सरसम् एवान्नाद्यम् अवरुन्धे ऽर्कपुष्पेण तुष्टुवानः
(प्ब् 15.3.24) दैर्घ्यश्रवसं भवति
(प्ब् 15.3.25) दीर्घश्रवा वै राजन्य ऋषिर् ज्योग् अपरुद्धो ऽशनायंश् चरन् स एतद् दैर्घश्रवसम् अपश्यत् तेन सर्वाभ्यो दिग्भ्यो ऽन्नाद्यम् अवारुन्ध सर्वाभ्यो अदिग्भ्यो ऽन्नाद्यम् अवारुन्धे दैर्घश्रवसेन तुष्टुवानः
(प्ब् 15.3.26) वैयश्वं भवति यद् एव वैयश्वस्य ब्राह्मणम्
(प्ब् 15.3.27) अभीशवं यद् आभीशवस्य
(प्ब् 15.3.28) देवस्थानं भवति प्रतिष्ठायै संस्कृति भवति संंस्कृत्यै
(प्ब् 15.3.29) अहर् वा एतद् अव्लीयत तद् देवा देवस्थाने तिष्ठन्तः संकृतिना समस्कुर्वंस् तत् संकृतेः संकृतित्वं देवस्थानेन वै देवाः स्वर्गे लोके प्रत्यतिष्ठन् स्वर्गे लोके प्रतितिष्टाम् एत्य् एतत्
(प्ब् 15.3.30) वरुणाय देवता राज्याय नातिष्ठन्त स एतद् देवस्थानम् अपश्यत् ततो वै तास् तस्मै राज्यायातिष्ठन्त तिष्ठन्ते ऽस्मै समानाः श्रेष्ठ्याय
(प्ब् 15.3.31) क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद
(प्ब् 15.3.32) भर्गो भर्गेण तुष्टुवानो भवति यशो यशसा
(प्ब् 15.3.33) वासिष्ठं भवति यद् एव वासिष्ठस्य ब्राह्मणम्
(प्ब् 15.3.34) दीर्घतमसो ऽर्को भवत्य् अन्नं वा अर्को ऽन्नाद्यस्यावरुध्यै
(प्ब् 15.3.35) सामराजं भवति साम्राज्यम् आधिपत्यं गच्छति सामराज्ञा तुष्टुवानः
(प्ब् 15.3.36) तद् उ संवद् इत्य् आहुः संवता वै देवाः स्वर्गं लोकं प्रायन्न् उद्वतोदायन्
(प्ब् 15.3.37) निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः
(प्ब् 15.4.1) ऽऽश्रायन्त इव सूर्यम्ऽऽ इति सूर्यवत्यो भवन्ति
(प्ब् 15.4.2) आदित्यदेवत्यं ह्य् एतद् अहर् अन्तो वै सूरो ऽन्त एतन् नवमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै
(प्ब् 15.4.3) ऽऽयत इन्द्र भयावहे ततो नो अभयं कृधि। मघवञ् छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि-ऽऽ इति द्विषश् चैव मृधश् च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति
(प्ब् 15.4.5) श्रीर् वै श्रायन्तीयं श्रीर् नवमम् अहः श्रियम् एव तच् छ्रियां प्रतिष्ठापयति
(प्ब् 15.4.6) समन्तं भवति
(प्ब् 15.4.7) समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत
(प्ब् 15.4.8) आग्नेयी पृथिव्य् आग्नेयो ब्राह्मण ऐन्द्री द्यौर् ऐन्द्रो राजन्यो ऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून् प्र पुरोधाम् आप्नोति य एवं विद्वान् समन्तेन स्तुवते स्तोमः
(प्ब् 15.5.1) ऽऽत्वं सोमासि धारयुर्ऽऽ इति गायत्री भवत्य् अह्नो धृत्यै त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 15.5.2) ऽऽत्वं ह्य् अङ्ग दैव्याऽऽ इति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 15.5.3) ऽऽपवस्व देव वीतयऽऽ इति बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 15.5.4) ऽऽपरित्यं हर्यतं हरिम्ऽऽ इति परिवत्यो भवन्त्य् अन्तो वै नवमम् अहस्यैताः पर्याप्त्यै
(प्ब् 15.5.5) ऽऽपवस्व सोम महे दक्षाय-ऽऽ इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिर् अथो एतद् ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात्
(प्ब् 15.5.6) ऽऽउपोषु जातम् अप्तुरम्ऽऽ इति गायत्र्यस् सत्यो जगत्यो रूपेण तस्मात् जगतीनां लोके क्रियन्ते
(प्ब् 15.5.7) गायत्रं भवति यद् एव गायत्रस्य ब्रह्मणम्
(प्ब् 15.5.8) आश्वसूक्तं भवति
(प्ब् 15.5.9) अग्निं वै पूर्वैर् अहर्भिर् आजुहोत्य् अथैतद् आदित्यदैवत्यम् अहः शुक्र आहुत इत्य् असौ वा आदित्यः शुक्रस् तम् एवैतेनाजुहोति
(प्ब् 15.5.10) शाम्मदं भवति
(प्ब् 15.5.11) शम्मद् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 15.5.13) आशिषम् एवास्मा एतेनाशास्ते साम हि सत्याशीः
(प्ब् 15.5.14) दावसुर् वा एतद् आङ्गिरसः पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत् यद् एतत् साम भवति पशूनां पुष्ट्यै
(प्ब् 15.5.15) प्रतीचीनेडं काशीतं भवति
(प्ब् 15.5.16) पराचीभिर् वा अन्याभिर् इडाभी रेतो दधद् अथैतत् प्रतीचीनेडं काशीतं प्रजात्यै तस्मात् पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्माद् उते ऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्य् एव ते धृताः
(प्ब् 15.5.17) हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः
(प्ब् 15.5.18) सौपर्णं भवति यद् एव सौपर्णस्य ब्रह्मणम्
(प्ब् 15.5.19) वैश्वमनसं भवति
(प्ब् 15.5.20) विश्वमनसं वा ऋषिम् अध्यायम् उद्व्रजितं रक्षो ऽगृह्णात् तम् इन्द्रो ऽचायद् ऋषिं वै रक्षो ऽग्रहीद् इति तम् अभ्यवदद् ऋषे कस् त्वैष इति, स्थाणुर् इति ब्रूहीति रक्षो ऽब्रवीत्, स स्थाणुर् इत्य् अब्रवीत् तस्मै वा एतेन प्रहरेत्य् अस्मा इषीकां वज्रं प्रयच्छन्न् अब्रवीत् तेनास्य सीमानम् अभिनत् सैषेन्द्रेणतेषीका पाप्मा वाव स तम् अगृह्णात् तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वमनसेन तुष्टुवानः
(प्ब् 15.5.21) गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम्
(प्ब् 15.5.22) निहवो भवत्य् अन्नाद्यस्यावरुध्यै
(प्ब् 15.5.23) हीति वा अन्नं प्रदीयत ईत्य् आग्रिर् अन्नम् अत्ति
(प्ब् 15.5.24) ऋषयो वा इन्द्रं प्रत्यक्ष नापश्यन् स वसिष्ठो ऽकामयत कथम् इन्द्रं प्रत्यक्षं पश्येयम् इति स एतन् निहवम् अपश्यत् ततो वै स इन्द्रं प्रत्यक्षम् अपश्यत्, स एनम् अब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्ते ऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागान् अब्रवीत् ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत् साम यद् एतत् साम भवति सेन्द्रत्वाय
(प्ब् 15.5.25) यद् वाहिष्ठीयं भवति
(प्ब् 15.5.26) ब्रह्मयशसं वा एतानि सामान्य् ऋचा श्रोत्रीयाणि ब्रह्मायशसी भवति यद् वाहिष्ठीयेन तुष्टुवानः
(प्ब् 15.5.27) आसितं भवति यद् एवासितस्य ब्राह्मणम्
(प्ब् 15.5.28) साध्रं भवति सिद्ध्यै
(प्ब् 15.5.29) आकूपारं भवति
(प्ब् 15.5.30) अकूपारो वा एतेन कश्यपो जेमानं महिमानम् अगच्छज् जेमानं महिमानं गच्छत्य् आकूपारेण तुष्टुवानः
(प्ब् 15.5.31) विधर्म भवति धर्मस्य विधृत्यै
(प्ब् 15.5.32) ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानाम् अयातयामतायै
(प्ब् 15.5.33) श्रुध्यं भवति
(प्ब् 15.5.34) पशवो वै श्रुध्यं पशूनाम् अवरुध्यै
(प्ब् 15.5.35) प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् एतेन साम्ना श्रूधिया एहियेत्य् अन्वह्वयत् त एनम् उपावर्तन्त यद् एतत् साम भवति पशूनाम् उपावृत्यै
(प्ब् 15.5.36) उपैनं पशव आवर्तन्ते य एवं वेद
(प्ब् 15.5.37) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्तीडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः
(प्ब् 15.6.1) आग्रेयीषु पूर्वेषाम् अह्नाम् उक्थानि प्रणयन्त्य् अथैतस्याह्न आग्नेय्य् ऐन्द्रयां प्रणयन्त्य् उभयोर् एव रूपयोः प्रतितिष्ठति
(प्ब् 15.6.2) ऐध्मवाहं भवति
(प्ब् 15.6.3) आग्नेय्य् ऐन्द्रीषु स्तुवन्ति ब्रह्म चैव तत् क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान् निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति
(प्ब् 15.6.4) त्रैककुभं भवति
(प्ब् 15.6.5) ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्यं त्रैककुभम्
(प्ब् 15.6.6) उद्वंशीयं भवति यद् एवोद्वंशीयस्य ब्राह्मणम्
(प्ब् 15.6.7) अष्टाचत्वारिंशं एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
(प्ब् 15.7.1) गायत्रं वै सप्तमम् अहस् त्रैष्टुभम् अष्टमं जागतं नवमम् अथैतद् आनुष्टुभम् अहर् यद् दशमम्
(प्ब् 15.7.2) तद् आहुर् यद् आनुष्टुभं स्तोम्यां प्रत्यक्षम् उपेयुः परां परावतं यजमानो गच्छेन् न प्रतितिष्ठेद् इति या वै चतुर्विंशतिर् गायत्र्यस् ता अष्टादशानुष्टुभो ऽनुष्टुभम् एव तत् स्तोम्यां परोक्षम् उपयन्ति प्रतिष्ठायै प्रतितिष्ठति
(प्ब् 15.7.3) प्रजापतिं वा एतेनाह्ना परिवेविषति तत्र व्यववद्यं यद् वै श्रेष्ठे परिविष्यमाणो वदत्य् अन्नाद्यस्य सो ऽवग्रहस् तस्मान् न व्यववद्यम् अन्नाद्यस्यानवग्राहाय
(प्ब् 15.7.4) तद् उ व्यववद्यं यथा श्रेष्ठाय बलिं ह्रियमाणं पन्थानं पर्यनुवेदयति गत्यै तथा तत्
(प्ब् 15.7.5) यावत्य् अनुष्टुप् तावतीं वाचं सम्पाद्य विब्रूयुस् तद् व् अनतिरिक्तं स्वस्यो चैव यज्ञस्यारिष्ट्यै
(प्ब् 15.7.6) अभि वा एते देवान् आरोहन्तीत्य् आहुर् ये दशभिर् अहर्भिः स्तुवत इति पञ्चानाम् अह्नाम् अनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत् तथा तन् नवर्चो भवति या एवामूः प्रयच्छन् या अवदधाति ता एता उदस्यति
(प्ब् 15.7.7) वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णाति तद् एव तद् अवयजत्य् आदित्यैषा भवतीयं वा अदितिर् अस्याम् एव प्रतितिष्ठति
(प्ब् 15.7.8) चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मर्चसाय
(प्ब् 15.8.1) ऽऽसुषमिद्धो न आवह-ऽऽ इत्य् आप्रिय आज्यानि भवन्ति
(प्ब् 15.8.2) प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्य् आप्रिय आज्यान्य् अपश्यत् तैर् आत्मानम् आप्रीणात् दुग्ध इव वा एष रिरिचानो यो दशभिर् अहर्भिस् तुष्टुवानो यद् एतान्य् आप्रिय आज्यानि भवन्त्य् आत्मानम् एवैतैर् आप्रीणाति
(प्ब् 15.8.3) ऽऽयद् अद्य सूर उदितऽऽ इति सूरवन् मैत्रावरुणम्
(प्ब् 15.8.4) अन्तो वै सूरो ऽन्त एतद् दशमम् अह्नाम् अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
(प्ब् 15.8.5) ऽऽउत् त्वा मदन्तु सोमाऽऽ इत्य् उद्वद् ऐन्द्रम् उत्थानस्य रूपम्
(प्ब् 15.8.6) ऽऽइन्द्राग्नी आगतं सुतम्ऽऽ इति येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति स्तोमः
(प्ब् 15.9.1) ऽऽउच्चा ते जातम् अन्धसऽऽ इत्य् उद्वत्यो गायत्र्यो भवन्त्य् उत्थानस्य रूपम्
(प्ब् 15.9.2) ऽऽपुनानस् सोम धारय-ऽऽ इति पन्थानम् एव तत् पर्यवयन्ति
(प्ब् 15.9.3) ऽऽआ जागृविर् विप्र ऋतं मतीनाम्ऽऽ इति यद् आप्ते प्रवतीः कुर्युर् अतिपद्येर् अन्यद् आवत्यो भवन्त्य् अनतिपादाय
(प्ब् 15.9.4) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 15.9.5) आमहीयवं भवति कॢप्तिश् चान्नाद्यं च कॢप्तिं चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति
(प्ब् 15.9.6) आजिगं भवत्य् आजिजित्यायै
(प्ब् 15.9.7) आजिर् वा एष प्रततो यत् द्वादशाहस् तस्यैतद् उज्जित्यै
(प्ब् 15.9.8) आभीकं भवत्य् अभिक्रान्त्यै
(प्ब् 15.9.9) आङ्गिरसस् तपस् तेपानाः शुचम् अशोचंस् त एतत् सामापश्यंस् तान् अभीके ऽभ्यवर्षत् तेन शुचम् अशमयन्त यद् अभीके ऽभ्यवर्षत् तस्माद् आभीकं याम् एव पूर्वैर् अहर्भिः शुचं शोचन्ति ताम् एतेनान्न शमयित्वोत्तिष्ठन्ति
(प्ब् 15.9.10) उत्सेधो भवति
(प्ब् 15.9.11) उत्सेधेन वै देवाः पशून् उदसेधन् निषेधेन पर्यगृह्णन्
(प्ब् 15.9.12) अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम्
(प्ब् 15.9.13) पशवो ऽन्नाद्यं यज्ञायज्ञीयं पशून् एव तद् अन्नाद्यम् उत्सेधनिषेधाभ्यां परिगृह्णाति
(प्ब् 15.9.14) माध्यन्दिने वै पवमाने देवा यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकम् आरोहंस् तद् य एवं वेद माध्यन्दिन एवैतत् पवमाने यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकम् आरोहति
(प्ब् 15.9.15) अथो परोक्षम् अनुष्टुभं सम्पद्यते ऽहर् एषा वै प्रत्यक्षम् अनुष्टुप् यद् यज्ञायज्ञीयं तद् यत् तृतीयसवने कुर्युः प्रत्यक्षम् अनुष्टुभम् ऋच्छेयुस् तस्मान् माध्यन्दिने कुर्वन्ति तेन परोक्षम् अनुष्टुभम् उपयन्ति
(प्ब् 15.9.16) गौरीवितं भवति
(प्ब् 15.9.17) एतद् वै यज्ञस्य श्वस्तनं यद् गौरीवितम् एतद् आयतनो यजमानो यन् मध्यन्दिनो यद् गौरीवितं मध्यन्दिने भवति श्वस्तनम् एव तद् यजमान आत्मन् धत्ते स्तोमः
(प्ब् 15.10.1) ऽऽकया नश् चित्र आभुवद्ऽऽ इति कवत्यस् तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेर् आप्त्यै
(प्ब् 15.10.2) ऽऽमा चिद् अन्यद् विशंसत-ऽऽ इत्य् उत्थानम् एव तद् आशिषो ह्य् एतर्हि
(प्ब् 15.10.3) ऽऽउद् उ त्ये मधुमत्तमाऽऽ इत्य् उद्वत्य उदयनीये ऽहन्य् एतद् आशिषो ह्य् एवैतर्हि
(प्ब् 15.10.4) ऽऽतरोभिर् वो विदद्वसुम्ऽऽ इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर् वो विदद्वसुम् इत्य् आह यज्ञम् एव तद् युनक्ति
(प्ब् 15.10.5) वामदेव्यस्यर्क्षु रथन्तरं पृष्ठं भवति
(प्ब् 15.10.6) गायत्री वै रथन्तरस्य योनिः स्वायाम् एव तद् योनौ रथन्तरं प्रतिष्ठापयति
(प्ब् 15.10.7) तेजो वै गायत्री छन्दसा तेजो रथन्तरं साम्ना तेजश् चतुर्विंशस्तोमानां तेज एव तत् सम्यक् संदधात्य् अपि ह पुत्रस्य पुत्रस् तेजस्वी भवति
(प्ब् 15.10.8) अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौत्य् अष्टाशफांस् तत्पशून् अवरुन्धे
(प्ब् 15.10.9) द्य्वक्षरेणोत्तरयोर् ऋचोः प्रस्तौति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्ठापयति
(प्ब् 15.10.10) गायत्रं वै रथन्तरं गायत्रच्छन्दो यद् गायत्रीषु रथन्तरम् भवति तेन स्वायां जनतायाम् ऋध्नोतीमे वै लोका गायत्री यद् गायत्रीषु रथन्तरं भवतीमान् एव तल् लोकान् समाप्योत्तिष्ठन्ति
(प्ब् 15.10.11) मैधातिथं भवति
(प्ब् 15.10.12) एतेन वै मेधातिथिः काण्वो विभिन्दुकाद् व्यूध्नीर् गा उदसृजत पशूनाम् अवरुध्यै मैधातिथं क्रियते
(प्ब् 15.10.13) अभीवर्तो ब्रह्मसाम भवत्य् एकाक्षरनिधनः प्रतिष्ठायै
(प्ब् 15.10.14) एकाक्षरा वै वाग् वाच्य् एव प्रतिष्ठायोत्तिष्ठन्ति
(प्ब् 15.10.15) कालेयम् अच्छावाकसाम भवति
(प्ब् 15.10.16) समानलोके वै कालेयं च रथन्तरं चेयं वै रथन्तरं पशवः कालेयम् अस्यां चैव पशुषु च प्रतिष्ठायोत्तिष्ठन्ति स्तोमः
(प्ब् 15.11.1) ऽऽस्वादिष्ठया मदिष्ठया-ऽऽ इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 15.11.2) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 15.11.3) संहितं भवति द्य्वक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैवोत्तिष्ठन्ति
(प्ब् 15.11.4) सफं भवति
(प्ब् 15.11.5) सफेन वै देवा इमान् लोकान् समाप्नुवन्त् समाप्नुवंस् तत् सफस्य सफत्वम् इमान् एवैतेन लोकान् समाप्योत्तिष्ठन्ति
(प्ब् 15.11.6) रोहितकूलीयं भवति यद् एव रोहितकूलीयस्य ब्राह्मणम्
(प्ब् 15.11.7) श्यावाश्वान्धीगवे भवतः समीच्यौ विराजौ दधात्य् अन्नाद्याय
(प्ब् 15.11.8) पिपीलिकामध्यासु स्तुवन्ति
(प्ब् 15.11.9) इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानः परां परावतम् अगच्छत् स एताम् अनुष्टुभं व्यौहत् तां मध्ये व्यवासर्पद् इन्द्रगृहे वा एषो ऽभये यजते अभय उत्तिष्ठति य एवं विद्वान् एतासु स्तुवते
(प्ब् 15.11.10) यज्ञायज्ञीयनिधनं सौहविषं भवति यज्ञायज्ञीयाद् एव तत् तृतीयसवेने न यन्ति
(प्ब् 15.11.11) वाजजिद् भवति
(प्ब् 15.11.12) सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये दशमम् अहर् आगच्छन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै
(प्ब् 15.11.13) दशाक्षरं निधनम् उपयन्ति दशरात्रस्य धृत्यै दशाक्षरा विराड् वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 15.11.14) सूर्यवतीषु स्तुवन्त्य् अन्तो वै सूरो ऽन्त एतद् दशमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै
(प्ब् 15.11.15) उपवत्यो भवन्ति प्रतिष्ठायै परिवत्यो भवन्ति सर्वस्य पर्याप्त्यै
(प्ब् 15.11.16) चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
(प्ब् 15.12.1) विराट्सु वामदेव्यम् अग्निष्टोमसाम भवति शान्त्यै कॢप्त्यै
(प्ब् 15.12.2) सद् वै वामदेव्यं साम्नां सद् विराट् छन्दसां सत् त्रयस्त्रिंशः स्तोमानां सताम् अन्तान् संधायोत्तिष्ठन्त्य् अपि ह पुत्रस्य सत्त्वम् अश्नुते
(प्ब् 15.12.3) ब्रह्मवादिनो वदन्ति यतस् सत्त्राद् उदस्थाता3 स्थिता3द् इति यद् यत इति ब्रूयुर् अप्रतिष्ठाना अप्रजसो भविष्यन्तीत्य् एनान् ब्रूयाद् यत् स्थिताद् इति ब्रूयुः स्थायुकैषां श्रीर् भविष्यति न वसीयांसो भविष्यन्तीत्य् एनान् ब्रूयात् पूर्णाद् एव पूर्णम् अभ्युदस्थामेति ब्रूयुः
(प्ब् 15.12.4) एते वै पूर्णात् पूर्णम् अभ्युत्तिष्ठन्ति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति
(प्ब् 15.12.5) अन्तरिक्षं वै वामदेव्यम् अन्तरिक्षेणेदं सर्वं पूर्णम्
(प्ब् 15.12.6) एष वै समृद्धः स्तोमो यत् त्रयस्त्रिंशस् त्रयस्त्रिंशदक्षरासु समृद्धाव् एव प्रतितिष्ठन्ति
(प्ब् 15.12.7) सर्वेषां वा एताश् छन्दसां रूपं यात् त्रिपदास् तेन गायत्र्यो यद् एकादशाक्षराणि पदानि तेन त्रिष्टुभो यत् द्वादशाक्षरं पदं तेन जगत्यो यत् त्रयस्त्रिंशदक्षरास् तेन विराजस् तेनैव चानुष्टुभो न ह्य् एकस्माद् अक्षराद् विराधयन्ति
(प्ब् 15.12.8) त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
(प्ब् 16.1.1) प्रजापतिर् वा इदम् एक आसीन् नाहर् आसीन् न रात्रिर् आसीत् सो ऽस्मिन्न् अन्धे तमसि प्रासर्पत् स ऐच्छत् स एतम् अभ्यपद्यत ततो वै तस्मै व्यौच्छद् व्युष्टिर् वा एष आह्रियते यद् वै तज् ज्योतिर् अभवत् तत् ज्योतिषो ज्योतिष्ट्वम्
(प्ब् 16.1.2) एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते गर्तपत्यम् एव तज् जीयते प्र वा मीयते
(प्ब् 16.1.3) यथा वा इदम् अग्नेर् जाताद् अग्नयो विह्रियन्त एवम् एतस्माद् अध्य् अन्ये यज्ञा विह्रियन्ते
(प्ब् 16.1.4) यो हि त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम्
(प्ब् 16.1.5) एतत् तद् यद् आहुर् एको यज्ञ इत्य् एतद् धि सर्वे ज्योतिष्टोमा भवन्ति
(प्ब् 16.1.6) अस्थूरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस् त्रिवृत् पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम्
(प्ब् 16.1.7) या मितदक्षिणैव स्याद् एष एव कार्य इयं वै ज्योतिर् इयम् अमितस्य यन्त्रिकैषा वा एतं यन्तुम् अर्हति
(प्ब् 16.1.8) तस्य नवतिशतं स्तोत्रीयास् तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षड् ऋतव ऋतुष्व् एव विराजा प्रतितिष्ठति
(प्ब् 16.1.9) अथ या दशैषा वा आत्मन्या विराड् एतस्यां वा इदं पुरुषः प्रतिष्ठितः
(प्ब् 16.1.5) गौश् चाश्वश् चाश्वतरश् च गर्दभश् चाजाश् चावयश् च व्रीहयश् च यवाश् च तिलाश् च माषाश् चैतस्याम् एव विराजि प्रतितिष्ठति
(प्ब् 16.1.11) तस्य द्वादशं शतं दक्षिणाः
(प्ब् 16.1.12) वीरहा वा एष देवानां यः सोमम् अभिषुणोति याः शतं वैरं तद् देवान् अवदयते ऽथ या दश दश प्राणाः प्राणांस् ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा
(प्ब् 16.1.13) श्लेष्म वा एतद् यज्ञस्य यद् दक्षिणा न वा अश्लेष्मा रथो वहत्य् अथ श्लेष्मवता यं कामं कामयते तम् अभ्यश्नुत एवम् एतेन दक्षिणावता यं कामं कामयते तम् अभ्यश्नुते
(प्ब् 16.1.14) शुभो वा एता यज्ञस्य यद् दक्षिणा यद् दक्षिणावता यजते शुभम् एवास्मिन् दधाति
(प्ब् 16.1.1) अथैष गौः
(प्ब् 16.1.2) गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
(प्ब् 16.1.3) यद् वै तद् देवा असुरान् एभ्यो लोकेभ्यो गोवयंस् तद् गोर् गोत्वम्
(प्ब् 16.1.4) गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
(प्ब् 16.1.5) तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रम् एव तत् पुरस्तान् निदधाति तेन विजयते
(प्ब् 16.1.6) पशुस्तोमो वा एष एवम् इव वै पशुः समाहितः शिरः स्थवीयो ऽणीयस् यो ग्रीवा पार्श्वाभ्यां वरीयां सक्थिभ्यां वरिष्ठः
(प्ब् 16.1.7) यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृत् त्याज्यानि सप्तदश माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति
(प्ब् 16.1.8) एका संस्तुतानां विराजम् अतिरिच्यते तस्मात् पशोः पश्चाद् अतिरिक्तम्
(प्ब् 16.2.1) अथैष गौः
(प्ब् 16.2.2) गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
(प्ब् 16.2.3) यद् वै तद् देवा असुरान् एभ्यो लोकेभ्यो गोवयंस् तद् गोर् गोत्वम्
(प्ब् 16.2.4) गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
(प्ब् 16.2.5) तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रम् एव तत् पुरस्तान् निदधाति तेन विजयते
(प्ब् 16.2.6) पशुस्तोमो वा एष एवम् इव वै पशुः समाहितः शिरः स्थवीयो ऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयांसक्थिभ्यां वरिष्ठः
(प्ब् 16.2.7) यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृन्त्य् आज्यानि सप्तदश माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति
(प्ब् 16.2.8) एका संस्तुतानां विराजम् अतिरिच्यते तस्मात् पशोः पश्चाद् अतिरिक्तम्
(प्ब् 16.3.1) अथैष आयुः
(प्ब् 16.3.2) आयुषा वै देवा असुरान् आयुवतायुते भ्रातृव्यं य एवं वेद
(प्ब् 16.3.3) स्वर्गकामो यजेत
(प्ब् 16.3.4) ऊर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय
(प्ब् 16.3.5) एतेनैवामयाविनं याजयेद् अतिरात्रः कार्यः
(प्ब् 16.3.6) स गायत्रीं संपद्यते प्राणो गायत्र्य् आयुर् एष आयुश् चैवास्मिन् प्राणं चोभे समीची दधाति
(प्ब् 16.3.7) स्वर्ग्या वा एते स्तोमा यत् ज्योतिर् भवति ज्योतिर् एवास्मै स पुरस्ताद् धरत्य् अथैष गौर् एकया विराजम् अतिरिक्त आरम्भणम् एव तद् अथैष आयुर् एकस्या विराज ऊन आसाद एव सो ऽथो ऊनातिरिक्तौ स्तोमौ मिथुनौ प्रजात्यै
(प्ब् 16.3.8) एते वै त्रिकद्रुकाः स्तोमा एतैर् वा इन्द्रः सर्वां तृप्तिम् अतृप्यत्
(प्ब् 16.3.9) तृप्यति प्रजया पशुभिर् य एवं वेद
(प्ब् 16.4.1) प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततो ऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
(प्ब् 16.4.2) तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवं वेद
(प्ब् 16.4.3) सो ऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्याद् इति ताम् अस्मै स्रजं प्रत्यमुञ्चत् ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच् छिल्पं पश्यन्त्यो यत् पितर्य् अपश्यन्
(प्ब् 16.4.4) तस्माद् यः पुत्राणां दायं धनतमम् इवोपैति तं मन्यन्ते ऽयम् एवेदं भविष्यतीति
(प्ब् 16.4.5) ततो वा इदम् इन्द्रो विश्वम् अजयद् यद् विश्वम् अजयत् तस्माद् विश्वजित्
(प्ब् 16.4.6) सो ऽकामयत यन् मे ऽनभिजितं तद् अभिजयेयम् इति स एतम् अभिजितम् अपश्यत् तेनानभिजितम् अभ्यजयत्
(प्ब् 16.4.7) यद् अभिजिद् भवत्य् अनाभिजितस्याभिजित्यै
(प्ब् 16.4.8) तौ वा एताव् इन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमाव् आस्ताम्
(प्ब् 16.4.9) पश्यते गृहे शिल्पं य एवं वेद
(प्ब् 16.4.10) न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै
(प्ब् 16.4.11) पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्य् एताभ्याम् इन्द्रो ऽजितम् अजयत्
(प्ब् 16.4.12) त्रींस् त्रिवृदभिजितः प्रणयति त्रीन् पञ्चदशः त्रीन् सप्तदशः त्रीन् एकविंशस् ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिम् एवाप्नोति
(प्ब् 16.4.13) चतुरस् त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश् चतुरः सप्तदशस् ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिम् एवाप्नोति
(प्ब् 16.5.1) ऽऽउप त्वा जामयो गिरऽऽ इत्य् उपवती प्रतिपद् भवति स्तोमस्य रूपम्
(प्ब् 16.5.2) प्राणैर् वा एष व्यृध्यत इत्य् आहुर् यः सर्वं ददाति सर्वान् स्तोमान् सर्वाणि पृष्ठान्य् उपैतीति यद् वायव्या भवति प्राणानां समृध्यै
(प्ब् 16.5.3) सरस्वतश् च सरस्वत्याश् चोत्तरे भवतः
(प्ब् 16.5.4) मिथुनं वा एतद् यत् सरस्वांश् च सरस्वती च मिथुनम् एवास्य यज्ञमुखे दधाति प्रजननाय
(प्ब् 16.5.5) सावित्री चतुर्थी भवति
(प्ब् 16.5.6) दुष्करं वा एष करोति यः सर्वं ददाति यत् सावित्री भवति सवितृप्रसृतं मे कर्मासद् इति सवितृप्रसूतम् एवास्य कर्म भवति
(प्ब् 16.5.7) ब्राह्मणस्पत्या पञ्चमी भवति
(प्ब् 16.5.8) ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्मैवास्य यज्ञमुखे दधाति
(प्ब् 16.5.9) आग्निपावमानी षष्ठी भवति
(प्ब् 16.5.10) अग्निर् एवैनं निष्टपति पवमानः पुनाति पूतम् एवैनं यज्ञियं पृष्ठान्य् उपनयति
(प्ब् 16.5.11) यन्ति वा एते पथ इत्य् आहुर् ये संभार्याः कुर्वते
(प्ब् 16.5.12) पावमान उत्तमस् तृचो भवति तेन पथो नयन्ति
(प्ब् 16.5.13) स तु वै पृष्ठैः स्तुवीतेत्य् आहुर् य एतानि बहिष्पवमाने युञ्ज्याद् इति
(प्ब् 16.5.14) उपवती प्रतिपद् भवत्य् उप वै रथन्तरं रथन्तरम् एवास्मै तया युनक्ति
(प्ब् 16.5.15) सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान् स्वर्गो लोको बृहद् बृहद् एवास्मै तया युनक्ति
(प्ब् 16.5.16) सरस्वत्यास् तृतीया भवति वाग् वै सरस्वती वाग् वैरूपं वैरूपम् एवास्मै तया युनक्ति
(प्ब् 16.5.17) सावित्री चतुर्थी भवति प्रजापतिर् वै सविता प्रजापतिर् वैराजं वैराजम् एवास्मै तया युनक्ति
(प्ब् 16.5.18) ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्म शक्वर्यः शक्वरीर् एवास्मै तया युनक्ति
(प्ब् 16.5.19) आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीर् एवास्मै तया युनक्ति
(प्ब् 16.5.20) न चत्वारि षड्भ्यो विभवन्ति यद् अनिरुक्तानि तेन विभवन्ति
(प्ब् 16.5.21) सर्वाणि स्वाराण्य् आज्यानि तज् जामि नानादेवत्यैः स्तुवन्त्य् अजामितायै
(प्ब् 16.5.22) ऽऽसुषमिद्धो न आवह-ऽऽ इत्य् आप्रिय आज्यानि भवन्ति
(प्ब् 16.5.23) प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानो ऽमन्यत स एतान्य् आप्रिय आज्यान्य् अपश्यत् तैर् आत्मानम् [थुस् बि; क्स्स् आत्मनम्] आप्रीणाद् दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यद् आप्रिय आज्यानि भवन्त्य् आत्मानम् एवैतैर् आप्रीणाति
(प्ब् 16.5.24) एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्य् आहुर् यद् रथन्तरं प्रथमं बृहद् उत्तमं मध्य इतराणीति
(प्ब् 16.5.24) जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यत् सर्वाणि निधनवन्ति सह क्रियन्त इति यद् अन्तरा सोमा यन्त्य् अन्तरोक्थानि शस्यन्ते ऽन्तरा वषट्कुर्वन्ति तेनाजामि
(प्ब् 16.5.26) व्यत्यासम् इडाश् च निधनानि चाहुस् तेनाजामि
(प्ब् 16.5.27) च्यवन्ते वा एतद् रेवत्यः स्वाद् आयतनाद् इत्य् आहुर् यत् त्रयस्त्रिंशात् स्तोमाद् यन्तीति यद् गायत्र्यो भवन्ति तेनायतनान् न च्यवन्ते या हि का च गायत्री सा रेवती
(प्ब् 16.6.1) परशुभिर् वा एष व्यृध्यत इत्य् आहुर् यः सर्वं ददाति तच् छवीं परिधत्ते पशुभिर् एव समृध्यते
(प्ब् 16.6.2) रोहिणी छवी भवत्य् एतद् वै पशुनां भूयिष्ठं रूपं यद् रोहितं साक्षाद् एवैनान् अवरुन्धे
(प्ब् 16.6.3) अरण्ये तिस्रो वसत्य् आरण्यं ताभिर् अन्नाद्यम् अवरुन्धे
(प्ब् 16.6.4) उदुम्बरे वसत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्धे
(प्ब् 16.6.5) खनित्रेण जीवत्य् अवृत्तिम् अपजयति
(प्ब् 16.6.6) उभयतःक्ष्णुद् अभ्रिर् भवत्य् उभयत एवास्मा अन्नाद्यं रजत्य् अस्माच् च लोकाद् अमुष्माच् च
(प्ब् 16.6.7) निषादेषु तिस्रो वसत्य् अस्यां वा एते परीत्ता यद् एवास्याम् अन्नाद्यं तद् अवरुन्धे
(प्ब् 16.6.8) जने तिस्रो वसति जन्यं ताभिर् अन्नाद्यम् अवरुन्धे
(प्ब् 16.6.9) समानजने तिस्रः समानजन्यं ताभिः
(प्ब् 16.6.10) द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरम् अन्व् अन्नाद्यं प्रजायते तद् एवाप्त्वावरुन्धे
(प्ब् 16.6.11) संवत्सरं न याचेद् आमाद्यम् इव वा एतद् यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानं संवत्सरः
(प्ब् 16.6.12) नोदीयमानं प्रति नुदेन् नाद्यस्याप्रतिनोदाय
(प्ब् 16.6.13) उष्णीषं बिभर्ति शिल्पत्वाय
(प्ब् 16.6.14) न मृन्मयेन पिबेद् आहुतिर् वा एषा यद् ब्राह्मणस्य मुखं न वै मृन्मयम् आहुतिम् आनशे ऽथ यद् अमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति
(प्ब् 16.7.1) पञ्चविंशो ऽग्निष्टोमः
(प्ब् 16.7.2) सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 16.7.3) तस्य महाव्रतं पृष्ठम्
(प्ब् 16.7.4) अर्क्यं शस्यते
(प्ब् 16.7.5) चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशो ऽन्नं व्रतं संवत्सराद् एतेनान्नाद्यम् अवरुन्धे
(प्ब् 16.7.6) अन्नादो भवति य एवं वेद
(प्ब् 16.7.7) एतेन वै गौराङ्गिरसः सर्वं पाप्मानम् अतरत् सर्वं पाप्मानं तरत्य् एतेन स्तोमेन तुष्टुवानः
(प्ब् 16.8.1) अथैष ज्योतिः
(प्ब् 16.8.2) पराङ् वै त्रिरात्रो ऽर्वाङ् अग्निष्टोमो यस् त्रिरात्रे विभ्रंशते न तस्मिन् पुनर् अस्त्य् अथ यो ऽग्निष्टोमे प्रायश्चित्तिमत् तद् अपि ह्य् एतेनैकविंशतिदक्षिणेन पुनर् यजेत यस्मिन् ह्य् एव यज्ञक्रतौ विभ्रंशते सैव तस्य प्रायश्चित्तिः
(प्ब् 16.8.3) उपसदि सहस्रं प्रातरनुवाकम् अन्वाह तद् असौ लोकः सहस्रं दक्षिणास् तद् अन्तरिक्षं सहस्रम् एतान्य् अक्षराणि तद् अयं लोक एषु लोकेषु प्रतितिष्ठति य एवं वेद
(प्ब् 16.8.4) ऋक्स्था वा अन्यत् सहस्रम् इत्य् आहुर् अक्षरेस्था अन्यद् इति यत् त्रिरात्रे दीयते तदृक्स्था। अथ यद् अग्निष्टोमे तद् अक्षरेस्था
(प्ब् 16.8.5) यत् सहस्राक्षरासु ब्रह्मसाम भवति सहस्रस्यैव सा प्रतिष्टुतिः
(प्ब् 16.8.6) यावद् वै सहस्रं गाव उत्तराधरा इत्य् आहुस् तावद् अस्मात् लोकात् स्वर्गो लोक इति तस्माद् आहुः सहस्रयाजी वा इमान् लोकान् प्राप्नोति
(प्ब् 16.8.7) पशुभिर् वा एष व्यृध्यत इत्य् आहुर् यः सद्यः सहस्रं ददातीति पङ्क्तिषु ब्रह्मसाम भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
(प्ब् 16.8.8) त्रिवृतं स्तोमं संपद्यते विराजं छन्दः
(प्ब् 16.8.9) प्राणो वै त्रिवृद् अन्नं विराट् न वै प्राण ऋते ऽन्नात् पारयति नान्नम् ऋते प्राणात् प्राणेषु चैवान्नाद्ये च प्रतितिष्ठति
(प्ब् 16.9.1) अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वम् एवैतेनाप्नोति सर्वं जयति
(प्ब् 16.9.2) परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद
(प्ब् 16.9.3) तस्य द्विशताः स्तोत्रीया अन्तो वै वाचो द्विशतमन्तः सहस्रमन्त एव तद् अन्तं प्रतिष्टापयति
(प्ब् 16.9.4) कृतस्तोमो वा एष सर्वम् एवैतेनाप्नोति सर्वं जयति सर्वं हि कृतेन जयति
(प्ब् 16.9.5) विराजं संपद्यते ऽन्नं विराड् अन्नाद्यम् एवावरुन्धे
(प्ब् 16.9.6) एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति
(प्ब् 16.10.1) अथैष विश्वज्योतिर् उक्थ्यः
(प्ब् 16.10.2) पशवो वा उक्थानि पशवो विश्वं ज्योतिर् विश्व एव ज्योतौ पशुषु प्रतितिष्ठति
(प्ब् 16.10.3) अहर्भिर् वै त्रिरात्र इमान् लोकान् आप्नोति सवनैर् एष उत्तमम् उत्तरं त्रिरात्रस्याहर् वर्षीय उत्तरम् उत्तरम् एतस्य सवनं वर्षीयस् तेन त्रिरात्रम् आप्नोत्य् उत्तर उत्तर एषां लोकानां ज्यायांस् तेनेमान् लोकान् आप्नोति
(प्ब् 16.10.4) अस्थूरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतः
(प्ब् 16.10.5) त्रिवृत्पञ्चदशौ प्रातःसवनं सप्तदशपञ्चविंशौ माध्यन्दिनं सवनं चतुर्विंशैकविंशौ तृतीयसवनम्
(प्ब् 16.10.6) यद् वै युक्ते सन्तत आधीयते वहति तद्यथा युक्ते सन्तत आदध्याद् एवम् एतस्मिन् सहस्रम् आधीयते
(प्ब् 16.10.7) उभे बृहद्रथन्तरे भवतः
(प्ब् 16.10.8) इयं वै रथन्तरं द्यौर् बृहद् एवास्माल् लोकाद् गायत्य् एवामुष्माद् उभयोर् अनयोर् लोकयोः प्रतितिष्ठति
(प्ब् 16.10.9) अनुष्टुभ्य् आथर्वणं भवति
(प्ब् 16.10.10) भेषजं वै देवानाम् अथर्वाणो भेषजायैवारिष्ट्यै
(प्ब् 16.10.11) उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 16.10.12) उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं पशुष्व् एव तत् पशून् दधाति
(प्ब् 16.11.1) यो वा अग्निष्टोमे त्रिरात्रं प्रोतं विद्यात् सो ऽग्निष्टोमे सहस्रं दद्यात् त्रिरात्रायतनं हि सहस्रम्
(प्ब् 16.11.2) ऽऽउपास्मै गायता नरःऽऽ ऽऽउपोषु जातम् अप्तुरंऽऽ ऽऽपवस्व वाचो अग्रियऽऽ इति प्रतिपदो भवन्त्य् एतद् वै त्रिरात्रम् अकः
(प्ब् 16.11.3) पवमाने रथन्तरं करोति पवमानस्यान्त्यं वामदेव्यं बृहत् पृष्ठम्
(प्ब् 16.11.4) इयं वै रथन्तरम् अन्तरिक्षं वामदेव्यं द्यौर् बृहद् इमे लोकास् त्रिरात्रो यद् एतानि सामानि सध्र्यञ्चि करोतीमान् एव तल् लोकान् संदधाति तेन त्रिरात्रम् आप्नोति
(प्ब् 16.11.5) ककुभं प्राचीम् उदूहति
(प्ब् 16.11.6) पुरो ह्य् एतया सत्या अपशुवीर्यं करोति
(प्ब् 16.11.7) तस्याम् इडानां संक्षारः पुरुषो वै ककुप् पशव इडानां संक्षार आत्मन्य् एव तत् पशून् प्रतिष्ठापयति
(प्ब् 16.11.8) ऽऽप्रत्नं पीयूषं पूर्व्यं यद् उक्थम्ऽऽ इति सतोबृहत्यो भवन्ति
(प्ब् 16.11.9) सतोबृहत्या वै देवा इमान् लोकान् व्याप्नुवन्न् इमान् एवैताभिर् लोकान् व्याप्नोति
(प्ब् 16.11.10) ता वा एता गायत्र्यो यत् त्रिपदास् तेन गायत्र्यस् ता वा एता जगत्यो यद् द्वादशाक्षराणि पदानि तेन जगत्यस् ता वा एता बृहत्यो यत् षट्त्रिंशदक्षरास् तेन बृहत्यः सर्वेषां वा एताश् छन्दसां रूपं सर्वाणि रूपाणि पशूनाम् अवरुन्धे
(प्ब् 16.11.11) एतद् वै प्रत्यक्षं महाव्रतं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ वामदेव्यम् आत्मा यज्ञायज्ञीयं पुच्छं दक्षिणा एवार्क्यम् एष वाव प्रत्यक्षं महाव्रतेन स्तुवते य एतेन यजते
(प्ब् 16.11.12) तस्य बृहत् पृष्ठं पङ्क्तिषु ब्रह्मसाम तद् आहुश् छन्दो व्याधीयते यद् बृहत् पृष्ठं भवति पङ्क्तिषु ब्रह्मसामेति
(प्ब् 16.11.13) श्रायन्तीयम् एव कार्यं न छन्दो व्याधीयते
मूल पाठ: Pañcaviṃśabrāhmaṇa · Data entry Martin Kümmel Arlo Griffiths Masato Kobayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0