पञ्चविंशब्राह्मण · भाग 8190
(प्ब् 22.17.1) त्रिष्टोमो ऽग्निष्टोमो ज्योतिर् उक्थ्यस् त्रिष्टोमो ऽग्निष्टोमो गौरुक्थ्यो ऽभिजिद् अग्निष्टोमो गौर् उक्थ्यो विश्वजिद् अग्निष्टोम आयुर् उक्थ्यो विश्वजिद् अग्निष्टोमस्य सर्वस्तोमो ऽतिरात्रः
(प्ब् 22.17.2) देवा वा असुरैर् हन्यमानास् ते प्रजापतिम् उपाधावंस् तेभ्य एतां देवपुरं प्रायच्छत् तां प्राविशन्
(प्ब् 22.17.3) अभिचार्यमाणं याजयेद् एताम् एव देवपुरं प्रविशत्य् असृत्यै
(प्ब् 22.18.1) अभ्यासङ्ग्यः षडहस् त्रयश् छन्दोमाश् चतुष्टोमो ऽग्निष्टोमो विश्वजिद् अतिरात्रः
(प्ब् 22.18.2) स्वाराज्यो वा एष यज्ञः
(प्ब् 22.18.3) स्वाराज्यं गच्छति य एवं वेद
(प्ब् 22.18.4) प्रजापतिर् हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
(प्ब् 22.18.5) परमेष्ठितां गच्छति य एवं वेद
(प्ब् 22.18.6) उभे बृहद्रथन्तरे भवतस् तद् धि स्वाराज्यम् अयुतं दक्षिणास् तद् धि स्वाराज्यं षड्विंशस्तोमो भवति स हि स्वाराज्यं चतुष्टोमस्तोमः स ह्य् अन्तो ऽन्ते श्रिया गच्छति य एवं वेद
(प्ब् 22.18.7) एतेन वै क्षेम धृत्वा पौण्डरीकं इष्ट्वा सुदाम्नस् तीर उत्तरे
(प्ब् 22.18.8) सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वामृद्धिम् ऋध्नोति य एवं वेद
(प्ब् 23.1.1) अतिरात्रः पृष्ठयः षडहः सर्वस्तोमो ऽतिरात्रश् चत्वारश् छन्दोमा अतिरात्रः
(प्ब् 23.1.2) एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः
(प्ब् 23.1.3) समानो ह्य् एष यत् प्रयणीयश् चोदयनीयश् चातिरात्रौ कामं कामयन्ते तम् एताभिर् अभ्यश्नुवते
(प्ब् 23.1.4) गृहपतेस् तु वाग् उपदासुका भवति तद् यन् मध्ये सर्वस्तोमो ऽतिरात्रो भवति तेन गृहपतेर् वाग् अनुपदासुका भवति
(प्ब् 23.1.5) एता वा अर्यलगृहपतय आरूणिहोतारः सुभगासूपयन्ति ते सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति
(प्ब् 23.2.1) अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 23.2.2) वाग् वा एषा प्रतायते यद् एष द्वादशाहस् तां विच्छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युः
(प्ब् 23.2.3) यद् उपरिष्टाद् व्रतम् उपयन्ति न वाचं विच्छिन्दन्त्य् आप्नुवन्ति त्रयोदशं मासम्
(प्ब् 23.2.4) एता वै प्रतिष्ठितास् त्रयोदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.3.1) अतिरात्रः पृष्ठयः षडहः पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रः
(प्ब् 23.3.2) कामसनयो वा एता रात्रयः
(प्ब् 23.3.3) विराढ् ढि दशात्मैकादशी प्रजा द्वादशी पशवस् त्रयोदशी कामाय चतुर्दशी
(प्ब् 23.3.4) सर्वान् एवैताभिः कामान् अवरून्धते
(प्ब् 23.3.5) एता वाव ब्रध्नस्य विष्टपो यद् एतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं रोहन्ति
(प्ब् 23.3.6) द्विः पृष्ठान्य् उपयन्त्य् अभिपूर्वम् एवैताभिर् अन्नाद्यं दधते
(प्ब् 23.4.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहः पृष्ठ्य षडह आयुर् गौर् ज्योतिर् अतिरात्रः
(प्ब् 23.4.2) यांस् तल्पे वोदके वा विवाहे वा मीमांसेरंस् त एता उपेयुः
(प्ब् 23.4.3) यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रज्ञातां स्तोमान् उपयन्ति
(प्ब् 23.4.4) इमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठान्ति
(प्ब् 23.4.5) अथ यत् पृष्ठयः षडहो मध्यतो भवत्य् एषु वाव देवतल्पो देवतल्पम् एव तद् आरोहन्ति तल्प्या भवन्ति
(प्ब् 23.4.6) प्रवसीयसस् तल्पम् आप्नुवन्ति
(प्ब् 23.4.7) अथ यद् आयुर् गौर् ज्योतिर् अतिरात्रो येनेतो यन्ति तेन पुनर् आयन्ति
(प्ब् 23.5.1) अतिरात्रो गौश् चायुश् च द्वे अहनी द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.5.2) यद् गौश् चायुश् च द्वे अहनी भवतो मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै
(प्ब् 23.5.3) अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 23.5.4) एता वै प्रतिष्ठिताश् चतुर्दश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.6.1) अतिरात्रः पृष्ठयः षडहो महाव्रतं पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रः
(प्ब् 23.6.2) एताभिर् वै देवा देवत्वम् अगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति
(प्ब् 23.6.3) एतद् वै देवानां सत्त्रं तद् अद्यापि देवाः सत्त्रम् आसते
(प्ब् 23.6.4) पौर्णमास्य् अतिरात्रो ऽथ यानि षड् अहानि स पृष्ठयः षडह एकाष्टका महाव्रतम् अथ यानि षड् अहानि स पृष्ठयः षडहो ऽमावास्यातिरात्रः
(प्ब् 23.6.5) तस्मात् तर्हि मनुष्याणां न सुतो देवानां हि तर्हि सुतः प्रत्यक्षम् एवैताभिर् देवता अभ्यारोहन्ति
(प्ब् 23.6.6) प्रतिनोदात् तु भय्यम् इतरम् अनुपक्षो दीक्षेरन्न् अप्रतिनोदाय
(प्ब् 23.7.1) अतिरात्रस् त्रिवृद् अग्निष्टुद् अग्निष्टोमो ज्योतिर् गौर् आयुस् त्र्यहः पृष्ठयः षडह आयुर् गौर् ज्योतिर् अतिरात्रः
(प्ब् 23.7.2) क्षत्रं वा एता रात्रयो ऽभिनिर्वदन्ति
(प्ब् 23.7.3) ब्रह्मवर्चसकामा उपेयुः
(प्ब् 23.7.4) यत् त्रिवृद् अग्निष्टुद् अग्निष्टोमो भवति ब्रह्म तद् यशसार्धयति
(प्ब् 23.7.5) ब्रह्म वै त्रिवृत्
(प्ब् 23.7.6) यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रज्ञातान् स्तोमान् उपयन्तीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठन्त्य् अथ यत् पृष्ठयः षडहो मध्यतो भवत्य् अन्नं वै पृष्टान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोत्य् अथ यद् आयुर् गौर् ज्योतिर् अतिरात्रो येनेतो यन्ति तेन पुनर् आयन्ति
(प्ब् 23.8.1) त्रिवृद् अग्निष्टुद् अग्निष्टोमो ज्योतिर् गौर् आयुस् त्र्यहो द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.8.2) अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रम्
(प्ब् 23.8.3) यद् अन्यतो ऽतिरात्रास् तेन यज्ञो ऽथ यानि द्वादशाहस्य दशाहानि तेन सत्त्रम्
(प्ब् 23.8.4) उभाव् एवैताभिः कामाव् अवरून्धते
(प्ब् 23.9.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजाकामा उपेयुः
(प्ब् 23.9.2) एताभिर् वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर् जायन्ते य एता उपयन्ति
(प्ब् 23.9.3) यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रजातान् स्तोमान् उपयन्तीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठन्ति
(प्ब् 23.9.4) अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 23.9.5) एता वै प्रतिष्ठिताः पञ्चदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.10.1) एता एव समहाव्रताः
(प्ब् 23.10.2) एताभिर् वा इन्द्रः परमां विजितिं व्यजयत परमाम् एवैताभिर् विजितिं विजयन्ते
(प्ब् 23.10.3) पञ्चदशो वै वज्रो न वा अगृहीतेन वज्रेण वीर्यं करोति या षोडश्य् आरम्भणम् एव तद् गृहीतेन वज्रेण वीर्यं करोति
(प्ब् 23.11.1) अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.11.2) एताभिर् वै प्रजापतिर् अनन्तां श्रियम् अजयद् अनन्ता वा एता यत् पञ्चाहविधाः
(प्ब् 23.11.3) यत् पञ्चाहो ऽनन्ताद् एव प्रजायन्ते
(प्ब् 23.11.4) अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 23.11.5) एता वै प्रतिष्ठिताः सप्तदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.12.1) अतिरात्रो ऽभिप्लवः षडहो द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.12.2) देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य एतेनाष्टादशरात्रेणामृतत्वं प्रायच्छत्
(प्ब् 23.12.3) एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति
(प्ब् 23.12.4) सर्वम् आयुर् यन्ति वसीयांसो भवन्ति य एता उपयन्ति
(प्ब् 23.12.5) द्विर् वा एता नव नव प्राणा अभिपूर्वम् एवैताभिर् आयुर् दधते
(प्ब् 23.13.1) एता एव समहाव्रताः
(प्ब् 23.13.2) एताभिर् वै वायुर् आरण्यानां पशुनाम् आधिपत्यं गच्छन्ति य एता उपयन्ति
(प्ब् 23.13.3) मृगसत्रं वा एतत्
(प्ब् 23.13.4) एताभिर् वा आरण्याः पशवो नाकृताः प्रजायन्ते
(प्ब् 23.13.5) अनाकृतम् एषां प्रजायते य एता उपयन्ति
(प्ब् 23.14.1) अत्रिरात्रो ऽभिप्लवः षडहो ऽभिजिच् च विश्वजिच् च द्वे अहनी द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.14.2) पुरूषकामा उपेयुर् एताभिर् वै प्रजापतिः पुरूषम् असृजत
(प्ब् 23.14.3) स सर्वस्यान्नाद्यस्याधिपत्यम् अगच्छत् सर्वस्यान्नाद्यस्याधिपत्यं गच्छन्ति य एता उपयन्ति
(प्ब् 23.14.4) पुरूषसत्रं वा एतत्
(प्ब् 23.14.5) विंशो वै पुरूषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः
(प्ब् 23.14.6) यद् एता विंशती रात्रयो भवन्त्य् एष्व् एवैताभिर् लोकेषु पुरूषं प्रतिष्ठापयन्ति
(प्ब् 23.14.7) एता वै प्रतिष्ठिता विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.15.1) अतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो ऽभिप्लवः षडहो ऽतिरात्रः पशुकामा उपेयुः
(प्ब् 23.15.2) एताभिर् वा आदित्याः सप्त ग्राम्यान् पशून् उदसृजन्त पशून् एवैताभिर् उत्सृजन्ति (उत्सृजन्ते)
(प्ब् 23.15.3) त्रिर् वै सप्त सप्तादित्याः
(प्ब् 23.15.4) पशव आदित्याः
(प्ब् 23.15.5) आदित्या अस्मिंल् लोके ऋद्धा आदित्या अमुष्मिन्
(प्ब् 23.15.6) पशवो ऽस्मिन् ऋतवो ऽमुष्मिन्
(प्ब् 23.15.7) उभयोर् अनयोर् लोकयोर् ऋध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति
(प्ब् 23.16.1) अतिरात्रः पृष्ठयः षडहस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रो ब्रह्मवर्चसकामा उपेयुः
(प्ब् 23.16.2) स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छंस् त एता अविन्दंस् ताभिर् अस्मात् तमो ऽपाघ्नन्
(प्ब् 23.16.3) अप तमो घ्नते य एता उपयन्ति
(प्ब् 23.16.4) सौमापौषं पशुम् उपालभ्यम् आलभेरन्
(प्ब् 23.16.5) सोमो वै ब्राह्मणः पशवः पूषा स्वाम् एव तद् देवतां पशुभिर् बंहयन्ते त्वचम् एवाक्रत
(प्ब् 23.16.6) मनोर् ऋचः सामिधेन्यो भवन्ति
(प्ब् 23.16.7) मनुर् वै यत् किं चावदत् तद् भेषजं भेषजतायै
(प्ब् 23.16.8) नैदाधीय उपेयुः
(प्ब् 23.16.9) तद् ध्य् एष प्रति तेजिष्ठं तपति
(प्ब् 23.16.10) किलासत्वात् तु भयम् अति ह्य् एभ्यो ऽपहन्ति
(प्ब् 23.16.11) एता वा उग्रदेवो राजनिर् उपैत् स किलासो ऽभवत्
(प्ब् 23.16.12) अकिलासो भवति य एवं विद्वानेता उपैति
(प्ब् 23.17.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो ऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् चान्नाद्यकामा उपेयुः
(प्ब् 23.17.2) पञ्चर्तवो द्वादश मासास् त्रय इमे लोका असाव् आदित्य एकविंशो ऽन्नं द्वाविंशम् एभ्यो लोकेभ्यः संवत्सराद् अमुष्माद् आदित्याद् अन्नाद्यम् अवरुन्धते य एता उपयन्ति
(प्ब् 23.18.1) अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो ऽभिप्लवः षडहो द्वादशाहस्य दशाहान्य् अतिरात्रः प्रतिष्ठाकामा उपेयुः
(प्ब् 23.18.2) एताभिर् वै प्रजापतिर् एषु लोकेषु प्रत्यतिष्ठत्
(प्ब् 23.18.3) यद् एतास् त्रयोविंशती रात्रयो भवन्ति त्रय इमे लोका एष्व् एवैताभिर् लोकेषु प्रतितिष्ठन्ति
(प्ब् 23.18.4) एता वै प्रतिष्ठितास् त्रयोविंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.19.1) अतिरात्रः पृष्ठयः स्तोमः षडहस् त्रयस्त्रिंशम् अहर् अनिरुक्तम् उपहव्यस्य तन्त्रे कॢप्त तस्य कण्वरथन्तरं मध्यन्दिने ऽथ त्रयस्त्रिंश निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशम् अहर् निरुक्तं त्रयस्त्रिंशम् अहर् अनिरुक्तम् पृष्ठयः स्तोमः षडहः प्रत्यङ् त्रिवृद् अहर् अनिरुक्तं ज्योतिष्टोमो ऽग्निष्टोमो ऽतिरात्रः
(प्ब् 23.19.2) एताभिर् वै देवाः स्वर्गे लोके समसीदन् स्वर्गे लोके सीदामेत्य् एताः
(प्ब् 23.19.3) एता वाव ब्रध्नस्य विष्टपो यद् एते त्रयस्तिंशा मध्यतः संधीयन्ते तेन ब्रध्नस्य विष्टपं रोहन्ति
(प्ब् 23.19.4) मध्यतः पृष्ठान्य् उपयन्त्य् अन्नं वै पृष्ठान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोति
(प्ब् 23.19.5) सप्ताहा वा एते
(प्ब् 23.19.6) अतो वै प्रजाः प्रजायन्ते
(प्ब् 23.19.7) प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति
(प्ब् 23.19.8) अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यत् सप्ताहास् तेन छन्दोमवत्यस् तेन पशव्याः
(प्ब् 23.19.9) त्रयस्त्रिंशस् त्रयस्त्रिंशम् अन्वेति त्रिवृत् त्रिवृतम् अग्राद् अग्रं रोहन्ति यत् त्रयस्त्रिंशस् त्रयस्त्रिंशम् अन्वेति प्राणात् प्राणेषु प्रतितिष्ठन्ति
(प्ब् 23.19.10) यत् त्रिवृत् त्रिवृतम्
(प्ब् 23.19.11) विलोमानो वा एता रात्रयो यत् ज्योतिर् अग्निष्टोम उत्थानीयम् अहर् भवत्य् अकॢप्तस्य कॢप्त्यै
(प्ब् 23.20.1) अतिरात्रो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजाकामा वा पशुकामा वोपेयुः
(प्ब् 23.20.2) कॢप्ताद्वै योनेः प्रजाः पशवः प्रजायन्ते यत् कॢप्तौ षडहाव् उपयन्ति कॢप्तादेव योनेः प्रजया पशुभिः प्रजायन्ते
(प्ब् 23.20.3) अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 23.20.4) एता वै प्रतिष्ठिताश् चतुर्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.21.1) एता एव समहाव्रताः
(प्ब् 23.21.2) एताभिर् वै प्रजापतिः सर्वम् अन्नाद्यम् अवारून्ध
(प्ब् 23.21.3) चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशो ऽन्नं व्रतं संवत्सराद् एताभिर् अन्नाद्यम् अवरून्धते य एता उपयन्ति
(प्ब् 23.22.1) अतिरात्रो गौश् चायुश् च द्वे अहनी द्वाव् अभिप्लवौ षडाहौ द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.22.2) ऋतवो न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति
(प्ब् 23.22.3) षड् वा ऋतव ऋतुष्व् एवैताभिः प्रतितिष्ठन्ति
(प्ब् 23.22.4) यद् गौश् चायुश् च द्वे अहनी भवतो मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै
(प्ब् 23.22.5) यत् कॢप्तौ षडहाव् उपयन्ति कॢप्त्या एव
(प्ब् 23.22.6) अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 23.22.7) एता वै प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
(प्ब् 23.23.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्र ऋद्धिकामा उपेयुः
(प्ब् 23.23.2) एताभिर् वै नक्षत्राणि सर्वामृद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति
(प्ब् 23.23.3) यद् एता सप्तविंशती रात्रयो भवन्ति सप्तविंशतिर् नक्षत्राणि नक्षत्रसम्मिता वा एता रात्रयो नक्षत्राणाम् एवर्धिम् ऋध्नुवन्ति
(प्ब् 23.24.1) एता एव समहाव्रताः पशुकामा उपेयुर् यद् एता अष्टाविंशती रात्रयो भवन्त्य् अष्टाशफाः पशवः शफश एवैताभिः पशून् अवरून्धते
(प्ब् 23.25.1) अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 23.25.2) एताभिर् वै प्रजापतिर् अनन्तां श्रियम् अजयत्
(प्ब् 23.25.3) अनन्ता वा एता या एकयानत्रिंशन्न् एति वै वाचो ऽनन्तम्
(प्ब् 23.25.4) यद् एता एकयानत्रिंशद् रात्रयो भवन्त्य् अनन्ताम् एवैताभिः श्रियं जयन्ति
(प्ब् 23.26.1) अतिरात्रस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रो ऽन्नाद्यकामा उपेयुः
(प्ब् 23.26.2) परोक्षम् अन्यानि सत्त्राणि विराजं सम्पद्यन्ते प्रत्यक्षम् एता विराजं सम्पन्नाः
(प्ब् 23.26.3) प्रत्यक्षम् एताभिर् अन्नाद्यम् अवरून्धते य एता उपयन्ति
(प्ब् 23.27.1) एता एव समहाव्रता एताभिर् वै प्रजापतिर् अभिपूर्वम् अन्नाद्यम् अवारून्ध
(प्ब् 23.27.2) अन्नं विराड् अन्नं व्रतम्
(प्ब् 23.27.3) अभिपूर्वम् एवैताभिर् अन्नाद्यम् अवरून्धते
(प्ब् 23.28.1) अतिरात्रो गौश् चायुश् च द्वे अहनी त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः
(प्ब् 23.28.2) अनुष्टुब् वा एता रात्रयः
(प्ब् 23.28.3) द्वात्रिंशद् अक्षरानुष्टुप्
(प्ब् 23.28.4) वाग् अनुष्टुप्
(प्ब् 23.28.5) चतुष्पादाः पशवः
(प्ब् 23.28.6) वाचा पशून् दाधार
(प्ब् 23.28.7) एताभी रात्रीभिः
(प्ब् 23.28.8) तस्मात् ते वाचा सिद्धा वाचाहूता आ यन्ति
(प्ब् 24.1.1) अतिरात्रस् त्रयः पञ्चाहा विश्वजिद् अतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 24.1.2) प्रजापतिः प्रजा असृजत ता न प्रत्यतिष्ठंस् ता एताभिः प्रत्यतिष्ठन्न् इमे लोका न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति
(प्ब् 24.1.3) अरूपेण वा एताः सरूपा अरूपेण प्रजाः सरूपा अरूपेणेमे लोकाः सरूपा यद् रथन्तरस्य लोकं बृहद् आपद्यते बृहतो रथन्तरम् अरूपेणैवैभ्यस् तत् सरूपं प्रजनयन्ति
(प्ब् 24.1.4) लुप्यते वा एतत् षष्ठम् अहर् यत् पञ्चाहान् उपयन्ति नर्तवः कल्पन्तेः यत् पृष्ठयः षडहस् तेन षष्ठम् अहर् न लुप्यते तेनर्तवः कल्पन्ते
(प्ब् 24.1.5) अथ यानि द्वादशाहस्य दशाहानि तेन पञ्चाहेभ्यो न यन्ति
(प्ब् 24.1.6) ऊधर् वा अन्तरिक्षं स्तनाव् अभितो ऽनेन वा एष देवेभ्यो दुग्धे ऽमुना प्रजाभ्यः
(प्ब् 24.1.7) इदं वा अन्तरिक्षं वियद् इमौ स्तनाव् अभितः
(प्ब् 24.1.8) तद् अभ्यनूक्ता
(प्ब् 24.1.9) त्रिंशति त्रयः परो ये देवा बर्हिर् आसत व्यन्न् अह द्विता तनेति
(प्ब् 24.1.10) ऊधर् वै मध्यमो ऽतिरात्रः स्तनाव् अभितः
(प्ब् 24.1.11) यद् एषो ऽनतिरात्रः स्याद् ऊधः प्रतिहरेत्
(प्ब् 24.1.12) तस्माद् अतिरात्रः कार्य ऊधसो ऽप्रतिहाराय
(प्ब् 24.1.13) त्रयस्त्रिंशद् देवता एताभिर् आर्ध्नुवंस् तेनर्धिस् तस्माद् एताभिर् यजन्त ऋध्या एव
(प्ब् 24.1.14) नाना ब्रह्मसामान्य् उपयन्त्य् अह्ना नाना वीर्यतायै नानैव वीर्याण्य् अवरून्धते
(प्ब् 24.2.1) अतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिराश् च
(प्ब् 24.2.2) आदित्याश् चाङ्गिरसश् चैतत् सत्त्रं समदधतादित्यानाम् एकविंशतिर् अङ्गिरसां द्वादशाह आदित्या अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् अङ्गिरसो ऽस्मिन्न् अङ्गिरसो ऽमुष्मिन् द्वयं सत्त्रं यावद् द्वयेन सत्त्रेणर्ध्नुवन्ति तावत्य् एतासाम् ऋद्धिः
(प्ब् 24.3.1) अतिरात्रस् त्रयः पञ्चाहा विश्वजिद् अतिरात्रस् त्रयः पञ्चाहा अतिरात्रः
(प्ब् 24.3.2) अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यद्विश्वजिति छन्दोमान् उपयन्ति तेन छन्दोमवत्यस् तेन पशव्याः
(प्ब् 24.3.3) पक्षिण्यो वा एता रात्रयो यं कामं कामयन्ते तम् एताभिर् अभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तद् अभ्यश्नुते
(प्ब् 24.3.4) त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैर् एव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति
(प्ब् 24.4.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् चर्धिकामा उपेयुः
(प्ब् 24.4.2) एताभिर् वै प्रजापतिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति
(प्ब् 24.4.3) यद् एताश् चतुस्त्रिंशद् रात्रयो भवन्ति त्रयस्त्रिंशद् देवताः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतेर् एवर्धिम् ऋध्नुवन्ति
(प्ब् 24.5.1) अतिरात्रो ज्योतिर् गौर् आयुः पञ्चाहस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः
(प्ब् 24.5.2) यद् एताः पञ्चात्रिंशद् रात्रयो भवन्ति पाङ्क्ताः पशवः पशून् एवैताभिर् अवरुन्धते
(प्ब् 24.6.1) अतिरात्रश् चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः
(प्ब् 24.6.2) एताभिर् वै देवा आदित्यम् अस्तभ्नुवन्न् आदित्यलोकं जयन्ति य एता उपयन्ति
(प्ब् 24.6.3) बृहती वा एता रात्रयः स्वाराज्यं छन्दसां बृहती यो वै पशूनां भूमानं गच्छति स स्वाराज्यं गच्छति प्र स्वाराज्यम् आप्नुवन्ति य एता उपयन्ति
(प्ब् 24.7.1) एता एव समहाव्रताः
(प्ब् 24.7.2) एताभिर् वै प्रजापतिर् उभौ कामाव् अवारून्धान्नं व्रतं पशवो बृहत्य् उभाव् एवैताभिः कामाव् अवरून्धते
(प्ब् 24.8.1) अतिरात्रो गौश् चायुश् च द्वे अहनी चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः स्पष्टो ऽर्थः
(प्ब् 24.8.2) यद् एता अष्टात्रिंशद् रात्रयो भवन्त्य् अष्टाशफाः पशवः शफश एवैताभिः पशुन् अवरून्धते
(प्ब् 24.9.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहश् चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 24.9.2) एताभिर् वै प्रजापतिर् अनन्ता श्रियम् अजयद् अनन्ता वा एता या एकयानचत्वारिंशन् नेति वै वाचो ऽनन्तम्
(प्ब् 24.9.3) यद् एता एकयानचत्वारिंशद् रात्रयो भवन्त्य् अनन्ताम् एवैताभिः श्रियं जयन्ति
(प्ब् 24.10.1) एता एव समहाव्रताः
(प्ब् 24.10.2) सर्वा वा एता विराजो दशिनी प्रथमा विंशिनी द्वितीया त्रिंशिनी तृतीयैषा वै परमा विराट् यच् चत्वारिंशद् रात्रयः पङ्क्तिर् वै परमा विराट्
(प्ब् 24.10.3) परमायाम् एव विराजि प्रतितिष्ठन्ति
(प्ब् 24.11.1) अतिरात्रस् त्रीणि त्रिवृन्त्य् अहान्य् अग्निष्टोममुखान्य् अतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद् दशमम् अहर् अतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठयः षडहो ऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः
(प्ब् 24.11.2) प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्याम् आदंस् तेन प्रजापतिर् अशोचत् स एता अपश्यत् ततो वा इदं व्यावर्तत गावो ऽभवन्न् अश्वा अश्वाः पुरूषाः पुरूषा मृगा मृगाः
(प्ब् 24.11.3) वि पाप्मना वर्तन्ते य एता उपयन्ति
(प्ब् 24.11.4) यद् अतिरात्रा अन्तरा विधृत्यै तस्मान् नेतर इतरस्मिन् रेतो दधाति
(प्ब् 24.11.5) यत् पृष्ठ्याः स्तोमाः स सृष्टास् तस्माद् अजावयः पशूनां सह चरन्ति तस्माद् उ गर्दभो वडवाया रेतो दधाति
(प्ब् 24.11.6) अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यत् सन्धिषामसु छन्दांस्य् उपयन्ति तेन छन्दोमवत्यस् तेन पशव्याः
(प्ब् 24.11.7) गायत्रीषु जराबोधीयम् उष्णिक्षु श्रुध्यम् अनुष्टुप्सु नानदं बृहतीषु रथन्तरं पङ्क्तिषु रायोवाजीयं त्रिष्टुप्स्व् औशनं जगतीषु कावम्
(प्ब् 24.11.8) ऊर्ध्वानि छन्दांस्य् उपयन्त्य् अनपभ्रंशाय
(प्ब् 24.11.9) प्राणो वै स्वरो यत् स्वराव् अन्ततो भवतस् तस्मात् द्वाव् अन्ततः प्राणौ
(प्ब् 24.12.1) अतिरात्रौ द्वाव् अभिप्लवौ षडहौ गौश् चायुश् चातिरात्रौ द्वाव् अभिप्लवौ षडहाव् अभिजिच् च विश्वजिच् चतिरात्राव् एको ऽभिप्लवः षडहः सर्वस्तोमश् च नव सप्तदशश् चातिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 24.12.2) आदित्यानां यमातिरात्राः
(प्ब् 24.12.3) यमेवैषा श्रीर् भवति य एता उपयन्ति
(प्ब् 24.12.4) एताभिर् वा आदित्या द्वन्द्वम् आर्ध्नुवन् मित्रश् च वरूणश् च धाता चार्यमा चांशश् च भगश् चेन्द्रश् च विवस्वाश् चैतासाम् एव देवतानाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति
(प्ब् 24.12.5) तद् अभ्यनूक्ता
(प्ब् 24.12.6) अष्टौ पुत्रासो अदितेर् ये जातास् तन्वं परि देवा उपप्रैत् सप्तभिः परा मार्ताण्डम् आस्यद् इति
(प्ब् 24.12.7) आदित्या अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् उभयोर् अनयोर् लोकयोर् ऋध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति
(प्ब् 24.13.1) अतिरात्रश् चत्वारो ऽभिप्लवाः षडहाः सर्वस्तोमो ऽतिरात्रो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 24.13.2) प्रजापतिः प्रजा असृजत स रूक्षो ऽभवत् तं रूक्षं नाजनन् स आ चाङ्क्ताभि चाङ्क्त
(प्ब् 24.13.3) य आत्मानं नेव जानीरंस् त एता उपेयुर् यदा चाञ्जते ऽभि चाञ्जते शुभम् एवात्मन् दधते जानन्त्य् एनान्
(प्ब् 24.13.4) गौग्गुलवेन प्रातस्सवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने
(प्ब् 24.13.5) अग्निर् वै देवानां हौत्रम् उपैष्यञ् छरीरम् अधूनुत तस्य यन्मां समासीत् तद् गुग्गुल्व् अभवद्यत् स्नाव तत् सुगन्धितेजनं यद् अस्थि तत् पोतुदार्व् एतानि वै देवसुरभीणि देवसुरभिभिर् एव तद् अभ्यञ्जते
(प्ब् 24.14.1) अतिरात्रश् चतुर्विंशं प्रायणीयम् अहस् त्रयो ऽभिप्लवाः षडहा अभिजित् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजिद् एको ऽभिप्लवः षडह आयुश् च गौश् च द्वे आहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च संवत्सरसम् मिता यावती संवत्सरस्यर्द्धिस् तावत्य् एतासाम् ऋद्धिः
(प्ब् 24.14.2) तद् आहुर् यच् चतुर्विंशम् अहः प्रयणीयं कुर्युः संवत्सरम् आरभ्य न समापयेयुर् इति त्रिवृद् एव कार्यं प्राणा वै त्रिवृत् प्राणान् एवोपयन्ति
(प्ब् 24.14.3) अथो खल्व् आहुश् चतुर्विंशम् एव कार्यं समृध्यै
(प्ब् 24.14.4) अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद् दिवाकीर्त्यम् अभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते
(प्ब् 24.14.5) अथ यावन्त्यौ प्राणौ तौ विश्वजिद् अभिजिताव् अथैते गोआयुषी मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै
(प्ब् 24.14.6) अथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय
(प्ब् 24.14.7) अथैतद् व्रतम् अन्नं वै व्रत न वा अन्यत्र मुखाद् अन्नं धिनोति यद् उपरिष्टाद् व्रतम् उपयन्ति मुखत एव तद् अन्नाद्यं धीयते तस्मान् मुखे सद् अन्नं धिनोति
(प्ब् 24.14.8) अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युधन्ति
(प्ब् 24.15.1) अतिरात्रो नव त्रिवृन्त्य् अहान्य् अग्निष्टोममुखष् षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नव पञ्चदशान्य् अहान्य् अग्निष्टोमम् उखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नव सप्तदशान्य् अहान्य् अग्निष्टोममुखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नवैकविंशान्य् अहान्य् अग्निष्टोममुखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 24.15.2) एताभिर् वै सविता सर्वस्य प्रसवम् अगच्छत्
(प्ब् 24.15.3) सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति
(प्ब् 24.15.4) यद् गणशः स्तोमा बहव एव भवन्ति सह त्रिवृतः सह पञ्चदशाः सह सप्तदशाः सहैकविंशाः सवितुर् वा एताः ककुभः
(प्ब् 24.15.5) ककुभः समानानां च प्रजानां च भवन्ति य एता उपयन्ति
(प्ब् 24.16.1) अतिरात्रश् चत्वारो ऽभिप्लवाः षडहा महाव्रतं द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः
(प्ब् 24.16.2) ऋतवो न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः
(प्ब् 24.16.3) प्रत्य् एव तिष्ठन्ति षड् वा ऋतव ऋतुष्व् एवैताभिः प्रतितिष्ठन्ति यत् कॢप्तान् षडहान् उपयन्ति कॢप्त्या एव
(प्ब् 24.16.4) अथैतद् व्रतम् अन्नं वै व्रतं न वा अन्यत्र मध्याद् अन्नं धिनोति यद् व्रतं मध्यत उपयन्ति मध्यत एव तद् अन्नाद्यं धीयते तस्मान् मध्ये सद् अन्नं धिनोति
(प्ब् 24.16.5) यत् कॢप्तौ षडहाव् उपयन्ति कॢप्त्या एव
(प्ब् 24.16.6) अथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननायाथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 24.17.1) अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 24.17.2) एताभिर् वा इन्द्राग्नी अत्यन्या देवता अभवताम् अत्यन्याः प्रजा भवन्ति य एता उपयन्ति
(प्ब् 24.17.3) इन्द्राग्नी वै देवानाम् ओजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति
(प्ब् 24.17.4) यत् कॢप्तान् षडहान् उपयन्ति कॢप्त्या एवाथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननायाथैतद् व्रतम् अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युधन्ति
(प्ब् 24.18.1) अतिरात्रश् चतुर्विंशं प्रायणीयम् अहस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहो ऽभिजित् त्रयस्स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भण एको ऽभिप्लवः षडह आयुश् च गौश् च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतश् चातिरात्रश् च तद् एतद् एकषष्टिरात्रं दैवानां व्रात्यानाम्
(प्ब् 24.18.2) दैवा वै व्रात्याः सत्त्रम् आसत बुधेन स्थपतिना ते ह वा अनिर्याच्य वरुणं राजानं देवयजनं दिदीक्षुस् तान् ह वा वरूणो राजानु व्याजहारान्तर् एमि वो यज्ञियाद् भागधेयान् न देवयानं पन्थानं प्रज्ञास्यथेति तस्मात् तेभ्यो न हविर् गृह्णन्ति न ग्रहम्
(प्ब् 24.18.3) अथ ह वै तर्हि नौषधीषु पय आसीन् न क्षीरे सर्पिर् न मांसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद् यत एतद् एकषष्टिरात्रं दैवा व्रात्या उपायंस् ततो वै तानि भुतान्य् एतैर् वीर्यैः समसृज्यन्त तेजस्वन्त्य् एवासन् पयस्वन्ति
(प्ब् 24.18.4) तद् एष श्लोको ऽभ्यनूच्यते
(प्ब् 24.18.5) किम् अकर्तेति यत् पुत्रान् मुहुर् दैवां अपृच्छत मही बुधस्यासीद् दीक्षा स क्षीरे सर्पिर् आहरत्
(प्ब् 24.18.6) महीं दीक्षां सौमायनो बुधो यद् उदयच्छदनन्दत् सर्वम् आप्नोन् मन्मांसे मेदो ऽधा इति
(प्ब् 24.18.7) दरिद्रा आसन् पशवः कृशाः सन्तो व्यस्थकाः सौमायनस्य दीक्षायां समसृज्यन्त मेदसेति
(प्ब् 24.18.8) तद् य एतद् एकषष्टिरात्रम् उपेयुस् ते देवयजनम् अध्यवसाय गार्हपत्य आहुतिं जुहयुर् देव वरुण देवयजनं नो देहि स्वाहेति ते दत्ते देवजने यजन्ते
(प्ब् 24.18.9) ते सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
(प्ब् 24.19.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहश् चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 24.19.2) देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य एतेन शतरात्रेणामृतत्वं प्रायच्छद् एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति सर्वम् आयुर् यन्ति वसीयांसो भवन्ति य एतद् उपयन्ति
(प्ब् 24.19.3) अभिप्रयायम् अभिषुण्वन्त्य् अभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्यै
(प्ब् 24.20.1) अतिरात्रश् चतुर्विंशं प्रायणीयम् अहश् चत्वारो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहो ऽभिजित् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भणस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भणश् चत्वारो ऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थस् त्रयो ऽभिप्लवाः षडहा आयुश् च गौश् च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रञ्चातिरात्रश् च
(प्ब् 24.20.2) संवत्सरब्राह्मणं ब्राह्मणम्
(प्ब् 25.1.1) अतिरात्रश् चतुर्विंशं प्रायणीयम् अहर् द्वौ त्रिवृत् पञ्चदशौ षडहौ पृष्ठ्यः षडहो द्वौ त्रिवृत् पञ्चदशौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयस् त्रिवृत् पञ्चदशाः षडहाः पृष्ठ्यः षडहस् त्रिवृद् बृहस्पतिस्तोमस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस् त्रयस्त्रिंशारम्भण एकः पञ्चदशस् त्रिवृत् षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास् त्रिवृत उद्भिच् च बलभिच् च द्वे अहनी द्वौ पञ्चदशत्रिवृतौ षडहौ पृष्ठ्यः षडहो द्वौ पञ्चदशत्रिबृतौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः पञ्चदशत्रिवृत् षडहः पृष्ठ्यः षडहः पञ्चदशत्रिवृत् षडहो गौश् चायुश् च द्वे अहनी छन्दोमदशाहो ऽष्टाचत्वारिंशं प्रथमम् अहर् अथ चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिंशं द्वे अष्टाविंशे पञ्चविंशं चतुर्विंशं महाव्रतं चातिरात्रश् च
(प्ब् 25.1.2) आदित्यानाम् मध्ये पृष्ठ्यम्
(प्ब् 25.1.3) मध्ये पृष्ठ्येन वा आदित्याः स्वर्गं लोकम् आक्रमन्त यन् मध्ये पृष्ठान्य् उपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
(प्ब् 25.1.4) अन्नं वै पृष्ठान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोति
(प्ब् 25.1.5) पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठन्ति
(प्ब् 25.1.6) चक्रे वा एते साकंवृतीयत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयन्ते तम् एतेनाभ्यश्नुवते यत्र यत्र हि चक्रीवता कामयते तत् तद् अभ्यश्नुते
(प्ब् 25.1.7) अथैष त्रिवृद् बृहस्पतिस्तोम एतेन वै बृहस्पतिर् देवानां पुरोधाम् अगच्छत् पुरोधकामा उपेयुर् गच्छन्ति पुरोधां पुर एनान् दधते
(प्ब् 25.1.8) अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद् दिवाकीर्त्यम् अभितः स्वरसामानो भवन्ति शिवस्येव तत् प्राणा धीयन्ते
(प्ब् 25.1.9) अथैष पञ्चदश इन्द्रस्तोम उक्थ्य एतेन वा इन्द्रो ऽत्यन्या देवता अभवद् अत्यन्याः प्रजा भवन्ति य एतद् उपयन्ति
(प्ब् 25.1.10) अथैतानि द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास् त्रिवृतो मध्यतः पाप्मनो मुच्यन्त एष वाव देवतल्पो देवतल्पम् एव तद् आरोहन्ति तल्प्या भवन्ति प्रवसीयसस् तल्पम् आप्नुवन्ति
(प्ब् 25.1.11) अथैताव् उद्भिद्बलभिदाव् एताभ्यां वै बृहस्पतिर् देवेभ्यः पशून् उदसृजत् पशून् एवैताभ्याम् उत्सृजन्ते
(प्ब् 25.1.12) अथैते गो आयुषी मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै
(प्ब् 25.1.13) अथैष छन्दोमदशाहश् छन्दसां दोहो ऽर्वाञ्चि छन्दांस्य् उपयन्ति तस्माद् अर्वाञ्चो भुञ्जन्तः पशव उपतिष्ठन्ते
(प्ब् 25.1.14) अथैद् व्रतम् अन्नं वै व्रतं न वा अन्यत्र मुखाद् अन्नं धिनोति यद् उपरिष्टाद् व्रतम् उपयन्ति मुखत एव तद् अन्नाद्यं धीयते तस्मान् मुखे सद् अन्नं धिनोति
(प्ब् 25.1.15) अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 25.2.1) अतिरात्रश् चतुर्विंशं प्रायणीयम् अहः पृष्ठ्यः षडहश् चत्वारस् त्रिवृतो ऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयस् त्रिवृतो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहस् त्रिवृद् बृहस्पतिस्तोमस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस् त्रयस्त्रिंशारम्भण एकस् त्रिवृद् अभिप्लवः षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास् त्रिवृत उद्भिच् च बलभिच् च द्वे अहनी चत्वारस् त्रिवृतो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थो द्वौ त्रिवृताव् अभिप्लवौ षडहौ पृष्ठ्यः षडह आयुश् च गौश् च द्वे अहनी छन्दोमदशाहश् चतुर्विंशं प्रथमम् अहर् द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशम् अष्टाचत्वारिंशं चतुर्विंशं महाव्रतं चातिरात्रश् चाङ्गिरसां पुरस्तात् पृष्ठ्यम्
(प्ब् 25.2.2) पुरस्तात् पृष्ठ्येन वा अङ्गिरसः स्वर्गं लोकम् आक्रमन्त यत् पुरस्तात् पृष्ठान्य् उपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
(प्ब् 25.2.3) अन्नं वै पृष्ठान्य् अन्नम् एव तन् मुखतो धीयते तस्मान् मुखे सद् अन्नं धिनोति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठन्ति
(प्ब् 25.2.4) यद् अन्यच् चक्राभ्यां साकवृद्भ्यां तत्समानम् आ छन्दोमदशाहात्
(प्ब् 25.2.5) अथैष छन्दोमदशाहश् छन्दसां दोह ऊर्ध्वानि छन्दांस्य् उपयन्त्य् अनपभ्रंशायैष वाव देवयानः पन्थाः प्र देवयानं पन्थानम् आप्नुवन्ति य एतद् उपयन्त्य् अथैतद् व्रतम्
(प्ब् 25.2.6) अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैष प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 25.3.1) अतिरात्रस् त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासम् एकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं महाव्रतं त्रयस्त्रिंशेन मासं त्रिणवेन मासम् एकविंशेन मासं सप्तदशेन मासं पञ्चदशेन मासं त्रिवृता मासम् अतिरात्रः
(प्ब् 25.3.2) ऋतवो न प्रत्यतिष्ठंस् त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति षड् वा ऋतव ऋतुष्व् एवैतेन प्रतितिष्ठन्ति
(प्ब् 25.3.3) यद् गतं मध्यत उपयन्ति मध्यत एव तद् अन्नाद्यं धीयते तस्मान् मध्ये धिनोति
(प्ब् 25.3.4) पक्षि वा एतत् सत्त्रायणं यं कामं कामयन्ते तम् एतेनाभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तद् अभ्यश्नुते
(प्ब् 25.3.5) त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैर् एव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति
(प्ब् 25.3.6) एतद् वै दृतिवातवन्तौ खाण्दव उपेतो विषुवति वातवान् उत्तिष्ठति समापयति दृतिस् तस्मात् तनीयांसो वातवता भूयांसो दार्तेयाः
(प्ब् 25.4.1) मासं दीक्षिता भवन्ति ते मासि सोमं क्रीणन्ति तेषां द्वादशोपसद उपसद्भिश् चरित्वा सोमम् उपनह्य मासम् अग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यां यजन्ते मासं वैश्वदेवेन मासं वरुणप्रघासैर् मासं साकमेधैर् मासं शुनासीर्येण त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासम् एकविंशेन मासं त्रिणवेन मासम् अष्टादश त्रयस्त्रिंशान्य् अहानि द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च
(प्ब् 25.4.2) अग्निहोत्रं दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोता
(प्ब् 25.4.3) एते वाव सर्वेण यज्ञेन यजन्ते य एतद् उपयन्ति सर्व एव भवन्ति
(प्ब् 25.4.4) ते सर्वे कुण्डपायिनो ऽत्सरुकैश् चमसैर् भक्षयन्ति
(प्ब् 25.4.5) यो होता सो ऽध्वर्युः स पोता य उद्गाता स नेष्टा सो ऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्तायः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत् यः प्रतिप्रस्थाता सो ऽग्नीत् स उन्नेता गृहपतिर् गृहपतिः सुब्रह्मण्यस्सुब्रह्मण्यः
(प्ब् 25.5.1) संवत्सरं दीक्षिता भवन्ति संवत्सरम् उपसद्भिश् चरन्ति संवत्सरं प्रसुतो भवति
(प्ब् 25.5.2) तत् संवत्सरं दीक्षिता भवन्ति तप एव तेन तप्यन्ते यत् संवत्सरम् उपसद्भिश् चरन्ति पुनत एव तेन यत् संवत्सरं प्रसुतो भवति देवलोकम् एव तेनापि यन्ति
(प्ब् 25.5.3) एतेन वै तपश्चितो देवाः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.6.1) त्रयस्त्रिवृतः संवत्सरास् त्रयः पञ्चदशास् त्रयः सप्तदशास् त्रय एकविंशाः प्रजापतेर् द्वादशसंवत्सरम्
(प्ब् 25.6.2) एतेन वै प्रजापतिः सर्वस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति
(प्ब् 25.6.3) यत् त्रयस् त्रिवृतः संवत्सरा भवन्ति तेजो ब्राह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसम् अवरुन्धते यत् त्रयः पञ्च दशा ओजो वीर्यं पञ्चदश ओज एव वीर्यम् अवरुन्धते यत् त्रयः सप्तदशा अन्नं वै सप्तदशो ऽन्नाद्यम् एवावरुन्धते यत् त्रय एकविंशाः प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति
(प्ब् 25.6.4) एतेन वै नैमिशीयाः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.6.5) ते ह सप्तदशेभ्य एवाध्युत्तस्थुस् त उ होचुर् यो नः प्रजायाम् ऋध्यातै स एतत् सत्त्रं समापयाद् इति तद् एतत् समीप्सन्तो ब्राह्मणास् सत्त्रम् आसते
(प्ब् 25.7.1) नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविंशाः शाक्त्यानां षट्त्रिंशत् संवत्सरम्
(प्ब् 25.7.2) एतेन वै गौरीवितिः शाक्तस् तरसपुरोडाशो यव्यावत्यां सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.7.3) बृहती वा एतत् सत्त्रायणं स्वाराज्यं छन्दसां बृहती प्र स्वाराज्यम् आप्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.7.4) तद् एतच् छाक्त्यानां दशवीरम् एषां दश वीरा जायन्ते य एतद् उपयन्ति
(प्ब् 25.8.1) पञ्चविंशतिस् त्रिवृतः संवत्सराः पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतिर् एकविंशाः साध्यानां शतसंवत्सरम्
(प्ब् 25.8.2) साध्या वै नाम देवेभ्यो देवाः पूर्व आसंस् त एतत् सत्त्रायणम् उपायंस् तेनार्ध्नुवंस् ते सगवः सपुरुषाः सर्व एव सह स्वर्गं लोकम् आयन्न् एवं वाव ते सह स्वर्गं लोकं यन्ति य एतद् उपयन्ति
(प्ब् 25.8.3) आयुर् वा एतत् सत्त्रायणं शतायुः पुरुषो यावद् एवायुस् तद् अवरुन्धते न ह्य् अत्यायुषं सत्त्रम् अस्ति
(प्ब् 25.8.4) तद् अभ्यनूक्ता तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य यतः परि जार इवाचरन्त्य् ऊषा (?) दादृशे न पुनर् यतीवेति
(प्ब् 25.8.5) ज्योतिष्टोमस्यायनेन यन्ति ज्योतिर् एव भवन्ति
(प्ब् 25.8.6) एकविंशो ऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशो ऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति
(प्ब् 25.9.1) अतिरात्रः सहस्रम् अहान्य् अतिरात्रो ऽग्नेः सहस्रसाव्यम्
(प्ब् 25.9.2) एतेन वा अग्निः सवस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति
(प्ब् 25.9.3) अग्नेर् वै सर्वम् आद्यं सर्वम् एषाम् आद्यं भवति य एतद् उपयन्ति
(प्ब् 25.9.4) अथ यत् सहस्रसाव्यं भवति सहस्राक्षरा वै परमा विराट् परमायाम् एव विराजि प्रतितिष्ठन्ति
(प्ब् 25.10.1) सरस्वत्या विनशने दीक्षन्ते
(प्ब् 25.10.2) तेषां द्वादश दीक्षा द्वादशोपसदः
(प्ब् 25.10.3) यद् अहर् अतिरात्रो भवति तद् अहर् वत्सान् अपाकुर्वन्ति संस्थिते ऽतिरात्रे सान्नाय्येन यजन्ते
(प्ब् 25.10.4) सान्नाय्येनेष्ट्वाध्वर्युः शम्यां परास्यति सा यत्र निपतति तद् गार्हपत्यस् ततः षट्त्रिंशतं प्रक्रमान् प्रक्रमति तद् आहवनीयः
(प्ब् 25.10.5) चक्रीवत् सदश् चक्रीवद् धविर्धानं चक्रीवद् आग्नीध्रम् उलूखलबुध्नो यूपः प्रकृष्य उपोप्त एव नोपरवान् खनन्ति
(प्ब् 25.10.6) ते तम् आपूर्यमाणम् आवास्येन यन्ति
(प्ब् 25.10.7) तेषां पौर्णमास्यां गोष्टोमस्तोमो भवत्य् उक्थ्यो बृहत्सामा
(प्ब् 25.10.8) संस्थिते गोष्टोमे पौर्णमासं निर्वपन्ते ते तम् अपक्षीयमाणं पौर्णमासेन यन्ति तेषाम् अमावास्यायाम् आयुष्टोमस्तोमो भवत्य् उक्थ्यो रथन्तरसामा
(प्ब् 25.10.9) मित्रावरुणयोर् अयनम्
(प्ब् 25.10.10) एतेन वै मित्रावरुणाव् इमान् लोकान् आजयताम् अहोरात्रौ वै मित्रावरुणाव् अहर् मित्रो रात्रिर् वरुणो ऽर्धमासौ वै मित्रावरुणौ य आपूर्यते स मित्रो यो ऽपक्षीयते स वरुणः स एष मित्रो वरुणे रेतः सिञ्चति
(प्ब् 25.10.11) सरस्वत्या वै देवा आदित्यम् अस्तभ्नुवन् सा नायच्छत् साभ्यव्लीयत तस्मात् सा कुब्जिमतीव तं बृहत्यास्तभ्नुवन् सायच्छत् तस्माद् बृहती छन्दसां वीर्यवत्तमादित्यं हि तयास्तभ्नुवन्
(प्ब् 25.10.12) प्रतीपं यन्ति न ह्य् अन्वीपम् अष्ट वै पूर्वेण पक्षसा यन्ति
(प्ब् 25.10.13) तद् धि प्रत्य् एकाप्येति
(प्ब् 25.10.14) दृषद्वत्य् एव
(प्ब् 25.10.15) दृषद्वत्या अप्यये ऽपोनप्त्रीयं चरुं निरुप्याथातियन्ति
(प्ब् 25.10.16) चतुश्चत्वारिंशद् आश्वीनानि सरस्वत्या विनशनात् प्लक्षः प्रास्रवणस् तावद् इतः स्वर्गो लोकः सरस्वतीसम्मितेनाध्वना स्वर्गं लोकं यन्ति
(प्ब् 25.10.17) एतेन वै नमी साप्यो वैदेहो राजाञ्जसा स्वर्गं लोकम् ऐद् अञ्जसागामेति तद् अञ्जस्कीयानाम् अञ्जस्कीयत्वम्
(प्ब् 25.10.18) स एतद् अवभृथम् अभ्यवैद् य एष उत्तरेण स्थूलार्मं ह्रदस् तद् धास्य शतं गावः सहस्रं सम्पेदुः
(प्ब् 25.10.19) शते गोष्व् ऋषभम् अप्य् ऋजन्ति(?) ता यदा सहस्रं सम्पद्यन्ते ऽथोत्थानम्
(प्ब् 25.10.20) यदा सर्वज्यानिं जीयन्ते ऽथोत्थानं यदा गृहपतिर् म्रियते ऽथोत्थानम्
(प्ब् 25.10.21) यदा प्लक्षं प्रास्रवणम् आगच्छन्त्य् अथोत्थानम्
(प्ब् 25.10.22) प्लक्षं प्रास्रवणम् आगम्याग्नये कामायेष्टिं निर्वपन्ते तस्याम् अश्वां च पुरुषीं च धेनुके दत्वा
(प्ब् 25.10.23) कारपचवं प्रति यमुनाम् अवभृथम् अभ्यवयन्ति
(प्ब् 25.11.1) अतिरात्रस् त्रिवृत् पञ्चदशम् इन्द्राग्न्योर् अयनं गोआयुषी इन्द्रकुक्षी अतिरात्रः
(प्ब् 25.11.2) एतेन वा इन्द्राग्नी अत्यन्या देवता अभवताम् अत्यन्याः प्रजा भवन्ति य एतद् उपयन्ति
(प्ब् 25.11.3) इन्द्राग्नी वै देवानाम् ओजिष्ठा ओजिष्ठा भवन्ति य एतद् उपयन्ति
(प्ब् 25.11.4) अथ यत् त्रिवृत् पञ्चदशम् इन्द्राग्न्योर् अयनं गोआयुषी इन्द्रकुक्षी भवतो ऽसंव्याथाय
(प्ब् 25.12.1) अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो विश्वजिद् अभिजिताव् इन्द्रकुक्षी अतिरात्रः
(प्ब् 25.12.2) एतेन वार्यमैतं लोकम् अजयत्
(प्ब् 25.12.3) यद् आहुर् अर्यम्णः पन्था इत्य् एष वाव देवयानः पन्थाः
(प्ब् 25.12.4) प्र देवयानं पन्थानम् आप्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.12.5) तस्माद् एषो ऽरुणतम इव दिव उपददृशे ऽरुणतम इव हि पन्थाः
(प्ब् 25.12.6) अथ यत् ज्योतिर् गौर् आयुस् त्र्यहो विश्वजिद् अभिजिताव् इन्द्रकुक्षी भवतो ऽसंव्याथाय
(प्ब् 25.13.1) संवत्सरं ब्राह्मणस्य गा रक्षेत् संवत्सरं व्यर्णे नैतन्धवे ऽग्निम् इन्धीत संवत्सरे परीणह्य् अग्नीन् आदधीत
(प्ब् 25.13.2) स दक्षिणेन तीरेण दृषद्वत्या आग्नेयेनाष्टाकपालेन शम्यापरासीयात्
(प्ब् 25.13.3) इन्द्रश् च रुशमा चांशं प्रास्येतां यतरो नौ पूर्वो भूमिं पर्येति स जयतीति भूमिम् इन्द्रः पर्यैत् कुरुक्षेत्रं रुशमा सो ऽब्रवीद् अजैषं त्व् एत्य् अहम् एव त्वाम् अजैषम् इतीन्द्रो ऽब्रवीत् तौ देवेष्व् अपृच्छेतां ते देवा अब्रुवन्न् एतावती वाव प्रजापतेर् वेदिर् यावत् कुरुक्षेत्रम् इति तौ न व्यजयेताम्
(प्ब् 25.13.4) स य आग्नेयेनाष्टाकपालेन दक्षिणेन तीरेण दृषद्वत्याः शम्यापरास्येति त्रिप्लक्षान् प्रति यमुनाम् अवभृथम् अभ्यवैति तद् एव मनुष्येभ्यस् तिरो भवति
(प्ब् 25.14.1) आग्नेयो ऽष्टाकापाल ऐन्द्र एकादशकपालो वैश्वदेवश् चरुः
(प्ब् 25.14.2) अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यद् अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यो मानुष्य् ऋद्धिस् तां तेनर्ध्नोति
(प्ब् 25.14.3) अथ यत् तपस् तप्यते या दैवी तां तेन
(प्ब् 25.14.4) यद् आग्नेयो ऽष्टाकपालो भवत्य् अग्निमुखा वै देवता मुखत एव तद् देवता ऋध्नोत्य् अथो प्रातस्सवनम् एव तेनाप्नोत्य् अथ यद् ऐन्द्र एकादशकपालो भवत्य् ऐन्द्रं वै माध्यन्दिनं सवणं माध्यन्दिनम् एव सवनं तेनाप्नोत्य् अथ यद् वैश्वदेवश् चरुर् भवति वैश्वदेवं वै तृतीयसवनं तृतीयसवनम् एव तेनाप्नोति
(प्ब् 25.14.5) एतेन वै पुरो देवमुनिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नोति य एतद् उपैति
(प्ब् 25.15.1) अतिरात्राव् अभितो ऽग्निष्टोमा मध्ये सर्वो दशदशी संवत्सरो द्वादशो विषुवान् सर्पसामानि विषुवति क्रियन्ते
(प्ब् 25.15.2) एतेन वै सर्पा एषु लोकेषु प्रत्यतिष्ठन्न् एषु लोकेषु प्रतितिष्ठन्ति य एतद् उपयन्ति
(प्ब् 25.15.3) जर्वरो गृहपतिः धृतराष्ट्र ऐरावतो ब्रह्मा पृथुश्वरा दौरेश्रवस उद्गाता ग्लावश् चाजगावश् च प्रस्तोतृप्रतिहर्तारौ दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालेयो ब्राह्मणाच्छंसी शिखानुशिखौ नेष्टापोतारौ अरुण आटोच्छावाकः तिमिर्घो दौरेश्रुतो ऽग्नीत् कौतस्ताव् अध्वर्यू अरिमेजयश् च जनमेजयश् चार्बुदो ग्रावस् तु दजिरः सुब्रह्मण्यः चक्कपिशङ्गाव् उन्नेतारौ षण्डकुषण्डाव् अभिगरापगरौ
(प्ब् 25.15.4) एतेन वै सर्पा अपमृत्युम् अजयन्न् अपमृत्युं जयन्ति य एतद् उपयन्ति तस्मात् ते हित्वा जीर्णां त्वचम् अतिसर्पन्त्य् अप हि ते मृत्युम् अजयन् सर्पा वा आदित्या आदित्यानाम् इवैषां प्रकाशो भवति य एतद् उपयन्ति
(प्ब् 25.16.1) गवाम् अयनं प्रथमः संवत्सरो ऽथादित्यानाम् अथाङ्गिरसाम्
(प्ब् 25.16.2) एतेन वै गावः प्रजातिं भूमानम् अगच्छन् प्रजायन्ते बहवो भवन्ति य एतद् उपयन्त्य् एतेन वा आदित्या एषु लोकेषु प्रत्यतिष्ठन् प्रतितिष्ठन्ति य एतद् उपयन्त्य् एतेन वा अङ्गिरसः स्वर्गं लोकम् आयन् स्वर्गं लोकं यन्ति य एतद् उपयन्ति
(प्ब् 25.16.3) पर आह्णारस् त्रसदस्युः पौरुकुत्सो वीतहव्यः श्रायसः कक्षीवान् औशिजस् त एतत् प्रजातिकामाः सत्त्रायणम् उपायंस् ते सहस्रं सहस्रं पुत्रान् अपुष्यन्न् एवं वाव ते सहस्रं सहस्रं पुत्रान् पुष्यन्ति य एतद् उपयन्ति
(प्ब् 25.17.1) अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः प्रजापतेः सहस्रसंवत्सरम्
(प्ब् 25.17.2) एतेन वै प्रजापतिः सर्वस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति
(प्ब् 25.17.3) एतद् वै प्रजापतिर् जीर्या मूर उपैत् तेन जराम् अपाहताप जरां घ्नते य एतद् उपयन्ति
(प्ब् 25.17.4) तद् एतत् प्रजापतेः सहस्रसंवत्सरम् एतेन वै प्रजापतिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
(प्ब् 25.18.1) पञ्च पञ्चाशतस् त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशा पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम्
(प्ब् 25.18.2) एतेन वै विश्वसृज इदं विश्वम् असृजन्त यद् विश्वम् असृजन्त तस्मात् विश्वसृजः
(प्ब् 25.18.3) विश्वम् एनान् अनु प्रजायते य एतद् उपयन्ति
(प्ब् 25.18.4) तपो गृहपतिर् ब्रह्म ब्रह्मेरा पत्न्य् अमृतम् उद्गाता भूतं प्रस्तोता भविष्यत् प्रतिहर्तर्तव उपगातार आर्तवाः सदस्याः सत्यं होतर्तं मैत्रावरुण ओजो ब्राह्मणाच्छंसी त्विषिश् चापचितिश् च नेष्टापोतारौ यशो ऽच्छावाको ऽग्निर् एवाग्नीद् भगो ग्रावस्तुद् ऊर्ग् उन्नेता वाक् सुब्रह्मण्यः प्राणो ऽध्वर्युर् अपानः प्रतिप्रस्थाता दिष्टिर् विशास्ता बलं ध्रुवगोपम् आशा हविष्येष्य् अहोरात्राव् इध्मवाहौ मृत्युः शमितैते दीक्षन्ते
(प्ब् 25.18.5) तद् एष श्लोको विश्वसृजः प्रथमे सत्त्रम् आसत सहस्रसमं प्रसुतेन यन्तस् ते ह यज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनाम् एति
(प्ब् 25.18.6) ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतद् उपयन्ति तद् एतद् विश्वसृजां सहस्रसंवत्सरम् एतेन वै विश्वसृजः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति
मूल पाठ: Pañcaviṃśabrāhmaṇa · Data entry Martin Kümmel Arlo Griffiths Masato Kobayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0