पञ्चविंशब्राह्मण · भाग 2140
(प्ब् 7.6.7) ज्येष्ठब्राह्मणं वा एतत्
(प्ब् 7.6.8) प्र ज्यैष्ठ्यम् आप्नोति य एवंव् वेद
(प्ब् 7.6.9) यन् न्व् इत्य् आहुर् बृहत् पूर्वं प्रजापतौ समभवत् कस्माद् रथन्तरं पूर्वं योगम् आनश इति
(प्ब् 7.6.10) बृहद् एव पूर्वं समभवद् रथन्तरं तु पूर्वं सृष्ट्यासृजत तस्मात् पूर्वं योगम् आनशे
(प्ब् 7.6.11) तयोः समानं निधनम् आसीत् तस्मिन् नातिष्ठेतां त आजिम् ऐतां तयोर् हस् इति बृहत् प्राणम् उदजयद् अस् इति रथन्तरम् अपानम् अभिसमवेष्टत
(प्ब् 7.6.12) प्राणापानौ वै बृहद्रथन्तरे ज्योग् आमयाविन उभे कुर्याद् अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योग् आमयति प्राणापानाव् एवास्मिन् दधाति
(प्ब् 7.6.13) यन् न्व् इत्य् आहुर् उभे बृहद्रथन्तरे बहिर्णिधने कस्माद् बृहद् बहिर्णिधनानि भजते ऽन्तर्णिधनानि रथन्तरम् इति
(प्ब् 7.6.14) प्राणो बृहत् तस्माद् बहिर्णिधनानि भजते बहिर् हि प्राणो ऽपानो रथन्तरं तस्माद् अन्तर्णिधनानि भजते ऽन्तर् ह्य् अपानः
(प्ब् 7.6.15) महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्प्ये
(प्ब् 7.6.16) यद् वै महावृक्षौ समृच्छेते बहु तत्र विभग्नं प्रभग्नं शेते
(प्ब् 7.6.17) ऐरं वै बृहद् ऐडं रथन्तरं मनो वै बृहद् वाग् रथन्तरं साम् अ वै बृहद् ऋग् रथन्तरं प्राणो वै बृहद् अपानो रथन्तरम् असौ वै लोको बृहद् अयं रथन्तरम् एतानि मनसान्वीक्ष्योद्गायेत् कॢप्ताभ्याम् एवाभ्याम् उद्गायति
(प्ब् 7.7.1) पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया (?) ऋचः प्रस्तौत्य् अष्टाशफांस् तत् पशून् अवरुन्धे
(प्ब् 7.7.2) द्व्यक्षरेणोत्तरयोर् ऋचोः प्रस्तौति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्ठापयति
(प्ब् 7.7.3) पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस् तत् पशून् अवरुन्धे
(प्ब् 7.7.4) चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस् तत् पशून् अवरुन्धे
(प्ब् 7.7.5) न वै बृहन् न रथन्तरम् एकं छन्दो ऽयच्छत् ततः ककुभाव् उत्तरे उपादधुस् तस्माद् बृहती प्रथमा ककुभाव् उत्तरे तस्माद् बृहद्रथन्तरे एकर्चेन कुर्वन्ति न हि ते एकं छन्दो ऽयच्छत्
(प्ब् 7.7.6) नव बृहतो रोहान् रोहति नव प्राणाः प्राणान् एवावरुन्धे
(प्ब् 7.7.7) त्रीन् प्रथमायां रोहति भूतं भवद् भविष्यत् तान् एवावरुन्धे त्रीन् मध्यमायां रोहत्य् आत्मानं प्रजां पश्+ऊंस् तान् एवावरुन्धे त्रीन् उत्तमायां रोहति त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 7.7.8) सर्वान् कामान् अवरुन्धे य एवंव् विद्वान् बृहतो रोहान् रोहति
(प्ब् 7.7.9) वज्रेण वा एतत् प्रस्तोतोद्गातारम् अभिप्रवर्तयति यद् रथन्तरं प्रस्तौति समुद्रम् अन्तर्धायोद्गायेद् वाग् इत्य् आदेयंव् वाग् वै समुद्रः समुद्रम् एवान्तर्दधात्य् अहिंसायै
(प्ब् 7.7.10) बलवद् गेयं वज्रम् एवं प्रवृत्तं प्रत्युद्गृह्णाति
(प्ब् 7.7.11) बल्वला कुर्वता गेयम् अभिलोभयतेव वज्रम् एवाभिलोभयति
(प्ब् 7.7.12) क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 7.7.13) देवरथो वै रथन्तरम् अक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयम् अरेणारेण हि रथः प्रतितिष्ठति
(प्ब् 7.7.14) यो वै देवरथम् अनन्वालभ्यातिष्ठत्य् अवास्मात् पद्यत इयं वै देवरथ इमाम् आलभ्योद्गायेन् नास्माद् अवपद्यते
(प्ब् 7.7.15) ईश्वरं वै रथन्तरम् उद्गातुश् चक्षुः प्रमथितोः प्रस्तुयमाने संमीलेत् स्वर्दृशं प्रतिवीक्षेत नैनं चक्षुर् जहाति
(प्ब् 7.7.16) प्रजननं वै रथन्तरं यत् तस्थुष इत्य् आहास्थायुकोद्गातुर् वाग् भवत्य् अपि प्रजननं हन्त्य् अस्थुष इति वक्तव्यं सुस्थुष इति वा स्थायुकोद्गातुर् वाग् भवति न प्रजननम् अपि हन्ति
(प्ब् 7.7.17) पृष्ठानि वा असृज्यन्त तैर् देवाः स्वर्गंल् लोकम् आयंस् तेषां रथन्तरं महिम्ना नाशक्नोद् उत्पतत्
(प्ब् 7.7.18) तस्य वशिष्ठो महिम्नो विनिधाय तेन स्तुत्वा स्वर्गंल् लोकम् ऐत् तान् संभृत्योद्गायेत्
(प्ब् 7.7.19) यस् ते गोषु महिमा यस् ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस् ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन् न एधि
(प्ब् 7.8.1) अपो वा ऋत्व्यम् आर्च्छत् तासांव् वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन् मित्रावरुणौ पर्यपश्यतां ताव् अब्रूतांव् वामं मर्या इदं देवेष्व् आजानीति तस्माद् वामदेव्यम्
(प्ब् 7.8.2) तत् परिगृह्णन्ताव् अब्रूताम् इदम् अविदावेदं नौ माभ्यर्तिढ्वम् इति तत् प्रजापतिर् अब्रवीन् मद् वा एतद् ध्य् अजनि मम वा एतद् इति तद् अग्निर् अब्रवीन् मां (?) वा एतद् अन्नम् अजनि मम वा एतद् इति तद् इन्द्रो ऽब्रवीच् छ्रेष्ठस्था वा एतद् अहं वः श्रेष्ठो ऽस्मि मम वा एतद् इति तद् विश्वे देवा अब्रुवन्न् अस्मद्देवत्यं वा एतद् यद् अद्भ्यो ऽधि समभूद् अस्माकं वा एतद् इति तत् प्रजापतिर् अब्रवीत् सर्वेषां न इदम् अस्तु सर्व इदम् उपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम्
(प्ब् 7.8.3) यत् कवतीषु तेन प्राजापत्यं को हि प्रजापतिर् यद् अनिरुक्तासु तेन प्राजापत्यम् अनिरुक्तो हि प्रजापतिः
(प्ब् 7.8.4) यद् गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्य् अग्निः
(प्ब् 7.8.5) यत् पृष्ठेषु न्यददधुस् तेनैन्द्रं सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि
(प्ब् 7.8.6) यन् मैत्रावरुणो ऽनुशंसति तेन मैत्रावरुणम्
(प्ब् 7.8.7) यद् बहुदेवत्यम् उत्तमं पदं तेन वैश्वदेवं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 7.8.8) प्रजापतिर् वा एतां गायत्रीं योनिम् अपश्यत् स आदीधीतास्माद् योनेः पृष्ठानि सृजा इति
(प्ब् 7.8.9) स रथन्तरम् असृजत तद् रथस्य घोषो ऽन्वसृज्यत
(प्ब् 7.8.10) स बृहद् असृजत तत् स्तनयित्नोर् घोषो ऽन्वसृज्यत स वैरूपम् असृजत तद् वा तस्य घोषो ऽन्वसृज्यत
(प्ब् 7.8.11) स वैरूपम् असृजत तद् अग्नेर् घोषो ऽन्वसृज्यत
(प्ब् 7.8.12) स शक्वरीर् असृजत तद् अपां घोषो ऽन्वसृज्यत
(प्ब् 7.8.13) स रेवतीर् असृजत तद् गवां घोषो ऽन्वसृज्यत
(प्ब् 7.8.14) एतैर् वा एतानि सह घोषैर् असृज्यन्त
(प्ब् 7.8.15) सर्वे ऽस्मिन् घोषाः सर्वाः पुण्या वाचो वदन्ति य एवंव् वेद
(प्ब् 7.9.1) पिता वै वामदेव्यं पुत्राः पृष्ठानि
(प्ब् 7.9.2) एतस्माद् वा एतानि योनेर् असृज्यन्त
(प्ब् 7.9.3) तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्ति शान्त्यै
(प्ब् 7.9.4) यद् धि पुत्रो ऽशान्तं चरति पिता तच् छमयति
(प्ब् 7.9.5) अयं वै लोको मध्यमो वामदेव्यम् एतस्माद् वा इमौ लोकौ विष्वञ्चाव् असृज्येतां बृहच् च रतन्तरं च
(प्ब् 7.9.6) यद् रथन्तरेण स्तुवन्ति ये रथन्तराः पशवो ऽन्तरीक्षं त उपश्रयन्ति यद् बृहता स्तुवन्ति ये बार्हताः पशवो ऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः
(प्ब् 7.9.7) ध्रुव आसीनो वामदेव्येनोद्गायेत् पशूनाम् उपवृत्यै
(प्ब् 7.9.8) उपैनं पशव आवर्तन्ते य एवंव् वेद
(प्ब् 7.9.9) अन्तरिक्षं वै वामदेव्यम् अधून्वतेवोद्गेयम् अधूतम् इवान्तरिक्षं पशवो वै वामदेव्यम् अहिंसतेवोद्गेयं पशूनाम् अहिंसायै
(प्ब् 7.9.10) कथम् इव वामदेव्यं गेयम् इत्य् आहुः
(प्ब् 7.9.11) यथाङ्कुली पुत्रान् संदश्यासंभिन्दन्ती हरति यथा वातो ऽप्सु शनैर् वाति
(प्ब् 7.9.12) स्वधूर् वामदेव्यं गेयम्
(प्ब् 7.9.13) यो वै स्वधूर् वामदेव्यं गायति स्वधूर् भवति
(प्ब् 7.9.14) यात्य् अस्यान्यो नियानेन नान्यस्य नियानेन याति
(प्ब् 7.9.15) न बृहतो न रथन्तरस्यानुरूपं गेयं स्वेनैवायतनेन गेयम् आयतनवान् भवति
(प्ब् 7.9.16) देवा वै पशून् व्यभजन्त ते रुद्रम् अन्तरायंस् तान् वामदेव्यस्य स्तोत्र उपेक्षते
(प्ब् 7.9.17) अनिरुक्तं गेयम्
(प्ब् 7.9.18) यन् निराह रुद्राय पशून् अपिदधाति रुद्रस् तां समां पशून् धातुको भवति
(प्ब् 7.9.19) रेवतीषु वामदेव्येन पशुकामः स्तुवीत
(प्ब् 7.9.20) आपो वै रेवत्यः पशवो वामदेव्यम् अद्भ्य एवास्मै पशून् प्रजनयति
(प्ब् 7.9.21) अनवर्तिः पशुतो भवति प्रजा स्वस्य मीलितेव भवति
(प्ब् 7.9.22) कवतीभ्यो ह्य् एति प्रजापतेः
(प्ब् 7.10.1) इमौ वै लोकौ सहास्तां तौ वियन्ताव् अब्रूतांव् विवाहंव् विवहावहै सह नाव् अस्त्व् इति
(प्ब् 7.10.2) तयोर् अयम् अमुष्मै श्यैतं प्रायच्छन् नौधसम् असाव् अस्मै
(प्ब् 7.10.3) तत एनयोर् निधने विपर्यक्रामतां देवविवाहो वै श्यैतनौधसे
(प्ब् 7.10.4) प्रवसीयांसं विवाहम् आप्नोति य एवंव् वेद
(प्ब् 7.10.5) इतो वा इमे लोका ऊर्ध्वाः कल्पमाना यन्त्य् अमुतो ऽर्वाञ्चः कल्पमाना आयन्ति
(प्ब् 7.10.6) यद् रथन्तरेण स्तुवन्तीमंल् लोकं तेन युनक्त्य् अन्तरिक्षंव् वामदेव्येन नौधसेनामुं यद् बृहता स्तुवन्त्य् अमुंल् लोकं तेन यनक्त्य् अन्तरिक्षंव् वामदेव्येन श्यैतेनेमम्
(प्ब् 7.10.7) कॢप्तान् इमाल् लोकान् उपास्ते य एवंव् वेद
(प्ब् 7.10.8) बृहद्रथन्तरे वै शैतनौधसे यद् रथन्तराय नौधसं प्रति प्रयुञ्जन्ति बृहद् एवास्मै तत् प्रति प्रयुञ्जन्ति बृहद् ध्य् एतत् परोऽक्षं यन् नौधसं यद् बृहते श्यैतं प्रति प्रयुञ्जन्ति रथन्तरम् एवास्मै तत् प्रति प्रयुञ्जन्ति रथन्तरं ह्य् एतत् परोऽक्षं यच् छ्यैतम्
(प्ब् 7.10.9) उभभ्यां बृहद्रथन्तराभ्यां स्तुते य एवंव् वेद
(प्ब् 7.10.10) देवा वै ब्रह्म व्यभजन्त तां नोधाः काक्षीवत आगच्छत् ते ऽब्रुवन्न् ऋषिर् न आगंस् तस्मै ब्रह्म ददामेति तस्मा एतत् साम प्रायच्छंस् तस्मान् नौधसं ब्रह्म वै नौधसम्
(प्ब् 7.10.11) ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति
(प्ब् 7.10.12) अथैतच् छ्यैतम्
(प्ब् 7.10.13) प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् एतेन साम्नाभिव्याहरत् ते ऽस्मा अतिष्ठन्त ते शेत्या अभवन् यच् छेत्या अभवंस् तस्माच् छ्यैतं पशवो वै श्यैतम्
(प्ब् 7.10.14) पशुकाम एतेन स्तुवीत पशुमान् भवति
(प्ब् 7.10.15) प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंस् ताः श्यैतेन हुंमा इत्य् अभ्यजिघ्रत् ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवं विद्वाञ् छ्यैतेनोद्गायति
(प्ब् 7.10.16) एष वै यजमानस्य प्रजापतिर् यद् उद्गाता यच् छ्यैतेन हिङ् करोति प्रजापतिर् एव भूत्वा प्रजा अभिजिह्ग्रति
(प्ब् 7.10.17) वसुनिधनं भवति पशवो वै वसु पशुष्व् एव प्रतितिष्ठति
(प्ब् 8.1.1) आष्कारणिधनं काण्वंव् वषट्कारणिधनम् अभिचरणीयस्य ब्रह्मसाम कुर्याद् अभिनिधनं माध्यन्दिने पवमाने
(प्ब् 8.1.2) देवेषुर् वा एषा यद् वषत्कारो ऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरद् अभीत्येवास्मै वज्रं प्रहृत्य देवेष्व् आ वषट्कारेण विध्यति
(प्ब् 8.1.3) त्रैककुभं पशुकामाय ब्रह्मसाम कुर्यात् त्वम् अङ्ग प्रशंसिष इत्य् एतासु
(प्ब् 8.1.4) इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस् ते ऽब्रुवन् को नः पुत्रान् भरिष्यन्तीत्य् अहम् इन्तीन्द्रो ऽब्रवीत् तांस् त्रिककुब् अधिनिधायाचरत् स एतत् सामापश्यद् यत् त्रिककुब् अपश्यत् तस्मात् त्रैककुभम्
(प्ब् 8.1.5) स आत्मानम् एव पुनर् उपाधावत् त्वम् अङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वद् अन्यो मघवन्न् अस्ति च मर्डितेन्द्र ब्रवीमि ते वच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशून् असृजत तान् एभ्यः प्रायच्छत् ते प्रत्यतिष्ठन्
(प्ब् 8.1.6) यः पशुकामः स्याद् यह् प्रतिष्ठाकाम एतस्मिन् प्रगाथ एतेन साम्ना स्तुवीत प्र सहस्रं पशून् आप्नोति प्रतितिष्ठति
(प्ब् 8.1.7) त्रिवीर्यं वा एतत् साम त्रीन्द्रियम् ऐन्द्र्य ऋच ऐन्द्रं सामैन्द्रेति निधनम् इन्द्रिय एव वीर्ये प्रतितिष्ठति
(प्ब् 8.1.8) त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात्
(प्ब् 8.1.9) इमे वै लोकाः सहासंस् ते ऽशोचन्तंस् तेषाम् इन्द्र एतेन साम्ना शुचम् अपाहन् यत् त्रयाणां शोचताम् अपाहंस् तस्मात् त्रैशोकम्
(प्ब् 8.1.10) यास्माद् अपाहन् सा पुंश्चलीं प्राविशद् याम् अन्तरिक्षात् सा क्लीबं याम् अमुष्मात् सैनस्विनम्
(प्ब् 8.1.11) तस्मात् तेषां नाशैतव्या य एषाम् आशामेति तस्मा एव शुचो ऽपभजते
(प्ब् 8.1.12) शुचा वा एष विद्धो यस्य ज्योग् आमयति यत् त्रैशोकं ब्रह्मसाम भवति शुचम् एवास्माद् अपहन्ति
(प्ब् 8.1.13) दिवेति निधनम् उपयन्ति व्युष्टिर् वै दिवा व्य् एवास्मै वासयति
(प्ब् 8.2.1) आष्कारणिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कुर्यात्
(प्ब् 8.2.2) कण्वो वा एतत् सामर्ते निधनम् अपश्यत् स न प्रत्यतिष्ठत् स वृषदंशस्याषिति क्षुवत उपाशृणोत् स तद् एव निधनम् अपश्यत् ततो वै स प्रत्यतिष्ठद् यद् एतत् साम भवति प्रतिष्ठित्यै
(प्ब् 8.2.3) वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्यात्
(प्ब् 8.2.4) वसिष्ठो वा एतत् पुत्रहतः सामापश्यत् स प्रजया पशुभिः प्राजायत यद् एतत् साम भवति प्रजात्यै
(प्ब् 8.2.5) आथर्वणं लोककामाय ब्रह्मसाम कुर्यात्
(प्ब् 8.2.6) अथर्वाणो वा एतल् लोकाकामाः सामापश्यंस् तेनामर्त्यंल् लोकम् अपश्यन् यद् एतत् साम भवति स्वर्गस्य लोकस्य प्रजात्यै
(प्ब् 8.2.7) अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात्
(प्ब् 8.2.8) अभीवर्तेन वै देवा असुरान् अभ्यवर्तन्त यद् अभीवर्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै
(प्ब् 8.2.9) श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात्
(प्ब् 8.2.10) प्रजापतिर् उषसम् अध्यैत् स्वां दुहितरं तस्य रेतः परापतत् तद् अस्यां न्यषिच्यत तद् अश्रीणाद् इदं मे मा दुषद् इति तत् सद् अकरोत् पशून् एव
(प्ब् 8.2.11) यच् छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनं सच् च करोति
(प्ब् 8.3.1) देवाश् च वा असुराश् चैषु लोकेष्व् अस्पर्धन्त ते देवाः प्रजापतिम् उपाधावंस् तेभ्य एतत् साम प्रायच्छद् एतेनैनान् कालयिष्यद्धम् इति तेनैनान् एभ्यो लोकेभ्यो ऽकालयन्त यद् अकालयन्त तस्मात् कालेयम्
(प्ब् 8.3.2) एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवंव् वेद
(प्ब् 8.3.3) स्तोमो वै देवेषु तरो नामासीद् यज्ञो ऽसुरेषु विदद्वसुस् ते देवास् तरोभिर् वो विदद्वसुम् इति स्तोमेन यज्ञम् असुराणाम् आवृञ्जत
(प्ब् 8.3.4) स्तोमेन यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद
(प्ब् 8.3.5) साह्द्या वै नाम देवा आसंस् ते ऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल् लोकम् आयंस् तद् देवाः लोकेयेन समतन्वन् यत् कालेयं भवति तृतीयसवनस्य संतत्यै
(प्ब् 8.3.6) विदद्वसु वै तृतीयसवनं यत् तरोभिर् वो विदद्वसुम् इति प्रस्तौति तृतीयसवनम् एव तद् अभ्यतिवदति
(प्ब् 8.3.7) सर्वाणि वै रूपाणि कालेयं यत् पदप्रस्तावं तेन राथन्तरं यद् बृहतो रोहान् रोहति तेन बार्हतं यत् स्तोभवान् प्रतिहारस् तेन बार्हतं यद् द्रवदिडं तेन राथन्तरं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 8.4.1) साध्या वै नाम देवा आसंस् ते सर्वेण यज्ञेन सह स्वर्गंल् लोकम् आयंस् ते देवाशीछन्दांस्य् अब्रुवन् सोमम् आहरतेति ते जगतीं प्राहिण्वन् सा त्रीण्य् अक्षराणि हित्वैकाक्षरा भूत्वागच्छत् त्रिष्टुभं प्राहिण्वन् सैकम् अक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश् चतुरक्षराणि वै तर्हि च्छन्दांस्य् आसन् सा तानि चाक्षराणि हरन्त्य् आगच्छद् अष्टाक्षरा भूत्वा त्रीणि च सवनानि हस्ताभ्यां द्वे सवने दन्तैर् दंष्ट्वा तृतीयसवनं तस्माद् द्वे अंशुमती सवने धीतं तृतीयसवनं दन्तैर् हि तद् दंष्ट्वा धयन्त्य् अहरत् तस्य ये ह्रियमाणस्यांशवः परापतंस् ते पूतीका अभवन् यानि पुष्पाण्य् अवाशीयन्त तान्य् अर्ज्जुनानि यत् प्राप्रोथत् ते प्रप्रोथास् तस्मात् तृतीयसवन आशिरम् अवनयन्ति यम् एव तं गावः सोमम् अदन्ति तस्य तं रसम् अवनयन्ति ससोमत्वाय
(प्ब् 8.4.2) ते त्रिष्टुब् जगत्यै गायत्रीम् अब्रूताम् उप त्वायावेति साब्रवीत् किं मे ततः स्याद् इति यत् कामयस इत्य् अब्रूतां साब्व्रवीन् मम सर्वं प्रातःसवनम् अहम् उत्तरे सवने प्रणयानीति तस्माद् गायत्रं प्रातःसवनं गायत्र्य् उत्तरे सवने प्रणयति
(प्ब् 8.4.3) तान् त्रिष्टुप् त्रिभिर् अक्षरैर् उपैत् सैकादशाक्षरा भूत्वा प्राजायत तां जगत्य् एकेनाक्षरेणोपैत् सा द्वादशाक्षरा भूत्वा प्राजायत
(प्ब् 8.4.4) तस्माद् आहुर् गायत्री वाव सर्वाणि च्छन्दांसि गायत्री ह्य् एतान् पोषान् पुष्यन्त्य् ऐद् इति
(प्ब् 8.4.5) इन्द्रस् तृतीयसवनाद् बीभत्समान उदक्रामत् तद् देवाः स्वादिष्ठयेति अस्वदयन् मदिष्ठयेति मद्वद् अकुर्वन् पवस्व सोम धारयेत्य् अपावयन्न् इन्द्राय पातवे सुत इति ततो वै तद् इन्द्र उपावर्तत यत् स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय
(प्ब् 8.4.6) स्वादिष्ठा वै देवेषु पशव आसन् मदिष्ठा असुरेषु ते देवाः स्वादिष्ठया मदिष्ठयेति पशून् असुराणाम् अवृञ्जत
(प्ब् 8.4.7) पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद
(प्ब् 8.4.8) तासु संहितम्
(प्ब् 8.4.9) साध्या वै नामदेवा आसंस् ते ऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल् लोकम् आयंस् तद् देवाः संहितेन समदधुर् यत् समदधुस् तस्मात् संहितम्
(प्ब् 8.4.10) कालेयं पुरस्ताद् भवति संहितम् उपरिष्टाद् एताभ्यां हि तृतीयसवनं संतायते
(प्ब् 8.4.11) सर्वाणि वै रूपाणि संहितं यत् पदप्रस्तावं तेन राथन्तरं यद् बृहतो रोहान् रोहति तेन बार्हतं यद् पदनिधनं तेन राथन्तरं सर्वेष्व् एव रूपेषु प्रतितिष्ठति
(प्ब् 8.5.1) उष्णिक्ककुभाव् एते भवतः
(प्ब् 8.5.2) उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत् ककुभि पराक्रमतोष्णिहा प्राहरत् तस्मात् ककुभो मध्यमं पदं भूयिष्ठाक्षरं पराक्रमणं हि तद् अभि समौहत् तस्माद् उष्णिह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुर् इव हि वज्रः
(प्ब् 8.5.3) वज्रं भ्रातृव्याय प्रहरति य एवंव् वेद
(प्ब् 8.5.4) नासिके वा एते यज्ञस्य यद् उष्णिक्ककुभौ तस्मात् समानं छन्दः सती नाना यज्ञंव् वहतस् तस्मात् समानाया नासिकायाः सत्या नाना प्राणाव् उच्चरतः
(प्ब् 8.5.5) प्राणा वा उष्णिक्ककुभौ तस्मात् ताभ्यां न वषट् कुर्वन्ति यद् वषट् कुर्युः प्राणान् अग्नौ प्रदध्युः
(प्ब् 8.5.6) तासु सफं विफम् इव वै तृतीयसवनं तृतीयसवनस्य सफत्वायाथौष्कलम् एतेन वै प्रजापतिः पुष्कलान् पशून् असृजत तेषु रूपम् अदधाद् यद् एतत् साम भवति पशुष्व् एव रूपं दधाति
(प्ब् 8.5.7) पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल् लोकम् आयन्न् अक्षर्यया ऋषयो नु प्राजानान् यद् एते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै
(प्ब् 8.5.8) तासु श्यावाश्वम्
(प्ब् 8.5.9) श्यावाश्वम् आर्वनानसं सत्त्रम् आसीनं धन्वोदवहन् स एतत् सामापश्यत् तेन वृष्टिम् असृजत ततो वै स प्रत्यतिष्ठत् ततो गातुम् अविन्दत गातुविद् वा एतत् साम
(प्ब् 8.5.10) विन्दते गातुं प्रतितिष्ठत्य् एतेन तुष्टुवानः
(प्ब् 8.5.11) इन्द्रस् तृतीयसवनाद् बीभत्समान उदक्रामत् तं देवाः श्यावाश्ल्वेनैहायि एहियेत्य् अन्वाह्वयन् स उपावर्तत यद् एतत् साम भवति तृतीयसवनस्य सेन्द्रत्वाय
(प्ब् 8.5.12) अथैतद् आन्धीगवम् अन्धीगुर् वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्ट्यै मध्ये निधनम् ऐडं भवत्य् एतेन वै तृतीयसवनं प्रतिष्ठितं यन् मध्ये निधनम् ऐडं न स्याद् अप्रतिष्ठितं तृतीयसवनं स्यात्
(प्ब् 8.5.13) दशाक्षरं मध्यतो निधनम् उपयन्ति दशाक्षरा विराड् विराज्य् एव प्रतितिष्ठति
(प्ब् 8.5.14) अभि प्रियाणि पवत इति कावं प्राजापत्यं साम
(प्ब् 8.5.15) प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायाम् एव पशुषु प्रतितिष्त्शुषु प्रतितिष्ठति
(प्ब् 8.5.16) रश्मी वा एतौ यज्ञस्य यद् औशनकावे देवकोशो वा एष यज्ञम् अभिसमुब्जितो यद् एते अन्ततो भवतो यज्ञस्यारिष्ट्यै
(प्ब् 8.6.1) देवा वै ब्रह्म व्यभजन्त तस्य यो रसो ऽत्यरिच्यत तद् यज्ञायज्ञीयम् अभवत्
(प्ब् 8.6.2) ब्रह्मणो वा एष रसो यद् यज्ञायज्ञीयं यद् यज्ञायज्ञीयेन स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयति
(प्ब् 8.6.3) योनिर् वै यज्ञायज्ञीयम् एतस्माद् वै योनेः प्रजापतिर् यज्ञम् असृजत तस्माद् यज्ञायज्ञीयम्
(प्ब् 8.6.4) तस्माद् वा एतेन पुरा ब्राह्मणा बहिष्पवमानम् अस्तोषत योनेर् यज्ञं प्रतनवामहा इति यज्ञं ततः स्तुवन्ति योनौ यज्ञं प्रतिष्ठापयति
(प्ब् 8.6.5) असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयम् अपश्यंस् तेषां यज्ञा-यज्ञा वो अग्नय इत्य् अग्निहोत्रम् अवृञ्जत गिरा-गिरा च दक्षस इति दर्शपूर्णमासौ प्र-प्र वयम् अमृतं जातवेदसम् इति चातुर्मास्यानि प्रियं मित्रं न शंसिषम् इति सौम्यम् अध्वरम्
(प्ब् 8.6.6) यज्ञा वो अग्नये गिरा च दक्षसे प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शंसिषम् इति वै तर्हि च्छन्दांस्य् आसंस् ते देवा अभ्यारम्भम् अभिनिवर्त्यं च्छन्दोभिर् यज्ञम् असुराणाम् अवृञ्जत
(प्ब् 8.6.7) छन्दोभिर् यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद
(प्ब् 8.6.8) एतद् ध स्म वा आह कूशाम्बः स्वायवो ब्रह्मा लातव्यः कं स्विद् अद्य शिशुमारी यज्ञपथे ऽप्यस्ता गरिष्यति
(प्ब् 8.6.9) एषा वै शिशुमारी यज्ञपथे ऽप्यस्ता यज्ञायज्ञीयं यद् गिरा-गिरेत्य् आहात्मानं तद् उद्गाता गिरति
(प्ब् 8.6.10) ऐरं कृत्वोद्गेयम् इरायां यज्ञं प्रतिष्ठापयत्य् अप्रमायुक उद्गाता भवति
(प्ब् 8.6.11) वैश्वानरे वा एतद् उद्गातात्मानं प्रदधाति यत् प्र-प्र वयम् इत्य् आह प्रप्रीं वयम् इति वक्तव्यंव् वैश्वानरम् एव परिक्रामति
(प्ब् 8.6.12) यो वै निह्नुवानं च्छन्द उपैति पापीयान् उज्जगिवान् भवत्य् एतद् वै निह्नुवानं च्छन्दो यन् न शंसिषम् इति नु शंसिषम् इति वक्तव्यं सुशंसिषम् इति वा न निह्नुवानं छन्द उपैति वसीयान् उज्जगिवान् भवति
(प्ब् 8.6.13) यस्य वै यज्ञा वागन्ता भवन्ति वाचश् छिद्रेण स्रवन्त्य् एते वै यज्ञा वागन्ता ये यज्ञायज्ञीयान्ता एतद् वाचश् छिद्रं यद् अनृतं यद् अग्निष्टोमयाज्य् अनृतम् आह तद् अन्व् अस्य यज्ञः स्रवत्य् अक्षरेणान्ततः प्रतिष्ठाप्यम् अक्षरेणैव यज्ञस्य च्छिद्रम् अपि दधाति
(प्ब् 8.6.14) विराजो वा एतद् रूपं यद् अक्षरं विराज्य् एवान्ततः प्रतितिष्ठति
(प्ब् 8.7.1) इतो वै प्रातर् ऊर्ध्वाणि च्छन्दांसि युज्यन्ते ऽमुतो ऽवाञ्चि यज्ञायज्ञीयस्य स्तोत्रे युज्यन्ते यज्ञा वो अग्नये गिरा च दक्षस इति द्वादशाक्षरं प्र वयम् अमृतं जातवेदसम् इत्य् एकादशाक्षरं प्रियं मित्रंन् न शंसिषम् इत्य् अष्टाक्षरम्
(प्ब् 8.7.2) अनुष्टुभम् उत्तमां संपादयतीयं वा अनुष्टुब् अस्याम् एव प्रतितिष्ठति
(प्ब् 8.7.3) वाग् वा अनुष्टुब् वाच्य् एव प्रतितिष्ठति ज्यैष्ठ्यं वा अनुष्टुब् जैष्ठ्य एव प्रतितिष्ठति
(प्ब् 8.7.4) कथम् इव यज्ञायज्ञीयं गेयम् इत्य् आहुर् यथानड्वान् प्रस्रावयमाण इत्थम् इव चेत्थम् इव चेति
(प्ब् 8.7.5) वैश्वानरं वा एतद् उद्गातानु प्रसीदन्न् एतीत्य् आहुर् यद् यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव् वैश्वानरम् एव परिक्रामति
(प्ब् 8.7.6) वैश्वानरे वा एतद् अध्वर्युः सदस्यान् अभिसृजति यद् यज्ञायज्ञीयस्य स्तोत्रम् उपावर्तयति प्रावृतेनोद्गेयंव् वैश्वानरेणानभिदाहाय
(प्ब् 8.7.7) न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तद् एव प्रावृतं तद् अप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति
(प्ब् 8.7.8) अपः पश्चात् पत्न्य उपसृजन्ति वैश्वानरम् एव तच् छमयन्त्य् आपो हि शान्तिः
(प्ब् 8.7.9) अथो रेत एव तत् सिञ्चन्त्य् आपो हि रेतः
(प्ब् 8.7.10) दक्षिणान् ऊरून् अभिषिञ्चन्ति दक्षिणतो हि रेतः सिच्यते
(प्ब् 8.7.11) महद् इव प्रत्यूह्यं मन एवास्य तज् जनयन्ति
(प्ब् 8.7.12) उद्गात्रा पत्नीः संख्यापयन्ति रेतोधेयाय
(प्ब् 8.7.13) हिङ्कारं प्रति संख्यापयन्ति हिङ्कृताद् धि रेतो ऽधीयत
(प्ब् 8.7.14) आतृतीयायाः संख्यापयन्ति त्रिवद् धि रेतः
(प्ब् 8.8.1) देवा वा अग्निष्टोमम् अभिजित्योक्थानि नाशक्नुवन्न् अभिजेतुं ते ऽग्निम् अब्रुवंस् त्वया मुखेनेदं चयामेति सो ऽब्रवीत् किं मे ततः स्याद् इति यत् कामयस इत्य् अब्रुवन् सो ऽब्रवीन् मद्देवत्यासूक्थानि प्रणयान् इति
(प्ब् 8.8.2) तस्माद् आग्नेयीषूक्थानि प्रणयन्ति
(प्ब् 8.8.3) तस्माद् उ गायत्रीषु गायत्रच्छन्दा ह्य् अग्निः
(प्ब् 8.8.4) ते ऽग्निं मुखं कृत्वा साकम् अश्वेनाभ्यक्रामन् यत् साकम् अश्वेनाभ्यक्रामंस् तस्मात् साकमश्वम्
(प्ब् 8.8.5) तस्मात् साकमश्वेनोक्थानि प्रणयन्त्य् एतेन हि तान्य् अग्रे ऽभ्यजयन्
(प्ब् 8.8.6) स इन्द्रो ऽब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति वरुणस् तंव् वरुणो ऽन्वतिष्ठद् इन्द्र आहरत् तस्माद् ऐन्द्रावरुणम् अनुशस्यते
(प्ब् 8.8.7) स एवाब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति बृहस्पतिस् तं बृहस्पतिर् अन्वतिष्टद् इन्द्र आहरत् तस्माद् ऐन्द्राबार्हस्पत्यम् अनुशस्यते स एवाब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति विष्णुस् तं विष्णुर् अन्वतिष्टद् इन्द्र आहरत् तस्माद् ऐन्द्रावैष्णवम् अनुशस्यते
(प्ब् 8.8.8) पशून् वा एभ्यस् तान् आहरत् पशवो वा उक्थानि पशुकाम उक्थेन स्तुवीत पशुमान् भवति
(प्ब् 8.8.9) बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत् तस्य तेजः परापतत् तत् सौभरम् अभवत्
(प्ब् 8.8.10) जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यद् रथन्तरं पृष्ठं रथन्तरं संधिर् नान्तरा बृहता स्तुवन्तीति यत् सौभरेण स्तुवन्ति बृहतैव तद् अन्तरा स्तुवन्ति बृहतो ह्य् एतत् तेजो यत् सौभरम्
(प्ब् 8.8.11) यदि बृहत् सामातिरात्रः स्यात् सौभरम् उक्थानां ब्रह्म साम कार्यं बृहद् एव तत् तेजसा समर्धयति
(प्ब् 8.8.12) यदि रथन्तरसाम्ना सौभरं कुर्याद् अजामितायै
(प्ब् 8.8.13) देवानां वै स्वर्गंल् लोकं +यतां दिशो ऽव्लीयन्त ताः सौभरेणो इत्य् उदस्तंभुवंस् ततो वै ता अदृंहन्त ततः प्रत्यतिष्ठंस् ततः स्वर्गंल् लोकं प्राजानन् यः स्वर्गकामः स्याद् यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्गंल् लोकं जानाति प्रतित्ष्ठति
(प्ब् 8.8.14) प्रजापतिः प्रजा असृजत ताः सृष्टा आशनायंस् ताभ्यः सौभरेणोर्ग् इत्य् अन्नं प्रायच्छत् ततो वै ताः समैधन्त
(प्ब् 8.8.15) समेधन्ते तां समां प्रजा यत्रैवंव् विद्वान् सौभरेणोद्गायति
(प्ब् 8.8.16) ता अब्रुवन् सुभृतं नो ऽभार्षीर् इति तस्मात् सौभरम्
(प्ब् 8.8.17) वृष्टिं वा अभ्यस्तां प्रायच्छद् अन्नम् एव
(प्ब् 8.8.18) यो वृष्टिकामः स्याद् यो ऽन्नाद्यकामो यः स्वर्गकामः सौभरेण स्तुवीत
(प्ब् 8.8.19) हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्ग् इत्य् अन्नाद्यकामायो इति स्वर्गकामाय
(प्ब् 8.8.20) सर्वे वै कामाः सौभरं सर्वेष्व् एव कामेषु प्रतितिष्ठति
(प्ब् 8.8.21) अथैतन् नार्मेधम्
(प्ब् 8.8.22) नृमेधसम् आङ्गिरसं सत्त्रम् आसीनं श्वभिर् अभ्याह्वयन् सो ऽग्निम् उपाधावत् पाहि नो अग्न एकयेति तंव् वैश्वानरः पर्युदतिष्ठत् ततो वै स प्रत्यतिष्ठत् ततो गातुम् अविन्दत
(प्ब् 8.8.23) गातुविद् वा एतत् साम विन्दते गातुं प्रतितिष्ठत्य् एतेन तुष्टुवानः
(प्ब् 8.8.24) नैव ह्य् एतद् अह्नो रूपं न रात्रेर् यद् उक्थानाम्
(प्ब् 8.8.25) ककुप् प्रथमाथोष्णिग् अथ पुरौष्णिग् अनुष्टुप् तेनानुष्टुभो नयन्त्य् अच्छावाकसाम्नः
(प्ब् 8.9.1) हारिवर्णं भवति
(प्ब् 8.9.2) असुरा वा एषु लोकेष्व् आसंस् तान् देवा हरिश्रियम् इत्य् अस्माल् लोकात् प्राणुदन्त विराजसीत्य् अन्तरिक्षाद् दिवो-दिव इत्य् अमुष्मात्
(प्ब् 8.9.3) तद् य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्येमांल् लोकान् अभ्यारोहति
(प्ब् 8.9.4) हरिवर्णो वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्टैः
(प्ब् 8.9.5) अङ्गिरसः स्वर्गंल् लोकं यतो रक्षांस्य् अन्वसचन्त तान्य् एतेन हरिवर्णो ऽपाहन्त यद् एतत् साम भवति रक्षसाम् अपहत्यै
(प्ब् 8.9.6) पृष्ठानि वा असृज्यन्त तेषां यत् तेजो रसो ऽत्यरिच्यत तद् देवाः समभरंस् तद् उद्वंशीयम् अभवत्
(प्ब् 8.9.7) सर्वेषां वा एतत् पृष्ठानां तेजो यद् उद्वंशीयं तस्माद् वा एतत् पुरा सजाताय नाक्रन् पापवसीयसो विधृत्यै
(प्ब् 8.9.8) एष ह्य् एव पृष्ठैस् तुष्टुवानो य उद्वंशीयेन स्तुवते
(प्ब् 8.9.9) सर्वाणि वै रूपाण्य् उद्वंशीयम्
(प्ब् 8.9.10) गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपम् एति हि रथन्तरम्
(प्ब् 8.9.11) आदिर् बृहत ऊर्ध्वम् इव हि बृहत्
(प्ब् 8.9.12) परिष्टोभो वैरूपस्य परिष्टुभं हि वैरूपम्
(प्ब् 8.9.13) अनुतोदो वैराजस्यानुतुन्नं हि वैराजम्
(प्ब् 8.9.14) अर्धेडा शक्वरीणाम् अतिस्वारो रेवतीनाम्
(प्ब् 8.9.15) अर्धेडया वै देवा असुरान् अवहत्यातिस्वारेण स्वर्गंल् लोकम् आरोहन्
(प्ब् 8.9.16) तद् य एवंव् वेदार्धेडयैव भ्रातृव्यम् अवहत्यातिस्वारेण स्वर्गंल् लोकम् आरोहति
(प्ब् 8.9.17) अर्धेडया वै पूर्वं यज्ञं संस्थापयन्त्य् अतिस्वारेणोत्त्रम् आरभन्ते
(प्ब् 8.9.18) उपैनम् उत्तरो यज्ञो नमति य एवंव् वेद
(प्ब् 8.9.19) पाङ्क्तं वा एतत् साम पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
(प्ब् 8.9.20) आष्टादंष्ट्रे ऋद्धिकामाय कुर्यात्
(प्ब् 8.9.21) अष्टादंष्ट्रो वैरूपो ऽपुत्रो ऽप्रजा अजीर्यत् स इमांल् लोकान् विचिच्छिद्वां अमन्यत स एते जरसि सामनी अपश्यत् तयोर् अप्रयोगाद् अबिभेत् सो ऽब्रवीद् ऋध्नवद् योभे सामभ्यां स्तवता इति
(प्ब् 8.9.22) ऋषेर् वा एतत् प्राशोद्भूतं यद् अष्टादंष्ट्रे भवत ऋध्या एव
(प्ब् 8.10.1) गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर् गायत्र्यां ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा गायत्री संपद्यते
(प्ब् 8.10.2) तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे
(प्ब् 8.10.3) गायत्रीषु पशुकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषोष्णिक् संपद्यते
(प्ब् 8.10.4) पशवो वा उष्णिक् पशून् एवावरुन्धे
(प्ब् 8.10.5) गायत्रीषु पुरुषकामायोक्थानि प्रणयेयुः ककुभि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा ककुप् संपद्यते
(प्ब् 8.10.6) पुरुषो वै ककुप् पुरुषान् एवावरुन्धे
(प्ब् 8.10.7) विराट्स्व् अन्नाद्यकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा विराट् संपद्यते
(प्ब् 8.10.8) अन्नं विराड् अन्नाद्यम् एवावरुन्धे
(प्ब् 8.10.9) अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषानुष्टुप् संपद्यते
(प्ब् 8.10.10) ज्यैष्ठ्यं वा अनुष्टुब् ज्यैष्ठ्यम् अवावरुन्धे
(प्ब् 9.1.1) देवा वा उक्थान्य् अभिजित्य रात्रिं नाशक्नुवन्न् अभिजेतुं ते ऽसुरान् रात्रिं तमः प्रविष्टां नानुव्यपश्यंस् त एतम् अनुष्टुप्शिरसं प्रगाथ्म् अपश्यन् विराजं ज्योतिः तान् विराजा ज्योतिषानुपश्यन्तो ऽनुष्टुभा वज्रेण रात्रेर् निराघ्नन्
(प्ब् 9.1.2) यद् एषो ऽनुष्टुप्शिराः प्रगाथो भवति विराड् एव ज्योतिषानुपश्यन्न् अनुष्टुभा वज्रेण रात्रेर् भ्रातृव्यं निर्हन्ति
(प्ब् 9.1.3) तान् समन्तं पर्यायं प्राणुदन्त यत् पर्यायं प्राणुदन्त तत् पर्यायाणां पर्यायत्वम्
(प्ब् 9.1.4) प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य पर्यायस्य
(प्ब् 9.1.5) प्रथमैर् हि पदैः पुनर् आदाय प्रथमरात्रात् प्राणुदन्त
(प्ब् 9.1.6) पान्तम् आ वो अन्धस इति प्रस्तौति
(प्ब् 9.1.7) अहर् वै पान्तम् अन्धो रात्रिर् अह्नैव तद् रात्रिम् आरभन्ते
(प्ब् 9.1.8) तासु वैतहव्यम्
(प्ब् 9.1.9) वीतहव्यः श्रायसो ज्योग् निरुद्ध एतत् सामापश्यत् सो ऽवगच्छत् प्रत्यतिष्ठद् अवगच्छति प्रतितिष्ठत्य् एतेन तुष्टुवानः
(प्ब् 9.1.10) तम् इव वा एते प्रविशन्तिये रात्रिम् उपयन्ति यद् एको निधनं रात्रेर् मुखे भवति प्रज्ञात्यै
(प्ब् 9.1.11) यदा वै पुरुषः स्वम् ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वम् अस्मै दिवा भवति
(प्ब् 9.1.12) ते मध्यमं पर्यायम् अश्रयन्त तेषाम् और्ध्वसद्मनेन वाचम् अवृञ्जत
(प्ब् 9.1.13) वाचं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद
(प्ब् 9.1.14) त्रिणिधनं भवति
(प्ब् 9.1.15) यथा वा अह्नो माध्यन्दिनं सवनं त्रिणिधनायतनम् एवम् एष रात्रेर् मध्यमः पर्यायस् त्रिणिधनायतनः सलोकत्वाय
(प्ब् 9.1.16) मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य पर्यायस्य मध्यमैर् हि पदैः पुनर् आदायं मध्यमरात्रात् प्राणुदन्त
(प्ब् 9.1.17) त उत्तमं पर्यायम् अश्रयन्त तेषां घृतश्च्युन् निधनेन पशून् अवृञ्जत पशवो वै घृतश्च्युतः
(प्ब् 9.1.18) पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद
(प्ब् 9.1.19) उत्तमानि पदानि पुनरादीनि भवन्त्य् उत्तमस्य पर्यायस्योत्तमैर् हि पदैःपुनर् आदायम् उत्तमरात्रात् प्राणुदन्त
(प्ब् 9.1.20) तान् सन्धिनाभिपलायन्त
(प्ब् 9.1.21) तान् आश्विनेनासंहाय्यम् अगमयन्
(प्ब् 9.1.22) असंहाय्यं भ्रातृव्यं गमयति य एवंव् वेद
(प्ब् 9.1.23) एषा वा अग्निष्टोमस्य संमा यद् रात्रिः
(प्ब् 9.1.24) द्वादश स्तोत्राण्य् अग्निष्टोमो द्वादश स्त्रोत्राणि रात्रिः
(प्ब् 9.1.25) एषा वा उक्थस्य संमा यद् रात्रिः
(प्ब् 9.1.26) त्रीण्य् उक्थानि त्रिदेवत्यः सन्धिः
(प्ब् 9.1.27) यथा वा अह्न उक्थान्य् एवम् एष रात्रेः सन्धिर् नानारूपाण्य् अह्न उक्थानि नानारूपा एते तृचा भवन्ति
(प्ब् 9.1.28) रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात्
(प्ब् 9.1.29) इयं वै रथन्तरम् अस्याम् एव प्रतितिष्ठति
(प्ब् 9.1.30) बृहत् स्वर्गकामाय सन्धिं कुर्यात्
(प्ब् 9.1.31) स्वर्गो लोको बृहत् स्वर्ग एव लोके प्रतितिष्ठति
(प्ब् 9.1.32) वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै तेषाम् एकं पशुकामाय सन्धिं कुर्यात्
(प्ब् 9.1.33) पशवो वा एतानि सामानि पशुष्व् एव प्रतितिष्ठति
(प्ब् 9.1.34) आश्विनं होतानुशंसति
(प्ब् 9.1.35) प्रजापतिर् वा एतत् सहस्रम् असृजत तद् देवेभ्यः प्रायच्छत् तस्मिन् न समराधयंस् ते सूर्यं काष्ठां कृत्वाजिम् अधावन्
(प्ब् 9.1.36) तेषाम् अश्विनौ प्रथमाव् अधावतां ताव् अन्ववदन् सह नो ऽस्त्व् इति ताव् अब्रूतां किं ततः स्याद् इति यत् कामयेथे इत्य् अब्रुवंस् ताव् अब्रूताम् अस्मद्देवत्यम् इदम् उक्थम् उच्याता इति तस्माद् आश्विनम् उच्यते
(प्ब् 9.1.37) सर्वाः खलु देवताः शस्यन्ते
(प्ब् 9.1.38) क्षिप्रं शस्यम् आजिम् इव ह्य् एते धावन्त्य् आ सूर्यस्योदेतोः शंसेत् सूर्यं हि काष्ठाम् अकुर्वत
(प्ब् 9.2.1) पान्तम् आ वो अन्धस इति वैतहव्यम् अन्यक्षेत्रंवा एते प्रयन्ति ये रात्रिम् उपयन्ति यद् ओकोनिधनं रात्रेर् मुखे भवत्य् ओकसो ऽप्रच्यावाय
(प्ब् 9.2.2) प्र व इन्द्राय मादनम् इति गौरीवितम्
(प्ब् 9.2.3) ब्रह्म यद् देवा व्यकुर्वत ततो यद् अत्यरिच्यत तद् गौरीवितम् अभवत्
(प्ब् 9.2.4) अतिरिक्तं गौरीवितम् अतिरिक्तम् एतत् स्तोत्रं यद् रात्रिर् अतिरिक्त एवातिरिक्तं दधाति
(प्ब् 9.2.5) वयम् उ त्वा तद् इद् अर्था इति काण्वम्
(प्ब् 9.2.6) एतेन वै कण्व इन्द्रस्य सांविद्यम् अगच्छद् इन्द्रस्यैवैतेन सांविद्यं गच्छति
(प्ब् 9.2.7) इन्द्राय मद्वने सुतम् इति श्रौतकक्षं क्षत्रसाम प्र क्षत्रम् एवैतेन भवति
(प्ब् 9.2.8) अयं त इन्द्र सोम इति दैवोदासम्
(प्ब् 9.2.9) अग्निष्टोमेन वै देवा इमंल् लोकम् अभ्यजयन्न् अन्तरिक्षम् उक्थेनातिरात्रेणामुं. त इमंल् लोकं पुनर् अभ्यकामयन्त त इहेत्य् अस्मिंल् लोके प्रत्यतिष्ठन् यद् एतत् साम भवति प्रतिष्ठित्यै
(प्ब् 9.2.10) ऊर्ध्वसद्मनम् अपि शर्वरीषु प्रोहन्ति
(प्ब् 9.2.11) असुरा वा एषु लोकेष्व् आसंस् तान् देवा ऊर्ध्वसद्मनेनैभ्यो लोकेभ्यः प्राणुदन्त
(प्ब् 9.2.12) तद् य एवंव् वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आयतने सत्त्रम् आस्ते
(प्ब् 9.2.13) आ तू न इन्द्र क्षुमन्तम् इत्य् आकूपारम्
(प्ब् 9.2.14) अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास् त्वग् एव त्वग् आसीत् ताम् एतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसम् अकरोत् तद् वाव सा तर्ह्य् अकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते
(प्ब् 9.2.15) अभि त्वा वृषभा सुतं इत्य् आर्षभं क्षत्रसाम क्षत्रम् एवैतेन भवति
(प्ब् 9.2.16) इदंव् वसो सुतम् अन्ध इति गारम् एतेन वै गर इन्द्रम् अप्रीणात् प्रीत एवास्यैतेनेन्द्रो भवति
(प्ब् 9.2.17) इदं ह्य् अन्व् ओजसेति माधुच्छन्दसं प्रजापतेर् वा एषा तनूर् अयातयाम्नी प्रयुज्यते
(प्ब् 9.2.18) आ त्व् एता निषीदतेति दैवातिथम्
(प्ब् 9.2.19) देवातिथिः सपुत्रो ऽशनायंश् चरन्न् अरण्य उर्वारूण्य् अविन्दत् तान्य् एतेन साम्नोपासीदत् ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन् यद् एतत् साम् अ भवति पशूनां पुष्ट्यै
(प्ब् 9.2.20) योगे-योगे तवस्तरम् इति सौमेधं रात्रिषाम रात्रेर् एव समृध्यै
(प्ब् 9.2.21) इन्द्र सुतेषु सोमेष्व् इति कौत्सम्
(प्ब् 9.2.22) कुत्सश् च लुशश् चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्सम् उपावर्तत तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात् तं लुशो ऽभ्यवदत् प्रमुच्यस्व परि कुत्साद् इहागहि किम् उ त्वावान् आण्डयोर् बद्ध आसाता इति तास् संच्छिद्य प्राद्रवत् स एतत् कुत्सः सामापश्यत् तेनैनम् अन्ववदत् स उपावर्तत
(प्ब् 9.2.23) यद् एतत् साम भवति सेन्द्रत्वाय
(प्ब् 9.3.1) यदि सत्त्राय दीक्षेरन्न् अथ साम्य् उत्तिष्ठेत् सोमम् अपभज्य विश्वजितातिरात्रेण यजेत सर्ववेदसेन सर्वस्मा एव दीक्षते सर्वम् आप्नोति
(प्ब् 9.3.2) या इद् दक्षिणा ददाति ताभिर् इति प्रयुङ्क्ते
(प्ब् 9.3.3) यदि पर्यायैर् अस्तुतम् अभिव्युच्छेत् पन्चदशभिर् होत्रे स्तुयुः पञ्चभिः-पञ्चभिर् इतरेभ्यः
(प्ब् 9.3.4) अग्ने विवस्वद् उषस इति सन्धिना स्तुयुः प्राणा वै त्रिवृत् स्तोमानां प्रतिष्ठा रथन्तरं साम्नां प्राणांस् चैवोपयन्ति प्रतिष्ठां च
(प्ब् 9.3.5) षष्टिं च त्रीणि च शतानि होता शंसति
(प्ब् 9.3.6) तावत्यः संवत्सरस्य रात्रयः संवत्सरसंमिताभिर् एव तद् ऋग्भिर् आशीविनम् आप्नोति
(प्ब् 9.3.7) यद् अर्वाक् स्तुवन्ति तद् अस्तुतं यत् सम्प्रति स्तुवन्ति तत् स्तुतं यद् अतिष्टुवन्ति तत् सुष्टुतम्
(प्ब् 9.3.8) यद्य् अर्वाक् स्तुयुर् यावतीभिर् न स्तुयुस् तावतीभिर् वातिष्टुयुर् भूयो ऽक्षराभिर् वा
(प्ब् 9.3.9) यद्य् अतिष्टुयुर् यावतीभिर् अतिष्टुयुस् तावतीभिर् वा न स्तुयुः कनीयो ऽक्षराभिर् वा
(प्ब् 9.3.10) यद्य् अर्वाक् स्तुयुस् त्रीडम् अग्निष्टोमसाम कार्यं निधनम् एकेडया ये द्वे ताभ्याम् एव तत् समं क्रियते
(प्ब् 9.3.11) यद्य् अतिष्टुयुः स्वारम् अग्निष्टोमसाम कार्यम् ऊनम् इव वा एतत् साम्नो यत् स्वरस् तेनैव तत् समं क्रियते
(प्ब् 9.4.1) यदि सोमौ संसुतौ स्यातां महति रात्रेः प्रातरनुवाकम् उपाकुर्यात्
(प्ब् 9.4.2) पूर्वो वाचं पूर्वश् छन्दांसि पूर्वो देवता वृङ्क्ते
(प्ब् 9.4.3) वृषण्वतीं प्रतिपदं कुर्याद् इन्द्रो वै वृषा प्रातःसवनाद् एवैषाम् इन्द्रंव् वृङ्क्ते
(प्ब् 9.4.4) अथो खल्व् आहुः सवनमुखे-सवनमुखे कार्या सवनमुखात्-सवनमुखाद् एवैषाम् इन्द्रंव् वृङ्क्ते
(प्ब् 9.4.5) सुसमिद्धे होतव्यम् अग्निर् वै सर्वा देवताः सर्वा एव देवताः पश्यञ् जुहोति
(प्ब् 9.4.6) संवेशायोपवेशाय गायत्र्यै च्छन्दसे ऽभिभूतये स्वाहा संवेशायोपवेशाय त्रिष्टुभे च्छन्दसे ऽभिभूतये स्वाहा संवेशायोपवेशाय जगत्यै च्छन्दसे ऽभिभूतये स्वाहेति जुहोति
(प्ब् 9.4.7) च्छन्दांसि वा अभिभूतयस् तैर् एवैनान् अभिभवत्य् उभे बृहद्रथन्तरे कार्ये
(प्ब् 9.4.8) यत्र वा इन्द्रस्य हरी तद् इन्द्रः. इन्द्रस्य वै हरी बृहद्रथन्तरे यद् उभे बृहद्रथन्तरे भवतः पूर्व एवेन्द्रस्य हरी आरभन्ते
(प्ब् 9.4.9) तैर् अश्रवसे कार्ये
(प्ब् 9.4.10) तुरश्रवसश् च वै पारावतानां च सोमौ संसुताव् आस्तां तत एते तुरश्रवाः सामनी अपश्यत् ताभ्याम् अस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं निरावहत् यत् तैर् अश्रवसे भवतो हव्यम् एवैषांव् वृङ्क्ते
(प्ब् 9.4.11) पूर्वे ऽभिषुणुयुः
(प्ब् 9.4.12) या वै पूर्वाः प्रस्नान्ति ताः पूर्वास् तीर्थं जयन्ति पूर्व एवेन्द्रम् आरभन्ते
(प्ब् 9.4.13) विहव्यं शस्यम्
(प्ब् 9.4.14) जमदग्नेश् च वा ऋषीणां च सोमौ संसुताव् आस्तां तत एतज् गमदग्निर् विहव्यम् अपश्यत् तम् इन्द्र उपावर्तत यद् विहव्यं होता शंसतीन्द्रम् एवैषांव् वृङ्क्ते
(प्ब् 9.4.15) यदीतरो ऽग्निष्टोमः स्याद् उक्थः कार्यो यद्य् उक्थो ऽतिरात्रो यो वै भूयान् यज्ञक्रतुः स इन्द्रस्य प्रियो भूयसैवैषां यज्नक्रतुनेन्द्रंव् वृङ्क्ते
(प्ब् 9.4.16) अथो खल्व् आहुर् दुष्प्राप इव वै परः पन्था यम् एवाग्रे यज्ञक्रतुम् आरभेत तस्मान् नेयाद् इति
(प्ब् 9.4.17) सजनीयं शस्यम् अगस्त्यस्य कयाशुभीयं शस्यम्
(प्ब् 9.4.18) अस्या अमुष्या अद्यश्वान् मिथुनाद् अहोरात्राभ्याम् एवैनान् निर्भजति
(प्ब् 9.5.1) यदि सोमम् अक्रीतम् अपहरेयुर् अन्यः क्रेतव्यः
(प्ब् 9.5.2) यदि क्रीतं यो ऽन्यो ऽभ्याशं स्यात् स आहृत्यः सोमविक्रयणे तु किं चिद् दद्यात्
(प्ब् 9.5.3) यदि सोमं न विन्देयुः पूतीकान् अभिषुणुयुर् यदि न पूतीकान् अर्ज्जुनानि
(प्ब् 9.5.4) गायत्री सोमम् आहरत् तस्या अनु विसृज्य सोमरक्षिः पर्णम् अच्छिनत् तस्य यो ऽंशुः परापतत् स पूतीको ऽभवत् तस्मिन् देवा ऊतिम् अविन्दन्न् ऊतीको वा एष यत् पूतीकान् अभिषुण्वन्त्य् ऊतिम् एवास्मै विन्दन्ति
(प्ब् 9.5.5) प्रतिधुक् च प्रातः पूतीकाश् च शृतं च मध्यन्दिने पूतीकाश् च दधि चापराह्णे पूतीकाश् च
(प्ब् 9.5.6) सोमपीथो वा एतस्माद् अपक्रामतीत्य् आहुर् यस्य सोमम् अपहरन्तीति स ओषधीश् च पशूंश् च प्रविशति तम् ओषधिभ्यश् च पशुभ्यश् चावरुन्धे
(प्ब् 9.5.7) इन्द्रो वृत्रम् अहंस् तस्य यो नस्तः सोमः समधावत् तानि बभ्रुतूलान्य् अर्जुनानि यो वपाया उत्खिन्नायास् तानि लोहिततूलानि यानि बभ्रुतूलान्य् अर्जुनानि तान्य् अभिषुणुयाद् एतद् वै ब्रह्मणो रूपं साक्षाद् एव सोमम् अभिषुणोति
(प्ब् 9.5.8) श्रायन्तीयं ब्रह्मसाम कार्यं सद् एवैनं करोति
(प्ब् 9.5.9) यज्ञायज्ञीयम् अनुष्टुभि प्रोहेद् वाचैवैनं समर्धयति वारवन्तीयम् अग्निष्टोमसाम कार्यम् इन्द्रियस्य वीर्यस्य परिगृहीत्यै
(प्ब् 9.5.10) पञ्च दक्षिणा देयाः
(प्ब् 9.5.11) पाङ्क्तो यज्ञो यावान् यज्ञस् तम् एवारभते
(प्ब् 9.5.12) अवभृथाद् उदेत्य पुनर् दीक्षेत
(प्ब् 9.5.13) तत्र तद् दद्याद् यद् दास्यं स्यात्
(प्ब् 9.6.1) यदि कलशो दीर्येत वषट्कारणिधनं ब्रह्मसाम कुर्यात्
(प्ब् 9.6.2) अवषट्कृतो वा एतस्य सोमः परासिच्यते यस्य कलशो दीर्यते यद् वषट्कारणीधनं ब्रह्मसाम भवति वषट्कृत एवास्य सोमो भवति
(प्ब् 9.6.3) विधुं दद्राणं समने बहूनाम् इत्य् एतासु कार्यम्
(प्ब् 9.6.4) एष हि बहूनां समने दीर्यते यत् कलशः
(प्ब् 9.6.5) तद् आहुर् न वा आर्त्यार्तिर् अनूद्यार्त्या वा एष आर्तिम् अनुवदति यः कलशो दीर्णे दद्राणवतीषु करोतीति
(प्ब् 9.6.6) श्रायन्तीयम् एव कार्यम्
(प्ब् 9.6.7) प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानो ऽमन्यत स एतच् छ्रायन्तीयम् अपश्यत् तेनात्मानं समश्रीणात् प्रजया पशुभिर् इन्द्रियेण
(प्ब् 9.6.8) दुग्ध इव एष रिरिचानो यस्य कलशो दीर्यते यच् छ्रायन्तीयं ब्रह्मसाम भवति पुनर् एवात्मानं संश्रीणाति प्रजया पशुभिर् इन्द्रियेण
(प्ब् 9.6.9) यदि श्रायन्तीयं ब्रह्मसाम स्याद् वैष्णवीष्व् अनुष्टुप्सु वषट्कारणिधनं कुर्यात्
(प्ब् 9.6.10) यद् वै यज्ञस्य स्रवति वाचं प्रतिस्रवति वाग् अनुष्टुप् यज्ञो विष्णुर् वाचैव यज्ञस्य च्छिद्रम् अपिदधाति
(प्ब् 9.6.11) यद् वै यज्ञस्य स्रवत्य् अन्ततः स्रवति वारवन्तीयम् अग्निष्टोमसाम कार्यं यज्ञस्यैव च्छिद्रं वारयते
(प्ब् 9.7.1) यदि प्रातस्सवनात् सोमो ऽतिरिच्येत अस्ति सोमो अयं सुत इति मरुत्वतीषु गायत्रेषु स्तुयुः
(प्ब् 9.7.2) माध्यन्दिनं वा एष सवनं निकामयमानो ऽभ्यतिरिच्यते यः प्रातस्सवनाद् अतिरिच्यते तस्मान् मरुत्वतीषु स्तुवन्ति मरुत्वद् धि माध्यन्दिनं सवनं तस्माद् उ गायत्रीषु गायत्रं हि प्रातस्सवनम्
(प्ब् 9.7.3) यस्मात् स्तोमाद् अतिरिच्यते स एव स्तोमः कार्यः सलोमत्वाय
(प्ब् 9.7.4) ऐन्द्रावैष्णवं होतानुशंसति
(प्ब् 9.7.5) वीर्यं वा इन्द्रो यज्ञो विष्णुर् वीर्य एव यज्ञे प्रतितिष्ठति
(प्ब् 9.7.6) यदि माध्यन्दिनात् सवनाद् अतिरिच्येत बण् महां असि सूर्येत्य् आदित्यवतीषु गौरीवितेन स्तुयुः
(प्ब् 9.7.7) तृतीयसवनं वा एष निकामयमानो ऽभ्यतिरिच्यते यो माध्यन्दिनात् सवनाद् अतिरिच्यते तस्माद् आदित्यवतीषु स्तुवन्त्य् आदित्यं हि तृतीयसवनं तस्माद् उ बृहतीषु बार्हतं हि माध्यन्दिनं सवनम्
(प्ब् 9.7.8) यस्मात् स्तोमाद् अतिरिच्येत स एव स्तोमः कार्यः सलोमत्वायैन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर् वीर्य एव यज्ञे प्रतितिष्ठति
(प्ब् 9.7.9) यदि तृतीयसवनाद् अतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः
(प्ब् 9.7.10) यज्ञो वै विष्णुश् शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्य् अतिरिक्तं गौरीवितम् अतिरिक्त एवातिरिक्तं दधाति
(प्ब् 9.7.11) एतद् अन्यत् कुर्युर् उक्थानि प्रणयेयुर् उक्थानि वा एष निकामयमानो ऽभ्यतिरिच्यते यो ऽग्निष्टोमाद् अतिरिच्यते यद्य् उक्थ्येभ्यो ऽतिरिच्येतातिरात्रः कार्यो रात्रिं वा एष निकामयमानो ऽभ्यतिरिच्यते य उक्थ्येभ्यो ऽतिरिच्यते यदि रात्रेर् अतिरिच्येत विष्णोः शिपिविष्टवतीषु बृहता स्तुयुर् एषु तु वा अतिरिच्यत इत्य् आहुर् यो रात्रेर् अतिरिच्यत इति
(प्ब् 9.7.12) अमुं वा एष लोकं निकामयमानो ऽभ्यतिरिच्यते यो रात्रेर् अतिरिच्यते बृहता स्तुवन्ति बृहद् अमुं लोकम् आप्तुम् अर्हति तम् एवाप्नोति
(प्ब् 9.8.1) यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्य् उपनह्य यो नेदिष्ठी स्यात् तं दीक्षयित्वा सह यजेरन्
(प्ब् 9.8.2) एतद् अन्यत् कुर्युर् अभिषुत्यान्यत् सोमम् अगृहीत्वा ग्रहान् यासौ दक्षिणा स्रक्तिस् तद् वा स्तुयुर् मार्जालीये वा
(प्ब् 9.8.3) अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तम् एतेन निरवदयन्ते
(प्ब् 9.8.4) यामेन स्तुवन्ति यमलोकम् एवैनं गमयन्ति
(प्ब् 9.8.5) तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः
(प्ब् 9.8.6) पराचीभिः स्तुवन्ति पराङ् हीतो ऽसौ लोकः
(प्ब् 9.8.7) सर्पराज्ञ्या ऋग्भिः स्तुवन्ति
(प्ब् 9.8.8) अर्बुदः सर्प एताभिर् मृतां त्वचम् अपाहत मृताम् एवैताभिस् त्वचम् अपघ्नते
(प्ब् 9.8.9) ता ऋचो ऽनुब्रुवन्तस् त्रिर् मार्जालीयं परियन्ति सव्यान् ऊरून् आघ्नानाः
(प्ब् 9.8.10) स्तुतम् अनुशंसत्य् अमुष्मिन्न् एवैनं लोके निध्नुवन्ति
(प्ब् 9.8.11) यन्ति वा एते पथ इत्य् आहुर् ये मृताय कुर्वन्तीत्य् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णते पुनः पन्थानम् अपियन्ति
(प्ब् 9.8.12) अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्व् आयुर् दधाति
(प्ब् 9.8.13) संवत्सरे ऽस्थीनि याजयेयुः संव्वत्सरो वै सर्वस्य शान्तिर् यत् पुरा संव्वत्सराद् याजयेयुर् वाचम् अरुष्कृतां क्रूराम् ऋच्छेयुः
(प्ब् 9.8.14) वृतः पवमानाः स्युः सप्तदशम् इतरत् सर्वम्
(प्ब् 9.8.15) यत् त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत् प्राणान् एवोपयन्ति यत् सप्तदशम् इतरत् सर्वं प्रजापतिर् वै सप्तदशः प्रजतिम् एवोपयन्ति
(प्ब् 9.8.16) प्राणापानैर् वा एते व्यृध्यन्त इत्य् आहुर् ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैर् एव समृध्यन्ते
(प्ब् 9.9.1) यस्य कलश उपदस्यति कलशम् एवास्योपदस्यन्तं प्राणो ऽनूपदस्यति प्राणो हि सोमः
(प्ब् 9.9.2) तद् आहुः पयो ऽवनयेद् इति
(प्ब् 9.9.3) अथो खल्व् आहुर् अन्तर्हितम् इव वा एतद् यत् पयो हिरण्यम् एवापोऽभ्यवनयेद् धिरण्यम् अभ्युन्नयेद् इति
(प्ब् 9.9.4) प्राणा वा आपो ऽमृतं हिरण्यम् अमृत एवास्य प्राणान् दधाति स सर्वम् आयुर् एति
(प्ब् 9.9.5) यस्य नाराशंस उपवायति नाराशंसम् एवास्योप+वायन्तं प्राणो ऽनूपदस्यति प्राणो हि सोमः
(प्ब् 9.9.6) यम् अध्वर्युर् अन्ततो ग्रहं गृह्णीयात् तस्याप्तुम् अवनयेत्
(प्ब् 9.9.7) प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवास्मै प्रायश्चित्तिं करोति
(प्ब् 9.9.8) यदि पीतापीतौ सोमौ संगच्छेयाताम् अन्तः परिध्यङ्गारान् निर्वर्त्य जुहुयात् हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहेति सैव तस्य प्रायश्चित्तिः
(प्ब् 9.9.9) प्रजापतये स्वाहेत्य् अभक्षणीयस्य जुहुयाद् उत्तरार्ध्यपूर्वार्ध्य उपरवः
(प्ब् 9.9.10) इन्दुर् इन्दुम् अवागाद् इत्य् अववृष्टस्य भक्षयेत्
(प्ब् 9.9.11) तस्य त इन्द्रव् इन्द्रपीतस्येन्द्रियावतस् सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 9.9.12) हिरण्यगर्भः समवर्तताग्र इत्य् आज्येनाभ्युपाकृतस्य जुहुयाद् अग्नीध्रं परेत्य भूतानां जातः पतिर् एक आसीत् स दाधार पृथिवीं द्याम् उतेमां तस्मै त इन्दो हविषा विधेम स्वाहेति सैव तस्य प्रायश्चित्तिः
(प्ब् 9.9.13) यदि ग्रावापि शीर्यते पशुभिर् यजमानो व्यृध्यते पशवो वै ग्रावाणो द्युतानस्य मारुतस्य साम्ना स्तुयुः
(प्ब् 9.9.14) मारुता वै ग्रावाणः स्वेनैवैनांस् तद् रूपेण समर्धयति
(प्ब् 9.9.15) यदि सोमम् अभिदहेद् ग्रहान् अध्वर्युः स्पाशयेत स्तोत्राण्य् उद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान् यज्ञस् तम् आरभते ऽवभृथाद् उदेत्य पुनर् दीक्षते तत्र तद् दद्याद् यद् दास्यं स्यात् पुरा द्वादश्या दीक्षेत यद् द्वादशीम् अतिनयेद् अन्तर्धीयेत
(प्ब् 9.10.1) यदि महावीरो भिद्येत तं भिन्नम् अभिमृशेद् य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर् निष्कर्ता विह्रुतं पुनः मा भेम निष्ट्या इवेन्द्र त्वद् अरणा इव । वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि । अमन्महीद् अनाशवो ऽनुग्राभश् च वृत्रहन् । सकृत् सुते महता शूर राधसानु स्तोमं मदेमहीति महावीरं भिन्नम् अभिमृशेत् सैव तस्य प्रायश्चित्तिः
(प्ब् 9.10.2) असुर्यं वा एतस्माद् वर्णं कृत्वा तेज इन्द्रियं वीर्यम् अन्नाद्यं प्रजाः पशवो ऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वरः पापीयान् भवितोः
(प्ब् 9.10.3) त्वाष्ट्रं पशुं बहुरूपम् आलभेत त्वष्टा वै पशूनां रूपाणां विकर्ता तम् एव तद् उपधावति स एनं तेजसेइन्द्रियेण वीर्येणान्नाद्येन प्रजया पशुभिः पुनस् समर्धयति सैव तस्य प्रायश्चित्तिः
(प्ब् 10.1.1) अग्निना पृथिव्यौषधिभिस् तेनायं लोकस् त्रिवृद् वायुनान्तरिक्षेण वयोभिस् तेनैष लोकास् त्रिवृद् यो ऽयम् अन्तर् आदित्येन दिवा नक्षत्रैस् तेनासौ लोकस् त्रिवृद् एतद् एव त्रिवृत आयतनम् एषास्य बन्धुता
(प्ब् 10.1.2) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.3) तम् उ प्रतिष्ठेत्याहुस् त्रिवृद् ध्य् एवैषु लोकेषु प्रतिष्ठितः
(प्ब् 10.1.4) अर्धमास एव पञ्चदशस्यायतनम् एषास्य बन्धुता
(प्ब् 10.1.5) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.6) तं चौजो बलम् इत्य् आहुर् अर्धमासशो हि प्रजाः पशव ओजो बलं पुष्यन्ति
(प्ब् 10.1.7) संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चदर्तव एतद् एव सप्तदशस्यायतनम् एषास्य बन्धुता
(प्ब् 10.1.8) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.9) तम् उ प्रजापतिर् इत्य् आहुः संवत्सरं हि प्रजाः पशवो ऽनुप्रजायन्ते
(प्ब् 10.1.10) आदित्य एवैकविंसस्यायतनं द्वादश मासाः पञ्चवर्तस् त्रय इमे लोका असाव् आदित्य एकविंश एतद् एवैकविंशस्यायतनम् एषास्य बन्धुता
(प्ब् 10.1.11) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.12) तम् उ देवतल्प इत्य् आहुः प्र देवतल्पम् आप्नोति य एवंव् वेद
(प्ब् 10.1.13) त्रिवृद् एव त्रिणवस्यायतनम् एषास्य बन्धुता
(प्ब् 10.1.14) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.15) तम् उ पुष्टिर् इत्य् आहुस् त्रिवृद् ध्य् एवैष पुष्टः
(प्ब् 10.1.16) देवता एव त्रयस्त्रिंशस्यायतनं त्रयस्त्रिंशद् देवताः प्रजापतिश् चतुस्त्रिंश एतद् एव त्रयस्त्रिंशस्यायतनम् एषास्य बन्धुता
(प्ब् 10.1.17) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.18) तम् उ नाक इत्य् आहुर् न हि प्रजापतिः कस्मै चनाकम्
(प्ब् 10.1.19) छन्दांस्य् एव छन्दोमानाम् आयतनम् एषैषां बन्धुता
(प्ब् 10.1.20) आयतनवान् बन्धुमान् भवति य एवंव् वेद
(प्ब् 10.1.21) तान् उ पुष्टिर् इत्य् आहुः पशवो हि छन्दोमाः
(प्ब् 10.2.1) प्रजापतिः प्रजा असृजत सो ऽताम्यत् तस्मै वाज् ज्योतिर् उदगृह्णात् सो ऽब्रवीत् को मे ऽयं ज्योतिर् उदगृह्णाद् इति स्वैव ते वाग् इत्य् अब्रवीत् ताम् अब्रवीद् विराजं त्वा च्छन्दसां ज्योतिष्कृत्वा यजान्ता इति
(प्ब् 10.2.2) तस्माद् यो विराजं स्तोमं संपद्यते तं ज्योतिष्टोमो ऽग्निष्टोम इत्य् आचक्षते विराड् ढि छन्दसां ज्योतिः
(प्ब् 10.2.3) ज्योतिः समानानां भवति य एवंव् वेद
(प्ब् 10.2.4) अनुष्टुप् च वै सप्तदशश् च समभवतां सानुष्टुप् चतुरुत्तराणि छन्दांस्य् असृजत षडुत्तरान् स्तोमान् सप्तदशस् ताव् एतान् मध्यतः प्राजनयताम्
(प्ब् 10.2.5) त्रिवृच् च त्रिणवश् च राथन्तरौ ताव् अजश् चाश्वश् चान्वसृज्येतां तस्मात् तौ राथन्तरं प्राचीनं प्रधूनुतः
(प्ब् 10.2.6) पञ्चदशश् चैकविंशश् च बार्हतौ तौ गौश् चाविश् चान्वसृज्येतां तस्मात् तौ बार्हतं प्राचीनं भास्कुरुतः
(प्ब् 10.2.7) एवं वै विद्वांसम् आहुर् अपि ग्राम्याणां पशूनां वाच आजानाति
(प्ब् 10.3.1) प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स आत्मन्न् ऋत्व्यम् अपश्यत् तत ऋत्विजो ऽसृजत यद् ऋत्व्याद् असृजत तद् ऋत्विजाम् ऋत्विक्त्वं तैर् एतं द्वादशाहम् उपासीदत् सो ऽराध्नोत्
(प्ब् 10.3.2) पिता नो ऽरात्सीद् इति मासा उपासीदंस् ते दीक्षयैवाराध्नुवन्न् उपसत्सु त्रयोदशम् अदीक्षयन् सो ऽ नुव्यम् अभवत् तस्माद् उपसत्सु दिदीक्षाणो ऽनुव्यं भवत्य् एव च हि त्रयोदशं मासं चक्षते नैव च
(प्ब् 10.3.3) एको दीक्षेतैको हि प्रजापतिर् अराध्नोद् द्वादश दीक्षेरन् द्वादश हि मासा अराध्नुवंश् चतुर्विंशतिर् दीक्षेरंश् चतुर्विंशतिर् ह्य् अर्धमासा अराध्नुवन्
(प्ब् 10.3.4) यदि पञ्चदशो दीक्षेतेमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारो ऽसाव् एक इति निर्दिशेयुर् यस्मा अराद्धिकामाः स्युस् तम् एवाराद्धिर् अन्वेति सर्व इतरे राध्नुवन्ति
(प्ब् 10.3.5) यो वै देवानां गृहपतिं वेदाश्नुते गार्हपतं प्र गार्हपतम् आप्नोति
(प्ब् 10.3.6) संवत्सरो वै देवानां गृहपतिः स एव प्रजापतिस् तस्य मासा एव सह दीक्षिणः
(प्ब् 10.3.7) विन्दते सह दीक्षिणो ऽश्नुते गार्हपत्यं प्र गार्हपत्यं आप्नोति य एवंव् वेद ।
(प्ब् 10.3.8) यो वै छन्दसां स्वराजं वेदाश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति बृहती वाव छन्दसां स्वराड् अश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति य एवंव् वेद
(प्ब् 10.3.9) ताम् एताम् अन्नाद्याय व्यावृज्यासते यद् एतं द्वादशाहं द्वादश दीक्षा स्वादशोपसदो द्वादश प्रसुतः षट्रिंशद् एता रात्रयो भवन्ति षट्त्रिंशदक्षरा बृहती
(प्ब् 10.3.10) जायते वाव दीक्षया पुनीत उपसद्भिर् देवलोकम् एव सुत्ययाप्येति
(प्ब् 10.3.11) एतावद् वाव संवत्सर इन्द्रियं वीर्यं यद् एता रात्रयो द्वादश पूऋनमास्यो द्वादशैकष्टका द्वादशामावास्या यावद् एव संवत्सर इन्द्रियं वीर्यं तद् एतेनाप्त्वावरुन्धे द्वादशाहेन
(प्ब् 10.3.12) त्रिंशदक्षरा वा एषा विराड् षड् ऋतव ऋतुष्व् एव विराजा प्रतितिष्ठत्य् ऋतुभिर् विराजि
(प्ब् 10.3.13) द्वात्रिंशदक्षरा वा एषानुष्टुब् वाग् अनुष्टुप् चतुष्पादः पशवो वाचा पशून् दाधार तस्माद् वाचा सिद्धा वाचाहूता आयन्ति तस्माद् उ नाम जानते
(प्ब् 10.4.1) भूतं पूर्वो ऽतिरात्रो भविष्यद् उत्तरः पृथिवी पूर्वो ऽतिरात्रो द्यौर् उत्तरो ऽग्निः पूर्वो ऽतिरात्र आदित्य उत्तरः प्राणः पूर्वो ऽतिरात्र उदान उत्तरः
(प्ब् 10.4.2) चक्षुषी अतिरात्रौ कनीनिके अग्निष्टोमौ यस्माद् अन्तरा अग्निष्टोमाव् अतिरात्राभ्यां तस्माद् अन्तरे सत्यौ कनीनिके भुङ्क्तः
(प्ब् 10.4.3) संवत्सरस्य वा एतौ दंष्ट्रौ यद् अतिरात्रौ तयोर् न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोर् आत्मानं नेद् अपिदधानीति
(प्ब् 10.4.4) तद् आहुः को ऽस्वप्तुम् अर्हति यद् वाव प्राणो +जागार तद् एव जागरितम् इति
(प्ब् 10.4.5) गायत्रीं वा एतां ज्योतिःपक्षाम् आसते यद् एतं द्वादशाहम् अष्टौ मध्य उक्था अग्निष्टोमाव् अभितो मासा स्वर्ग्ं लोकम् एत्याजरसं ब्रह्माद्यम् अन्नम् अत्ति दीप्यमानः
(प्ब् 10.4.6) त्रिष्पुरस्ताद् रथन्तरं उपयन्ति त्र्यावृद् वै वाक् सर्वाम् एव वाचम् अवरुध्य सर्वम् अन्नाद्यं द्वादशाहं तन्वते
(प्ब् 10.4.7) जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यत् त्रिष्पुरस्ताद् रथन्तरम् उपयन्तीति सौभरम् उक्थानां ब्रह्मसाम भवति तेनैव तद् अजामि
(प्ब् 10.4.8) प्रत्नवत्यः प्रायणीयस्याह्नः प्रतिपदो भवन्ति तेनो एव तद् अजामि
(प्ब् 10.4.9) त्रिर् वेवोपरिष्टाद् रथन्तरम् उपयन्ति त्रावृद् वै वाक् सर्वाम् एव वाचम् अवरुध्य सर्वम् अन्नाद्यं द्वादशाहाद् उत्तिष्ठन्ति
(प्ब् 10.5.1) त्रयो वा एते त्रिरात्रा यद् एष द्वादशाहो गाय्त्रमुखः प्रथमो गायत्रमध्यो द्वितीयो गायत्रोत्तमस् तृतीयः
(प्ब् 10.5.2) यस्माद् गायत्रमुखः प्रथमस् तस्माद् ऊर्ध्वो ऽग्निर् दीदाय यस्माद् गायत्रमध्यो द्वितीयस् तस्मात् तिर्यङ् वायुः पवते
(प्ब् 10.5.3)
(प्ब् 10.5.4)
(प्ब् 10.5.5) तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजो ऽभ्युद्यन्ति ज्योतिषा वा एते प्रयन्ति ज्योतिर् मध्ये दधति ज्योतिर् अभ्युद्यन्ति चक्षुषा वा एते प्रयन्ति चक्षुर् मध्ये दधति चक्षुर् अभ्युद्यन्ति प्राणेन वा एते प्रयन्ति प्राणं मध्ये दधति प्राणम् अभ्युद्यन्ति ये गायत्र्या प्रयन्ति गायत्रीं मध्ये दधति गायत्रिम् अभ्युद्यन्ति
(प्ब् 10.5.6) तन्त्रं वा एतद् वितायते यद् एष द्वादशाहस् तस्येतैर् (?) मयूखा यद् गायत्र्य् असंव्याथाय
(प्ब् 10.5.7) गिरिक्षिदौच्चामन्यवेति होवाचाभिप्रतारी काक्षसेनिः कथं द्वादशाह इति यथारान् नेमिः पर्येत्य् एवम् एनं गायत्री पर्येति अविस्रंसाय यथारा नाभौ धृता एवम् अस्यां द्वादशाहो धृतः
(प्ब् 10.5.8) अनुष्टुभं वा एताम् अन्नाद्याय व्यावृज्यासते यद् एतं द्वादशाहम्
(प्ब् 10.5.9) अष्टाभिर् वा अक्षैर् अनुष्टुप् प्रथमं द्वादशाहस्याहर् दुयच्छत्य् एकादशभिर् द्वितीयं द्वादशाभिस् तृतीयम्
(प्ब् 10.5.10) अक्षरं त्र्यक्षरम् उच्छिष्यते तद् एवोत्तरं त्रिरात्रम् अनुविदधाति
(प्ब् 10.5.11) छन्दांस्य् एवास्यास् तृतीयं त्रिरात्रं वहन्ति
(प्ब् 10.5.12) तां वा एतां प्रतीचीं तिरश्चीं पराचीम् आसते ऽन्नाद्याय तस्मात् प्रत्यञ्चं तिर्यञ्चं पराञ्चं प्रजाः पशुम् उपजीवन्ति
(प्ब् 10.5.13) छन्दांसि वा अन्योऽन्यस्य लोकम् अभध्यायन् गायत्री त्रिष्टुभस् त्रिष्टुब् जगत्या जगती गायत्र्यास् तानि व्यौहन् यथालोकं ततो वै तानि यं-यं कामम् अकामयन्त तम् असन्वन्
(प्ब् 10.5.14) यत्कामो व्यूढच्छन्दसा द्वदशाहेन यजते सो ऽस्मै कामः समृध्यते
(प्ब् 10.5.15) ओको वै देवानां द्वादशाहो यथो वै मनुष्या इमं लोकम् आविष्टा एवं देवता द्वादशाहम् आविष्टा देवता ह वा एतेन यजते य एवंव् विद्वान् द्वादशाहेन यजते
(प्ब् 10.5.16) गृहा वै देवानां द्वादशाहो नागृहताया भय्यम्
(प्ब् 10.5.17) यो वै द्वादशाहम् अग्निष्टोमेन कल्पमानं वेद कल्पते ऽस्मै प्रातःसवनेनैव प्रथमस् त्रिरात्रः कल्पते माध्यन्दिनेन द्वितीयस् तृतीयसवनेन तृतीयो ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते
(प्ब् 10.5.18) कल्पते ऽस्मै य एवंव् वेद
(प्ब् 10.6.1) एति प्रेत्य् आशुमद् वीतिमद् रुक्मत् तेजस्वद् युञ्जानं प्रथमस्याह्नो रूपं त्रिवृतः स्तोमस्य गायत्रस्य छन्दसो रथन्तरस्य साम्नः
(प्ब् 10.6.2) वृषवद् वृत्रवद् रयिमद् विश्ववद् उपस्थितं द्वितीयस्याह्नो रूपं पञ्चदशस्य स्तोमस्य त्रैष्टुभस्य छन्दसो बृहतः साम्नः
(प्ब् 10.6.3) उद्वत् त्रिवद् दिग्वत् गोमट् टषभवत् तृतीयस्याह्नो रूपं सप्तदशस्य स्तोमस्य जागतस्य छन्दसो वैरूपस्य साम्नः
(प्ब् 10.6.4) राजन्वज् जनवद्वत् सूर्यवद् विराडनुतोदवच् चतुर्थस्याह्नो रूपम् एकविंशस्य स्तोमस्यानुष्टुभस्य छन्दसो (?) राजस्य वै साम्नः
(प्ब् 10.6.5) चित्रवच् छिशुमत् पङ्क्तिः शक्वरी द्यूनाक्षरा गोमद् ऋषभवद् वज्र्यभिमत् पञ्चमस्याह्नो रूपं त्रिणवस्य स्तोमस्य पाङ्क्तेन छन्दसो शक्वरीणां साम्नः
(प्ब् 10.6.6) परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसा गोमद् ऋषभवत् षष्ठस्याह्नो रूपं त्रयस्त्रिंशस्य स्तोमस्य सर्वेषां छन्दसां रूपं (?) रेवतीनां साम्नः
(प्ब् 10.6.7) यस्माद् एषा समाना सती षडहविभक्तिर् नानारूपा तस्माद् विरूपः संव्वत्सरः
(प्ब् 10.6.8) विरूपम् एनम् अनुप्रजायते य एवंव् वेद
(प्ब् 10.7.1) अग्न इति प्रथमस्याह्नो रूपम् अग्निविभक्तेर् अग्निम् इति द्वितीयस्याग्निनेति तृतीयस्याग्निर् इति चतुर्थस्य
(प्ब् 10.7.2) देवा वै श्रियम् ऐच्छंस् तान् न प्रथमे ऽहन्य् अविन्दन् न द्वितीये न तृतीये ताञ् चतुर्थे ऽहन्य् अविन्दन् विन्दते श्रियं य एवं वेदाग्नेर् इति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्य् आहुः
(प्ब् 10.7.3) अप्रतिवाद्य् एनं भ्रातृव्यो भवति य एवं वेद
(प्ब् 10.7.4) अग्न इति षष्ठस्य येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति
(प्ब् 10.7.5) यस्माद् एषा समाना सत्य् अग्निव्भक्तिर् नानारूपा तस्माद् यथर्त्व् आदित्यस् तपति
(प्ब् 10.8.1) इन्द्रेति प्रथमस्याह्नो रूपम् इन्द्रविभक्तेर् इन्द्रम् इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्राद् इति पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति यस्माद् एषा समाना सतीन्द्रविभक्तिर् नानारूपा तस्माद् यथर्त्व् ओषधयः पच्यन्ते
(प्ब् 10.9.1) यद् ऋचा प्रस्तौति तत् प्रथमस्याह्नो रूपम् स्वरविभक्तेर् यत् पुरस्तात् स्तोभं तद् द्वितीयस्य यद् उभयतः स्तोभं तत् तृतीयस्य यद् अनुतुन्नं तच् चतुर्थस्य यद् अभ्यारब्धं तत् पञ्चमस्य यद् इहकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम्
(प्ब् 10.9.2) स्वराणां यस्माद् एषा समाना सती स्वरविभक्तिर् न्नानारूपा तस्माद् यथर्तु वायुः पवते
(प्ब् 10.10.1) पदनिधनं प्रथमस्याह्नो रूपम् निधनविभक्तेर् बहिर्णिधनं द्वितीयस्य निंनिधनं तृतीयस्येनिधनञ् चतुर्थस्याथकारणिधनं पञ्चमस्य यद् इहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपं निधनानां यस्माद् एषा समाना सती निधनविभक्तिर् न्नानारूपा तस्माद् इमे लोकाः सह सन्तो नानैव
(प्ब् 10.11.1) द्रवदिडं प्रथमस्याह्नो रूपम् इडाविभक्तेर् ऊर्ध्वेडं द्वितीयस्य परिष्टुब्धेडं तृतीयस्येडाभिर् ऐडं चतुर्थस्याध्यर्धेडं पञ्चमस्य यद् इहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम् इडानां यस्माद् एषा समाना सतीडाविभक्तिर् न्नानारूपा तस्मात् समानाः सन्तः पशवो नानारूपाः
(प्ब् 10.12.1) भरद्वाजायना वै सत्त्रम् आसत तान् अपृच्छन् किं प्रथमेनाह्ना कुरुतेति प्रैवैमेति किं द्वितीयेनेत्य् अवसम् एवाकुर्महीति किं तृतीयेनेति पर्य् एवाप्लवामहीति किं चतुर्थेनेति सतैव सद् अप्यदध्मेति किं पञ्चमेनेति प्राणान् एव विच्छिन्दन्त ऐमेति किं षष्ठेनेतीदम् एवागच्छामेति इति
(प्ब् 10.12.2) यस्य पदेन प्रस्तौत्य् अथ स्वारम् अभि वाव तेन देवाः पशून् अपश्यन् यत् पुरस्तात् स्तोभं अथ स्वारम् उद् एव तेनासृजनत यद् उभयतः स्तोभम् अथ स्वारम् एभ्य एव तेन लोकेभ्यो देवाः पशुभ्यो ऽन्नाद्यं प्रायच्छन् यद् अनुतुन्नम् अथ स्वारम् उपैव तेनाशिक्षन् यस्य मध्ये निधनम् अथ स्वारं गर्भांस् तेनादधत तानि हवतास्वारेण प्राजनयन्
(प्ब् 10.12.3) इमं वाव देवा लोकं पदनिधनेनाभ्य् अजयन्न् अमुं बहिर्णिधनेनान्तरिक्षं दिङ्निधनेनामृतत्वम् ईनिधनेनागच्छन् ब्रह्मवर्चसम् अथनिधनेनावारुन्धतास्मिन्न् एव लोक इहनिधनेन प्रत्यतिष्ठन्
(प्ब् 10.12.4) इमं वाव देवा लोकं द्रवदिडेनाभ्य् अजयन्न् अमुम् ऊर्ध्वेडेनान्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठाम् इडाभिर् ऐडेनावारुन्धत प्रतिष्ठायाध्यर्धेडेन व्यजयन्तास्मिन्न् एव लोक इहेडेन प्रत्यतिष्ठन्
(प्ब् 10.12.5) न वाक् संवत्सरम् अतिवदतीडैव संवत्सरम् अतिवदति गर्भेण संवत्सरे पर्यावृत्य प्रजायेते तेनातिवदति
(प्ब् 10.12.6) ता वा एताश् चतस्रः षडहं पराच्य इडा अतियन्त्य् एषा नूतैषा विषूच्य् एषा प्रतीच्य् एतद् वीडम्
(प्ब् 10.12.7) संवत्सरो ऽग्निर् वाक् सम्वत्सरो यद् अग्निर् विभज्यते वाचम् एव तद् विभजन्ति
(प्ब् 10.12.8) द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासाव् ऋतुरथो मासानाम् एव तद् रूपं क्रियते
(प्ब् 10.12.9) षड् अहानि विभजन्ति षड् ऋतव ऋतूनां धृत्या ऋतूनां प्रतिष्ठित्या अथो ऋतूनाम् एव तद् रूपं क्रियते षड् उ पुरुषा यान् अग्निर् अनुविह्रियते
(प्ब् 10.12.10) यद् इदं बहुधाग्निर् विह्रियते तद् असाव् आदित्यः सर्वाः प्रजाः प्रत्यङ् तस्माद् एते देवते विभक्तिम् आनशाते नातो ऽन्या का चन
(प्ब् 11.1.1) स्तोमो युज्यते सत्त्रियेभ्यो ऽ हर्भ्यः प्रत्नवतीभिश् चोपवतीभिश् च
(प्ब् 11.1.2) यत् प्रत्नवत्यो उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत् पूर्वं क्षत्राद् युज्यते ब्रह्म हि पूर्वं क्षत्रम्
(प्ब् 11.1.3) मनस् तत् पूर्वं वाचो युज्यते मनो हि यद् धि मनसाभिगच्छति तद् वाचा वदति
(प्ब् 11.1.4) बृहत् तत् पूर्वं रथन्तराद् युज्यते बृहद् धि पूर्वं रथन्तराद् विजित्या तु वै रथन्तरं पूर्वं योगम् आनशे
(प्ब् 11.1.5) सम्भार्यास् तृचा भवन्ति यथाशिष्ठान् वहिष्ठान् सम्भरेद् एवम् एवैतान् सम्भरन्ति गत्यै
(प्ब् 11.1.6) नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाहर् युनक्ति यथाप्रार्थस्य शम्या अवदध्याद् एवम् एवैतन् नवाहस्य शम्या अवदधाति गत्यै
(प्ब् 11.1.7) त्रिवृद् एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
(प्ब् 11.2.1) उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तद् आज्येषु
(प्ब् 11.2.2) निराहावन्त्य् आज्यानि भवन्ति युक्तम् एव तैर् आह्वयति
(प्ब् 11.2.3) अग्न आयाहि वीतय आ नो मित्रावरुणायाहि सुषमा हि त इन्द्राग्नी आगतं सुतम् इति राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः इति
(प्ब् 11.3.1) प्र सोमासो विपश्चित इति गायत्री भवति प्रेत्या अभिद्रोणानि बभ्रव इत्य् अभिक्रान्त्यै स्तुता इन्द्राय वायव इति संस्कृत्यै प्र सोम देव वीतय इति प्रेत्यै प्र तु द्रवेति प्रेत्यै प्र वा एतेनाह्ना यन्ति
(प्ब् 11.3.2) गायत्रं भवति
(प्ब् 11.3.3) यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 11.3.4) आश्वं भवति
(प्ब् 11.3.5) अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्राजायत बहुर् अभवत् प्रजायते बहुर् भवत्य् आश्वेन तुष्टुवानः
(प्ब् 11.3.6) एकाक्षरं निधनम् उपयन्ति रथन्तरस्यानतिवादाय
(प्ब् 11.3.7) अनतिवाद्य् एनं भ्रातृव्यो भवति य एवं वेद
(प्ब् 11.3.8) सोमसाम भवति
(प्ब् 11.3.9) यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपो ऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यम् अगच्छद् यशो ऽभवद् राज्यम् आधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः
(प्ब् 11.3.10) यौधाजयं भवति यद् एव यौधाजयस्य ब्राह्मणम्
(प्ब् 11.3.11) औशनं यद् औशनस्य स्तोमः
(प्ब् 11.4.1) अभि त्वा शूर नो नु म इत्य् अभीति रथन्तरस्य रूपं रथन्तरं ह्य् एतद् अहः
(प्ब् 11.4.2) कया नश् चित्र आभुवद् इति कवत्यस् तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेर् आप्त्यै
(प्ब् 11.4.3) तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसो ऽभिवत्सं न स्वसरेषु धेनव इत्य् अभीति रथन्तरस्य रूपं रथन्तरं ह्य् एतद् अहः
(प्ब् 11.4.4) इन्द्रं गीर्भिर् हवामह इति हवन्त एवैनम्
(प्ब् 11.4.5) तरोभिर् वो विदद्वसुम् इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर् वो विदद्वसुम् इत्य् आह यज्ञम् एव तद् युनक्ति
(प्ब् 11.4.6) रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयम् अहर् ब्रह्मण एव तद् ब्रह्माक्रम्य प्रयन्ति
(प्ब् 11.4.7) इयं वै रथन्तरम् अस्याम् एव प्रतिष्ठाय सत्त्रम् आसते
(प्ब् 11.4.8) वामदेव्यं भवति पशवो वै वामदेव्यं पशूनाम् अवरुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापताव् एव प्रतिष्ठाय सत्त्रम् आसते
(प्ब् 11.4.9) नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयम् अहर् ब्रह्मण एव तद् रह्माक्रमन्ते
(प्ब् 11.4.10) कालेयं भवति समानलोके वै कालेयञ् च रथन्तरञ् चेयं वै रथन्तरं पशवः कालेयम् अस्याञ् चैव पशुषु च प्रतिष्ठाय सत्त्रम् आसते
(प्ब् 11.4.11) द्रवदिडं तथा ह्य् एतस्याह्नो रूपं स्तोमः
(प्ब् 11.5.1) प्र सोमासो मदच्युत इति गायत्री भवति मदवद् वै रसवृत् तृतीयसवनं मदम् एव तद् रसं दधात्य् अया पस्वस्व देवयुर् इत्य् एति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः पवते ऽहर् यतो हरिर् इति बृहतो रूपं बृहद् एव तद् एतस्मिन्न् अहनि युनक्ति तद् युक्तं श्व आरभन्ते प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीण्यम् इव ह्य् एतद् अहर् अभि प्रियाणि पवते च नोहित इत्य् अभीति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः
(प्ब् 11.5.2) यज्ञा यज्ञा वो अग्नय इत्य् अग्नेर् वै यज्ञो यज्ञ एव तद् यज्ञं प्रतिष्ठापयति
(प्ब् 11.5.3) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 11.5.4) संहितं भवति व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैव सत्त्रम् आसते
(प्ब् 11.5.5) सफं भवति
(प्ब् 11.5.6) सफेन वै देवा इमान् लोकान् समाप्नुव्वन् यत् समाप्नुवंस् तत् सफस्य सफत्वम् इमान् एवैतेन लोकान् समाप्य सत्त्रम् आसते
(प्ब् 11.5.7) आक्षारं भवति
(प्ब् 11.5.8) अष्टौ वा एताः कादुघा आसंस् तासाम् (?) एका समशीर्यत सा कृषिर् अभवद् ऋध्यते ऽस्मै कृषौ य एवं वेद
(प्ब् 11.5.9) तासु देवासुरा अस्पर्धन्त ते देवा असुरान् कामदुघाभ्य आक्षारेणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः
(प्ब् 11.5.10) एभ्यो वै लोकेभ्यो रसो ऽपाक्रामत् तं प्रजापतिर् आक्षारेणाक्षारयद् यद् आक्षारयत् तद् आक्षारस्याक्षारत्वम्
(प्ब् 11.5.11) तस्माद् यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्याद् आक्षारं ब्रह्म साम कुर्वीतात्मन्य् एवेद् इन्द्रियं वीर्यं रसम् आक्षारयति
(प्ब् 11.5.12) जनुषैकर्चो भवतो ऽह्नो धृत्यै यद् वा एतस्याह्नो ऽधृतं तद् एताभ्यां दाधार
(प्ब् 11.5.13) गौरीवितं भवति
(प्ब् 11.5.14) गौरीवितिर् वा एतच् छाक्त्यो ब्राह्मणो ऽतिरिक्तम् अपश्यत् तद् गौरीवितम् अभवत्
(प्ब् 11.5.15) अतिरिक्तं वा एतद् अतिरिक्तेन स्तुवन्ति यद् गौरीवितेनाहीनाञ् छवस्तनवद् भवत्य् अपि प्रजाया उपकॢप्तम्
(प्ब् 11.5.16) वृषा वा एतद् वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते
(प्ब् 11.5.17) अनुष्टुभि छन्दसां क्रियते ऽनुष्टुब् भि छन्दसां योनिः स्वायाम् एव तद् योनौ रेतो धत्ते प्रजात्यै
(प्ब् 11.5.18) प्रजायते बहुर् भवति य एवं वेद
(प्ब् 11.5.19) द्व्युदासं भवत्य् एतौ वा उदासौ स्वर्गस्य लोकस्यावसानदर्शौ पूर्वेण पूर्वम् अहः संस्थापयन्त्य् उत्तरेणोत्तरम् अहर् अभ्यतिवदन्ति
(प्ब् 11.5.20) तद् यथादः पूर्वेद्युः स्पष्टं तृणोदकम् अन्ववस्यन्तो यन्त्य् एवम् एव ताभ्यां स्वर्गं लोकम् अन्ववस्यन्तो यन्ति
(प्ब् 11.5.21) गौतमं भवति
(प्ब् 11.5.22) सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 11.5.23) यद् उ चैवानुष्त्टुभस्य मध्ये निधनस्य ब्राह्मणं तद् दु चैतस्य
(प्ब् 11.5.24) कावं भवति
(प्ब् 11.5.25) लोकबिन्दुः साम विन्दते लोकं कावेन तुष्टुवानः
(प्ब् 11.5.26) स्वारसु स्वरेण स्वरेण हि देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते स्वरेणैव तद् देवेभ्यो ऽन्ततो ऽन्नाद्यं प्र यच्छति
(प्ब् 11.5.27) यज्ञायज्ञीयं भवति
(प्ब् 11.5.28) वाग् यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्य् एव तद् यज्ञम् अन्ततः प्रतिष्ठापयन्ति तं वाचो ऽधि श्व आरभन्ते
(प्ब् 11.5.29) त्रिवृद् एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
(प्ब् 11.6.1) प्रतिपद् भवति
(प्ब् 11.6.2) समारभते द्विरात्रस्याव्रिस्रंसाय
(प्ब् 11.6.3) पवस्वेन्दो वृषासुत इत्य् अनुरूप्यो भवति वृषावद् वा एत ऐन्द्रं त्रैष्टुभम् अहर् यत् द्वितीयं तद् एव तद् अभिवदति
(प्ब् 11.6.4) पूर्वम् उ तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम्
(प्ब् 11.6.5) अनुरूप एनं पुत्रो जायते य एवं वेद
(प्ब् 11.6.6) स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै
(प्ब् 11.6.7) वृषण्वन्तस् तृचा भवतीन्द्रियस्य वीर्यस्यावरुध्यै
(प्ब् 11.6.8) तृच उत्तमो भवति
(प्ब् 11.6.9) येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 11.6.10) पञ्ददश एव स्तोमो भवति
(प्ब् 11.6.11) ओजस्य् एव तद् वीर्ये प्रतितिष्ठति ओजो वीर्यं पञ्चदशः
(प्ब् 11.7.1) उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तद् आज्येषु
(प्ब् 11.7.2) निराहोपस्थितान्य् आज्यानि भवन्ति
(प्ब् 11.7.3) अग्निं दूतं वृणीमहे मित्रं वयं हवामह इन्द्रम् इद् गाथिनो बृहद् इन्द्रो अग्ना नमो बृहद् इति बार्हतम् एव तद् रूपं निर्द्योतयति स्तोमः
(प्ब् 11.8.1) वृषा पवस्व धारयेति गायत्री भवत्य् अह्नो धृत्यै
(प्ब् 11.8.2) वृषण्वत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः
(प्ब् 11.8.3) पुनानस् सोम धारयेति धृत्यै
(प्ब् 11.8.4) वृषा शोणो अभिकनिक्रदद् गा इति
(प्ब् 11.8.5) वृषण्वत्यस् त्रिष्टुभो रूपेण समृद्धा वृषण्वद् वा एतद् ऐन्द्रं त्रैष्टुभम् अहर् यत् द्वितीयं तद् एव तद् अभिवदति
(प्ब् 11.8.6) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 11.8.7) यौक्ताश्वं भवति
(प्ब् 11.8.8) युक्ताश्वो व आङ्गिरसः शिशू जातौ विपर्यहरत् तस्मान् मन्त्रो ऽपाक्रामत् स तपो ऽतप्यत स एतद् यौक्ताश्वम् अपश्यत् तं मन्त्र उपावर्तत तद् वाव स तर्ह्य् अकामयत कामसनि सम यौक्ताश्वं कामम् एवैतेनावरुन्धे
(प्ब् 11.8.9) आयास्ये भवतः
(प्ब् 11.8.10) अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानाम् अन्नाद्यम् आश्नात् तं शुग् आर्च्छत् स तपो ऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचम् अपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः
(प्ब् 11.8.11) एभ्यो वै लोकेभ्यो वृष्टिर् अपाक्रामत् ताम् अयास्य आयास्याभ्याम् अच्यावयत् च्यावयति वृष्टिम् आयास्याभ्यां तुष्टुवानः
(प्ब् 11.8.12) अन्नाद्यं वाव तद् एभ्यो लोकेभ्यो ऽपाक्रामत् तद् अयास्य आयास्याभ्याम् अच्यावयत् च्यावयत्य् अन्नाद्यम् आयास्याभ्यां तुष्टुवानः
(प्ब् 11.8.13) वासिष्ठं भवति
(प्ब् 11.8.14) वसिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः
(प्ब् 11.9.1) त्वाम् इद् धि हवामह इति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 11.9.2) अभिप्रवः सुराधसम् इति युञ्जते वै पूर्वेणाह्ना ह्य् एतेन प्रयन्ति
(प्ब् 11.9.3) त्वाम् इदा ह्यो नर इत्य् अद्य चैव ह्यश् च समारभते द्विरात्रस्याविस्रंसाय
(प्ब् 11.9.4) बृहद् भवति वर्ष्म वै बृहद् वर्ष्म द्वितीयम् अहर् वर्ष्मण एव तद् वर्ष्माक्रमन्ते
(प्ब् 11.9.5) श्येतं भवति साम्नोर्वाहो यज्ञस्य सन्तत्यै
(प्ब् 11.9.6) माधुच्छन्दसं भवति सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 11.9.7) ऊर्ध्वेडं तथा ह्य् एतस्याह्नो रूपं स्तोमः
(प्ब् 11.10.1) यस् ते मदो वरेण्य इति गायत्री भवति
(प्ब् 11.10.2) मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 11.10.3) पवस्व मधुमत्तम इति पवन्त इव ह्य् एतेनाह्ना मधुमत्तम इत्य् अन्नं वै मध्व् अन्नाद्यम् एव तद् यजमाने दधाति
(प्ब् 11.10.4) इन्द्रम् अच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै
(प्ब् 11.10.5) अयं पूषा रयिर् भग इति
(प्ब् 11.10.6) अनुष्टुभः सत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः
(प्ब् 11.10.7) वृषामतीनां पवते विचक्षण इति जगत्यः सत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः
(प्ब् 11.10.8) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 11.10.9) हाविष्मतं भवति
(प्ब् 11.10.10) हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव् आस्तां द्वितीये ऽहनि हविष्मान् अराध्नोन् नवमे ऽहनि हविष्कृत्
(प्ब् 11.10.11) अयं हविष्मान् इत्य् एव जातम् अहर् जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषम् आशास्ते साम हि सत्य् आशीः
(प्ब् 11.10.12) शङ्कु भवत्य् अह्नो धृत्यै यद् वा अधृतं शङ्कुना तद् दाधार
(प्ब् 11.10.13) तद् उ सीदन्तीयम् इय् आहुर् एतेन वै प्रजापतिर् ऊर्ध्व इमान् लोकान् असीदद् यद् असीदत् तत् सीदन्तीयस्य सीदन्तीयत्वम् ऊर्ध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः
(प्ब् 11.10.14) सुज्ञानं भवति
(प्ब् 11.10.15) स्वर्वद् वै राथन्तरं रूपं स्वर्णधनं बार्हतम्
(प्ब् 11.10.16) स्वर्णधनं भवति तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 11.10.17) प्लुवौ वा एताव् उपोहन्ते स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 11.10.18) गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम्
(प्ब् 11.10.19) क्रौञ्चं भवति
(प्ब् 11.10.20) वाग् वै क्रौञ्चं वाग् द्वादशाहो वाच्य् एव तद् वाचा स्तुवते यज्ञस्य प्रभूत्यै
(प्ब् 11.10.21) यामं भवति
(प्ब् 11.10.22) एतेन वै यमो ऽनपजय्यम् अमुष्य लोकस्याधिपत्यम् आश्नुतानपजय्यम् अमुष्य लोकस्याधिपत्यम् अश्नुते यामेन तुष्टुवानः
(प्ब् 11.10.23) एतेन वै यमी यमं स्वर्गं लोकम् अगमयत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः
(प्ब् 11.11.1) एह्य् ऊ षु ब्रवाणि त इत्य् एहिवत्यै भवन्ति तृतीयस्याह्न उपहवाय सन्तत्यै
(प्ब् 11.11.2) अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वाय
(प्ब् 11.11.3) एवाह्य् असि वीरयुर् इति समानं वदन्तीदम् इत्थम् असद् इति
(प्ब् 11.11.4) इन्द्रं विश्वा अवीवृधन्न् इत्य् अवर्धन्त ह्य् एतर्हि यजमानम् एवैतया वर्धन्ति
(प्ब् 11.11.5) साकम् अश्वं भवत्य् उक्थानाम् अभिजित्या अभिक्रान्त्यै
(प्ब् 11.11.6) एतेन ह्य् अग्र उक्थान्य् अध्यजयन्न् एतेनाभ्यक्रामन्
(प्ब् 11.11.7) आमहीयवं भवति कॢप्तिश् चान्नाद्यञ् च समानं वदन्तीषु क्रियत इदम् इत्थम् असद् इति
(प्ब् 11.11.8) क्षत्रं वा एतद् अहर् अभिनिर्वदति यत् पञ्चदशं यद् गायत्रीषु ब्रह्मसाम भवति ब्रह्म चैव तत् क्षत्रञ् च सयुजी करोति ब्रह्मैव क्षत्रस्य पुरस्तान् निदधति ब्रह्मणे क्षत्रञ् च विशञ् चानुगे करोति
(प्ब् 11.11.9) ब्रह्म वै पूर्वम् अहः क्षत्रं द्वितीयं यद् गायत्रीषु ब्रह्म साम भवति ब्रह्म तद् यशसार्धयति ब्रह्म हि गायत्री
(प्ब् 11.11.10) तद् उ समानं वदन्तीषु क्रियते समृद्ध्यै
(प्ब् 11.11.11) आष्टादंष्ट्रे भवतः
(प्ब् 11.11.12) ऐयाहा इति वा इन्द्रो वृत्रम् अहन्न् ऐयादोहोवेति न्यगृह्णाद् वार्त्रघ्ने सामनी वीर्यवती
(प्ब् 11.11.13) ओजो एवैताभ्यां वीर्यम् अवरुन्धे
(प्ब् 11.11.14) पञ्चदश एव स्तोमो भवत्य् ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्यं पञ्चदशः
(प्ब् 12.1.1) दविद्युतत्य् आरुचेति तृतीयस्याह्नः प्रतिपद् भवति
(प्ब् 12.1.2) दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब् गवाशीर् जगती त्रीणि रूपाणि समारभते त्रिरात्रस्याविस्रंसाय
(प्ब् 12.1.3) एते असृग्रम् इन्दव इत्य् अनुरूपो भवति
(प्ब् 12.1.4) एत इति वै प्रजापतिर् देवान् असृजतासृग्रम् इति मनुष्यान् इन्दव इति पित्.ऋंस् तद् एव तद् अभिवदति
(प्ब् 12.1.5) पूर्वम् उ चैव तद् रेपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपणो ऽनुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद
(प्ब् 12.1.6) स्तोत्रीयानुरूपौ तृचो भवतः प्राणापानानाम् अवरुध्यै
(प्ब् 12.1.7) राजा मेधाभिर् ईयते पवमानो मनाव् अध्य् अन्तरिक्षेण यातव इति
(प्ब् 12.1.8) अन्तरिक्षदेवत्यस् तृचो भवत्य् अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति
(प्ब् 12.1.9) पञ्चर्चौ भवति पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 12.1.10) तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्य् उपयान्ति
(प्ब् 12.1.11) सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
(प्ब् 12.2.1) अग्निनाग्निः समिध्यत इत्य् आग्रेयम् आज्यं भवति
(प्ब् 12.2.2) पूर्वे एव तद् अहनी समिद्धे तृतीयम् अहर् अभिसमिन्धे
(प्ब् 12.2.3) मित्रं हुवे पूतदक्षम् इति राथन्तरम् मैत्रावरुणम्
(प्ब् 12.2.4) हुव इति वै राथन्तरं रूपम्
(प्ब् 12.2.5) रथन्तरम् एतत् परोक्षं यद् वैरूपं राथन्तरम् एव तद् रूपं निर्द्योतयति
(प्ब् 12.2.6) इन्द्रेण सं हि दृक्षुस इत्य् ऐन्द्रम्
(प्ब् 12.2.7) सम् इव वा इमे लोका ददृशिरे ऽन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति
(प्ब् 12.2.8) ता हुवे ययोर् इदम् इति राथन्तरम् ऐन्द्राग्नम्
(प्ब् 12.2.9) हुव इति वै राथन्तरं रूपं रथन्तरम् एतत् परोक्षं यद् वैरूपं राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः
(प्ब् 12.3.1) उच्चा ते जातम् अन्धस इति गायत्री भवति
(प्ब् 12.3.2) उद्वद् वा एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति
(प्ब् 12.3.3) अन्धस्वती भवत्य् अहर् वा अन्धो ऽह्न आरम्भः
(प्ब् 12.3.4) अभि सोमास आयव इति
(प्ब् 12.3.5) अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोः सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः
(प्ब् 12.3.6) तिस्रो वाच ईरयति प्रवह्निर् इति तृतीयस्याह्नो रूपं तेन तृतीयम् अहर् आरभन्ते
(प्ब् 12.3.7) त्रिष्टुभः सत्यो जगत्यो रूपेण जागतं ह्य् एतद् अहः
(प्ब् 12.3.8) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 12.3.9) वैष्टम्भं भवति
(प्ब् 12.3.10) अहर् वा एतद् अव्लीयत तद् देवा वैष्टम्भैर् व्यष्टभ्नुवंस् तद् वैष्टम्भस्य वैष्टम्भत्वम्
(प्ब् 12.3.11) दिश इति निधनम् उपयन्ति दिशां धृत्यै
(प्ब् 12.3.12) पौरूमद्गं भवति
(प्ब् 12.3.13) अहर् वा एतद् अव्लीयमानं तद् रक्षांस्य् अन्वसचन्त तस्माद् देवाः पौरूमद्गेन रक्षांस्य् अपाघ्नन्न् अप पाप्मानं हते पौरूमद्गेन तुष्टुवानः
(प्ब् 12.3.14) देवाश् च वासुराश् चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरो ऽमज्जयन् यत् पुरो ऽमज्जयंस् तस्मात् पौरूमद्गं पाप्मानम् एवैतेन भ्रातृव्यं मज्जयति
(प्ब् 12.3.15) गौतमं भवति
(प्ब् 12.3.16) यद् एव गौतमस्य ब्राह्मणम्
(प्ब् 12.3.17) उभयतः स्तोत्रं तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 12.3.18) अन्तरिक्षं भवति
(प्ब् 12.3.19) अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयम् अन्तरिक्ष एव तद् अन्तरिक्षेण स्तुवते प्रतिष्ठायै
(प्ब् 12.3.20) आष्कारणिधनं काण्वं भवति
(प्ब् 12.3.21) अस् इति वै राथन्तरं रूपं हस् इति बार्हतं तृतीयम् एव तद् रूपम् उपयन्ति समृध्यै
(प्ब् 12.3.22) अङ्गिरसां संक्रोशो भवति
(प्ब् 12.3.23) एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकम् आपन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः
(प्ब् 12.4.1) यद्य् आव इन्द्र ते शतम् इति शतवत्यो भवन्ति
(प्ब् 12.4.2) शतवद् वै पशूनां रूपं सहस्रवत् पशूनाम् एवैताभी रूपम् अवरून्धे
(प्ब् 12.4.3) वयङ् घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश् छन्द आक्रमते ऽनपभ्रंशाय
(प्ब् 12.4.4) तरणिर् इत् सिषासति वाजं पुरन्ध्या युजा। आव इन्द्रं पुरुहूतं न मे गिरेत्य् आवद् अक्षरम् उद्धतम् इव वै तृतीयम् अहर् यद् एव तावद् अक्षरं भवत्य् अहर् एवैतेन प्रतिष्ठापयति
(प्ब् 12.4.5) पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै
(प्ब् 12.4.6) पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाघस्यावरूध्यै
(प्ब् 12.4.7) दिशां वा एतत् साम यद् वैरूपं दिशो ह्य् एवैतेनाभिवदति
(प्ब् 12.4.8) अथ यत् पञ्चनिधनं तेनर्तूनां पञ्च ह्य् ऋतवः
(प्ब् 12.4.9) ऋतुभिश् च वा इमे लोका दिग्भिश् चावृतास् तेष्व् एवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तम् उद्गाता प्रतितिष्ठति य एवं विद्वान् वैरूपेणोद्गायति
(प्ब् 12.4.10) दिग्वद् भवति भ्रातृव्यस्यापनुत्यै
(प्ब् 12.4.11) दिशं विशम् इति निधनम् उपयन्ति दिशां धृत्यै
(प्ब् 12.4.12) हस् इत्य् उपरिष्टाद् दिशां निधनम् उपयन्ति तेन बार्हतम्
(प्ब् 12.4.13) राथन्तरो वा अयं लोको बार्हतो ऽसाव् उभे एव तद् बृहद्रथन्तरयो रूपेणापराध्नोति
(प्ब् 12.4.14) अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद् बृहद्रथन्तरे ताव् एव तद् युनक्ति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 12.4.15) अश्ववद् भवति प्रजात्यै
(प्ब् 12.4.16) यथा मण्डूक आट् करोत्य् एवं निधनम् उपयन्त्य् अयातयामतायै
(प्ब् 12.4.17) द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
(प्ब् 12.4.18) विरूपः संवत्सरो विरूपम् अन्नाद्यस्यावरुध्यै
(प्ब् 12.4.19) महावैष्टम्भं ब्रह्मसाम भवत्य् अन्नाद्यस्यावरुध्यै
(प्ब् 12.4.20) यदा वै पुरुषो ऽन्नम् अत्त्य् अथान्तरतो विष्टब्धः
(प्ब् 12.4.21) दिश इति निधनम् उपयन्ति दिशां धृत्यै
(प्ब् 12.4.22) सतो बृहतीषु स्तुवन्ति पूर्वयोर् अह्नोः प्रत्युद्यमाय
(प्ब् 12.4.23) रौरवम् अच्छावाकसाम भवति
(प्ब् 12.4.24) अग्निर् वै रूरो रूद्रो ऽग्निः
(प्ब् 12.4.25) अग्निर् वा एतस्य पशून् अपक्रमयति यस्य पशवो ऽपक्रामन्त्य् अग्निर् एव तस्य पशून् अभिक्रमयति यस्य पशवो ऽभिक्रामन्ति
(प्ब् 12.4.26) अभ्य् अभ्य् एवास्य पशवः क्रामन्ति य एवं विद्वान् रौरवेण स्तुवते
(प्ब् 12.4.27) परिष्टुब्धेडं तथा ह्य् एतस्याह्नो रूपं स्तोमः
(प्ब् 12.5.1) ऽऽतिस्रो वाच उदीरतऽऽ इति तृतीयस्याह्नो रूपं तेन तृतीयम् अहर् आरभन्ते
(प्ब् 12.5.2) उद्वद् वा एतत् त्रिवद् अहर् यत् तृतीयं तद् एव तद् अभिवदति
(प्ब् 12.5.3) ऽऽआ सोता परिषिञ्चतऽऽ इति परिवत्यो भवन्ति
(प्ब् 12.5.4) अन्तो वै तृतीयम् अहस् तस्यैताः पर्याप्त्यै
(प्ब् 12.5.5) ऽऽसखाय आनिषीदतऽऽ इत्य् उद्धत्तम् इव वै तृतीयम् अहर् यद् आह निषीदतेत्य् अहर् एवैतेन प्रतिष्ठापयति
(प्ब् 12.5.6) ऽऽसुतासो मधुमत्तमाऽऽ इत्य् अनुष्टुभः सत्यो जगत्यो रूपेण जागतं ह्य् एतद् अहः
(प्ब् 12.5.7) ऽऽपवित्रं ते विततं ब्रह्मणस्पतऽऽ इति
(प्ब् 12.5.8) विततम् इव वा इदम् अन्तरिक्षम् अन्तरेमे अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति
(प्ब् 12.5.9) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 12.5.10) पाष्ठौहं भवति
(प्ब् 12.5.11) पष्ठवाड् वा एतेनाङ्गिरसश् चतुर्थस्याह्नो वाचं वदन्तीम् उपाशृणोत् स हो वाग् इति निधनम् उपैत् तद् अस्याभ्युदितं तद् अहर् अवसत्
(प्ब् 12.5.12) वाचः साम भवति
(प्ब् 12.5.13) वाग् वै द्वादशाहो वाच्य् एव तद् वाचा स्तुवते यज्ञस्य प्रभूत्यै
(प्ब् 12.5.14) निष्किरीयाः सत्त्रम् आसत ते तृतीयम् अहर् न प्राजानंस् तान् एतत् साम गायमानान् वाग् उपाप्लवत् तेन तृतीयम् अहः प्राजानंस् ते ऽब्रुवन्न् इयं वाव नस् तृतीयम् अहर् अदीदृशद् इति तृतीयस्यैवैषाह्नो दृष्टिः
(प्ब् 12.5.15) शौक्तं भवति
(प्ब् 12.5.16) शुक्तिर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 12.5.17) गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम्
(प्ब् 12.5.18) त्वाष्ट्रीसाम भवति
(प्ब् 12.5.19) इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस् तम् एतेन त्वाष्ट्रयो ऽस्वापयंस् तद् वाव तास् तर्ह्य् अकामयन्त
(प्ब् 12.5.20) कामसनि साम त्वाष्ट्रीसाम कामम् एवैतेनावरुन्धे
(प्ब् 12.5.21) इन्द्रो वृत्राद् विभ्यद् गां प्राविशत् तं त्वाष्ट्रयो ऽब्रुवं जनयामेति तम् एतैः सामभिर् अजनयं जायामहा इति वै सत्त्रम् आसते जायन्त एव
(प्ब् 12.5.22) अरिष्टं भवति
(प्ब् 12.5.23) देवाश् च वा असुराश् चास्पर्धन्त यं देवानाम् अघ्नन् न स समभवद् यम् असुराणां सं सो ऽभवत् ते देवास् तपो ऽतप्यन्त त एतद् अरिष्टम् अपश्यंस् ततो ऽयं देवानाम् अघ्नत् सं सो ऽभवद् यम् असुराणां न स समभवद् अनेनारिषामेति तद् अरिष्टस्यारिष्टत्वम् अरिष्टया एवारिष्टम् अन्ततः क्रियते
(प्ब् 12.5.24) त्रीडं भवति त्रिरात्रस्य धृत्यै
(प्ब् 12.5.25) द्रवन्तीम् इडाम् उत्तमाम् उपयन्ति चतुर्थस्याह्नः सन्तत्यै स्तोमः
(प्ब् 12.6.1) प्रमंहिष्ठाय गायतेति
(प्ब् 12.6.2) यद् गायतेति महस एव तद् रूपं क्रियते
(प्ब् 12.6.3) ऽऽतं ते मद् अङ्गणीम् असीति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति
(प्ब् 12.6.4) ऽऽश्रुधी हवं तिरश्च्याऽऽ इति श्रुत्या एव
(प्ब् 12.6.5) प्रमंहिष्ठीय भवति
(प्ब् 12.6.6) प्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्तयत् तम् अस्तृणुत भ्रातृव्यवान् प्रमंहिष्ठीयेनोक्थानि प्रणयेत स्तृणुते भ्रातृव्यं वसीयां आत्मना भवति
(प्ब् 12.6.7) हारिवर्णं भवति
(प्ब् 12.6.8) इन्द्रश् च वै नमुचिश् चासुरः समदधातां न नो नक्तन् न दिवाहनन् नार्द्रेण न शुष्केणेति तस्य व्युष्टायाम् अनुदित आदित्ये ऽपां फेनेन शिरो ऽछिनद् एतद् वै न नक्तं न दिवा यत् व्युष्टायाम् अनुदित आदित्य एतन् नार्द्रन् न शुष्कं यद् अपां फेनस् तद् एनं पापीयां वाचं वदद् अन्ववर्तत वीरहन् न द्रुहो द्रुह इति तन् नर्चा न साम्नापहन्तुम् अशक्नोत्
(प्ब् 12.6.9) हारिवर्णस्यैव निधनेनापाहत
(प्ब् 12.6.10) अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश् चोपैति तुष्टुवानः
(प्ब् 12.6.11) तैरश्चयं भवति
(प्ब् 12.6.12) अङ्गिरसः स्वर्गं लोकं यन्तो रक्षांस्य् अन्वसचन्त तान्य् एतेन तिरश्चाङ्गिरसस् तिर्यङ् पर्यवैद् यत् तिर्यङ् अपर्यवैत् तस्मात् तैरश्च्यं पाप्मा वाव स तान् असचत तं तैरश्च्येनापाघ्नताप पाप्मानं हते तैरश्च्येन तुष्टुवानः
(प्ब् 12.6.13) सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
(प्ब् 12.7.1) ऽऽप्र त आश्विनीः पवमानधेनवऽऽ इति चतुर्थस्याह्नः प्रतिपद् भवति
(प्ब् 12.7.2) आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रति वै गायत्र्या रूपम्
(प्ब् 12.7.3) जगती प्रतिपद् भवति जागतम् एतद् अहर् यत् तृतीयं जगत्या एव तज् जगतीम् अभिसंक्रामन्ति
(प्ब् 12.7.4) यद् अतो ऽन्या प्रतिपत्स्यात् प्रतिकूलं वानुकूलं वा स्यात्
(प्ब् 12.7.5) पवमानो अजीजनद् इत्य् अनुरूपो भवति
(प्ब् 12.7.6) जनद्वद् वा एतद् अहर् यच् चतुर्थम् अन्नाद्यं जनयति विराजं जनयत्य् एकविंशं स्तोमं जनयति
(प्ब् 12.7.7) पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम्
(प्ब् 12.7.8) अनुरूप एनं पुत्रो जायते य एवं वेद
(प्ब् 12.7.9) स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै
(प्ब् 12.7.10) षडृचौ भवत ऋतूनां धृत्यै
(प्ब् 12.7.11) तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 12.7.12) एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति
(प्ब् 12.8.1) ऽऽजनस्य गोपा अजनिष्ट जागृविःऽऽ इत्य् आग्नेयम् आज्यं भवति
(प्ब् 12.8.2) जनद्वद् वा एतद् अहर् यच् चतुर्थम् अन्नाद्यं जनयति विराजं जनयत्य् एकविंशं स्तोमं जनयति
(प्ब् 12.8.3) ऽऽअयं वां मित्रावरूणा-ऽऽ इति बार्हतं मैत्रावरूणम्
(प्ब् 12.8.4) बृहद् एतत् परोक्षं यद् वैराजं बार्हतम् एव तद् रूपं निर्द्योतयति
(प्ब् 12.8.5) ऽऽइन्द्रो दधीचो अस्थभिर्ऽऽ इति दाधीचस् तृचो भवति
(प्ब् 12.8.6) दध्यङ् वा आङ्गिरसो देवानां पुरोधानीय आसीद् अन्नं वै ब्रह्मणः पुरोधा अन्नाद्यस्यावरुध्यै
(प्ब् 12.8.7) ऽऽइयं वामस्य मन्मनऽऽ इत्य् ऐन्द्राग्नम्
(प्ब् 12.8.8) ऽऽइन्द्राग्नी पूर्व्यस्तुतिर् अभ्राद् वृष्टिर् इवाजनि-ऽऽ इत्य् आनुष्टुभी वै वृष्टिर् आनुष्टुभम् एतद् अहर् यच् चतुर्थं समीच्यौ विराजौ दधात्य् अन्नाद्याय स्तोमः
(प्ब् 12.9.1) ऽऽपयस्व दक्षसाधनऽऽ इति गायत्री भवति सिध्यै
(प्ब् 12.9.2) यत् पवस्वेति तद् बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 12.9.3) ऽऽतवाहं सोम रारण सख्य इन्दो दिवे दिवे। पुरूणि बभ्रो निचरन्ति माम् अव परिधींर् अतितां इहि-ऽऽ इति
(प्ब् 12.9.4) अति ह्य् आयञ् छकुना इव पप्तिम् एत्य् अति ह्य् अपतत्
(प्ब् 12.9.5) पुनानो अक्रमीद् अभीति
(प्ब् 12.9.6) गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
(प्ब् 12.9.7) गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम्
(प्ब् 12.9.8) चतुर्णिधनम् आथर्वणं भवति चतूरात्रस्य धृत्यै
(प्ब् 12.9.9) चतुष्पदानुष्टुभानुष्टुभम् एतद् अहर् यच् चतुर्थम्
(प्ब् 12.9.10) भेषजं वाथर्वणानि भेषजम् एव तत् करोति
(प्ब् 12.9.11) निधनकामं भवति
(प्ब् 12.9.12) एकं वा अन्येन निरुक्तेन निधनेन कामं सनोत्य् अथैतन् निधनकामं सर्वेषां कामानाम् अवरुध्यै
(प्ब् 12.9.13) आष्टादंष्ट्रं भवति
(प्ब् 12.9.14) यद् एवाष्टादंष्ट्रस्य ब्राह्मणम्
(प्ब् 12.9.15) आभीशवं भवत्य् अह्नो धृत्यै
(प्ब् 12.9.16) यद् वा अधृतम् अभीशुना तद् दाधार
(प्ब् 12.9.17) अनुतुन्नं गायति तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 12.9.18) चतुर्णिधनम् आङ्गिरसं भवति चतूरात्रस्य धृत्यै
(प्ब् 12.9.19) स्वः पृष्ठं तथा ह्य् एतस्याह्नो रूपम्
(प्ब् 12.9.20) सत्त्रासाहीयं भवति
(प्ब् 12.9.21) यद् वा असुराणाम् असोढम् आसीत् तद् देवाः सत्त्रासाहीयेनासहन्त सत्त्रैनान् असक्ष्महीति तत् सत्त्रासाहीयस्य सत्त्रासाहीयत्वम्
(प्ब् 12.9.22) सत्त्रा भ्रातृव्यं सहते सत्त्रासाहीयेन तुष्टुवानः
(प्ब् 12.9.23) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति
(प्ब् 12.9.24) वृषण्वत्यो गायत्रयो भवन्ति तद् उ त्रैष्टुभाद् रूपान् नयन्ति स्तोमः
(प्ब् 12.10.1) ऽऽपिबा सोमम् इन्द्र मन्दतु त्वा यन्ते सुषाव हर्यश्वाद्रिः। सोतुर् बाहुभ्यां सुयतो नार्वा-ऽऽ इत्य् अयतम् इव वै चतुर्थम् अहस् तस्यैव यत्यै
(प्ब् 12.10.2) विश्वाः पृतना अभिभृतरन्नर इत्य् अतिजगती वर्षीययश् छन्द आक्रमते ऽनपभ्रंशाय
(प्ब् 12.10.3) अपभ्रंश इव वा एष यज् जयायसश् छन्दसः कनीयश् छन्द उपैति यद् एषा चतुर्थे ऽहन्य् अतिजगती क्रियते ऽनपभ्रंशाय
(प्ब् 12.10.4) यो राजा चर्षणीनाम् इति
(प्ब् 12.10.5) राज्ये ह्य् एतर्हि वाचो ऽगच्छन् राज्यम् एवैतया यजमानं गमयन्ति
(प्ब् 12.10.6) छन्दोभिर् वै देवा आदित्यं स्वर्गं लोकम् अहरन् स नाध्रियत तं वैराजस्य निधनेनादृंहंस् तस्मात् पराङ् चार्वाङ् चादित्यस् तपति पराङ् चार्वाङ् चेकारः
(प्ब् 12.10.7) प्रस्तावं प्रस्तुत्य विष्टम्भान् विष्टभ्नोति मुखत एव तद् अन्नाद्यं धत्ते मुखं हि साम्नः प्रस्तावः
(प्ब् 12.10.8) दशकृत्वो विष्टभ्नोति दशाक्षरा विराङ् वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै
(प्ब् 12.10.9) त्रिंशत्कृत्वो विष्टभ्नोति भूयसो ऽन्नाद्यस्यावरुध्यै
(प्ब् 12.10.10) वैराजं साम भवति विराट्सु स्तुवन्ति वैराजा विष्टम्भाः समीचीर् विराजो दधात्य् अन्नाद्याय
(प्ब् 12.10.11) अनुतुन्नं गायति रेतोधेयायानुतुन्नाद् धि रेतो धीयते
(प्ब् 12.10.12) दक्षिण ऊराव् उद्गतुर् अग्निं मन्थन्ति दक्षिणतो हि रेतः सिच्यते
(प्ब् 12.10.13) उपाकृते ऽहिङ्कृते मन्थन्ति जातम् अभिहिङ्करोति
(प्ब् 12.10.14) तस्माज् जातं पुत्रं पशवो ऽभिहिङ्कुर्वन्ति
(प्ब् 12.10.15) तस्मै जातायामीमांसन्त गार्हपत्ये प्रहरामा3 आग्नीध्रा3 आहवनीया3 इति
(प्ब् 12.10.16) आहवनीये प्रहरन्त्य् एतद् आयतनो वै यजमानो यदा हवनीये स्वम् एव तद् आयतनं ज्योतिष्मत् करोति
(प्ब् 12.10.17) ज्योतिष्मान् ब्रह्मवर्चसी भवति य एवं वेद
(प्ब् 12.10.18) अभिजुहोति शान्त्यै
(प्ब् 12.10.19) आज्येनाभिजुहोति तेजो वा आज्यं तेज एव तद् आत्मन् धत्ते
(प्ब् 12.10.20) ऽऽप्रेद्धो अग्ने दीदिहि पुरो नऽऽ इति विराजाभिजुहोत्य् अन्नं विराड् अन्नाद्यस्यावरुध्यै
(प्ब् 12.10.21) त्रैशोकं ब्रह्मसाम भवति
(प्ब् 12.10.22) अतिजगतीषु स्तुवन्त्य् अह्न उत्क्रान्त्या उद् वा एतेनाह्ना क्रामन्ति
(प्ब् 12.10.23) दिवेति निधनम् उपयन्ति पाप्मनो ऽपहत्या अपपाप्मानं हते त्रैशोकेन तुष्टुवानः
(प्ब् 12.10.24) भारद्वाजस्य पृश्न्य् अछावाकसाम भवति
(प्ब् 12.10.25) अन्नं वै देवाः पृश्नीति वदन्त्य् अन्नाद्यस्यावरुध्यै
(प्ब् 12.10.26) इडाभिर् ऐडं तथा ह्य् एतस्याह्नो रूपं स्तोमः
(प्ब् 12.11.1) ऽऽपरिप्रिया दिवः कविर्ऽऽ इति परिवत्यो भवन्त्य् अन्तो वै चतुर्थम् अहस् तस्यैताः पर्याप्त्यै
(प्ब् 12.11.2) त्वं ह्य् अङ्ग दैव्येति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः
(प्ब् 12.11.3) सोमः पुनान ऊर्मिणा व्यंवारं विधावति। अग्रे वाचः पवमानः कनिक्रदद् इति
(प्ब् 12.11.4) अग्रं ह्य् एतर्हि वाचो ऽगच्छन्न् अग्रम् एवैतया यजमानं गमयन्ति
(प्ब् 12.11.5) ऽऽपुरो जितीवो अन्धसा-ऽऽ इति विराजौ वैराजं ह्य् एतद् अहः
(प्ब् 12.11.6) ऽऽसोमः पवते जनिता मतीनाम्ऽऽ इति प्रातस्सवने षोडशिनं गृहीतं तं तृतीयसवने प्रजनयन्ति
मूल पाठ: Pañcaviṃśabrāhmaṇa · Data entry Martin Kümmel Arlo Griffiths Masato Kobayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0