पञ्चविंशब्राह्मण · भाग 120
(प्ब् 1.1.1) ओं महन् मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस् तन् मावतु तन् माविशतु तेन भुक्षिषीय
(प्ब् 1.1.2) देवो देवम् एतु सोमः सोमम् एत्व् ऋतस्य पथा
(प्ब् 1.1.3) विहाय दौष्कृत्यम्
(प्ब् 1.1.4) बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
(प्ब् 1.1.5) पितरो भूः पितरो भूः पितरो भूः
(प्ब् 1.1.6) नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
(प्ब् 1.1.7) मृदा शिथिरा देवानां तीर्थं वेदिर् असि मा मा हिंसीः
(प्ब् 1.1.8) विष्णोः शिरो ऽसि यशोधा यशो मयि धेहि
(प्ब् 1.1.9) इष ऊर्ज आयुषे वर्चसे च
(प्ब् 1.2.1) युनज्मि ते पृथिवीम् अग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातो ऽन्तरिक्षेण ते सह युक्तास् तिस्रो विमृजः सूर्यस्य
(प्ब् 1.2.2) ऋतस्य सदने सीदामि
(प्ब् 1.2.3) ऋतपात्रम् असि
(प्ब् 1.2.4) वानस्पत्यो ऽसि बार्हस्पत्यो ऽसि प्राजापत्यो ऽसि प्रजापतेर् मूर्धास्य् अत्यायुपात्रम् असीदम् अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
(प्ब् 1.2.5) मरुतो नपातो ऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
(प्ब् 1.2.6) इदम् अहम् अमुं यजमानं पशुष्व् अध्य् ऊहामि पशुषु च मां ब्रह्मवर्चसे च
(प्ब् 1.2.7) वसवस् त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास् त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्व् आदित्यास् त्वा जागतेन छन्दसा सं मृजन्तु
(प्ब् 1.2.8) पवित्रं ते विततं ब्रह्मणस्पते प्रभुर् गात्राणि पर्य् एषि विश्वतो ऽतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तः सं तद् आशतः
(प्ब् 1.2.9) प्रशुक्रैतु देवीमनीषास्मद् रथः सुतष्टो न वाज्य् आयुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच् छृण्वन्त्व् आपो ऽधः क्षरन्तीः सोमेहोद्गाय माम् आयुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
(प्ब् 1.3.1) वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस् पतये देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः सरस्वत्यै स्वाहा
(प्ब् 1.3.2) सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुर् अन्तरिक्षाभ्यो ऽग्निः पार्थिवाभ्यः स्वाहा
(प्ब् 1.3.3) यो ऽद्य सौम्यो वधो ऽघायूनाम् उदीरते विषूकुहस्य धन्वनाप तान् वरुणो ऽप धमतु
(प्ब् 1.3.4) यो म आत्मा या मे प्रजा ये मे पशवस् तैर् अहं मनो वाचं प्र सीदामि
(प्ब् 1.3.5) अग्नेस् तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस् त्वा युनक्तु देवेभ्यः प्राणायाग्निर् युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
(प्ब् 1.3.6) अन्नं करिष्याम्य् अन्नं प्रविष्याम्य् अन्नं जनयिष्यामि
(प्ब् 1.3.7) अन्नम् अकरम् अन्नम् अभूद् अन्नम् अजीजनम्
(प्ब् 1.3.8) श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम्
(प्ब् 1.3.9) सं वर्चसा पयसा सं तपोभिर् अगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश् च सत्यैर् यथा वो ऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश् चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
(प्ब् 1.3.10) नमो गन्धर्वाय विष्वग् वादिने वर्चोधा असि वर्चो मयि धेहि
(प्ब् 1.4.1) अध्वनाम् अध्वपते स्वस्ति मे ऽद्यास्मिन् देवयाने पथि भूयात्
(प्ब् 1.4.2) सम्राड् असि कृशानुः
(प्ब् 1.4.3) तुथो ऽसि जनधायो नभो ऽसि प्रतक्वासंमृष्टो ऽसि हव्यसूदनः
(प्ब् 1.4.4) विबुर् असि प्रवाहणः
(प्ब् 1.4.5) वह्निर् असि हव्यवाहनः
(प्ब् 1.4.6) श्वात्रो ऽसि प्रचेताः
(प्ब् 1.4.7) तुथो ऽसि विश्ववेदा उशिग् असि कविर् अङ्घारिर् असि बम्भारिर् अवस्युर् असि दुवस्वान्
(प्ब् 1.4.8) शुन्ध्युर् असि मार्जालीयः
(प्ब् 1.4.9) ऋतधामासि स्वर्ज्योतिः
(प्ब् 1.4.10) समुद्रो ऽसि विश्वव्यचाः
(प्ब् 1.4.11) अहिर् असि बुध्न्यः
(प्ब् 1.4.12) अजो ऽस्य् एकपात्
(प्ब् 1.4.13) सगरा असि बुध्न्यः
(प्ब् 1.4.14) कव्यो ऽसि कव्यवाहनः
(प्ब् 1.4.15) पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वो ऽस्तु मा मा हिंसिष्ट
(प्ब् 1.5.1) ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
(प्ब् 1.5.2) नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
(प्ब् 1.5.3) श्येनो नृचक्षा अग्नेष् ट्वा चक्षुषाव पश्यामि
(प्ब् 1.5.4) इन्दव् इन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.5.5) ऊर्ध्वः सप्त ऋषीन् उप तिष्ठस्वेन्द्रपीतो वाचस् पते सप्तर्त्विजो ऽभ्युच् छ्रयस्व जुषस्व लोकम् मार्वाग् अव गाः
(प्ब् 1.5.6) सोम रारन्धि नो हृदि पिता नो ऽसि मम तन् मा मा हिंसीः
(प्ब् 1.5.7) सोम गीर्भिष् ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
(प्ब् 1.5.8) आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
(प्ब् 1.5.9) अवमैस् त ऊर्ध्वैस् ते काव्यैस् ते पितृभिर् भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.5.10) दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस् त्वा युनक्तु प्रजाभ्यो ऽपानाय
(प्ब् 1.5.11) वायुर् युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
(प्ब् 1.5.12) वृषको ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम्
(प्ब् 1.5.13) इन्दव् इन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.5.14) सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
(प्ब् 1.5.15) स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम्
(प्ब् 1.5.16) इन्दव् इन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.5.17) आयुर् मे प्राणो मनो ऽसि मे प्राण आयुपत्न्याम् ऋचि यन् मे मनो यमं गतं यद् वा मे अपरागतं राज्ञा सोमेन तद् वयं पुनर् अस्मासु दध्नसि
(प्ब् 1.5.18) यन् मे यमं वैवस्वतं मनो जगाम दूरगास् तन् म आवर्तया पुनर् जीवातवे न मर्तवे ऽथो अरिष्टतातये
(प्ब् 1.5.19) येनाह्य् आजिम् अजयद् विचक्ष्य येन श्येनं शकुनं सुपर्णं यद् आहुश् चक्षुर् अदिताव् अनन्तं सोमो नृचक्षा मयि तद् दधातु
(प्ब् 1.6.1) ऐन्द्रं सहो ऽसर्जि तस्य त इन्दव् इन्द्रपीतस्येन्द्रियावतो ऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.6.2) इन्दव् इन्द्रपीतस्य त इन्द्रियावतो ऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
(प्ब् 1.6.3) स्तुतस्य स्तुतम् अस्य् ऊर्जस्वत् पयस्वद् आ मा स्तोत्रस्य स्त्रोत्रं. गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम्
(प्ब् 1.6.4) इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य यो ऽश्वसनिर् गोसनिर् भक्षस् तस्योपहूत उपहूतस्य भक्षयामि
(प्ब् 1.6.5) ऋतस्य त्वा देव स्तोमपदे विष्णोर् धामानि वि मुञ्चाम्य् एतत् त्वं देव स्तोमान् अवकरम् अगन्न् अशीमहि वयं प्रतिष्ठाम्
(प्ब् 1.6.6) सोमेहानु मेहि सोम सह सदस इन्द्रियेण
(प्ब् 1.6.7) सुभूर् असि श्रेष्ठो रश्मिर् देवानां संसद् देवानां यातुर् यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
(प्ब् 1.6.8) अपां पुष्पम् अस्य् ओषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
(प्ब् 1.6.9) हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य यो ऽश्वसनिर् गोसनिर् भक्षस् तस्योपहूत उपहूतस्य भक्षयामि
(प्ब् 1.6.10) देवकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् अस्य् अस्मत्कृतस्यैनसो ऽवयजनम् असि यद् दिवा च नक्तं चैनश् चकृम तस्यावयजनम् असि यत् स्वपन्तश् च जाग्रतश् चैनश् चकृम तस्यावयजनम् असि यद् विद्वांसश् चाविद्वांसश् चैनश् चकृम तस्यावयजनम् अस्य् एनस-एनसावयजनम् असि
(प्ब् 1.6.11) अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
(प्ब् 1.6.12) मधुमन्तं भक्षं करोमि
(प्ब् 1.6.13) सम् अद्भ्य ओषधीभ्यः
(प्ब् 1.6.14) कामकामं म आ वर्तय
(प्ब् 1.6.15) ऊर्ग् अस्य् ऊर्जम् मयि धेहि
(प्ब् 1.6.16) प्राण सोमपीथे मे जागृहि
(प्ब् 1.6.17) दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत्
(प्ब् 1.7.1) अश्वो ऽस्य् अत्यो ऽसि मयो ऽसि हयो ऽसि वाज्य् असि सप्तिर् अर्वाग् सि वृषासि
(प्ब् 1.7.2) आदित्यानां पत्मान्व् इहि नमस् ते ऽस्तु मा मा हिंसीः
(प्ब् 1.7.3) वायोष् ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
(प्ब् 1.7.4) रथन्तरम् असि वामदेव्यम् असि बृहद् असि
(प्ब् 1.7.5) अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रम् अभिसंचरतौ दूरे हेतिर् इन्द्रियवान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु
(प्ब् 1.7.6) वैश्वानरः प्रत्नथा नाकम् आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज् जन्तवे धनाः समानम् अय्मन् पर्य् एति जागृविः
(प्ब् 1.7.7) गिदैष ते रथ एष वाम् अश्विना रथो ऽरिष्टो विश्वभेषजः
(प्ब् 1.7.8) कृशानो सव्यान् आ यच्छ
(प्ब् 1.7.9) दासानो दक्षिणान् अव गृहाण
(प्ब् 1.8.1) देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
(प्ब् 1.8.2) वरुणस् त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.3) वरुणस् त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.4) वरुणस् त्वा नयतु देवि दक्षिणे ऽग्नये ऽजम्
(प्ब् 1.8.5) अग्नये हिरण्यम्
(प्ब् 1.8.6) अग्नीषोमाभ्याम् अजान् मयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.7) अन्नस्यान्नपतिः प्रादाद् अनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
(प्ब् 1.8.8) वरुणस् त्वा नयतु देवि दक्षिणे त्वष्ट्रे ऽविं तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.9) ग्नास् त्वा ऽकृन्तन्न् अपसो ऽतन्वत वयित्र्यो ऽवयन्
(प्ब् 1.8.10) वरुणस् त्वा नयतु देवि दक्षिणे बृहस्पतये वासस् तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिगृहीत्रे
(प्ब् 1.8.11) वरुणस् त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.12) वरुणस् त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
(प्ब् 1.8.13) वायवे मृगं तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.14) जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस् तैर् अमृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.15) वरुणस् त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास् तैर् अमृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.16) वरुणस् त्वा नयतु देवि दक्षिणे सवित्रे ऽश्वतरं वाश्वतरीं वा तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे
(प्ब् 1.8.17) क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रम् आविशत् कामेन त्वा प्रति गृह्णामि कामैतत् ते
(प्ब् 1.9.1) रश्मिर् असि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.2) प्रेतिर् असि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.3) अन्वितिर् असि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.4) संधिर् अस्य् अन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.5) प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.6) विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.7) प्राचो ऽस्य् अह्ने त्वाहर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.8) अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.9) उशिग् असि वसुभ्यस् त्वा वसून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.10) प्रकेतो ऽसि रुद्रेभ्यस् त्वा रुद्रान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.11) सुदीतिर् अस्य् आदित्येभ्यस् त्वादित्यान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.9.12) ओजो ऽसि पितृभ्यस् त्वा पितॄन् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.1) तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.2) रोदस्य् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.3) पृतनाषाड् असि पशुभ्यस् त्वा पशून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.4) अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.5) अधिपतिर् असि प्राणाय त्वा प्राणान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.6) धरुणो ऽस्य् अपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.7) संसर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.8) वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.9) त्रिवृद् असि त्रिवृते त्वा सवृद् असि सवृते त्वा प्रवृद् असि प्रवृते त्वानुवृद् अस्य् अनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.10) निरोहो ऽसि निरोहाय त्वा संरोहो ऽसि संरोहाय त्वा प्ररोहो ऽसि प्ररोहाय त्वानुरोहो ऽस्य् अनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.11) वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असि सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 1.10.12) आक्रमो ऽस्य् आक्रमाय त्वा संक्रमो ऽसि संक्रमाय त्वोत्क्रमो ऽस्य् उत्क्रमाय त्वोत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत
(प्ब् 2.1.1) तिसृभ्यो हिङ् करोति स प्रथमया तिसृभ्यो हिङ् करोति स मध्यमया तिसृभ्यो हिङ् करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः
(प्ब् 2.1.2) ज्येष्ठो ज्यैष्ठिनेय स्तुवीत
(प्ब् 2.1.3) अग्राद् अग्रं रोहत्य् अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 2.1.4) पापवसीयसो विधृतिर् विपाप्मना वर्तते य एतया स्तुते नावगतो ऽप रुध्यते नापरुद्धो ऽव गच्छति । न श्रेयांसं पापीयान् अभ्या रोहति न जनता जनताम् अभ्य् एति नान्यो ऽन्यस्य प्रजा आ ददते यथाक्षेत्रं कल्पन्ते । अवर्षुकस् तु पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण व्य् एति
(प्ब् 2.1.5) एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रति तिष्ठति य एतया स्तुते
(प्ब् 2.2.1) तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति स पराचीभिः परिवर्तिनी त्रिविष्टुतिः
(प्ब् 2.2.2) प्रपरीवर्तम् आप्नोति य एतया स्तुते संतता विष्टुतिः प्राणो ऽपानो व्यानस् त ऋचस् तान् हिङ्कारेण सं तनोति । सर्वम् आयुर् एति न पुरायुषः प्र मीयते य एतया स्तुते वर्षुकः पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण सं दधाति
(प्ब् 2.2.3) श्लक्ष्णेव तु वा ईश्वरा पशून् निर्मृजः सैषा च पराचोत श्रेयान् भवत्य् उत यादृङ् एव तादृङ् नेत् तु पापीयान्
(प्ब् 2.2.4) ताम् एतां भाल्लवय उपासते तस्मात् ते प्रतिगृणन्तः परीवर्तान् न च्यवन्ते
(प्ब् 2.3.1) तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा या प्रथमा सोत्तमा तिसृभ्यो हिङ् करोति योत्तमा सा प्रथमा या प्रथमा सा मध्यमा या मध्यमा सोत्तमा कुलायिनी त्रिवृतो विष्टुतिः
(प्ब् 2.3.2) प्रजाकामो वा पशुकामो वा स्तुवीत वै कुलानायपशवः कुलायं-कुलायम् एव भवति
(प्ब् 2.3.3) एताम् एवानुजावराय कुर्याद् एतासाम् एवाग्रं परियतीनां प्रजाना[म्] अग्रं पर्य् एति
(प्ब् 2.3.4) एताम् एव बहुभ्यो यजमानेभ्यः कुर्यात् यत् सर्वा अग्रिया भवन्ति सर्वा मध्ये सर्वा उत्तमाः सर्वान् एवैनान् समावद्भाजः करोति नान्यो ऽन्यम् अप घ्नते सर्वे समावदिन्द्रिया भवन्ति
(प्ब् 2.3.5) वर्षुकः पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण व्यति षजति
(प्ब् 2.3.6) पापवसीयसं तु भवति
(प्ब् 2.3.7) अधरोत्तरम् अपावगतो रुध्यतेव गच्छत्य् अपरुद्धः पापीयान् श्रेयांसम् अभ्या रोहति जनता जनताम् अभ्य् एत्य् अन्यो ऽन्यस्य प्रजा आ ददते न यथाक्षेत्रं कल्पन्ते
(प्ब् 2.4.1) पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः
(प्ब् 2.4.2) पाङ्क्तः पुरुषः पाङ्क्तात् पशवस् तया पुरुषं च पशूंश् चाप्नोति वज्रो वै पन्चपशो यत् पञ्च-पञ्च व्यूहति वज्रम् एव तद् व्य् ऊहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
(प्ब् 2.5.1) पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया तिसृभ्यो हिङ् करोति स पराचीभिः सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिस्
(प्ब् 2.5.2) त्रीन् स्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः स्तुवीत
(प्ब् 2.5.3) पञ्चभिः पञ्चदशं तिसृभिस् त्रिवृतं सप्तभिः सप्तदशम्
(प्ब् 2.5.4) वीर्यं वै स्तोमा वीर्यम् एव तद् एकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
(प्ब् 2.6.1) तिसृभ्यो हिङ् करोति स पराचीभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् उद्यती पञ्चदशस्य विष्टुतिः
(प्ब् 2.6.2) एतया वै देवाः स्वर्गंल् लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः
(प्ब् 2.6.3) अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 2.7.1) पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् दशसप्ता सप्तदशस्य विष्टुतिः
(प्ब् 2.7.2) एतया वै देवा असुरान् अत्य् अक्रामन्न् अति पाप्मानं भ्रातृव्यं क्रामति य एतया स्तुते
(प्ब् 2.7.3) अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 2.7.4) गर्भिणी विष्टुतिः प प्रजया प्र पशुभिर् जायते य एतया स्तुते
(प्ब् 2.7.5) विड् वै सप्तदशस् तस्या राजा गर्भो विश एव तद् राजानं गर्भं करोति
(प्ब् 2.7.6) नावगतो ऽप रुध्यते नापरुद्धो ऽव गच्छति
(प्ब् 2.7.7) अन्नं वै सप्तदशो यत् सप्त मध्ये भवन्ति पञ्च-पञ्चाभितो ऽन्नम् एव तन् मध्यतो धीयते ऽनशनायुको यजमानो भवत्य् अनशनायुकाः प्रजाः
(प्ब् 2.7.8) वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद् दशपूर्वा भवन्ति सप्तोत्तमा यजमानम् एव तत् पशुषु प्रति ष्ठापयति
(प्ब् 2.7.9) एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
(प्ब् 2.8.1) एष एव व्यूहः सप्तैकमध्या
(प्ब् 2.8.2) ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् प्रथमा भूयिष्ठा भाजयति ब्रह्मण्य् एव तद् ओजो वीर्यं दधाति ब्रह्मण एव तत् क्षत्रं च विशं चानुगे करोति क्षत्रस्यास्य प्रकाशो भवति य एतया स्तुते
(प्ब् 2.8.3) ताम् एतां त्रिखर्वा उपासते तस्मात् ते स्पर्धमाना न व्लीयन्ते
(प्ब् 2.9.1) सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया तिसृभ्यो हिङ् करोति पराचीभिः सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिः सप्तास्थिता
(प्ब् 2.9.2) भ्रातृव्यं स्तुवीत यथा सप्तास्थितेन मत्येन समी करोत्य् एवं पाप्मानं भ्रातृव्यं प्र रुजति
(प्ब् 2.9.3) एताम् एव बहुभ्यो यजमानेभ्यः कुर्याद् यः प्रथमो हिङ्कारः स प्रथमाया यत्तां सप्तभ्यो हिङ् करोति तेन सा सप्त भजते यत् सप्तैव मध्ये सपद्यन्ते तेन सा सप्त भजते य उत्तमो हिङ्कारः स उत्तमया यत्तां सप्तभ्यो हिङ् करोति तेन सा सप्त भजते सर्वान् एवैनान् समावद्भाजः करोति नान्यो ऽन्यम् अप घ्नते समावदिन्द्रिया भवन्ति
(प्ब् 2.9.4) ताम् एताम् अभिप्रतारिण उपासते तस्मात् त ओजिष्ठास्वानाम्
(प्ब् 2.10.1) एष एव व्यूह उभयः सप्तैकमध्या निर्मध्या
(प्ब् 2.10.2) आनुजावर स्तुवीतालोको वा एष यद् आनुजावरो यत् सप्तप्रथमाः सप्तोत्तमास् तिस्रो मध्ये त्र्यक्षरः पुरुषो लोकम् एवास्मै तन् मध्यतः करोति तस्मिंल् लोके प्रति तिष्ठति
(प्ब् 2.10.3) एताम् एव प्रजाकामाय कुर्यान् मध्यतो वा एष संरूढो यः प्रजां न विन्दते लोकम् एवास्मै तं मध्यतः करोति तं लोकं प्रजया च पशुभिश् चानु प्र जायते
(प्ब् 2.10.4) एताम् एवापरुद्धराजन्याय कुर्याद् विड् वै सप्तदशस् तस्या राजा गर्भो विश एव तद् राजानं निर् हन्त्य् अपावगतो ऽप रुध्यते ऽव गच्छत्य् अपरुद्धः
(प्ब् 2.10.5) एताम् एवाभिचर्यमाणाय कुर्यात् प्रजापतिर् वै सप्तदशः प्रजापतिम् एव मध्यत्तः प्र विशन्त्य् अस्तृत्यै
(प्ब् 2.11.1) पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया तिसृभ्यो हिङ् करोति स पराचीभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः
(प्ब् 2.11.2) चतुरस्तोमान् प्रतिविहिता ब्रह्मवर्चसकामाः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस् त्रिवृतं नवभिस् त्रिणवं स्वयं सप्तदशः सम्पन्नो वीर्यं वै स्तोमा वीर्यम् एव तद् एकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
(प्ब् 2.12.1) तिसृभ्यो हिङ् करोति स पराचीभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिर् उद्यतीसप्तदशस्य विष्टुतिः
(प्ब् 2.12.2) एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 2.13.1) सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स एकया स तिसृभिर् भस्त्रावाचीनबिला
(प्ब् 2.13.2) यं द्विष्यात् तस्य कुर्याद् यथावाचीनबिलया भस्त्रया प्रधूनुयाद् एवं यजमानस्य पशून् प्रधूनोत्य् अपक्रामन्ती विष्टुतिस् तया यजमानस्य पशवो ऽपक्रामन्ति पापीयान् भवति य एतया स्तुते
(प्ब् 2.14.1) सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्य् एकविंशस्य विष्स्टुतिः
(प्ब् 2.14.2) सप्त ग्राम्याः पशवस् तान् एतया स्पृणोति सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्य् एवैतयाप्नोति
(प्ब् 2.14.3) एषा वै प्रतिष्थितैकविंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
(प्ब् 2.15.1) पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिर् उद्यत्य् एकविंशस्य विष्टुतिः
(प्ब् 2.15.2) एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 2.15.3) सैषा त्रिवृत् प्रायणा त्रिवृद् उदयना यत् त्रिवृद् बहिष्पवमानं भवति नवैता एकविंशस्योत्तमा भवन्ति प्राणा वै त्रिवृत् प्राणान् एव तद् उभयतो दधाति तस्माद् अयम् अर्धभागवाक् (?) प्राण उत्तरेषां प्राणानां सर्वम् आयुर् एति न पुरायुषः प्रमीयते य एतया स्तुते
(प्ब् 2.15.4) ताम् एतां क्रद्विष उपासते तस्मात् ते सर्वम् आयुर् यन्ति
(प्ब् 2.16.1) नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः प्रतिष्टुतिः
(प्ब् 2.16.2) नवभिस् त्रिवृतं प्रतिष्टौति पञ्चभिः पञ्चभिः पञ्चदशं सप्तभिः सप्तदशं स्वयम् एकविंशः संपन्नः
(प्ब् 2.16.3) स एव स्तोमा यज्ञं वहन्ति तान् उत्तमे स्तोत्रे संतर्पयति यथानडुहो वाश्वान् वाश्वतरान् वोहुषः संतर्पयेद् एवम् एतद् उत्तमे स्तोत्रे स्तोमान् संतर्पयति तृप्यति प्रजया पशुभिर् य एतया स्तुते
(प्ब् 2.16.4) एताम् एव पुरोधाकामाय कुर्याद् ब्रह्म वै त्रिवृत् क्षत्रम् एकविंशो यत् त्रिवृतैकविंशं प्रतिपद्यते ब्रह्म तत् क्षत्रस्य पुरस्तान् निदधाति गच्छति पुरोधां न पुरोधायाश् च्यवते य एतया स्तुते
(प्ब् 2.16.5) ताम् एतां प्रावाहण्य उपासते तस्मात् ते पुरोधाया न च्यवन्त
(प्ब् 2.17.1) नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिस् तिसृभ्यो हिङ् करोति स पराचीभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्य् उभयत आदीप्ता
(प्ब् 2.17.2) ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत् त्र्यक्षरः पुरुषो यत् त्रिवृताव् अभितो भवतस् तिस्रो मध्ये यथा हि हिरण्यं निष्टपेद् एवम् एनं त्रिवृतौ निष्टपतस् तेजसे ब्रह्मवर्चसाय
(प्ब् 2.17.3) अपशव्य् एव तु वा ईश्वरा पशून् निर्दहः किलासत्त्वान् नूभयमति हि निष्टपतः
(प्ब् 2.17.4) एताम् एवाभिशस्यमानाय कुर्याच् छमलं वा एतम् ऋच्छति यम् अश्लीला वाग् ऋच्छति यैवैनम् असाव् अश्लीलं वाग् वदति ताम् अस्य त्रिवृतौ निष्टपतस् तेजस्वी भवति य एतया स्तुते
(प्ब् 3.1.1) नवभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ् करोति स एकया स तिसृभिः स पञ्चभिर् नवभ्यो हिङ् करोति स पञ्चभिः स एकया स तिसृभिः
(प्ब् 3.1.2) वज्रो वै त्रिणवो वज्रम् एव तद् व्यूहति शान्त्यै
(प्ब् 3.1.3) पञ्चभिर् विहितैका परिचरा पाङ्क्ताः पशवो यजमानः परिचरा यत् पञ्चभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तत् पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
(प्ब् 3.2.1) सप्तभ्यो हिङ् करोति स तिसृभिः स एकया नवभ्यो हिङ् करोति स एकया स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् उद्यती त्रिणवस्य विष्टुतिः
(प्ब् 3.2.2) एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 3.3.1) एकादशभ्यो हिङ् करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ् करोति स एकया स तिसृभिः स सप्तभिर् एकादशभ्यो हिङ् करोति स सप्तभिः स एकया स तिसृभिः
(प्ब् 3.3.2) अन्तो वै त्रयस्त्रिंशः परमो वै त्रयस्त्रिंश स्तोमानां सप्तभिर् विहितैका परिचरा सप्त ग्राम्याः पशवो यजमानः परिचरा यत् सप्तभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तद् अन्ततः पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता त्रयस्त्रिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
(प्ब् 3.4.1) एकादशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स तिसृभिर् एकादशभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् नेदीयःसंक्रमा
(प्ब् 3.4.2) अन्तो वै त्रयस्त्रिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्य् एवम् एतन् नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
(प्ब् 3.4.3) पञ्चभिर् विहितास् तिस्रः परिचराः पाङ्क्ताः पशव एतावान् पुरुषो यदात्मा प्रजा जाया यत् पञ्चभिर् विदधाति तिस्रः परिचरा भवन्ति यजमानम् एव तत् पशुषु प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते
(प्ब् 3.5.1) नवभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स एकयैकादशभ्यो हिङ् करोति स एकया स तिसृभिः स सप्तभिस् त्रयोदशभ्यो हिङ् करोति स सप्तभिः स तिसृभिर् उद्यती त्रयस्त्रिंशस्य विष्टुतिः
(प्ब् 3.5.2) एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽग्राद् अग्रं रोहत्य् अभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव
(प्ब् 3.6.1) त्रयोदशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः प्रत्यवरोहिणीत्रयस्त्रिंशस्य विष्टुतिः
(प्ब् 3.6.2) यथा महावृक्षस्याग्रं सृप्त्वा शाखायाः शाखाम् आलम्भम् उपावरोहेद् एवम् एतयेमं लोकम् उपावरोहति प्रतिष्ठित्यै
(प्ब् 3.6.3) त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव प्रैति प्राणम् अभ्युदेति सर्वम् आयुर् एति न पुरायुषः प्रमीयते य एतया स्तुते
(प्ब् 3.6.4) ताम् एतां करद्विष उपासते तस्मात् ते सर्वम् आयुर् यन्ति
(प्ब् 3.7.1) पञ्चदशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिः सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः
(प्ब् 3.7.2) यो वै त्रयस्त्रिंशम् एकविंशे प्रतिष्ठितं वेद प्रतितिष्ठति प्रतिष्ठा वा एकविंशः स्तोमानां यद् एताः सप्त त्रयस्त्रिंशस्योत्तमा भवन्ति सप्तविधैकविंशस्य विष्टुतिर् एकविंश एव तत् त्रयस्त्रिंशं प्रतिष्ठापयति प्रतितिष्ठति य एतया स्तुते
(प्ब् 3.8.1) अष्टाभ्यो हिङ् करोति स तिसृभिः स चतसृभिः स एकयाष्टाभ्यो हिङ् करोति स एकया स तिसृभिः स चतसृभिर् अष्टाभ्यो हिङ् करोति स चतसृभिः स एकया स तिसृभिः
(प्ब् 3.8.2) पशवो वै छन्दोगा यद् अष्टाभ्यो-ऽष्टाभ्यो हिङ् करोति अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति
(प्ब् 3.8.3) चतसृभिर् विहितैका परिचरा चतुष्पादाः पशवो यजमानः परिचरा यच् चतसृभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तत् पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता चतुर्विंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
(प्ब् 3.9.1) पञ्चदशभ्यो हिङ् करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिङ् करोति स एकया स तिसृभिः स दशभिः पञ्चदशभ्यो हिङ् करोति स एकादशभिः स एकया स तिसृभिः
(प्ब् 3.9.2) ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् पञ्चदशिन्यौ पूर्वे भवतश् चतुर्दशोत्तमा ब्रह्मणि चैव तत् क्षत्रे चौजो वीर्यं दधाति ब्रह्मणे चैव तत् क्षत्राय च विशम् अनुगां करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते
(प्ब् 3.9.3) अस्तोमा वा एते यच् छन्दोगा अयुजो हि स्तोमा युग्मन्ति छन्दांसि यद् एषा युजिनी चतुश्चत्वारिंशस्य विष्टुतिस् तेनास्तोमाः
(प्ब् 3.9.4) एषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः प्रतितिष्ठैत् य एतया स्तुते
(प्ब् 3.10.1) चतुर्दशभ्यो हिङ् करोति स तिसृभिः स दशभिः स एकया पञ्चदशभ्यो हिङ् करोति स एकया स तिसृभिः स एकादशभिः पञ्चदशभ्यो हिङ् करोति स एकादशभिः स एकया स तिसृभिर् निर्मध्या
(प्ब् 3.10.2) अस्तीव वा अयं लोको ऽस्तीवासौ छिद्रम् इवेदम् अन्तरिक्षं यद् एषा निर्मध्या भवतीमान् एव लोकान् अनु प्रजायते प्र प्रजया प्र पशुभिर् जायते य एतया स्तुते
(प्ब् 3.11.1) पञ्चदशभ्यो हिङ् करोति स तिसृभिः स एकादशभिः स एकया पञ्चदशभ्यो हिङ् करोति स एकया स तिसृभिः स एकादशभिः चतुर्दशभ्यो हिङ् करोति स दशभिः स एकया स तिसृभिः
(प्ब् 3.11.2) आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया
(प्ब् 3.11.3) याज्यानां सा होतुर् या पृष्ठानां सा मैत्रावरुणस्य योक्थानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य या पृष्ठानां सहोतुर् योक्थानां सा मैत्रावरुणस्य याज्यानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य योक्थानां सा होतुर् याज्यानां सा मैत्रावरुणस्य या पृष्ठानां ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य सर्वा आज्येषु सर्वाः पृष्थेषु सर्वा उक्थेषु
(प्ब् 3.11.4) पशवो वै समीषन्ती यद् एषा सर्वाणि सवनान्य् अनुसंचरत्य् अनुसवनम् एवैनं पशुभिः समर्धयति पशुमन् भवति य एतया स्तुते
(प्ब् 3.12.1) षोडशभ्यो हिङ् करोति स तिसृभिः स द्वदशभिः स एकया षोडशभ्यो हिङ् करोति स एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिङ् करोति स द्वादशभिः स एकया स तिसृभिः
(प्ब् 3.12.2) अन्तो वा अष्टाचत्वारिंशः पशवश् छन्दोगा यत् षोडशभ्यः-षोडशभ्यो हिङ् करोति षोडशकलाः पशवः कलाशस् तत् पशून् आप्नोति
(प्ब् 3.12.3) द्वादशभिर् विहितैका परिचरा द्वादशमासास् संव्वत्सरो यजमानः परिचरा यद् द्वादशभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तद् अन्ततस् संव्वत्सरे पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिताष्टाचत्वारिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
(प्ब् 3.13.1) षोडशभ्यो हिङ् करोति स तिसृभिः स दशभिः स तिसृभिः षोडशभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स दशभिः षोडशभ्यो हिङ् करोति स दशभिः स तिसृभिः स तिसृभिर् नेदीयःसंक्रमा
(प्ब् 3.13.2) अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्य् एवम् एतन् नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
(प्ब् 3.13.3) दशभिर् विहिता तिस्रः परिचरा दशाक्षरा विराड् एतावान् पुरुषो यद् आत्मा प्रजा जाया यद् दशभिर् विदधात्त् तिस्रः परिचरा भवन्ति यजमानम् एव तद् विराज्य् अन्नाद्ये ऽन्ततः प्रतिष्ठापयत्य् अन्नादो भवति य एतया स्तुते
(प्ब् 4.1.1) गावो वा एतत् सत्त्रम् आसत तासां दशसु मास्सु शृङ्गण्य् अजायन्त ता अब्रुवन्नराः स्मोत्तिष्ठामोपशा नो ऽज्ञतेति ता उदतिष्ठन्
(प्ब् 4.1.2) तासां त्व् एवाब्रुवन्न् आसामहा एवेमौ द्वादशौ मासौ संसंव्वत्सरम् आपयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्तन्त ताः सर्वम् अन्नाद्यम् आप्नुवंस् ता एतास् तूपरास् तस्मात् ताः सर्वान् द्वादशमासः प्रेरते सर्वं हि ता अन्नाद्यम् आप्नुवन्
(प्ब् 4.1.3) सर्वम् अन्नाद्यम् आप्नोति य एवंव् वेद
(प्ब् 4.1.4) प्रजापतिर् वा इदम् एक आसीत् सो ऽकामयत बहु स्यां प्रजायेयेति स एतम् अतिरात्रम् अपश्यत् तम् आहरत् तेनाहोरात्रे प्राजनयत्
(प्ब् 4.1.5) यद् एषो ऽतिरात्रो भवत्य् अहोरात्रे एव प्रजनयन्त्य् अहोरात्रयोः प्रतितिष्ठन्त्य् एतावान् वाव संव्वत्सरो यद् अहस् च रात्रिश् चाहोरात्राभ्याम् एव तत् संव्वत्सरम् आप्नुवन्ति
(प्ब् 4.1.6) यज् ज्योतिष्टोमो भवति यज्ञमुखं तद् ऋध्नुवन्ति यद् उक्थो यज्ञक्रतोर् अनन्तरयाय यद् रात्रिः सर्वस्याप्त्यै
(प्ब् 4.1.7) स एतान् स्तोमान् अपश्यत् ज्योतिर् गौर् और् इतीमे वै लोका एते स्तोमा अयम् एव ज्योतिर् अयं मध्यमो गौर् असाव् उत्तम आयुः
(प्ब् 4.1.8) यद् एते स्तोमा भवन्तीमान् एव लोकान् प्रजनयन्त्य् एषु लोकेषु प्रतितिष्ठन्ति
(प्ब् 4.1.9) स एतं त्र्यहं पुनः प्रायौङ्क्त तेन षडहेन षट्क्रतून् प्राजनयत्
(प्ब् 4.1.10) यद् एष षडहो भवति ऋतून् एव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति
(प्ब् 4.1.11) स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां षडहाभ्यां द्वादशमसः प्राजनयत्
(प्ब् 4.1.12) यद् एतौ षडहौ भवतो मासान् एव प्रजनयन्ति मासेषु प्रतितिष्ठन्ति
(प्ब् 4.1.13) स एतौ द्वौ षडहौ पुनः प्रयुङ्क्त तैश् चतुर्भिः षडहैश् चतुर्विंशतिम् अर्धमासान् प्राजनयत्
(प्ब् 4.1.14) यद् एते चत्वारः षडहा भवन्त्य् अर्धमासान् एव प्रजनयन्त्य् अर्धमासेषु प्रतितिष्ठन्ति
(प्ब् 4.1.15) स इदं भुवनं प्रजनयित्व पृष्ठ्येन षडहेन वीर्यम् आत्मन्य् अधत्त
(प्ब् 4.1.16) यद् एषः पृष्ठ्यः षडहो भवति वीर्य एवान्ततः प्रतितिष्ठन्ति
(प्ब् 4.1.17) तेन मासान् संव्वत्सरं प्राजनयद् यद् एष मासो भवति संव्वत्सरम् एव प्रजनयन्ति संव्वत्सरे प्रतितिष्ठन्ति
(प्ब् 4.2.1) प्रायणीयम् एतद् अहर् भवति
(प्ब् 4.2.2) प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम्
(प्ब् 4.2.3) तस्मात् प्रायणीयस्याह्न ऋत्विजा भवितव्यम् एतद् धि स्वर्गस्य लोकस्य नेदिष्ठं य एतस्यर्त्विङ् न भवति हीयते स्वर्गाल् लोकात्
(प्ब् 4.2.4) चतुर्विंशं भवति
(प्ब् 4.2.5) चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् आरभ्य प्रयन्ति
(प्ब् 4.2.6) चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरः साक्षाद् एव संव्वत्सरम् आरभन्ते
(प्ब् 4.2.7) यावत्यश् चतुर्विंशस्योक्थस्य स्तोत्रीयास् तावत्यः संव्वत्सरस्य रात्रयः स्तोत्रीयाभिर् एव तत् संव्वत्सरम् आप्नुवन्ति
(प्ब् 4.2.8) पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयो ऽर्धमासश एव तत् संव्वत्सरम् आप्नुवन्ति
(प्ब् 4.2.9) पञ्चदश स्तोत्राणि पञ्चदशशस्त्राणि समासो मासश एव तत् संव्वत्सरम् आप्नुवन्ति
(प्ब् 4.2.10) तद् आहुर् ईर्म इव वा एषा होत्रा यद् अच्छावाक्या यद् अच्छावाकम् अनुसंतिष्ठत ईश्वरेर्मा भवितोर् इति यद्य् उक्थं स्मात्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्यं वा एते समनी वीर्य एवान्ततः प्रतितिष्ठन्ति
(प्ब् 4.2.11) अथो खल्व् आहुर् अग्निष्टोमम् एव कार्यम् एष वै यज्ञः स्वर्ग्यो यद् अग्निष्टोम ऊर्ध्वो हि होतारम् अनुसंतिष्ठते
(प्ब् 4.2.12) द्वादशस्तोत्राण्य् अग्निष्टोमो द्वादश मासाः संव्वत्सरस् तेन संव्वत्सरसंमितो द्वादश स्तोत्रणि द्वादश शस्त्राणि तच् चतुर्विंशतिश् चतुर्विंशतिर् अर्धमासाः संव्वत्सरस् तेन संव्वत्सरसंमितः
(प्ब् 4.2.13) अथो खल्व् आहुर् उक्थम् एव कार्यम् अह्नः समृद्ध्यै
(प्ब् 4.2.14) सर्वाणि रूपाणि क्रियन्ते सर्वं ह्य् एताह्नाप्यते
(प्ब् 4.2.15) पवन्ते वाजसातये सोमाः सहस्रपाजस इति सहस्रवती प्रतिपत् कार्या
(प्ब् 4.2.16) संव्वत्सरस्य रूपं सर्वन् एवैनान् एतया पुनाति सर्वान् अभिवदति
(प्ब् 4.2.17) अथो खल्व् आहुः पवस्व वाचो अग्रिय इत्य् एव कार्या मुखं वा एतत् संव्वत्सरस्य यद् वाचो ऽग्रं मुखत एव तत् संव्वत्सरम् आरभन्ते
(प्ब् 4.2.18) मिथुनम् इव वा एषा व्याहृतिः पवस्वेति पुंसो रूपं वाच इति स्त्रियाः सोमेति पुंसो रूपं चित्राभिर् इति स्त्रिया मिथुनम् एवैभ्यो यज्ञमुखे दधाति प्रजननाय
(प्ब् 4.2.19) अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयम् अग्निष्टोम साम कार्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विंशत्यक्षरासु भवति चतुर्विंशस्य रूपम्
(प्ब् 4.2.20) अथो खल्व् आहुर् यज्ञायज्ञीयम् एव कार्यम्
(प्ब् 4.2.21) पन्था वै यज्ञायज्ञीयं पथ एव तन् न यन्ति
(प्ब् 4.3.1) अभीवर्तो ब्रह्मसाम भवति
(प्ब् 4.3.2) अभीवर्तेन वै देवाः स्वर्गं लोकम् अभ्यवर्तन्त यद् अभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै
(प्ब् 4.3.3) एकाक्षरणिधनो भवत्य् एकाक्षरा वै वाग् वाचैव तद् आरभ्य स्वर्गं लोकं यन्ति
(प्ब् 4.3.4) साम्नेतो यन्त्य् ऋचा पुनर् आयन्ति
(प्ब् 4.3.5) साम वै असौ लोक ऋग् अयं यद् इतः साम्ना यन्ति स्वर्गं लोकम् आरभ्य यन्ति यद् ऋचा पुनर् आयन्त्य् अस्मिन् लोके प्रतितिष्ठन्ति
(प्ब् 4.3.6) यत् सामावसृजेयुर् अव स्वर्गाल् लोकात् पद्येरन् यद् ऋचम् अनुसृजेयुर् नश्येयुर् अस्माल् लोकात्
(प्ब् 4.3.7) समानं साम भवत्य् अन्यो-ऽन्यः प्रगाथो ऽन्यद्-अन्यद् धि चित्रम् अध्वानम् अवगच्छन्न् एति
(प्ब् 4.3.8) वृषा वा एष रेतोधा यद् अभीवर्तः प्रगाथेषु रेतो दधद् एति यद् इतः समानं साम भवत्य् अन्यो-ऽन्यः प्रगाथो रेत एव तद् दधति यत् परस्तात् समानः प्रगाथो भवत्य् अन्यद्-अन्यत् साम रेत एव तद् धितं प्रजनयन्ति
(प्ब् 4.3.9) साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात् सामानि दुग्धे सलोमत्वाय
(प्ब् 4.3.10) यो वा अध्वानं पुनर् निवर्तयन्ति नैनं ते गच्छन्ति ये ऽपुनर् निवर्तं यन्ति ते गच्छति
(प्ब् 4.3.11) य आस्तुतं कुर्वते यथा दुग्धाम् उपसीदेद् एवं तत्
(प्ब् 4.3.12) ये नास्तुतं यं कामं कामयन्ते तम् अभ्यश्नुवते
(प्ब् 4.3.13) ब्रह्मवादिनो वदन्ति यातयामाः संव्वत्सरा3 अयातयामा3 इति ते नायातयामेति वक्तव्यं पुनर् अन्यानि स्तोत्राणि निवर्तन्त ऊर्ध्वम् एव ब्रह्मसामैति
(प्ब् 4.4.1) पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते
(प्ब् 4.4.2) तेष्व् आप्तेषु छन्दसी संयुज्यैतव्यम्
(प्ब् 4.4.3) तिस्र उष्णिहः स्युर् एका गायत्री तास् तिस्रो बृहत्यो भवन्ति
(प्ब् 4.4.4) तद् आहुः संशर इव वा एष च्छन्दसां यद् द्वे छन्दसी संयुञ्जन्तीति
(प्ब् 4.4.5) चतुर् उत्तरैर् एव च्छन्दोभिर् एतव्यम्
(प्ब् 4.4.6) पशवो वै चतुरुत्तराणि च्छन्दसांसि पशुभिर् एव तत् स्वर्गं लोकम् आक्रमम् आनयन्ति
(प्ब् 4.4.7) एकं गायत्रीम् एकाहम् उपेयुर् एकामुष्णिहम् एकाहम् एकाम् अनुष्टुभम् एकाहं बृहत्या पञ्चमास इयुः पङ्क्तिम् एकाहम् उपेयुस् त्रिष्टुभा षष्ठं मासम् ईयुः श्वो विषुवान् भवितेति जगतीम् उपेयुः
(प्ब् 4.4.8) तद् आहुर् अनवकॢप्तानि वा एतानि च्छन्दांसि मध्यन्दिने बृहत्या चैव त्रिष्टुभा चैतव्यम्
(प्ब् 4.4.9) एते वै छन्दसी वीर्यवती एते प्रत्यक्षं मध्यन्दिनस्य रूपम्
(प्ब् 4.4.10) रथन्तरे ऽहनि बृहती कार्यैतद् वै रथन्तरस्य स्वम् आयतनं यद् बृहती स्व एव तद् आयतने रथन्तरं प्रतितिष्ठति बार्हते ऽहनि त्रिष्टुप् कार्यैतद् वै बृहतः स्वम् आयतनं यत् त्रिष्टुप् स्व एव तद् आयतने बृहद्रथन्तरे प्रतितिष्ठन्ती इतः
(प्ब् 4.4.11) त्रयस्त्रिंशता प्रगाथैर् एतव्यं त्रयस्त्रिंशद् देवता देवतास्व् एव प्रतितिष्ठन्तो यन्ति चतुर्विंशत्यैतव्यं चतुर्विंशतिर् अर्धमासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति द्वादशभिर् एतव्यं द्वादश मासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति षड्भिर् एतव्यं षड् ऋतव ऋतुष्व् एव प्रतितिष्ठन्तो यन्ति चतुर्भिर् एतव्यं चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठन्तो यन्ति त्रिभिर् एतव्यं त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठन्तो यन्ति द्वाभ्याम् एतव्यं द्विपाद् यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्येनान्येन हि पदा पुरुषः प्रतितिष्ठन्न् एति
(प्ब् 4.5.1) स्वरसामान एते भवन्ते
(प्ब् 4.5.2) स्वर्भानुर् वा आसुर् आदित्यं तमसाविध्यत् तं देवाः स्वरैर् अस्पृण्वन् यत् स्वरसामानो भवन्त्य् आदित्यस्य स्पृत्यै
(प्ब् 4.5.3) परैर् वै देवा आदित्यं स्वर्गं लोकम् अपारयन् यद् अपरयंस् तत् पराणां परत्वं
(प्ब् 4.5.4) पारयन्त्य् एनं पराणि य एवंव् वेद
(प्ब् 4.5.5) सप्तदशा भवन्ति
(प्ब् 4.5.6) प्रजापतिर् वै सप्तदशः प्रजापतिम् एवोपयन्ति
(प्ब् 4.5.7) अनुष्टुप् छन्दसो भवन्त्य् आनुष्टुभो वै प्रजापतिः साक्षाद् एव प्रजापतिम् आरभन्ते
(प्ब् 4.5.8) त्रयः पुरस्तात् त्रयः परस्ताद् भवन्ति
(प्ब् 4.5.9) देवा वा आदित्यस्य स्वर्गाल् लोकाद् अवपादाद् अबिभयुस् तम् एतैः स्तोमैः सप्तदशैर् अदृंहन् यद् एते स्तोमाभवन्त्य् आदित्यस्य धृत्यै
(प्ब् 4.5.10) चतुस्त्रिंशा भवन्ति वर्ष्म वै चतुस्त्रिंशो वर्ष्मणैवैनं संमिमते
(प्ब् 4.5.11) तस्य पराचीनातिपादाद् अबिभयुस् तं सर्वैः स्तोमैः +पर्यार्षन् विश्वजिदभिजिद्भ्यां वीर्यं वा एतौ स्तोमौ वीर्येणैव तद् आदित्यं पर्युषन्ति धृत्यै
(प्ब् 4.5.12) अनवपादायानतिपादाय
(प्ब् 4.5.13) तद् आहुः कर्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंशत+ः सप्तदशम् उपयन्तीति पृष्ठ्यो ऽन्तरः कार्यः
(प्ब् 4.5.14) तस्य यत् सप्तदशम् अहस् तद् उत्तमं कार्यं सलोमत्वाय
(प्ब् 4.5.15) तद् आहुर् उदरं वा एष स्तोमानां यत् सप्तदशो यत् सप्तदशं मध्यतो निर्हरेयुर् अशनायवः प्रजाः स्युर् अशनायवः सत्त्रिणः
(प्ब् 4.5.16) त्रयस्त्रिंशाद् एव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिंशो वर्ष्म सप्तदशो वर्ष्मण एव तद् वर्ष्माभिसंक्रामन्ति
(प्ब् 4.5.17) नानाहुर् उक्थाः कार्या3 इति यद्य् उक्थाः स्युः
(प्ब् 4.5.18) पशवो वा उक्थानि शान्तिः पशवः शान्तेनैव तद् विषुवन्तम् उपयन्ति
(प्ब् 4.5.19) तद् आहुर् विवीवधम् इव वा एतद् यद् अग्निष्टोमो विषुवान् अग्निष्टोमौ विश्वजिदभिजिताव् अथेतर उक्थाः स्युर् इति
(प्ब् 4.5.20) अग्निष्टोमा एव सर्वे कार्याः
(प्ब् 4.5.21) वीर्यं वा अग्निष्टोमो वीर्य एव मध्यतः प्रतितिष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्रणेष्व् एव प्रतितिष्ठन्ति
(प्ब् 4.6.1) विषुवान् एष भवति
(प्ब् 4.6.2) देवलोको वा एष यद् विषुवान् देवओकम् एव तद् अभ्यारोहन्ति
(प्ब् 4.6.3) एकविंशो भवत्य् एकविंशो वा अस्य भुवनस्यादित्य आदित्यलोकम् एव तद् अभ्यारोहन्ति
(प्ब् 4.6.4) द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः
(प्ब् 4.6.5) मध्यत एव यज्ञस्य प्रतितिष्ठन्ति
(प्ब् 4.6.6) वायो शुक्रो अयामि त इति शुक्रवती प्रतिपद् भवत्य् आदित्यस्य रूपम्
(प्ब् 4.6.7) वायुर् वा एतं देवतानाम् आनशे ऽनुष्टुप् छन्दसं यद् अतो ऽन्या प्रतिपत् स्यात् प्रदहेत्
(प्ब् 4.6.8) यन्ति वा एते प्राणादित्याहुर् ये गायत्र्याः प्रतिपदो यन्तीति यद् वयव्या भवन्ति तेन प्राणान् न यन्ति प्राणो हि वायुः
(प्ब् 4.6.9) अथो शमयन्त्य् एवैनम् एतया शन्तिर् हि वायुः
(प्ब् 4.6.10) आ याहि सोमपीतय इति सौमी पावमानी
(प्ब् 4.6.11) नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः शान्तेनैव तद् आदित्यम् उपयन्ति
(प्ब् 4.6.12) दिवाकीर्त्यसामा भवति
(प्ब् 4.6.13) स्वर्भानुर् वा आसुर् आदित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस् तमो ऽपाघ्नन् यद् दिवाकीर्त्यानि भवन्ति तम एवास्माद् अपघ्नन्ति रश्मयो वा एत आदित्यस्य यद् दिवाकीर्त्यानि रश्मिभिर् एव तद् आदित्यं साक्षाद् आरभन्ते
(प्ब् 4.6.14) भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमो ऽपघ्नन्ति
(प्ब् 4.6.15) महादिवाकीर्त्यं च विकर्णं च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमो ऽपघ्नन्ति भासम् अन्ततो भवति पत्त एवास्य तेन तमो ऽपघ्नन्ति
(प्ब् 4.6.16) दशस्तोभं भव्ति दशाक्षरा विराड् विराज्य् एव प्रतितिष्ठन्ति
(प्ब् 4.6.17) यत् त्व् इत्य् आहुः षड्भिर् इतो मासैर् अध्वानं यन्ति षड्भिः पुनर् आयन्ति क्व तर्हि स्वर्गो लोको यस्य कामाय सत्त्रम् आसत इति
(प्ब् 4.6.18) मूर्धानं दिव इति स्वर्गं लोकम् आरभन्ते
(प्ब् 4.6.19) अरतिं पृथिव्या इत्य् अस्मिं लोके प्रतितिष्ठन्ति
(प्ब् 4.6.20) वैश्वानरम् ऋत आजातम् अग्निम् इति विषुवत एव तद् रूपं क्रियते
(प्ब् 4.6.21) कविं सम्राजम् अतितिहिं जनानाम् इत्य् अन्नाद्यम् एवोपयन्ति
(प्ब् 4.6.22) आसन् नापात्रं जनयन्त देवा इति जायन्त एव
(प्ब् 4.6.23) तत् त्रिष्टुब् जगतीषु भवति त्रैष्टुभ्जागतो वा आदित्यो यद् अतो ऽन्यासु स्याद् अव स्वर्गाल् लोकात् पद्येरन्
(प्ब् 4.6.24) सम्राड्वतीषु भवति साम्राज्यं वै स्वर्गो लोकः स्वर्ग एव लोके प्रतितिष्ठन्ति
(प्ब् 4.7.1) आत्मा वा एष संव्वत्सरस्य यद् विषुवान् पक्षाव् एताव् अभितो भवतो येन चेतो ऽभीवर्तेन यन्ति यश् च परस्मात् प्रगाथो भवति ताव् उभौ विषुवति कार्यौ पक्षाव् एव तद् यज्ञस्यात्मन् प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 4.7.2) इन्द्र क्रतुं न आभरेति प्रगाथो भवति
(प्ब् 4.7.3) वसिष्ठो वा एतं पुत्रहतो ऽपश्यत् स प्रजया पशुभिः प्राजायत यद् एष प्रगाथो भवति प्रजात्यै
(प्ब् 4.7.4) जीवा ज्योतिर् अशीमहीति ये वै स्वस्ति संव्वत्सरं संतरन्ति ते जीवा ज्योतिर् अश्नुवते
(प्ब् 4.7.5) मानो अज्ञाता वृजना दुराध्यो माशिवासो ऽवक्रमुर् इति ये वै स्तेना रिपवस् ते दुराध्यस् तान् एव तद् अतिक्रामति
(प्ब् 4.7.6) त्वया व्ययं प्रवतः शश्वतीर् अपो ऽति शूर तराम सो ऽतिसंव्वत्सरो वै प्रवतः शश्वतीर् अपस् तम् एव तत् तरन्ति
(प्ब् 4.7.7) अद्याद्याश्वः श्वस् त्वाम् इदा ह्यो नरो वयम् एनम् इदा ह्य इति संतनयः प्रगाथा भवन्ति तेषाम् एकः कार्यः सलोमत्वाय श्वस्तनम् एवाभिसंतन्वन्ति
(प्ब् 4.7.8) अथो खल्व् आहुर् इन्द्र क्रतुं न आभरेत्य् एव कार्यं समृद्ध्यै
(प्ब् 4.7.9) प्रत्यवरोहिणो मासा भवन्ति
(प्ब् 4.7.10) यथा वा इतो वृक्षं रोहन्त्य् एवम् एनं प्रत्यवरोहन्ति स्वर्गम् एव लोकं रूढ्वास्मिंल् लोके प्रतितिष्ठन्ति
(प्ब् 4.8.1) गौश् चायुश् च स्तोमौ भवतः
(प्ब् 4.8.2) द्विपाद् यजमानः प्रतिष्ठित्यै
(प्ब् 4.8.3) ऊनातिरिक्तौ भवत ऊनातिरिक्तं वा अनु प्रजाः प्रजायन्ते प्रजात्यै
(प्ब् 4.8.4) वैराजौ भवतो ऽन्नं विराड् अन्नाद्य एव प्रतितिष्ठन्ति
(प्ब् 4.8.5) द्वादशाहस्य दशाहानि भवन्ति
(प्ब् 4.8.6) विराड् वा एषा समृद्धा यद् दशाहानि विराज्य् एव समृद्धायां प्रतितिष्ठन्ति
(प्ब् 4.8.7) पृष्थानि भवन्ति वीर्यं वै पृष्ठानि वीर्य एव प्रतितिष्ठन्ति च्छन्दोमा भवन्ति पशवो वै च्छन्दोमाः पशुष्व् एव प्रतितिष्ठन्त्य् अथैतद् दशमम् अहर् आप्तस्तोमम् आप्तच्छन्द आप्तविभक्तिकम् अनिरुक्तं प्राजापत्यम्
(प्ब् 4.8.8) यद् अध्याहुर् अति तद् रेचयन्ति तस्मान् न व्युच्यम्
(प्ब् 4.8.9) परोक्षम् अनुष्टुभम् उपयन्ति प्रजापतिर् वा अनुष्टुब् यत् प्रत्यक्षम् उपेयुः प्रजापतिम् ऋच्छेयुः
(प्ब् 4.8.10) यो वै सत्त्रस्य सद् वेद सद् भवति वामदेव्यं वै साम्नां सद् अग्निर् देवतानां विराट् छन्दसां त्रयस्त्रिंशः स्तोमानां तान्य् एव तद् एकधा संभृत्योत्तिष्ठन्ति
(प्ब् 4.8.11) ब्रह्मवादिनो वदन्ति यतः सत्त्राद् उदस्थाता3स्थिता3द् इति
(प्ब् 4.8.12) ये रथन्तरेण स्तुत्वोत्तिष्ठन्ति ते यत उत्तिष्ठन्ति तान् ब्रूयाद् अप्रतिष्ठाना भविष्यन्तीति ये बृहता स्तुत्योत्तिष्ठन्ति ते स्थिताद् उत्तिष्ठन्ति तान् ब्रूयात् स्थायुकैषां श्रीर् भविष्यति न वसीयांसो भविष्यन्तीति
(प्ब् 4.8.13) ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति ते सतः सद् अभ्युत्तिष्ठन्ति पूर्णात् पूर्णम् आयतनाद् आयतनम् अन्तरिक्षायतना हि प्रजा
(प्ब् 4.8.14) त्रयस्त्रिंशदक्षरासु भवति त्रयस्त्रिंशद्देवतास्व् एव प्रतिष्ठायोत्तिष्ठन्ति
(प्ब् 4.8.15) प्राजापत्यं वै वामदेव्यं प्रजापताव् एव प्रतिष्ठायोत्तिष्ठन्ति पशवो वै वामदेव्यं पशुष्व् एव प्रतिष्ठायोत्तिष्ठन्ति
(प्ब् 4.9.1) पत्नीः संयाज्य प्राञ्च उदेत्यायं सहस्रमानव इत्य् अतिच्छन्दसाहवनीयम् उपतिष्ठन्ते
(प्ब् 4.9.2) इमे वै लोका अतिच्छन्दा एष्व् एव लोकेषु प्रतितिष्ठन्ति
(प्ब् 4.9.3) गोर् इति निधनं भवति विराजो वा एतद् रूपं यद् गौर् विराज्य् एव प्रतितिष्ठन्ति
(प्ब् 4.9.4) प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति
(प्ब् 4.9.5) अर्बुदः सर्प एताभिर् मृतां त्वचम् अपाहत मृताम् एवैताभिर्स् त्वचम् अपघ्नते
(प्ब् 4.9.6) इयं वै सार्पराज्ञ्य् अस्याम् एव प्रतितिष्ठन्ति
(प्ब् 4.9.7) तिसृभिः स्तुवन्ति त्रय इमे लोका एष्व् एव प्रतितिष्ठन्ति
(प्ब् 4.9.8) मनसोपावर्तयति
(प्ब् 4.9.9) मनसा हिङ् करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै
(प्ब् 4.9.10) यद् वै वाचा न समाप्नुवन्ति मनसा तत् समाप्नुवन्ति
(प्ब् 4.9.11) परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै
(प्ब् 4.9.12) ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति
(प्ब् 4.9.13) चतुर्होतारं होता व्याचष्टे स्तुतम् एव तद् अनुशंसति नहि तत् स्तुतं यद् अननुशस्तम्
(प्ब् 4.9.14) प्रजापतिं परिवदन्त्य् आप्त्वेवैनं तद् व्याचक्षते तावद् आपामैनम् इति
(प्ब् 4.9.15) गृहपतिर् औदुम्बरीं धारयति गृहपतिर् वा ऊर्जो यन्तोर्जम् एवैभ्यो यच्छति
(प्ब् 4.9.16) वाचं यच्छन्ति
(प्ब् 4.9.17) दुग्धानीव वै तर्हि छन्दसांसि यातयामान्य् अन्तर्गतानि तान्य् एव तद् रसेनाप्याययन्ति
(प्ब् 4.9.18) अथो श्वस्तनम् एवाभिसंतन्वन्ति
(प्ब् 4.9.19) आत्मदक्षिणं वा एतद् यत् सत्त्रम्
(प्ब् 4.9.20) यदा वै पुरुष आत्मनो ऽवद्यति यं कामं कामयते तम् अभ्यश्नुते
(प्ब् 4.9.21) द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्याम् अस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश् च लोहितं च
(प्ब् 4.9.22) शिखा अनुप्रवपन्ते पाप्मानम् एव तद् अपघ्नते लघीयांसः स्वर्गं लोकम् अयामेति
(प्ब् 4.9.23) अथो गवाम् एवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै
(प्ब् 4.10.1) प्रजापतिः प्रजा असृजत सो ऽरिच्यत सो ऽपद्यत तं देवा अभिसमगच्छन्त ते ऽब्रुवन् महद् अस्मै व्रतं संभराम यद् इमं धिनवद् इति तस्मै यत् संव्वत्सरम् अन्नं पच्यते तत् समभरंस् तद् अस्मै प्रायच्छंस् तद् अव्रजयत् तद् एनम् अधिनोन् महन् मर्या व्रतं यद् इमम् अधिन्वीद् इति तन् महाव्रतस्य महाव्रतत्वम्
(प्ब् 4.10.2) प्रजापतिर् वाव महांस् तस्यैतद् व्रतम् अन्नम् एव
(प्ब् 4.10.3) तद् आहुर् मध्यः संव्वत्सरस्योपेत्यं मध्यतो वा अन्नं जग्धं धिनोति
(प्ब् 4.10.4) तद् व् आहुर् यन् मध्यत उपयन्त्य् अर्धम् अन्नाद्यस्याप्नुवन्त्य् अर्धं सम्बट् कुर्वन्तीत्य् उपरिष्टाद् एव संव्वत्सरस्योपेत्यं संव्वत्सरे वा अन्नं सर्वं पच्यते
(प्ब् 4.10.5) चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरो ऽन्नं पञ्चविंशम्
(प्ब् 4.10.6) यद् वा अदश् चतुर्विंशंप्रायणीयं तद् एतद् उदयनीयम्
(प्ब् 4.10.7) यत् संव्वत्सरम् अन्नं संभरन्ति सैषा पञ्चविंश्य् उपजायते
(प्ब् 5.1.1) वामदेव्यं महाव्रतं कार्यम्
(प्ब् 5.1.2) त्रिवृच् छिरो भवति
(प्ब् 5.1.3) त्रिवृद् ध्य् एव शिरो लोम त्वग् अस्थि
(प्ब् 5.1.4) पाङ्क्त इतर आत्मा लोम त्वङ् मांसम् अस्थि मज्जा
(प्ब् 5.1.5) सकृद् धिङ्कृतेन शिरसा पाराचा स्तुवते
(प्ब् 5.1.6) तस्माच् छिरो ऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्य् अनुकृश्यति
(प्ब् 5.1.7) पुनर् अभ्यावर्तम् इतरेणात्मना स्तुवते तस्माद् इतर आत्मा मेद्यति च कृश्यति च
(प्ब् 5.1.8) अर्कवतीषु गायत्रीषु शिरो भवति
(प्ब् 5.1.9) अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्य् अन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति
(प्ब् 5.1.10) पञ्चदशसप्तदशौ पक्षौ भवतः प्रक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकम् एति
(प्ब् 5.1.11) ताव् आहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय
(प्ब् 5.1.12) तद् व् आहुर् यत् समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशाव् एव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति
(प्ब् 5.1.13) दक्षिणतो बृहत् कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः
(प्ब् 5.1.14) अथो खल्व् आहुर् उत्तरत एव कार्यं ब्राह्मणाच्छंसिनो ऽर्धात् त्रैष्टुभं वै बृहत् त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः
(प्ब् 5.1.15) दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद् गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः
(प्ब् 5.1.16) एकविंशं पुच्छं भवति
(प्ब् 5.1.17) एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद् वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति
(प्ब् 5.1.18) यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्य् एव महाव्रतस्य पुच्छम्
(प्ब् 5.1.19) अथो खल्व् आहुर् अतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रम् कार्यं समृद्ध्यै
(प्ब् 5.2.1) वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम्
(प्ब् 5.2.2) यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशून् आप्नोति
(प्ब् 5.2.3) तस्य प्राची दिक् शिरस् तच् छन्दोभिः सहस्रम् असाव् अन्यतरः पक्षः सनक्षत्त्रैः साहस्रो ऽयम् अन्यतरः पक्षः स ओषधिभिश् च वनस्पतिभिश् च साहस्रो ऽन्तरिक्षम् आत्मा तद् वयोभिः साहस्रं प्रतीची दिक् पुच्छं तद् अग्निभिश् च रश्मिभिश् च साहस्रं प्र ससस्रं पशून् आप्नोति य एवंव् वेद
(प्ब् 5.2.4) तद् आहुर् अपृष्ठं वै वामदेव्यम् अनिधनं हीति
(प्ब् 5.2.5) अनायतनं वा एतत् साम यद् अनिधनम्
(प्ब् 5.2.6) राजनं महाव्रतं कार्यम्
(प्ब् 5.2.7) एतद् वै साक्षाद् अन्नं यद् राजनं पञ्चविधं भवति पाङ्क्तं ह्य् अन्नम्
(प्ब् 5.2.8) हिङ्कारवद् भवति तेन वामदेव्यस्य रूपम्
(प्ब् 5.2.9) निधनवद् भवति तेन प्र्ष्ठस्य रूपम्
(प्ब् 5.2.10) अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम्
(प्ब् 5.2.11) अति वा एषान्यानि च्छन्दांसि यद् अतिच्छन्दा अत्य् एतद् अन्यान्य् अहान्य् अहर् यन् महाव्रतम्
(प्ब् 5.2.12) ब्रह्मसाम्नैव तद् अन्यान्य् अहान्य् अतिमेदयति
(प्ब् 5.2.13) पञ्चनिधनं भवति पाङ्क्तं ह्य् अन्नम्
(प्ब् 5.3.1) इलान्दम् अग्निष्टोमसाम कार्यम्
(प्ब् 5.3.2) एतद् वै साक्षाद् अन्नं यद् इलान्दम् इरान्नं एतद् इरायाम् एवान्नाद्ये ऽन्ततः प्रतितिष्ठन्ति
(प्ब् 5.3.3) समुद्रो वा एतच् छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति
(प्ब् 5.3.4) तस्माद् एतासु कार्यं समृद्ध्यै
(प्ब् 5.3.5) व्रतम् इति निधनं भवति महाव्रतस्यैव तद् रूपं क्रियते स्वर् इति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल् लोकम् एति
(प्ब् 5.3.6) यज्ञायज्ञीयम् अग्निष्टोमसाम कार्यम्
(प्ब् 5.3.7) यद् वा अन्या वाङ् नातिवदेत् तद् अग्निष्टोमसाम कार्यं न वै वाग् वाचम् अतिवदति वाग् यज्ञायज्ञीयं वाच्य् एवान्ततः प्रतितिष्ठन्ति
(प्ब् 5.3.8) वारवन्तीयम् अग्निष्टोमसाम कार्यम्
(प्ब् 5.3.9) अग्निर् वा इदं वैश्वानरो ऽदहन् नैतस्माद् देवा अबिभयुस् तं वरणशाखयावारयन्त यद् अवारयन्त तस्माद् वारवन्तीयम्
(प्ब् 5.3.10) तस्माद् वरणो भिषज्य एतेन हि देवा आत्मानम् अत्रायन्त
(प्ब् 5.3.11) तस्माद् ब्राह्मणो वारणेन न पिबेद् वैश्वानरं नेच्छमया इति
(प्ब् 5.3.12) पशवो वै वारवन्तीयं शान्तिः पशवः शान्ताद् एव तत् संव्वत्सराद् उत्तिष्ठन्ति
(प्ब् 5.4.1) प्राणेन पुरस्ताद् आहवनीयम् उपतिष्ठन्ते प्राणम् एव तज् जयन्ति
(प्ब् 5.4.2) अपानेन पश्चात् पुच्छम् उपतिष्ठन्ते अपानम् एव तज् जयन्ति
(प्ब् 5.4.3) व्रतपक्षाभ्यां पक्षाव् उपतिष्ठन्ते दिश एव तज् जयन्ति
(प्ब् 5.4.4) प्रजापतेर् हृदयेनापिकक्षम् उपतिष्ठन्ते ज्यैष्ठ्यम् एव तज् जयन्ति
(प्ब् 5.4.5) वसिष्ठस्य निहवेन चात्वालम् उपतिष्ठन्ते स्वर्गम् एव तल् लोकम् आओत्वा श्रियं वदन्ते
(प्ब् 5.4.6) वैश्वदेव्याम् ऋचि भवति विश्वरूपं वै पशूनां रूपं पशून् एव तज् जयन्ति
(प्ब् 5.4.7) सत्त्रस्यर्द्ध्याग्नीध्रम् उपतिष्ठन्त ऋद्धाव् एव प्रतितिष्ठन्ति
(प्ब् 5.4.8) चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठन्ति
(प्ब् 5.4.9) आतमितोर् निधनम् उपयन्त्य् आयुर् एव सर्वम् आप्नुवन्ति
(प्ब् 5.4.10) श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिम् एव तज् जयन्ति
(प्ब् 5.4.11) यामेन मार्जालीयम् उपतिष्ठन्ते पितृलोकम् एव तज् जयन्ति
(प्ब् 5.4.12) आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत् क्षत्रं च जयन्ति
(प्ब् 5.4.13) ऋश्यस्य साम्ना गार्हपत्यम् उपतिष्ठन्ते
(प्ब् 5.4.14) इन्द्रं सर्वाणि भूतान्य् अस्तुवंस् तस्यर्श्य एकम् अङ्गम् अस्तुतम् अचायत् तद् अस्यैतेनास्तौत् तेनास्य प्रियं धामोपागच्छत् प्रियम् एवास्यैतेन धामोपगच्छन्ति
(प्ब् 5.4.15) यत् परोऽक्षं निधनम् उपेयुर् ह्रीतमुखं प्रतिमुञ्चेरन् प्रत्यक्षम् उपयन्ति ह्रीतमुखम् एवापजयन्ति
(प्ब् 5.5.1) आसन्दीम् आरुह्योद्गायति देवसाक्ष्य एव तद् उपरिषद्यं जयति
(प्ब् 5.5.2) औदुम्बरी भवत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्द्धे
(प्ब् 5.5.3) प्रादेशमात्री भवत्य् अस्य लोकस्यानुद्धानाय
(प्ब् 5.5.4) छन्दोभिर् आरोहति स्वर्गम् एव तल् लोकम् आरोहति
(प्ब् 5.5.5) छन्दोभिर् उपावरोहत्य् अस्मिं लोके प्रतितिष्ठति
(प्ब् 5.5.6) सर्वेणात्मना समुद्धृत्योद्गेयम् एषु लोकेषु नेद् व्याहितो ऽसानीति
(प्ब् 5.5.7) एकस्यां स्तोत्रीयायाम् अस्तुतायां पादाव् उपाहरति
(प्ब् 5.5.8) सह निधनेन प्रतिष्ठाम् उपयन्त्य् एषेष्व् एव लोकेषु प्रतितिष्ठन्ते
(प्ब् 5.5.9) प्रेङ्खाम् आरुह्य होता शंसति महस एव तद् रूपं क्रियते
(प्ब् 5.5.10) यदा वै प्रजा मह आविशति प्रेङ्खास् तर्ह्य् आरोहन्ति
(प्ब् 5.5.11) फलकम् आरुह्याध्वर्युः प्रतिगृणाति
(प्ब् 5.5.12) कूर्चान् इतरे ऽध्यासत ऊर्ध्वा एव तद् उत्क्रामन्तो यन्ति
(प्ब् 5.5.13) अभिगरापगरौ भवतो निन्दत्य् एनान् अन्यः प्रान्यः शंसति य एनान् निन्दति पाप्मानम् एषां सो ऽपहन्ति यः प्रशंसति यद् एवैषां सुष्टुतं सुशस्तं तत् सो ऽभिगृणाति
(प्ब् 5.5.14) शूद्रार्यौ चर्मणि व्यायच्छेते तयोर् आर्यं वर्णम् उज्जापयन्ति
(प्ब् 5.5.15) देवाश् च वा असुराश् चादित्ये व्यायच्छन्तस् तं देवा अभ्यजयंस् ततो देवा अभवन् । परासुरा अभवन्न् आत्मना परास्य भ्रातृव्यो भवति य एवंव् वेद
(प्ब् 5.5.16) यदार्यं वर्णम् उज्जापयन्त्य् आत्मानम् एव तद् उज्जापयन्ति
(प्ब् 5.5.17) परिमण्डलं चर्म भवत्य् आदित्यस्यैव तद् रूपं क्रियते
(प्ब् 5.5.18) सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक् ताम् एव तज् जयन्ति
(प्ब् 5.5.19) भूमिदुन्दुभिर् भवति या पृथिव्यां वाक् ताम् एव तज् जयन्ति
(प्ब् 5.5.20) सर्वा वाचो वदन्ति येषु लोकेषु वाक् ताम् एव तज् जयन्ति
(प्ब् 5.5.21) संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद् रूपं क्रियते ऽथो महाव्रतम् एव महयन्ति
(प्ब् 5.6.1) सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्
(प्ब् 5.6.2) अध्वर्युः शिरसोद्गायन् मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्य् उत्तरेण गृहपतिः पुच्छेनोद्गातात्मना
(प्ब् 5.6.3) तद् यद्य् एवं कुर्युर् एकैकया स्तोत्रीययास्तुतयोद्गातारम् अभिसमेयुः
(प्ब् 5.6.4) तिसृभिर् उद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्याद् अपराभिस् तिसृभिर् उद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्याद् अपराभिस् तिसृभिर् उद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात् तिसृभिर् वैकया वा स्तुतं स्याद् अथ या पुच्छस्य स्तोत्रीया तां दध्यात्
(प्ब् 5.6.5) आत्मन्य् एव तद् अङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 5.6.6) अथो खल्व् आहुः कथम् अध्वर्युर् बह्वृचः साम गायेद् इत्य् उद्गातैव सर्वेणोद्गायेत् तद् एव समृद्धं समृद्धाव् एव प्रतितिष्ठन्ति
(प्ब् 5.6.7) हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस् ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान् मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस् त उदञ्चः संसर्पेयुर् जघनेन होतुर् धिष्ण्यं पश्चाद् ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस् ते येनैव प्रसर्पेयुस् तेन पुनर् निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद् गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस् ते येनैव निःसर्पेयुस् तेन पुनः प्रसृप्य यथायतनम् उपविश्यासन्दीम् आरुह्योद्गातात्मनोद्गायति
(प्ब् 5.6.8) तं पत्न्यो ऽपघाटिलाभिर् उपगायन्त्य् आर्त्विज्यम् एव तत् पत्न्यः कुर्वन्ति सह स्वर्गंल् लोकम् अयामेति
(प्ब् 5.6.9) कुले-कुले ऽन्नं क्रियते तद् यत् पृच्छेयुः किम् इदं कुर्वन्तीतीमे यजमाना अन्नम् अत्स्यन्तीति ब्रूयुः
(प्ब् 5.6.10) यो वै दीक्षितानां पापं कीर्तयति तृतीयम् एवांशं पाप्मनो हरत्य् अन्नादस् तृतीयं पिपीलिकास् तृतीयम्
(प्ब् 5.6.11) परिमाद्भिश् चरन्ति त्वक् च वा एतल् लोम च महाव्रतस्य यत् परिमादस् त्वचं चैव तल् लोम च महाव्रतस्याप्त्वावरुन्धते
(प्ब् 5.6.12) वाणं वितन्वन्त्य् अन्तो वै वाणो ऽन्तो महाव्रतम् अन्तेनैव तद् अन्तम् अभिवादयन्ति
(प्ब् 5.6.13) शततन्त्रीको भवति शतायुर् वै पुरुषः शतवीर्यः
(प्ब् 5.6.14) तम् उल्लिखेत् प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानान् एव तद् आप्त्वावरुन्धते
(प्ब् 5.6.15) परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्व् इदं मध्व् इति सघोषा एव तद् वयो भूत्वा सह स्वर्गंल् लोकं यन्ति
(प्ब् 5.7.1) देवा वै वाचं व्यभजन्त तस्या यो रसो ऽत्यरिच्यत तद् गौरीवितम् अभवद् अनुष्टुभम् अनु परिप्लवते वाग् अनुष्टुब् वाचो रसो गौरीवितम्
(प्ब् 5.7.2) यद् गौरीवितेनान्वहंस् स्तुवते वाच्य् एव तद् वाचा रसं दधति
(प्ब् 5.7.3) रसवद् वाचा वदति य एवंव् वेदेति
(प्ब् 5.7.4) द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वम् अहः संस्थापयन्त्य् उत्तरेणोत्तरम् अहर् अभ्यतिवदन्ति
(प्ब् 5.7.5) एतद् वै यज्ञस्य श्वस्तनं यद् गौरीवितं यद् गौरीवितम् अनुसृजेयुर् अश्वस्तना अप्रजसः स्युः
(प्ब् 5.7.6) सं वा अन्यो यज्ञस् तिष्ठत इत्य् आहुर् वाग् एव न संतिष्ठत इति यद् गौरीवितम् अन्वहं भवति वाचम् एव तत् पुनः प्रयुञ्जते
(प्ब् 5.7.7) स्वर्णिधनम् अन्वहं भवति
(प्ब् 5.7.8) देवक्षेत्रं वा एते ऽभ्यारोहन्ति ये स्वर्णिधनम् उपयन्ति स उ वै सत्त्रिणः सत्त्रम् उपनयेद् इत्य् आहुर् य एनान् देवक्षेत्रम् अभ्यारोहेद् इति न वै देवक्षेत्र आसीन आर्तिम् आर्छति यत् स्वर्णिधनम् अन्वहं भवति नैव कां चनार्तिम् आर्छन्ति
(प्ब् 5.7.9) च्यवन्ते वा एते ऽस्माल् लोकाद् इत्य् आहुर् ये स्वर्णिधनम् उपयन्तीति यद् ऋचा स्वरूपं यन्त्य् अस्मिं लोके प्रतितिष्ठन्ति यद् एकारो ऽतरिक्षे यत् साम्नामुष्मिन्त् सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः
(प्ब् 5.7.10) सुज्ञानं भवति
(प्ब् 5.7.11) देवा वै स्वर्गंल् लोकं यन्तो ऽज्ञाताद् अबिभयुस् त एतत् संज्ञानम् अपश्यंस् तेन ज्ञात्रम् अगच्छन् यत् सुज्ञानम् अन्वहं भवति ज्ञात्रम् एव गच्छन्ति
(प्ब् 5.8.1) ये वै वाचम् अन्नम् आदयन्त्य् अन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति
(प्ब् 5.8.2) गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचो ऽन्नम् एतेषां वाग् अन्नं यद् एतानि न च्यवन्ते वाचम् एव तद् अन्नम् आदयन्ति तेन सर्वे ऽन्नादा भवन्ति
(प्ब् 5.8.3) अभिक्रान्तापक्रान्तानि भवन्त्य् अभिक्रान्तापक्रान्तं वै वाचो रूपम्
(प्ब् 5.8.4) प्लवो ऽन्वहं भवति
(प्ब् 5.8.5) समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरम् उपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत् प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 5.8.6) अति विश्वानि दुरिता तरेमेति यद् एवैषां दुष्टुतं दुःशस्तं तद् एतेन तरन्ति
(प्ब् 5.8.7) ओकोनिधनं षडहमुखे भवति
(प्ब् 5.8.8) परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै
(प्ब् 5.8.9) यदा वै पुरुषः स्वम् ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वम् अस्मै दिवा भवति
(प्ब् 5.9.1) एकाष्टकायां दीक्षेरन्
(प्ब् 5.9.2) एषा वै संव्वत्सरस्य पत्नी यद् एकाष्टकैतस्यां वा गतां रात्रिं वसति साक्षाद् एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते
(प्ब् 5.9.3) तस्य सानिर्या यद् अपोऽ नभिनन्दन्तो ऽभ्यवयन्ति
(प्ब् 5.9.4) विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवेते
(प्ब् 5.9.5) आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते ये ऽन्तनामानाव् ऋतू अभिदीक्षन्ते
(प्ब् 5.9.6) तस्माद् एकाष्टकायां न दीक्ष्यम्
(प्ब् 5.9.7) फाल्गुने दीक्षेरन्
(प्ब् 5.9.8) मुखं वा एतत् संव्वत्सरस्य यत् फाल्गुनो मुखत एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते
(प्ब् 5.9.9) तस्य सानिर्या यत् संमेघे विषुवान् संपद्यते
(प्ब् 5.9.10) चित्रापूर्णमासे दीक्षेरन्
(प्ब् 5.9.11) चक्षुर् वा एतत् संव्वत्सरस्य यच् चित्रापूर्णमासो मुखतो वै चक्षुर् मुखत एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते तस्य न निर्यास्ति
(प्ब् 5.9.12) चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन्
(प्ब् 5.9.13) तेषाम् अकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संबट् कुर्वन्ति
(प्ब् 5.9.14) तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तान् उत्तिष्ठतः पशव ओषधयो ऽनूत्तिष्ठन्ति तान् कल्याणी वाग् अभिवदर्य् अरात्सुर् इमे सत्त्रिण इति ते राध्नुवन्ति
(प्ब् 5.10.1) आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति
(प्ब् 5.10.2) यथा वै दृतिर् आध्मात एवं संव्वत्सरो ऽनुत्सृष्टो यन् नोत्सृजेयुर् अमेहेन प्रमायुकाः स्युः
(प्ब् 5.10.3) प्राणो वै संव्वत्सर उदाना मासा यद् उत्सृजन्ति प्राण एवोदानान् दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक् सा तम् ऋच्छति
(प्ब् 5.10.4) तद् आहुर् उत्सृज्या3ं नोत्सृज्या3म् इति
(प्ब् 5.10.5) यद्य् उत्सृजेयुर् उक्थान्य् उत्सृजेयुस् तद् एवोत्सृष्टं तद् अनुत्सृष्टम्
(प्ब् 5.10.6) अथो खल्व् आहुर् एकत्रिकं कार्यं तद् एव साक्षाद् उत्सृष्टम् अभ्युत्षुण्वन्ति
(प्ब् 5.10.7) छिद्रो वा एतेषां संव्वत्सर इत्य् आहुर् ये स्तोमम् उत्सृजन्तीति
(प्ब् 5.10.8) पशुम् आलभन्ते स्तोमम् एव तद् आलभन्ते स्तोमो हि पशुः
(प्ब् 5.10.9) श्व उत्सृष्टाः स्म इति वत्सान् अपाकुर्वन्ति प्रातः पशुम् आलभन्ते तस्य वपया प्रचरन्ति ततस् सवनीयेनाष्टाकपालेन तत आग्नेयेनाष्टाकपालेन ततो दध्नैन्द्रेण ततश् चरुणा वैश्वदेवेन तत् प्रातःसवनं संतिष्ठन्ते
(प्ब् 5.10.10) ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश् चरुणैन्द्रेण तन् माध्यन्दिनं सवनं संतिष्ठन्ते
(प्ब् 5.10.11) पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश् चरुणाग्निमारुतेन तत् तृतीयं सवनं संतिष्ठन्ते
(प्ब् 5.10.12) पृषदाज्येन प्रचर्य पत्नीस् संयाजयन्ति
(प्ब् 6.1.1) प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स एतम् अग्निष्टोमम् अपश्यत् तम् आहरत् तेनेमाः प्रजा असृजत
(प्ब् 6.1.2) एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतैकादशेन च मासा संव्वत्सरस्य ता द्वादशेन च स्तोत्रेणाग्निष्टोमस्य पर्यगृह्णाद् द्वादशेन च मासा संव्वत्सरस्य
(प्ब् 6.1.3) तस्मात् प्रजा दशमासो गर्भं भृत्वैकादशम् अनु प्रजायन्ते तस्माद् द्वादशं नाभ्यतिहरन्ति द्वादशेन हि परिगृहीतास् तद् य एवंव् वेद परि जाताः प्रजा गृह्णाति प्र जाता जनयन्ति
(प्ब् 6.1.4) तासां परिगृहीतानाम् अश्वतर्य् अत्यक्रामत् तस्या अनुहाय रेत आदत्ता तद् वडवायां न्यमाड् यस्माद् वडवा द्विरेतास् तस्माद् अश्वतर्य् अप्रजा आत्तरेता हि
(प्ब् 6.1.5) तस्माद् व् अदक्षिणीयाति हि सा यज्ञम् अरिच्यतातिरिक्तस्य दक्षिणा स्यात् सलोमत्वाय षोडशिनः स्तोत्रेदेयातिरिक्तो वै षोडश्य् अतिरिक्त एवातिरिक्तां ददाति
(प्ब् 6.1.6) सो ऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतम् असृजत तं गायत्री च्छन्दो ऽन्यसृज्यताग्निर् देवता ब्राह्मणो मनुष्यो वसन्त ऋतुस् तस्मात् त्रिवृत् स्तोमानां मुखं गायत्री च्छन्दसाम् अग्निर् देवतानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनां तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः
(प्ब् 6.1.7) करोति मुखेन वीर्यं य एवंव् वेद
(प्ब् 6.1.8) स उरस्त एव बाहुभ्यां पञ्चदशम् असृजत तं त्रिष्टुप् छन्दो ऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस् तस्माद् राजन्यस्य पञ्चदश स्तोमस् त्रिष्टुप् छन्द इन्द्रो देवता ग्रीष्म ऋतुस् तस्माद् उ बाहुवीर्यो बाहुभ्यां हि सृष्टः
(प्ब् 6.1.9) करोति बाहुभ्यां वीर्यं य एवंव् वेद
(प्ब् 6.1.10) स मध्यत एव प्रजननात् सप्तदशम् असृजत तं जगती च्छन्दो ऽन्वसृज्यत विश्वे देवा देवता वैश्यो मनुष्यो वर्षा ऋतुस् तस्माद् वैश्यो ऽद्यमानो न क्षीयते प्रजननाद् धि सृष्टस् तस्माद् उ बहुपशुर् वैश्वदेवो हि जागतो वर्षा ह्य् अस्यर्तुस् तस्माद् ब्राह्मणस्य च राजन्यस्य चाद्यो ऽधरो हि सृष्टः
(प्ब् 6.1.11) स पत्त एव प्रतिष्ठाया एकविंशम् असृजत तम् अनुष्टुप् छन्दो ऽन्वसृज्यत न का चन देवता शूद्रो मनुष्यस् तस्माच् छूद्र उत बहुपशुर् अयज्ञियो विदेवो हि न हि तं का चन देवता ऽन्वसृज्यत तस्मात् पादाव् अनेज्यं नाति वर्धते पत्तो हि सृष्टस् तस्माद् एकविंशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस् तस्माद् अनुष्टुभं छन्दांसि नानु व्यूहन्ति
(प्ब् 6.1.12) पापवसीयसो विधृत्यै
(प्ब् 6.1.13) विधृतिः पापवसीयसो भवति य एवंव् वेद
(प्ब् 6.2.1) यो वै स्तोमान् उपदेशनवतो वेदोपदेशनवान् भवति
(प्ब् 6.2.2) प्राणो वै त्रिवृद् अर्धमासः पञ्चदशः संव्वत्सरः सप्तदश आदित्य एकविंश एते वै स्तोमा उपदेशनवन्त उपदेशनवान् भवति य एवंव् वेद
(प्ब् 6.2.3) इमे वै लोकास् त्रिणवस् त्रिणवस्य वै ब्राह्मणेनेमे लोकास् त्रिष् पुनर् नवा भवन्ति
(प्ब् 6.2.4) एषु लोकेषु प्रतितिष्ठति य एवंव् वेद
(प्ब् 6.2.5) देवता वाव त्रयस्त्रिंशो ऽष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश् च वषट्कारश् च त्रयस्त्रिंशौ
(प्ब् 6.2.6) स देवेन यज्ञेन यजते य एवंव् वेद
(प्ब् 6.2.7) यो वा अधिपतिं वेदाधिपतिर् भवति त्रयस्त्रिंशो वै स्तोमानम् अधिपतिः पुरुषः पशुमान्
(प्ब् 6.2.8) तस्मान् न्यञ्चो ऽन्ये पशवो ऽदन्त्य् ऊर्ध्वः पुरुषो ऽधिपतिर् हि सः
(प्ब् 6.2.9) अधिपतिः समानानां भवति य एवंव् वेद
(प्ब् 6.3.1) एष वाव यज्ञो यद् अग्निष्टोमः
(प्ब् 6.3.2) एकस्मा अन्यो यज्ञः कामायाह्रियते सर्वेभ्यो ऽग्निष्टोमः
(प्ब् 6.3.3) द्वादश स्तोत्राण्य् अग्निष्टोमो द्वादशमासाः संव्वत्सरः संव्वत्सरं पशवो ऽनु प्रजायन्ते तेन पशव्यः समृद्धः
(प्ब् 6.3.4) द्वादश स्तोत्राणि द्वादश शस्त्राणि तच् चतुर्विंशतिश् चतुर्विंशतिर् अर्धमासाः संव्वत्सरः संव्वत्सरं पशवो ऽनुप्रजायन्ते तेन पशव्यः समृद्धः
(प्ब् 6.3.5) अग्नौ स्तोत्रम् अग्नौ शस्त्रं प्रतितिष्ठति तेन ब्रह्मवर्चसस्य
(प्ब् 6.3.6) किं ज्योतिष्टोमस्य ज्योतिष्टोमत्वम् इत्य् आहुर् विराजं संस्तुतः संपद्यते विराड् वै च्छन्दसां ज्योतिः
(प्ब् 6.3.7) ज्योतिः समानानां भवति य एवंव् वेद
(प्ब् 6.3.8) ज्येष्ठयज्ञो वा एष यद् अग्निष्टोमः
(प्ब् 6.3.9) प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स एतम् अग्निष्टोमम् अपश्यत् तम् आहरत् ततो ऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
(प्ब् 6.3.10) तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवंव् वेद
(प्ब् 6.3.11) यत् त्व् इत्य् आहुर् गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दो ऽनुष्टुब् इति
(प्ब् 6.3.12) छन्दसां वा अन्ववलुप्तिं यजमानो ऽन्ववलुप्यते
(प्ब् 6.3.13) अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा त्रिष्टुब् द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभम् आप्नोति यजमानस्यानवलोपाय
(प्ब् 6.3.14) यो वा अनुष्टुभं सर्वत्रापिं सवनान्य् अन्वायत्तां वेद सर्वत्रास्यापिर् भवत्य् एषा वा अनुष्टुप् सर्वत्रापिः सवनान्य् अन्वायत्ता तद् य एवं व्वेद सर्वत्रापिर् भवति
(प्ब् 6.3.15) यद् वै राजानो ऽध्वानं धावयन्ति ये ऽश्वानांव् वीर्यवत्तमास् तान् युञ्जते त्रिवृत् पञ्चदश एकविंश एते वै स्तोमानांव् वीर्यवत्तमास् तान् एव युङ्क्ते स्वर्गस्य लोकस्य समष्ट्यै
(प्ब् 6.3.16) चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्यै
(प्ब् 6.4.1) प्रजापतिर् देवेभ्य ऊर्जं व्यभजत् तत उदुम्बरः समभवत् प्राजापत्यो वा उदुम्बरः प्राजापत्य उद्गाता यद् उद्गातौदुम्बरीं प्रथमेन कर्मणान्वारभते स्वयैव तद् देवतयात्मानम् आर्त्विज्याय वृणीते
(प्ब् 6.4.2) ताम् उच्छ्रयति द्युतानस् त्वा मारुत उच्छ्रयतूद् दिवं स्तभानान्तरिक्षं पृण दृंह पृथिवीम्
(प्ब् 6.4.3) ताम् अन्वारभत आयोष् ट्वा सदने सादयाम्य् अवतश् छायायां समुद्रस्य हृदय इति
(प्ब् 6.4.4) यज्ञो वा आयुस् तस्य तत् सदनं क्रियते
(प्ब् 6.4.5) यज्ञो वा अवति तस्य सा च्छाया क्रियते
(प्ब् 6.4.6) मध्यतो वा आत्मनो हृदयं तस्मान् मध्ये सदस औदुम्बरी मीयते
(प्ब् 6.4.7) नमः समुद्राय नमः समुद्रस्य चक्षुष इत्य् आह वाग् वै समुद्रो मनः समुद्रस्य चक्षुस् ताभ्याम् एव तन् नमस् करोति
(प्ब् 6.4.8) सामा यूनर्वाहासीद् इत्य् आह साम वै यूनर्वा साम्न एव तन् नमस्करोत्य् आर्त्विज्यं करिष्यन्
(प्ब् 6.4.9) यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति न साम्नो हीयते नैनं सामापहते
(प्ब् 6.4.10) य एनम् अनुव्याहरति स आर्तिम् आर्छति
(प्ब् 6.4.11) ऊर्ग् अस्य् ऊर्जोदा ऊर्जं मे देह्य् ऊर्जं मे धेह्य् अन्नं मे देह्य् अन्नं मे धेहि प्रजापतेर् वा एतद् उदरं यत् सद ऊर्ग् उदुम्बरो यद् औदुम्बरी मध्ये सदसो मीयते मध्यत एव तत् प्रजाभ्यो ऽन्नम् ऊर्जं दधाति
(प्ब् 6.4.12) तस्माद् यत्रैषा यातयामा क्रियते तत् प्रजा अशनायवो भवन्ति
(प्ब् 6.4.13) साम देवानाम् अन्नं सामन्य् एव तद् देवेभ्यो ऽन्न ऊर्हं दधाति स एव तद् ऊर्जि श्रितः प्रजाभ्य ऊर्जं विभजति
(प्ब् 6.4.14) उदङ्ङ् आसीन उद्गायत्य् उदीचीं तादृशम् ऊर्जा भाजयति प्रत्यङ्ङ् आसीनः प्रस्तौति प्रतीचीं तादृशम् ऊर्जा भाजयति दक्षिणासीनः प्रतिहरति दक्षिणां तादृशम् ऊर्जा भाजयति प्राञ्चो ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति तस्माद् एषा दिशां वीर्यवत्तमैतां हि भूयिष्ठाः प्रीणन्ति
(प्ब् 6.4.15) ब्रह्मवादिनो वदन्ति कस्मात् सत्यात् प्राञ्चो ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्तीति विपरिक्रम्योद्गातार इति दिशाम् अभीष्ट्यै दिशाम् अभिप्रीत्या इति ब्रूयात् तस्मात् सर्वासु दिक्ष्व् अन्नंव् विद्यते सर्वा ह्य् अभीष्टाः प्रीताः
(प्ब् 6.5.1) प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति सो ऽशोचत् तस्य शोचत आदित्यो मूर्ध्नो ऽसृज्यत सो ऽस्य मूर्धानम् उदहन् स द्रोणकलशो ऽभवत् तस्मिन् देवाः शुक्रम् अगृह्णत तां वै स आयुषार्तिम् अत्यजीवत्
(प्ब् 6.5.2) आयुषार्तिम् अतिजीवति य एवंव् वेद ।
(प्ब् 6.5.3) रं प्रोहेद् वानस्पत्यो ऽसि बार्हस्पत्यो ऽसि प्राजापत्यो ऽसि प्रजापतेर् मूर्धास्य् अत्यायुपात्रम् असीदम् अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसायेति
(प्ब् 6.5.4) यद् आह वानस्पत्य इति सत्येनैवैनं तत् प्रोहति
(प्ब् 6.5.5) यद् आह बार्हस्पत्य इति बृहस्पतिर् वै देवानाम् उद्गाता तम् एव तद् युनक्ति
(प्ब् 6.5.6) यद् आह प्राजापत्य इति प्राजापत्यो ह्य् एष देवताया यद् द्रोणकलशो यद् आह प्रजापतेर् मूर्धेति प्रजापतेर् ह्य् एष मूर्ध्न उदहन्यत
(प्ब् 6.5.7) यद् आहात्यायुपात्रम् इत्य् अति ह्य् एतद् अन्यानि पात्राणि यद् द्रोणकलशो देवपात्रं द्रोणकलशः
(प्ब् 6.5.8) देवपात्री भवति य एवंव् वेद
(प्ब् 6.5.9) ब्राह्मणं पात्रे न मीमांसेत यं ब्राह्मणम् इव मन्यते प्र देवपात्रम् आप्नोति न मनुष्यपात्राच् छिद्यते
(प्ब् 6.5.10) वाग् वै देवेभ्यो ऽपक्रामत् सापः प्राविशत् तां देवाः पुनर् अयाचंस् ता अब्रुवन् यत् पुनर् दद्याम किं नस् ततः स्याद् इति यत् कामयध्व इत्य् अब्रुवंस् ता अब्रुवन् यद् एवास्मासु मनुष्या अपूतं प्रवेशयांस् तेनासंसृष्टा असामेति
(प्ब् 6.5.11) शुद्धा अस्मा आपः पूता भवन्ति य एवंव् वेद
(प्ब् 6.5.12) सा पुनर्तात्यक्रामत् सा वनस्पतीन् प्राविशत् तान् देवाः पुनर् अयाचंस् तां न पुनर् अददुस् तान् अशपन् स्वेन वः किष्कुणा वज्रेण वृश्चान् इति तस्माद् वनस्पतीन् स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि
(प्ब् 6.5.13) तांव् वनस्पतयश् चतुर्धा वाचंव् विन्यदधुर् दुन्दुभौ वीणायाम् अक्षे तूणवे तस्माद् एषा वदिष्ठैषा वल्गुतमा वाग् वा वनस्पतीनां देवानां ह्य् एषा वाग् आसीत्
(प्ब् 6.5.14) अधो-ऽधो ऽक्षं द्रोणकलशं प्रोहन्ति तस्या वाचो ऽवरुध्या उपर्य्-उपर्य् अक्षं पवित्रं प्रयच्छन्त्य् उभयत एव वाचं परिगृह्णन्ति
(प्ब् 6.5.15) यस्य कामयेतासुर्यम् अस्य यज्ञं कुर्यांव् वाचंव् वृञ्जीयेति द्रोणकलशं प्रोहन् बाहुभ्याम् अक्षन् उपस्पृशेद् असुर्यम् अस्य यज्ञं करोति वाचंव् वृङ्क्ते यो ऽस्य प्रियः स्याद् अनुपस्पृशन्न् अक्षं प्रोहेत् प्राणा वै द्रोणकलशः प्राणान् एवास्य कल्पयति
(प्ब् 6.5.16) यन् न्व् इत्य् आहुर् वाचान्यान् ऋत्विजो वृणते कस्माद् उद्गातारो वृता आर्त्विज्यं कुर्वन्तीति
(प्ब् 6.5.17) यद् द्रोणकलशम् उपसीदन्ति तेनोद्गातारो वृताः
(प्ब् 6.5.18) प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो द्रोणकलश एवैनाम् आर्त्विज्याय वृणीते
(प्ब् 6.5.19) प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति
(प्ब् 6.5.20) अनभिजिता वा एषोद्गातॄणां दिग् यत् प्राची यद् द्रोणकलशं प्राञ्चं प्रोहन्ति दिशो ऽभिजित्यै
(प्ब् 6.5.21) यन् न्व् इत्य् आहुर् अन्तराश्वः प्रासेवौ युज्यते ऽन्तरा शम्य अनड्वान् क उद्गातॄणां योग इति यद् द्रोणकलशम् उपसीदन्ति स एषां योगस् तस्माद् युक्तैर् एवोपसद्यं न ह्य् अयुक्तो वहति
(प्ब् 6.6.1) ग्राव्णः संसाद्य द्रोणकलशम् अध्यूहन्ति विड् वै ग्रावाणो ऽन्नं सोमो राष्ट्रं द्रोणकलशो यद् ग्रावसु द्रोणकलशम् अध्यूहन्ति विश्य् एव तद् राष्ट्रम् अध्यूहन्ति
(प्ब् 6.6.2) यं द्विष्याद् विमुखान् ग्राव्णः कृत्वेदम् अहम् अमुम् अमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो ऽमुष्माद् अन्नाद्यान् निरूहामीति निरूहेद् विश एवैनम् अन्नाद्यान् निरूहति
(प्ब् 6.6.3) यो ऽस्य प्रियः स्यात् संमुखान् ग्राव्णः कृत्वेदम् अहम् अमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विश्य् अमुषिन्न् अन्नाद्ये ऽध्यूहामीत्य् अध्यूहेद् विश्य् एवैनम् अन्नाद्ये ऽध्यूहति
(प्ब् 6.6.4) अथो तद् उभयम् अनादृत्येदम् अहं मां तेजसि ब्रह्मवर्चस्से ऽध्यूहामीत्य् अध्यूहेत् तेजस्य् एव ब्रह्मवर्चस आत्मानम् अध्यूहति
(प्ब् 6.6.5) यः कामयेत विशा राष्ट्रं हन्याम् इति व्यूह्य ग्राव्णो ऽधो द्रोणकलशं सादयित्वोपांशुसवनम् उपरिष्टाद् अभिनिदध्याद् इदम् अहम् अमुया विशा ऽदो राष्ट्रं हन्मीति विशैव तद् राष्ट्रं हन्ति
(प्ब् 6.6.6) यो वै दैवानि पवित्राणि वेद पूतो यज्ञियो भवति च्छन्दांसि वै दैवानि पवित्राणि तैर् द्रोणकलशं पावयन्ति
(प्ब् 6.6.7) वसवस् त्वा गायत्रेण च्छन्दसा पुनन्तु रुद्रास् त्वा त्रैष्टुभेन च्छन्दसा पुनन्त्व् आदित्यास् त्वा जागतेन च्छन्दसा पुनन्त्व् एतानि वै दैवानि पवित्राणि पूतो यज्ञियो भवति य एवंव् वेद
(प्ब् 6.6.8) स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत् तं देवा न व्यजानंस् ते ऽत्रिम् उपाधावंस् तस्यात्रिर् भासेन तमो ऽपाहन् यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवद् यद् द्वितीयं सा रजता यत् तृतीयं सा लोहिनी यया वर्णम् अभ्यतृणत् सा शुक्लासीत्
(प्ब् 6.6.9) तस्माच् छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय
(प्ब् 6.6.10) यं द्विष्यात् तस्यैतेषां वर्णानाम् अपि पवित्रे कुर्यात् पाप्मनैवैनं तमसा विध्यति कृष्णम् इव हि तमो यो ऽस्य प्रियः स्याद् आसक्तिशुक्लं कुर्याज् ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधाति
(प्ब् 6.6.11) तस्माद् आत्रेयं चन्द्रेणेच्छन्त्य् अत्रिर् हि तस्य ज्योतिः
(प्ब् 6.6.12) अभ्यतृणत् पवित्रंव् विगृह्णन्ति हस्तकार्यम् एव तद् यज्ञस्य क्रियत एतद् वा उद्गातॄणां हस्तकार्यं यत् पवित्रस्य विग्रहणम्
(प्ब् 6.6.13) न हस्तवेष्यान् निर् ऋच्छति य एवंव् वेद
(प्ब् 6.6.14) यो ऽपि न विगृह्णाति प्राणाद् एनम् अन्तर्यन्ति
(प्ब् 6.6.15) तं ब्रूयाद् वेपमानः प्रमेष्यस इति वेपमान एव प्रमीयते
(प्ब् 6.6.16) प्र शुक्रैतु देवी मनीषास्मद् रथः सुतष्टो न वाजीत्य् उद्गाता धाराम् अनुमन्त्रयते
(प्ब् 6.6.17) आयुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच् छृण्वन्त्व् आपो ऽधः क्षरन्तीः सोमेहोद्गायेत्य् आह मह्यं तेजसे ब्रह्मवर्चसायेति
(प्ब् 6.6.18) एष वै सोमस्योद्गीथो यत् पवते सोमोद्गीथम् एव साम गायति
(प्ब् 6.6.19) आच्छिन्नं पावयन्ति यज्ञं चैव प्राणांश् च संतन्वन्ति संततं पावयन्ति यज्ञस्य संतत्यै
(प्ब् 6.7.1) बृहस्पतिर् वै देवानाम् उदगायत् तं रक्षांस्य् अजिघांसन् स य एषां लोकानाम् अधिपतयस् तान् भागधेयेनोपाधावत्
(प्ब् 6.7.2) सूर्यो मा दिवाभ्यो नाष्ट्राभ्यः पातु वायुर् अन्तरिक्षाभ्यो ऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति
(प्ब् 6.7.3) एते वा एषां लोकानाम् अधिपतयस् तान् भागधेयेनोपासरत्
(प्ब् 6.7.4) करोति वाचा वीर्यं न सदस्याम् आर्तिम् आर्च्छति य एवंव् वेद
(प्ब् 6.7.5) वाग् वै देवेभ्यो ऽपाक्रामत् तां देवा अन्वमन्त्रयन्त सा ऽब्रवीद् अभागास्मि भागधेयं मे ऽस्त्व् इति कस् ते भागधेयं कुर्याद् इत्य् उद्गातार इत्य् अब्रवीद् उद्गातारो वै वाचे भागधेयं कुर्वन्ति
(प्ब् 6.7.6) तस्यै जुहुयाद् बेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस् पतये देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः सरस्वत्यै स्वाहेति
(प्ब् 6.7.7) वाह् वै सरस्वती ताम् एव तद् भागधेयेनारभते
(प्ब् 6.7.8) यं द्विष्यात् तस्यैताम् आहुतिं जुहुयाद् वाचं मनसा ध्यायेद् वाचम् एवास्य वृङ्क्ते
(प्ब् 6.7.9) बहिष्पवमानं सर्पन्ति स्वर्गम् एव तल् लोकं सर्पन्ति
(प्ब् 6.7.10) प्रक्वाणा इव सर्पन्ति प्रतिकूलम् इव हीतः स्वर्गो लोकः त्सरन्त इव सर्पन्ति मृगधर्मो वै यज्ञो यज्ञस्य शान्त्या अप्रत्रासाय
(प्ब् 6.7.11) वाचं यच्छन्ति यज्ञम् एव तद् यच्छन्ति यद् व्यववदेयुर् यज्ञं निर्ब्रूयुस् तस्मान् न व्यववद्यम्
(प्ब् 6.7.12) पञ्चर्त्विजः संरब्धाः सर्पन्ति पा-न्क्तो यज्ञो यावान् यज्ञस् तम् एव संतन्वन्ति
(प्ब् 6.7.13) यदि प्रस्तोतावच्छिद्यते यज्ञस्य शिरश् छिद्यते ब्रह्मणे वरं दत्त्वा स एव पुनर् वर्तव्यश् छिन्नम् एव तत् प्रतिदधाति
(प्ब् 6.7.14) यद्य् उद्गातावच्छिद्यते यज्ञेन यजमानो व्यृध्यते ऽदक्षिणः स यज्ञक्रतुः संस्थाप्यो ऽथान्य आहृत्यस् तस्मिन् देयं यावद् दास्यन् स्यात्
(प्ब् 6.7.15) यदि प्रतिहर्ता ऽवच्छिद्यते पशुभिर् यजमानो व्यृध्यते पशवो वै प्रतिहर्ता सर्ववेदसं देयं यदि सर्ववेदसं न ददाति सर्वज्यानिं जीयते
(प्ब् 6.7.16) अध्वर्युः प्रस्तरं हरति
(प्ब् 6.7.17) यजमानो वै प्रस्तरो यजमानम् एव तत् स्वर्गंल् लोकं हरति
(प्ब् 6.7.18) यज्ञो वै देवेभ्यो ऽश्वो भूत्वापाक्रामत् तं देवाः प्रस्तरेणासमयंस् तस्माद् अश्वः प्रस्तरेण संमृज्यमान उपावरभते यद् अध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्या अप्रत्रासाय
(प्ब् 6.7.19) प्रजापतिः पशुन् असृजत ते ऽस्मात् सृष्टा अशनायन्तो ऽपाक्रामंस् तेभ्यः प्रस्तरम् अन्नं प्रायच्छत् एनम् उपावर्तन्त तस्माद् अध्वर्युणा प्रस्तर ईषद् इव विधूयो विधूतिम् इव हि तृणं पशव उपावर्तन्ते
(प्ब् 6.7.20) उपैनं पशव आवर्तन्ते य एवंव् वेद
(प्ब् 6.7.21) प्रस्तरम् आसद्योद्गायेद् धविषो ऽस्कन्दाय
(प्ब् 6.7.22) यजमानं तु स्वर्गाल् लोका अवगृह्णाति
(प्ब् 6.7.23) अष्ठीवतोपस्पृशतोद्गेयं तेनास्य हविर् अस्कन्नं भवति न यजमानं स्वर्गाल् लोकाद् अवगृह्णाति
(प्ब् 6.7.24) चात्वालम् अवेक्ष्य बहिष्पवमानं स्तुवन्त्य् अत्र वा असाव् आदित्य आसीत् त देवा बहिष्पवमानेन स्वर्गंल् लोकम् अहरन् यच् चात्वालम् अवेक्ष्य बहिष्पवमानं स्तुवन्ति यजमानम् एव तत् स्वर्गंल् लोकं हरन्ति
(प्ब् 6.8.1) स तु वै यज्ञेन यजेतेत्य् आहुर् यस्य विराजं यज्ञमुखे दध्युर् इति
(प्ब् 6.8.2) नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा विराड् विराजम् एवास्य यज्ञमुखे दधाति
(प्ब् 6.8.3) नवभिः स्तुवन्ति प्राणाः प्राणैर् एवैनं समर्द्धयन्ति हिङ्कारो दशमस् तस्मान् नाभिर् अनवतृण्णा दशमी प्राणानाम्
(प्ब् 6.8.4) नवभिः स्तुवन्ति नवाध्वर्युः प्रातःसवने ग्रहान् गृह्णाति तान् एव तत् पावयन्ति तेषां प्राणान् उत्सृजन्ति
(प्ब् 6.8.5) प्रजापतिर् वै हिङ्कारस् त्रयो बहिष्पवमान्यो यद् धिङ्कृत्य प्रस्तौति मिथुनम् एवास्या यज्ञमुखे दधाति प्रजननाय
(प्ब् 6.8.6) एष वै स्तोमस्य योगो यद् धिङ्कारो यद् धिङ्कृत्य प्रस्तौति युक्तेनैव स्तोमेन प्रस्तौति
(प्ब् 6.8.7) एष वै साम्नां रसो यद् धिङ्कारो यद् धिङ्कृत्य प्रस्तौति रसेनैवैता अभ्युद्य प्रस्तौति
(प्ब् 6.8.8) आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् बहिष्पवमानम् एकारूपाभिः स्तुवन्ति तस्माद् एकरूपा आरण्याः पशवः
(प्ब् 6.8.9) पराचीभिः स्तुवन्ति तस्मात् पराञ्चः प्रजायन्ते पराञ्चो वितिष्ठन्ते
(प्ब् 6.8.10) अपरिश्रिते स्तुवन्ति तस्माद् अपरिगृहीता आरण्याः पशवः
(प्ब् 6.8.11) बहिः स्तुवन्त्य् अन्तर् अनुशंसन्ति तस्माद् ग्रामम् आहृतैर् भुञ्जते
(प्ब् 6.8.12) ग्रामेभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् आज्यैर् नानारूपैः स्तुवन्ति तस्मान् नानारूपा ग्राम्याः पशवः
(प्ब् 6.8.13) पुनरभ्यावर्तं स्तुवन्ति तस्मात् प्रेत्वर्यः प्रेत्य पुनर् आयन्ति
(प्ब् 6.8.14) परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः पशवः
(प्ब् 6.8.15) अमुष्मै वा एतल् लोकाय स्तुवन्ति यद् बहिष्पवमानं सकृद् धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद् धीतो ऽसौ पराङ् लोकः
(प्ब् 6.8.16) अस्मै वा एतल् लोकाय स्तुवन्ति यद् आज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्माद् अयंल् लोकः पुनः-पुनः प्रजायते
(प्ब् 6.8.17) पराञ्चो वा एतेषां प्राणा बह्वन्तीत्य् आहुर् ये पराचीभिर् बहिष्पवमानीभिः स्तुवत इत्य् आवतीम् उत्तमां गायेत् प्राणानां धृत्यै
(प्ब् 6.8.18) च्यवन्ते वा एते ऽस्माल् लोकाद् इत्य् आहुर् ये पराचीभिर् बहिष्पवमानीभिः स्तुवत इति रथन्तरवर्णम् उत्तमां गायेद् इयं वै रथन्तरम् अस्याम् एव प्रतितिष्ठति
(प्ब् 6.9.1) उपास्मै गायत नर इति ग्रामकामायप्रतिपदं कुर्यात्
(प्ब् 6.9.2) नरो वै देवानां ग्रामो ग्रामम् एवास्मा उपाकः
(प्ब् 6.9.3) उप वा अन्नम्-अन्नम् एवास्मा उपाकः
(प्ब् 6.9.4) उपोषु जातम् अप्तुरम् इति प्रजाकामाय प्रतिपदं कुर्यात्
(प्ब् 6.9.5) उप वै प्रजा तां जातम् इत्य् एवाजीजनत्
(प्ब् 6.9.6) स नः पस्वस्य शं गव इति प्रतिपदं कुर्यात्
(प्ब् 6.9.7) यां समां महादेवः पशून् हन्यात् स नः पवस्व शं गव इति चतुष्पदे भेषजं करोति
(प्ब् 6.9.8) शं जनायेति द्विपदे शम् अर्वत इत्य् एकशफाय
(प्ब् 6.9.9) विषेण वै तां समाम् ओषधयो ऽक्ता भवन्ति यां समां महादेवः पशून् हन्ति यच् छं राजन्न् ओषधीभ्य इत्य् आहौषधीर् एवास्मै स्वदयत्य् उभय्यो ऽस्मै स्वदिताः पच्यन्ते ऽकृष्टपच्याश् च कृष्टपच्याश् च
(प्ब् 6.9.10) पवस्व वाचो अग्रिय इति प्रतिपदं कुर्याद् यं कामयेत समानानां शीरेष्ठः स्याद् इति
(प्ब् 6.9.11) पवस्व वाचो अग्रिय इत्य् अग्रम् एवैनं परिणयति
(प्ब् 6.9.12) श्रीर् वै वाचो ऽग्रं श्रियम् एवास्मिन् दधाति
(प्ब् 6.9.13) एते असृग्रम् इन्दव इति बहुभ्यः प्रतिपदं कुर्यात्
(प्ब् 6.9.14) एत इति सर्वान् एवैनान् ऋद्ध्यै भूत्या अभिवदति
(प्ब् 6.9.15) एत इति वै प्रजापतिर् देवान् असृजतासृग्रम् इति मनुष्यान् इन्दव इति पितॄंस् तिरः पवित्र इति ग्रहान् आशव इति स्तोत्रंव् विश्वानीति शस्त्रम् अभि सौभगेत्य् अन्याः प्रजाः
(प्ब् 6.9.16) यद् एत इति तस्माद् यावन्त एवाग्रे देवास् तावन्त इदानीम्
(प्ब् 6.9.17) सर्वान् वृद्धिम् आर्ध्नुवं स्थितेव ह्य् एषा व्याहृतिः
(प्ब् 6.9.18) यद् असृग्रम् इति तस्मान् मनुष्याः श्वः-श्वः सृज्यन्ते
(प्ब् 6.9.19) यद् इन्दव इतीन्दव इव हि पितरः
(प्ब् 6.9.20) मन इव
(प्ब् 6.9.21) यान्ताः प्रजाः सृष्टा ऋद्धिम् आर्ध्नुवंस् ताम् ऋध्नुवन्ति येषाम् एवंव् विद्वान् एतां प्रतिपदं करोति
(प्ब् 6.9.22) छन्दांसि वै सोमम् आहरंस् तं गन्धर्वो विश्वावसुः पर्यमुष्णात्. तेनापः प्राविशत् तं देवता अन्वैच्छंस् तं विष्णुर् अप्सु पर्यपश्यत् स व्यकाङ्क्षद् अयं नू3 ना3 इति तं पदा प्रास्फुरत् तस्मात् पृथग् इन्दवो ऽसृज्यन्त स देवताभ्यो ऽभितस् तिष्ठन्तीभ्य एते असृग्रम् इन्दव इति प्राब्रवीद् बहिष्पवमानेन वै यज्ञः सृज्यते यद् एते असृग्रम् इन्दव इति प्रस्तौति यज्ञम् एव तत् सृष्टं देवताभ्यः प्राह
(प्ब् 6.9.23) व्यृद्धं वा एतद् अपशव्यं यत् प्रातःसवनम् अनिडं हि यद् इडाम् अस्मभ्यं संयतम् इत्य् आह प्रातःसवनम् एव तद् इडावत् पशुमत् करोति
(प्ब् 6.9.24) दविद्यूतत्या रुचेति व्राताय प्रतिपदं कुर्यात्
(प्ब् 6.9.25) दविद्यूतत्या रेचेति वै गायत्र्या रूपं परिष्टोभन्त्येति त्रिष्टुभः कृपेत्य् अनुष्टुभः सोमाः शुक्रा गवाशिर इति जगत्याः सर्वेषां वा एषा च्छन्दसां रूपं च्छन्दांसीव खलु वै व्रतोपदेषा प्रतिपद् भवति स्वेनैवैनांस् तद् रूपेण समर्धयति
(प्ब् 6.9.26) वृद्धा वा एत इन्द्रियेण वीर्येण यद् व्रात इन्द्रियं वीर्यं छन्दांसीन्द्रियेणैवैनान् वीर्येण समर्धयति
(प्ब् 6.10.1) अग्न आयूंषि पवस इति प्रतिपदं कुर्याद् येषां दीक्षितानां प्रमीयते
(प्ब् 6.10.2) अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्य् एषाग्निपावमानी प्रतिपद् भवत्य् अग्निर् एवैनान् निष्टपति पवमानः पुनाति
(प्ब् 6.10.3) यद् आयूंषीत्य् आह य एव जीवन्ति तेष्व् आयुर् दधाति
(प्ब् 6.10.4) आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात्
(प्ब् 6.10.5) अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योग् आमयति प्राणापानौ मित्रावरुणौ प्राणापानाव् एवास्मिन् दधाति
(प्ब् 6.10.6) अपघ्नन् पवते मृधो ऽप सोमो अराव्ण इत्य् अनृतम् अभिशस्यमानाय प्रतिपदं कुर्यात्
(प्ब् 6.10.7) अरावाणो वा एते ये ऽनृतम् अभिशंसन्ति तान् एवास्माद् अपहन्ति
(प्ब् 6.10.8) गच्छन्न् इन्द्रस्य निष्कृतम् इति पूतम् एवैनं यज्ञियम् इन्द्रस्य निष्कृतं गमयति
(प्ब् 6.10.9) वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद् वृषा वै राजन्यो वृषाणम् एवैनं करोति
(प्ब् 6.10.10) मरुत्वते च मत्सर इति मरुतो वै देवानां विशो विशम् एवास्मा अनु नियुनक्त्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 6.10.11) विश्वा दधान ओजसेत्य् ओजसैवास्मै वीर्येण विशं पुरस्तात् परिगृह्णात्य् अनपक्रामुकास्माद् विड् भवति
(प्ब् 6.10.12) पवस्वेन्दो वृषासुत इति प्रतिपदं कुर्याद् यः कामयेत जने म ऋध्येतेति
(प्ब् 6.10.13) कृधी नो यशसो जन इति जनतायाम् एवास्मा ऋध्यते
(प्ब् 6.10.14) युवं हि स्थः स्वः पती इति द्वाभ्यां प्रतिपदं कुर्यात् समावद्भाजाव् एवैनौ यज्ञस्य करोत्य् उभौ यज्ञयशसेनार्पयति
(प्ब् 6.10.15) प्रास्य धारा अक्षरन्न् इति वृष्टिकामाय प्रतिपदं कुर्यात्
(प्ब् 6.10.16) प्रास्य धारा अक्षरन्न् इति दिवो वृष्टिं च्यावयति वृष्णः सुतस्यौजस इत्य् अन्तरिक्षात्
(प्ब् 6.10.17) देवां अनु प्रभूषत इत्य् अस्मिन् लोके प्रतिष्ठापयति
(प्ब् 6.10.18) ओजसा वा एतद् वीर्येण प्रदीयते यद् अप्रत्तं भवति यद् वृष्णः सुतस्यौजस इत्य् आहौजसैवास्मै वीर्येण दिवो वृष्टिं प्रयच्छति
(प्ब् 6.10.19) तया पवस्व धारया यया गाव इहागमञ् जन्यास उप् नो गृहम् इति प्रतिपदं कुर्याद् यः कामयेतोप मा जन्या गावो नमेयुर् विन्देत मे जन्या गा राष्ट्रम् इति यद् एषा प्रतिपद् भवत्य् उपैनं जन्या गावो नमन्ति विन्दते ऽस्य जन्या गा राष्ट्रम्
(प्ब् 7.1.1) इमे वै लोका गायत्रं त्र्यावृद् गेयं त्रयो हीमे लोका यत् त्र्यावृद् गायत्य् एभिर् एवैनं लोकैः संमिमीते
(प्ब् 7.1.2) द्विर् अवनर्देद् धिङ् कुर्यात् तृतीयम्
(प्ब् 7.1.3) यत् त्रिर् अवनर्दत्य् अति तद् गायत्रं रेचयति
(प्ब् 7.1.4) यो वै गायत्रेणाप्रतिहृतेनोद्गायत्य् अप्रतिष्ठानो भवति हिङ्कारो वै गायत्रस्य प्रतिहारः
(प्ब् 7.1.5) स मनसा ध्येयः प्रतिहृतेन गायत्रेणोद्गायति प्रतितिष्ठति
(प्ब् 7.1.6) यो वा एभ्यो लोकेभ्यो गायत्रं गायति नैभ्यो लोकेभ्य आवृश्च्यत इम एनं लोका ऊर्ज्जाभिसंवसते
(प्ब् 7.1.7) मन्द्रम् इवाग्र आददीताथ तारतरम् अथ तारतमं तद् एभ्यो लोकेभ्यो ऽगासीत्
(प्ब् 7.1.8) अनिरुक्तं गेयम् एतद् वै गायत्रस्य क्रूरं यन् निरुक्तं यद् अनिरुक्तं गायति क्रूरम् एवास्य परिवृणक्ति
(प्ब् 7.1.9) प्राणो गायत्रं न व्यवान्यात् प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति यदि न व्यवानिति सर्वम् आयुर् एति
(प्ब् 7.1.10) यदि व्यवान्यान् मध्य ऋचो व्यवान्यात् प्राणो वै गायत्रं प्राणः स्वरः प्राणम् एव तन् मध्यत आत्मन् दधाति स सर्वम् आयुर् एति
(प्ब् 7.1.11) इडां पशुकामाय निधनं कुर्यात् स्वः स्वर्गकामाय यशो ब्रह्मवर्चसकामायायुर् आमयाविने हंसीत्य् अभिचरते
(प्ब् 7.1.12) एते वै गायत्रस्य दोहाः
(प्ब् 7.1.13) ब्रह्मवर्चससी पशुमान् भवति य एवंव् वेद
(प्ब् 7.2.1) प्रजापतिर् देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत् ते ऽन्यो ऽन्यस्मा अग्राय नातिष्ठन्त तान् अब्रवीद् आजिम् अस्मिन्न् इतेति त आजिम् आयन् यद् आजिम् आयंस् तद् आज्यानाम् आज्यत्वम्
(प्ब् 7.2.2) स इन्द्रो ऽवेद् अग्निर् वा इदम् अग्र उज्ज्येष्यतीति सो ऽब्रवीद् यतरो नाव् इदम् अग्र उज्जयत् तन् नौ सहेति सो ऽग्निर् अग्र उदजयद् अथ मित्रावरुणाव् अथेन्द्रो ऽथैषैका होत्रानुज्जितासीत् स इन्द्रो ऽग्निम् अब्रवीद् यत् सहावोचावही यन् नौ तद् इति सैषैन्द्राग्न्य् अध्यर्धम् अग्ने स्तोत्रम् अध्यर्धम् इन्द्रस्य
(प्ब् 7.2.3) चत्वारि सन्ति षड् देवत्यानि
(प्ब् 7.2.4) षड्धा विहितो यज्ञो यावान् यज्ञस् तम् एवारभते
(प्ब् 7.2.5) सर्वाणि स्वाराण्य् आज्यानि तज् जामि नानादेवत्यैः स्तुवन्त्य् अजामितायै
(प्ब् 7.2.6) ग्राम्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् आज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मात् पराञ्चः प्राज्यन्ते प्रत्यञ्चः प्रजायन्ते तस्माद् उ प्रेत्य पुनर् आयन्ति
(प्ब् 7.3.1) एतावता वाव माध्यन्दिनं सवनं पुपुवे
(प्ब् 7.3.2) त्रिभिश् च च्छन्दोभिः पञ्चभिश् च सामभिः
(प्ब् 7.3.3) यन् माध्यन्दिनेन पवमानेन स्तुवन्ति माध्यन्दिनम् एव तत् सवनं पावयन्ति
(प्ब् 7.3.4) एतावन्ति वाव सर्वाणि सामानि यावन्ति माध्यन्दिने पवमाने
(प्ब् 7.3.5) गायत्रं निधनवद् अनिधनम् ऐडम्
(प्ब् 7.3.6) यन् माध्यन्दिनेन पवमानेन स्तुवन्ति सर्वैर् एव तत् सामभिः स्तुवन्ति
(प्ब् 7.3.7) आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रं यद् गायत्र्यां गायत्रेण स्तुवन्ति मुखत एव तत् प्राणान् दधति
(प्ब् 7.3.8) प्राणापाना वा एतानि च्छन्दांसि प्राणो गायत्री व्यानो बृहत्य् अपानस् त्रिष्टुब् यद् एतैश् छन्दोभिः स्तुवन्ति प्राणापानानाम् अविच्छेदाय
(प्ब् 7.3.9) इमे वै लोका एतानि च्छन्दांस्य् अयम् एव गायत्र्य् अयं मध्यमो बृहत्य् असाव् उत्तमस् त्रिष्टुब् यद् एतश् छन्दोभिः संहितैः स्तुवन्त्य् एषां लोकानाम् अविच्छेदाय
(प्ब् 7.3.10) यद् अन्यच् छन्दो ऽन्तरा व्यवेयाद् इमांल् लोकान् विच्छिन्द्यात्
(प्ब् 7.3.11) गायत्रेण स्तुत्वा निधनवता स्तुवन्तीयं वै गायत्र्य् अस्याम् एव तद् आयतनं क्रियते
(प्ब् 7.3.12) यद् अनिधनेनाग्रे स्तुयुर् अनायतनो यजमानः स्यात्
(प्ब् 7.3.13) निधनवता स्तुवन्ति वीर्यं वै गायत्री वीर्यं निधनं वीर्येणैव तद् वीर्यं समर्धयति
(प्ब् 7.3.14) ऐडेन बृहतीम् आरभन्ते
(प्ब् 7.3.15) पशवो वा इडा पशवो बृहती पशुष्व् एव तत् पशून् दधाति
(प्ब् 7.3.16) बृहत्यां भूयिष्ठानि सामानि भवन्ति
(प्ब् 7.3.17) तत्रापि त्रिणिधनम्
(प्ब् 7.3.18) अबलिष्ठ इव वा अयं मध्यमि लोकस् तस्यैव तद् आयतनं क्रियते
(प्ब् 7.3.19) त्रिणिधनं भवति त्रीणि सवनानां छिद्राणि तानि तेनापिधीयन्ते
(प्ब् 7.3.20) त्रिणिधनं भवति त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति
(प्ब् 7.3.21) त्रिणिधनं भवत्य् एतेन वै माध्यन्दिनं सवनं प्रतिष्ठितं यत् त्रिणिधनं यत् त्रिणिधनं न स्याद् अप्रतिष्ठितं माध्यन्दिनं सवनं स्यात्
(प्ब् 7.3.22) द्व्यक्षराणि निधनानि भवन्ति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्थापयति
(प्ब् 7.3.23) अनिधनम् अन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय
(प्ब् 7.3.24) यन् निधनवत् स्याद् यजमानं स्वर्गाल् लोकान् निर्हन्यात्
(प्ब् 7.3.25) स्वारं भवति
(प्ब् 7.3.26) स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते स्वरेणैव तद् देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रयच्छति
(प्ब् 7.3.27) गायत्रं पुरस्ताद् भवति स्वारम् अन्ततः
(प्ब् 7.3.28) प्राणो वै गायत्रं प्राणः स्वरः प्राणान् एवतद् उभयतो दधाति तस्माद् उभयतः प्राणाः पशवः
(प्ब् 7.3.29) यद् गायत्रं पुरस्ताद् भवति स्वारम् अन्ततः प्राणैर् एव प्रैत्य् अपाने प्रतितिष्ठति
(प्ब् 7.4.1) एतद् वै यज्ञस्य स्वर्ग्यं यन् माध्यन्दिनं सवनं माध्यन्दिनस्य पवमानः पवमानस्य बृहती यद् बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल् लोकस्यायतने दीयन्ते
(प्ब् 7.4.2) देवा वै च्छन्दांस्य् अब्रुवन् युष्माभिः स्वर्ग्यंल् लोकम् अयामेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवंस् त्रिष्टुभं प्रायुञ्जत तया न व्याप्नुवञ् जगतीं प्रायुञ्जत तया न व्याप्नुवन्न् अनुष्टुभं प्रायुञ्जत तयाल्पकादि न व्याप्नुवंस् त आसां दिशां रसान् प्रबृह्य चत्वार्य् अक्षराण्य् उपादधुः सा बृहत्य् अभवत् तयेमांल् लोकान् व्याप्नुवन्
(प्ब् 7.4.3) बृहती मर्या ययेमांल् लोकान् व्यापामेति तद् बृहत्या बृहत्त्वम्
(प्ब् 7.4.4) पशून् वा अस्यान्तान् उपादधुः पशवो वै बृहती यद् बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तद् आयतने दीयन्ते
(प्ब् 7.4.5) यन् न्व् इत्य् आहुर् अन्यानि च्छन्दांसि वर्षीयांसि कस्माद् बृहत्य् उच्यत एषा हीमांल् लोकान् व्याप्नोन् नान्यच् छन्दः किं चन यानि सप्त चतुरुत्तराणि च्छन्दांसि तानि बृहतीम् अभिसंपद्यन्ते तस्माद् बृहत्य् उच्यते
(प्ब् 7.4.6) यन् न्व् इत्य् आहुर् गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं कस्माद् बृहत्या मध्यन्दिने स्तुवन्तीति
(प्ब् 7.4.7) बहिष्पवमानेन वै देवा आदित्यं स्वर्गंल् लोकम् अहरन् स नाध्रियत तं बृहत्या मध्यन्दिने ऽस्तभ्नुवंस् तस्माद् बृहत्या मध्यन्दिनं स्तुवन्त्य् आदित्यं ह्य् एषा मध्यन्दिने दाधार
(प्ब् 7.4.8) यैर् उ कैश् च च्छन्दोभिर् मध्यन्दिने स्तुवन्ति तानि त्रिष्टुभम् अभि संपद्यन्ते तस्मात् त्रिष्टुभो नयन्ति माध्यन्दिनात् सवनात्
(प्ब् 7.5.1) प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स शोचन्न् अमहीयमानो ऽतिष्ठत् स एतद् आमहीयवम् अपश्यत् तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त यद् अमहीयन्त तस्माद् आमहीयवम्
(प्ब् 7.5.2) ता अस्मात् सृष्टा अपाक्रामंस् तासां दिवि सद् भूम्य् आदद इति प्राणान् आदत्त ता एनं प्राणेष्व् आत्तेषु पुनर् उपावर्तन्त ताभ्य उग्रं शर्म महि श्रव इति पुनः प्राणान् प्रायच्छत् ता अस्माद् उद् एवायोधंस् तासां स्तौष इति मन्यून् अवाशृणात् ततो वै तस्मै ताः श्रैष्ठ्यायातिष्ठन्त
(प्ब् 7.5.3) तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवंव् वेद
(प्ब् 7.5.4) प्रजानां च वा एषा सृष्टिः पापवसीयश् च विधृतिर् यद् आमहीयवम्
(प्ब् 7.5.5) विधृतिः पापवसीयसो भवति य एवंव् वेद
(प्ब् 7.5.6) देवा वै यशस्कामाः सत्त्रम् आसताग्निर् इन्द्रो वायुर् मखस् ते ऽब्रुव्स्न् यन् नो यश ऋच्छात् तन् नः सहासद् इति तेषा मखं यश आर्च्छत् तद् आदायापाक्रामत् तद् अस्य प्रासहादित्सन्त तं पर्ययतन्त स्वधनुः प्रतिष्ठाभ्यातिष्ठत् तस्य धनुरार्त्निर् ऊर्ध्वा पतित्वा शिरो ऽच्छिनत् स प्रवर्ग्यो ऽभवद् यज्ञो वै मखो यत् प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच् छिरः प्रतिदधति
(प्ब् 7.5.7) तद् देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहत
(प्ब् 7.5.8) तद् वै स पशुवीर्यं प्राबृहत पशवो वै रौरवम्
(प्ब् 7.5.9) पशुमान् भवति य एवंव् वेद
(प्ब् 7.5.10) अग्निर् वै रूरस् तस्यैतद् रौरवम्
(प्ब् 7.5.11) असुरा वै देवान् पर्ययतन्त तत एताव् अग्नी रूरौ विष्वञ्चौ स्तोभाव् अपश्यत् ताभ्याम् एनान् प्रत्यौषत् ते प्रत्युष्यमाणा अरवन्त यद् अरवन्त तस्माद् रौरवम्
(प्ब् 7.5.12) अथेन्द्रो यौधाजयं प्राबृहत तद् वै स वज्रं प्राबृहत वज्रो वै यौधाजयम्
(प्ब् 7.5.13) वज्रं भ्रातृव्याय प्रहरति य एवंव् वेद
(प्ब् 7.5.14) इन्द्रो वै युधाजित् तस्यैतद् यौधाजयम्
(प्ब् 7.5.15) युधा मर्या अजैष्मेति तस्माद् यौधाजयम्
(प्ब् 7.5.16) अथ वायुर् औशनं प्राबृहत
(प्ब् 7.5.17) तद् वै स प्राण्वीर्यं प्राबृहत प्राणा वा औशनम्
(प्ब् 7.5.18) सर्वम् आयुर् एति य एवंव् वेद
(प्ब् 7.5.19) वायुर् वा उशनंस् तस्यैतद् औशनम्
(प्ब् 7.5.20) उशना वै काव्यो ऽसुराणां पुरोहित आसीत् तं देवाः कामदुघाभिर् अपामन्त्रयन्त तस्मा एतान्य् औशनानि प्रायच्छन् कामदुघा वा औशनानि
(प्ब् 7.5.21) कामदुघा एनम् उपतिष्ठन्ते य एवंव् वेद
(प्ब् 7.6.1) प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स तूष्णीं मनसाध्यायत् तस्य यन् मनस्य् आसीत् तद् बृहत् समभवत्
(प्ब् 7.6.2) स आदधीत गर्भो वै मे ऽयम् अन्तर्हितस् तंव् वाचा प्रजनया इति
(प्ब् 7.6.3) स वाचं व्यसृजत सा वाग् रथन्तरम् अन्वपद्यत
(प्ब् 7.6.4) रथम् अर्याः क्षेप्लातारीद् इति तद् रथन्तरस्य रथन्तरत्वम्
(प्ब् 7.6.5) ततो बृहद् अनु प्राजायत बृहन् मर्या इदं स ज्योग् अन्तरभूद् इति तद् बृहतो बृहत्त्वम्
(प्ब् 7.6.6) यथा वै पुत्रो ज्येष्ठ एवं बृहत् प्रजापतेः
मूल पाठ: Pañcaviṃśabrāhmaṇa · Data entry Martin Kümmel Arlo Griffiths Masato Kobayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0