भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चसायक · अध्याय 3

3.1

इति श्रीकविशेखरज्योतीश्वरविरचिते पञ्चसायके द्वितीयः सायकः ।
अथ तृतीयः सायकः ।
देहदौर्गन्ध्यहरणयोगाः ।
प्रागङ्गरागः पुरुषेण कार्यः स्रिया च सम्भोगसुखाय गात्रे ।
तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि

3.2

हरीतकीलोध्रमरिष्टपत्रं सप्तच्छदो दाडिमकल्कलं च ।
एषो ऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः

3.3

हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः ।
स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनं च

3.4

हरीतईश्रीफलमुस्तयुक्तैर्बिम्बीफलैः पूतकरञ्जबीजैः ।
कक्षादिदौर्गन्ध्यमतिप्रभूतं विनाशयत्याशु हठेन योगः

3.5

(सचन्दनोशीरकबिल्वपत्रैः कोलाक्षमज्जागुरुनागपुष्पैः ।
लिप्त्वा शरीरं प्रमदा जवेन चिरप्ररूढं विनिहन्ति गन्धम्

3.6

सकेसरोशीरशिरीषलोघ्रैश्चूर्णीकृतैरङ्गविलेपनेन ।
ग्रीष्मे नराणां कदाचिदेव घर्मस्रुतिः स्यादिति भोजराजः

3.7

महापरिमलं तैलम् ।
आदौ बिल्वदलं ततो मरुवकं पुष्पाण्यशोकस्य तु प्रत्यादित्यमजस्रमेव तिलजे तैले घटे निःक्षिपेत् ।
केतक्यां कुसुमानि चेह मुहुशः शेषे क्षिपेदादराद् इत्थं कार्यमिदं महापरिमलं तैलं नरैः सिद्धये

3.8

स्नानीयसुगन्धिनिरूपणम् ।
स्वर्णाम्बुदोशीरमिशीयुतानां पथ्यान्वितानां च विलेपनेन ।
स्नात्वा नरः सौरभमेव मासाच्चैकण्यमाप्नोति शिरोरुहाणाम्

3.9

पथ्यारसालामलकीफलानां सजम्बुजीमूतदलामयानाम् ।
मांसीयुतानां परिलेपनेन स्नायान्नरः सौरभकान्तिवृद्ध्यै

3.10

देहसौरभ्यकरा योगाः ।
हरीतकीतोयदतुल्यभागौ वनेचरस्यापि चतुर्थभागः ।
तदर्थभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः

3.11

एलाशटीपत्रकचन्दनानि तोयाभयाचन्द्रघनामयानि ।
सुसौरभो ऽयं सुरराजयोग्यः ख्यातः सुगन्धो नरमोहनार्थः

3.12

ऐणेयकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा ।
लेपः प्रियो ऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रवर्यैः

3.13

उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा ।
एतानि गात्रेषु विलासिनीनां श्रीखण्डतुल्यं प्रथयन्ति गन्धम्

3.14

सर्वोत्तमसुगन्धयोगाः ।
जातीकर्कटरक्तचन्दनघनश्रीवासशैलेयकं कस्तूरीकनकामतङ्गकुसुमैः स्थौणेयकैः संयुतम् ।
एतानीन्दुयुतानि पर्णजरसैः पिष्टो ऽङ्गरागः शुभः कार्यो गन्धकलाकलापकुशलैः क्षोणीन्द्रयोग्यः सदा

3.15

पथ्या भागचतुष्टयं जलमुचो भागैकमात्रं मतं व्याधेर्भागचतुष्टयं च शशिनण स्थौणेयभागद्वयम् ।
भागाः पञ्च शिलोद्भवस्य कथिता भागो नखस्यापि च कस्तूरीदलसञ्ज्ञकं निगदितं सौरभ्यविज्ञैरिदम्

3.16

पथ्याभागचतुष्टयं जलमुचो भागैकमात्रं सदा श्रीखण्डागुरुजातिकामृगमदस्योक्ताश्च भागास्त्रयः ।
मांसीपद्मतुषारवालकसमैः सम्यक्तया पेषितः सर्वैरेभिरिहोत्तमः प्रकथितः सौरभ्यगर्भाभिधः

3.17

मुखवासयोगाः ।
रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च ।
स्थितो मुखान्तः पुरुषस्य रात्रौ करोति सौरभ्यसुखं मुखस्य

3.18

गुडत्वगेलानखजातिकाह्वैः स्वर्णान्वितैः क्षुद्रवटी विधेया ।
ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम्

3.19

यः कुष्ठचूर्णं मधुना घृतेन पीकाक्षबीजान्वितमत्ति नित्यम् ।
मासैकमात्रेण मुखं तदीयं गन्धायते केतकिपुष्पतुल्यम्

3.20

वाजीकरणसमुद्देशः ।
बलेन नारी परितोषमेति न हीनवीर्यस्य कदा ऽपि सौख्यम् ।
अतो बलार्थं रतिलम्पटस्य बीजाभिवृद्धिं प्रथमं विदध्यात्

3.21

चूर्णं विदार्याः स्वरसेन तस्याः सुभावितं भास्कररश्मिजालैः ।
मध्वाज्यसम्मिश्रितमाशु लीढ्वा दश स्त्रियो गच्छति निर्विशङ्कः

3.22

भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम् ।
सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति

3.23

शतावरीगोक्षुरवानरीणां गोरक्षामातङ्गबलाबलानाम् ।
क्षीरेण चूर्णानि निपीय रात्रौ मथ्नाति दर्पं तरुणीजनस्य

3.24

यो वर्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य ।
घृतेन सिद्धं सह सैन्धवेन महाबलः स्यादुपभुज्य नूनम्

3.25

शतावरीगर्भमिदं ससर्पिः पचेत्पयोभिर्दशभागयुक्तैः ।
सितोपलाभ्यां मधुसम्प्रयुक्तं नास्माद्द्वितीयं भुवि दृष्टमन्यत्

3.26

सितपिकतरुबीजं तण्डुलाः षष्टिकानां सघृतमधुसमेतं प्रत्यहं यो ऽवलेढि ।
जठरकुहरमध्ये याति यावन्न पाकं रमयति कृशदेहो ऽप्यङ्गनानां समूहम्

3.27

मांसीं विदारीं च तथोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् ।
पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम्

3.28

लघुशाल्मलिमूलेन तालमूलीं सुचूर्णिताम् ।
सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत्

3.29

वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत् ।
एतत्प्रयोगात्सप्ताहाज्जायते रेतसो ऽम्बुधिः

3.30

योनिगाढीकरणसमुद्देशः ।
प्रौढाङ्गनाया नवसूतिकायाः श्लथं वराङ्गं न सुखाय यूनाम् ।
तस्मान्नरैर्भेषजतो विधेया गाढक्रिया मन्मथमन्दिरस्य

3.31

निशाद्वयं पङ्कजकेसरं च निष्पिष्य देवद्रुतमतुल्यभागम् ।
अनेन लिप्तं मदनातपत्रं प्रयाति सङ्कोचमलं युवत्याः

3.32

सधातुकीपुष्पफलत्रिकेण जम्बुत्वचा सारघसंयुतेन ।
लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धा ऽपि कन्येव भवत्पुरन्ध्री

3.33

पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ती ।
हठेन गाढं लभते वराङ्गं दृष्टो नरैरेष सदैव योगः

3.34

या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री कुसुमेषुवेश्म ।
आह स्म तस्याः कठिनं च गाढं भवेच्च नात्रास्ति विकल्पशङ्का

3.35

इन्दीवरव्याधिवचाकणानां तुरङ्गगन्धायुगयामिनीणाम् ।
लेपेन नार्याः स्मरवेश्मरन्ध्रं सङ्कोचयत्याशु हठेन योगः

3.36

मदनकघनसारैः क्षौद्रतुल्यैर्वराङ्गं शिथिलितमपि यस्याः पूरितं भूय एव ।
भवति कठिनमुच्चैः कर्कशं कामिनीनाम् इति निगदति योगं रन्तिदेवो नरेन्द्रः

3.37

द्रावणसमुद्देशः ।
यद्यप्यष्टगुणाधिको निगदितः कामो ऽङ्गनानां सदा नो याति द्रवतां तथा ऽपि झटिति व्यायामिनां सङ्गमे ।
तस्माद्भेषजसम्प्रयोगविधिना सङ्क्षेपतो द्रावणं किञ्चित्पल्लवयामि पङ्कजदृशां प्रत्यायकं कामिनोः

3.38

सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे ।
क्षिप्तानि वै सा पुरुषप्रसङ्गात्प्रागेव रेतःस्रुतिमातनोति

3.39

घोषारजः क्षौद्रसमन्वितं तु क्षिप्तं यदीये स्मरयन्त्रगेहे ।
द्रुता भवेत्सा हठतो हि नारी दृष्टः सदा ऽयं किल योगराजः

3.40

अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसम्मिश्रितटङ्कणेन ।
लिप्त्वा ध्वजं यो रमते ऽङ्गनां यां सा शुक्रमावर्षति शीघ्रमेव

3.41

सरोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम् ।
लेपेन लिङ्गस्य करोति रेतःस्रुतिं विपक्षप्रमदाजनस्य

3.42

तुषजलपरिमिश्रैर्बीजपूरस्य मूलैर् दिवसकरमयूखैर्मर्दितैः कामवेश्म ।
द्रवति झटिति लिप्तं भेषजस्यास्य योगाद् इति वदति नरेन्द्रो रन्तिदेवः कवीन्द्रः

3.43

लिङ्गस्थूलीकरणसमुद्देशः ।
सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम् ।
तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुशलत्वमेति

3.44

सरोध्रकाशीशतुरङ्गगन्धामातङ्गगन्धापरिपाचितेन ।
तैलेन वृद्धिं खलु यान्ति शीघ्रं वराङ्गकर्णस्तनमेहनानि

3.45

अथ ध्वजदृढीकरणसमुद्देशः ।
हयारिपत्रं नवनीतपिष्टं वचाबलानागबलामयैश्च ।
लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत्

3.46

अथ वीर्यस्तम्भनसमुद्देशः ।
क्षीरेण बस्तस्य च बद्धमूलं लज्जालुमूलं स्वयमेव पिष्ट्वा ।
यस्तु स्वपादौ परिलिप्य शेते रेतो न तस्य स्रवते कदाचित्

3.47

श्वेतेषुपुङ्खाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य ।
करञ्जबीजोदरमध्यगानि बध्नन्ति वीर्यं वदने धृतानि

3.48

श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम् ।
कुमारिकाकर्तितसूत्रकेण बद्धं न यात्याशु मनोजजीरम्

3.49

आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेशरं च ।
क्षौद्रेन पिष्ट्वा परिलिप्तनाभेः स्तम्भं प्रयात्याशु नरस्य बीजम्

3.50

अथ वशीकरणतिलकसमुद्देशः ।
मञ्जिष्ठतोयदवचासितभानुमूलैः स्वीयाङ्गशोणितयुतैः समकुष्ठकैश्च ।
कृत्वा ललाटफलके तिलकं कृतज्ञो लोकत्रयं वशयति क्षणमात्रकेण

3.51

अथ वशीकरणाञ्जनसमुद्देशः ।
देवीमहोत्सवदिने किल कज्जलं यत् सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे ।
निष्पातितं नरवरेण निशि श्मशाने तन्नेत्रगं भुवनमेव वशं करोति

3.52

अथ वशीकरणचूर्णसमुद्देशः ।
कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं मूलं तथा तगरजं सितकाकजङ्घा ।
यस्याः शिरोगतमिदं विहितं तु चूर्णं दासीभवेज्झटिति सा तरुणी न चित्रम्

3.53

अथ वशीकरणलेपनसमुद्देशः ।
सव्येन पाणिकमलेन रतावसाने यो रेतसा निजभवेन विलासदक्षः ।
वामं विलिम्पति पदं सहसैव यस्यास् तस्यैव सा भवति नात्र विकल्पभावः

3.54

सम्भोगशेषसमये निजकान्तमेढ्रं या कामिनी स्पृशति वामपदाम्बुजेन ।
तस्याः पतिः सपदि विन्दति दासभावं गोणीसुतेन कथितः किल यागराजः

3.55

सिन्धूत्थमाक्षिककपोतमलानि पिष्ट्वा लिङ्गं विलिप्य तरुणीं रमते नरो यः ।
सा ऽन्यं प्रयाति पुरुषं न कदा ऽपि कामं दासीभवेदतिमनोहरदिव्यमूर्तिः

3.56

भल्लूकमेढ्रघनसारमधूनि पिष्ट्वा लिप्तध्वजो निधुवनं विदधीत यस्याः ।
सा ऽ ऽह्लादिनी कुसुमसायकसन्नताङ्गी वश्या भवेच्चिरतरं न हि संशयो ऽत्र

3.57

गोरोचनाशिशिरदीधितिशम्भुबीजकाश्मीरचन्दनयुतैः कनकद्रवेण ।
लिप्तध्वजः परिरमत्यबलां नरो यस् तस्याः स एव हृदये मुकुटत्वमेति

3.58

अथ वशीकरणधूपसमुद्देशः ।
शृङ्गीवचायुवतिसर्जरसं समानं कृत्वा त्रुटिं मलयजं च षडेव मिश्रम् ।
यो धूपयेन्निजगृहं वसनं शरीरं तस्यापि दास इव मोहमुपैति लोकः

3.59

अथ वशीकरणमन्त्रसमुद्देशः ।
मदमदपदमादौ मादयेति द्विवारं तदनु च लिखनीयं सौख्यदं ह्रीं च तस्मात् ।
अथ च पदमुपान्ते नामरूपादिसञ्ज्ञो भवति मदनमन्त्रः स्वाहया संयुतो ऽयम्

3.60

ऽओं मद मद मादय मादय ह्रीं अमुकीं वशमानय स्वाहाऽ
शतशतपरिजापात् स्यादयं सिद्धिदाता दशदशकुसुमानां लोहितानां च होमात् ।
इह तु सकलकार्यं वामहस्तेन कार्यम् उपदिशति समासाज्ज्योतिरीशः स्वरूपम्

3.61

अस्य मन्त्रस्य दशसहस्त्रसङ्ख्याकोन्मितो जपः, रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः । सर्वं वामहस्तेन कर्तव्यम् । अथ ध्यानम्
कनकरुचिरमूर्तिः कुण्डलाकृष्टचापो युवतिहृदयमध्ये निश्चलारोपिताक्षः ।
इति मनसि मनोजं ध्याययेद्यो जपस्थो वशयति स समस्तं भूतलं मन्त्रशक्त्या

3.62

अथ चामुण्डमन्त्रः ।
चामुण्डे प्रथमं जयेति कथितं सम्बोधनं मोहय ज्ञातव्यं वशमानयेति च पदं साध्यं द्वितीयायुतम् ।
स्वाहान्तः प्रणवादिरेष प्रथितस्तन्त्रे महामोहनः सन्मन्त्रः कविशेखरेण कथितो नास्माद्द्वितीयो भुवि

3.63

ऽओं चामुण्डे जय चामुण्डे मोहय अमुकीं वशमानय स्वाहाऽ इति मन्त्रः । अस्य मन्त्रस्य जप एकलक्षमितः, पलाशकुसुमैर्होमः दशांशं, सर्वं वामहस्तेन कर्तव्यम् । अथ चामुण्डाया ध्यानम्-
दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारे स्थिता खट्वाङ्गासिनिगूढदक्षिणकरा वामे सपाशं शिरः ।
श्यामा पिङ्गलमूर्धजा भयकरी शार्दूलचर्माम्बरा चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः

3.64

अथ विश्वेश्वरीमन्त्रः ।
ओङ्कारः प्रथमं नमो नम इति प्रोक्तं च तस्मात्पदं चामुण्डे परिकीर्तितं हिलि हिलि ज्ञेया च सञ्ज्ञा ततः ।
ज्ञातव्यं तु समानयेति च पदं सन्मन्त्रिणां सम्मतो मन्त्रो ऽयं कविशेखरेण कथितः ख्यातः सदा सिद्धिदः

3.65

ऽओं नमो नमश्चामुण्डे हिली हिलि अमुकीं वशमानय स्वाहाऽ
अस्य मन्त्रस्य जप एकलक्षपरिमितः, तद्दशांशः पलाशकुसुमैर्होमः करणीयः, सर्वं वामहस्तेन कर्तव्यम् ॥
अथविश्वेश्वरीध्यानम् ।
वज्रासक्तशरासना त्रिनयना सव्येतरेणाङ्कुशं वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा ।
व्यामुक्तोरुकचा करालवदना वह्निप्रभा मध्यगा ध्येया जापविधौ नरैरिति सदा विश्वेश्वरी सिद्धये

3.66

अथ पद्मिनीवशीकरणमन्त्रः ।
ऽओं कामेश्वर ! मोहय स्वाहाऽ इति मन्त्रः । अनेन मन्त्रेण मधुमिश्रितजातिकुसुमसहितं ताम्बूलमादित्यदिने सहस्रवारमभिमन्त्रितं पद्मिन्यै दातव्यम् । पद्मिनी वश्या भवति ॥
अथ चित्रिणीवशीकरणमन्त्रः ।
ऽओं पच पच ओं विहङ्गम विहङ्गम ओं कामदेवाय स्वाहाऽ इति मन्त्रः । अनेन मन्त्रेण रम्भामूलजलभावितजातीफलमिलितताम्बूलमादित्यदिने पञ्चशतवारमभिमन्त्रितं चित्रिण्यै दातव्यम् । चित्रिणी वश्या भवति ॥
अथ शङ्खिनीवशीकरणमन्त्रः ।
ऽओं हर हर ओं पच पच कामदेवाय स्वाहाऽ इति मन्त्रः । अनेन मन्त्रेण तरगमूलं श्रीफलञ्चादित्यवारे अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै दातव्यम् । सा वश्या भवति ॥
अथ हस्तिनीवशीकरणमन्त्रः ।
ऽओं चिरि चिरि वशं कुरु कामदेवाय स्वाहाऽ इति मन्त्रः । अनेन मन्त्रेण आदित्यदिने क्षौद्राक्तौ कपोतभ्रमरपक्षौ ताम्बूलदले विन्यस्य अष्टोत्तरशतमभिमन्त्रितं कृत्वा हस्तिन्यै देयम् । हस्तिनी वश्या भवति ॥
अथ अनिच्छाहरणोपायनिरूपणम् ।
क्षीरोदनं द्विजवराय पुरा प्रदद्यात् पुष्योद्धृतं सितबलाचरणं कुमार्या ।
पिष्टं प्रदत्तमिति वैरकृतामनिच्छां निःसारयेदिह मुहुर्विदितप्रभावः

3.67

अथ स्तनोत्थापनसमुद्देशः ।
मातङ्गकृष्णामयवाजिगन्धा वचायुताः पर्युषिताम्बुमिश्राः ।
हयारिपत्रीनवनीतयोगात् कुर्वन्ति पीनं कुचकुम्भयुग्मम्

3.68

वसा भुजङ्गस्य हयारिपत्रं कोलस्य मेदः समभागयुक्ताः ।
वक्षोजकुम्भं मदिरायताक्ष्याः कुर्वन्ति पीनं सकलं हठेन

3.69

तैलं हठाद्दाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम् ।
नारीस्तनौ चारुतरौ सुपीनौ कुर्यादसौ योगवरः सदैव

3.70

श्रीपर्णिकाया रसकल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम् ।
प्लोतेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितो ऽपि नार्याः

3.71

योनिसंस्कारसमुद्देशः ।
प्रक्षालयेन्निम्बकषायनीरैर्निशाज्यकृष्णागुरुगुग्गुलूनाम् ।
धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः

3.72

जातीप्रसूनैः सितसर्षपस्य तैलं पचेल्लघ्वनले प्रकामम् ।
अभ्यङ्गयोगेन सदैव योनौ सौभाग्यमाप्नोति रते पुरन्ध्री

3.73

अथ रोमशातनसमुद्देशः ।
भुजङ्गचूर्णं कटुतैलमध्ये सप्ताहमादित्यकरे निधेयम् ।
तत्तैलयोगेन विलासिनीनां नश्यन्ति रोमाणि समूलमेव

3.74

पलाशभस्मान्विततालचूर्णैः रम्भाम्बुमिश्रैरुपलिप्य भूयः ।
कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव

3.75

रम्भाजले सप्तदिनं विभाव्य भस्मेह कम्बोर्मसृणं च पश्चात् ।
तालेन युक्तं च विलेपनेन रोमाणि निर्मूलयति क्षणेन

3.76

अथ पुष्पजननसमुद्देशः ।
ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमेन पिष्टम् ।
गृहाम्बुना पीतमिदं युवत्या करोति पुष्पं स्मरमन्दिरस्य

3.77

अथ गर्भसाधारणसमुद्देशः ।
तुरङ्गगन्धाश्रुतवारिसिद्धमाजं पयः स्नानदिने निपीय ।
प्राप्नोति गर्भं नियमं चरन्ती वन्ध्या ऽपि नूनं पुरुषप्रसङ्गात्

3.78

पुष्योद्धृतं लाक्ष्मणमेव मूलं भर्त्रा निपिष्टं सघृतं च पीतम् ।
क्षीरौदनं प्राश्य पतिप्रसङ्गाद्गर्भं विधत्ते तरुणी न चित्रम्

3.79

या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषा विमिश्रम् ।
ऋतौ निपीय स्वपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते

3.80

अथ गर्भसंस्थापनसमुद्देशः ।
कशेरुशृङ्गाटकजीवनाख्यपयोधरैरण्डशतावरीभिः ।
सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम्

3.81

अथ सुखप्रसवसमुद्देशः । अथ सुखप्रसवमन्त्रः -
ओं इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि ।
उच्चैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते

3.82

ओं इदमममृतमपां समुद्धृतं वै तव लघु गर्भमिमं विमुञ्चतु स्त्रि ।
तदनलपवनार्कवासरास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम्

3.83

ओं मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः ।
मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिर स्वाहा

3.84

एभिर्जलं च्यावनमन्त्रराजैर्जप्त्वा प्रदेयं किल गर्भवत्यै ।
सद्यः प्रसूते नवमूढगर्भा योगो ऽयमात्रेयमुनिप्रदिष्टः

3.85

एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् ।
"ओं मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं मुञ्च मुञ्च लघु स्वाहा" इति मन्त्रः । अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् । सुखात् प्रसवो भवति ॥
अथ वन्ध्याकरणसमुद्देशः ।
पलाशक्षीरिद्रुमयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य ।
मद्येन मासार्धदिनं निपीय वन्ध्या भवेन्निश्चितमेव नारी

3.86

फलं कदम्बस्य च माक्षिकं हि तुषोदकेन त्रिदिनं निपीय ।
स्नानावसाने नियमेन चापि वन्ध्यामवश्यं कुरुते हठेन

3.87

कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिवारा ।
ऋतौ निपीतं मृगशावकाक्ष्या वन्ध्यात्वमेतन्नियतं करोति

3.88

अथ केशसंस्कारसमुद्देशः ।
तिलप्रसूनं सह गोक्षुरेण ससारघं गव्यघृतेन पिष्टम् ।
सप्ताहमात्रेण शिरःप्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः

3.89

कर्षार्धमात्रं प्रसवं फलेन निम्बस्य तैलं नियमेन पीतम् ।
क्रमेण कुन्देन्दुतुषारगौरं शिरोरुहं मेचकतामुपैति

3.90

अथ इन्द्रलुप्तसमुद्देशः ।
गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य केशप्रदेशे सकलेन्द्रलुप्तम् ।
अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः

मूल पाठ: Pañcasāyaka · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc