भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चसायक · अध्याय 4

4.1

इति श्रीकविशेखरज्योतिरीशविरचिते पञ्चसायके तृतीयः सायकः ।
अथ चतुर्थः सायकः ।
अथ कन्यालक्षणसमुद्देशः ।
प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते विद्याधैर्यविवेकशौर्यविभवश्लाघ्ये कुलीने कुले ।
कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा त्रैवर्गाश्रितशुद्धवंशनिलया सद्भिर्विवाह्या नरैः

4.2

अम्भोजास्या बहलनयना भूरिकेशप्रचारा तुल्या स्निग्धा सुसमदशना पद्मरागाधरौष्ठी ।
रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी मध्ये क्षीणा सुललितकरा दक्षिणावर्तनाभिः

4.3

पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका ।
इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमैर्या कन्या सद्भिश्चटुलचरिता सा विवाह्या गुणज्ञैः

4.4

अथ कन्यादूषणसमुद्देशः ।
खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घा ऽतिरोमाकुला कृष्णा सौकरलोचना पृथुगला कृष्णाधरा दन्तुरा ।
रुक्षाङ्गी विकटस्तनी च सबला बभ्रूरवीरात्मजा वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता

4.5

पुष्पक्ष्माधरवृक्षदेशतटिनीनक्षत्रसञ्ज्ञा च या हास्ये कूपयुगं कपोलयुगले यस्या भवेत् सत्वरम् ।
अङ्गुष्ठाधिकपर्वणी चरणयोर्यस्याश्च जाता ऽङ्गुलिः पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा

4.6

अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला कुष्ठिश्चित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका ।
निन्द्या पल्लवजिह्विका द्रुतगतिर्न्यूनाधिकाङ्गी पुनस् त्याज्या कामकलाकलापकुशलैः कन्या विवाहे सदा

4.7

अथ वरलक्षणसमुद्देशः ।
प्रख्यातो ऽमलवंशजो नववयाः शूरस्सुशीलश्च यः स्वाचारः स्थिरसौहृदो गुणनिधिर्नानाकुटुम्बी बली ।
अर्थी भोगरतो विशिष्टवचनो दाक्षिण्यधैर्याश्रयो जामाता जगतीतले कविवरैरेवंविधो वर्णितः

4.8

अथ वरदूषणसमुद्देशः ।
पापिष्ठो व्यसनी ऋणैरुपहतो द्यूतप्रियो भिक्षुको रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः ।
मूर्खो दुष्टकुलोद्भवश्च कृपणो वृद्धो ऽतिदीनः खलः कर्तव्यो न वरः कदा ऽपि पुरुषैरेवंविधो भूतले

4.9

अथ विवाहभेदसमुद्देशः ।
चातुर्वर्ण्यसमाहिता मुनिवरैरष्टौ विवाहाः स्त्रियो ब्राह्मो दैवतकस्ततो निगदितौ गान्धर्वपैशाचकौ ।
आर्षो राक्षसकस्तथा ऽ ऽसुर इति ख्यातो ऽपरश्चाष्टमः प्राजापत्यसमाभिधः पृथगमी प्रोक्ता मया नामतः

4.10

आर्षो दैवतकः प्रजापतिभवो ब्राह्मो द्विजानां मतो गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैरसौ ।
एकश्चासुरसञ्ज्ञको निगदितो वैश्यस्य शूद्रस्य च सङ्क्षेपादुपवर्णितं क्रमवशात्पौराणिकं लक्षणम्

4.11

विद्यावान् गुणपूजितः सुचरितः सद्वंशजातो मुनिः सौम्यो मानरतः सुशीलविनयो गेहागतः प्रार्थकः ।
कन्याया गृहनायकः सपुलकस्तस्मै ददात्यादराद् आर्षो गोयुगदक्षिणो निगदितस्तज्ज्ञैर्विवाहो वरः

4.12

ऋत्विग्भिः परिमण्डिते बहुविधे यज्ञोत्सवे चोत्तमे नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा ।
कन्या दक्षिणया द्विजाय विधिना यद्दीयते चादराद् दैवः सो ऽयमुदीरितः कविवरैरित्थं विवाहो वरः

4.13

कन्या बान्ध्वसन्निधौ सुललिता विप्रोत्तमायादराद् उक्त्वा- तुभ्यमियं मया स्वतनया दत्तेति हर्षान्वितौ ।
धर्मं सञ्चरतां यथासुखमुभौ दाम्पत्ययोगात्सदा प्राजापत्यकरग्रह कविवरैरेषः प्रमाणीकृतः

4.14

आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरैर् विद्याशीलविवेकवंशविनयाचारान्विताय स्वयम् ।
कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं ब्राह्मो ऽसौ मुनिपुङ्गवैर्निगदितः श्रेष्ठो विवाहो ऽपरः

4.15

कन्या यौवनशालिनी पतिममुं या स्वीकरोति स्वयं गान्धर्वः स हि कथ्यते भुजबलादाकृष्यते यत्पुनः ।
ज्ञेयो राक्षस एष पण्डितवरैश्चौर्याद्विवाहो ऽपरः पैशाचः कविशेखरेण कथितस्त्याज्यः सदा यत्नतः

4.16

आदाय प्रथमं वराद्बहुतरं शुल्कं यथाकाङ्क्षया वस्त्रालङ्कृतिवैभवेन तनयासन्तोषमुत्पाद्य च ।
पश्चाद्दुष्कुलसम्भवाय मलिनं कन्याप्रदानं वृथा प्रख्यातो ऽधमवंशजापरिणयस्तज्ज्ञैरसावासुरः

4.17

अथ परदारत्यागसमुद्देशः ।
अश्रद्धामुपहस्यतां मलिनतामर्थक्षयं लाघवं गर्हां ग्लानिमधोगतिं विकलतामायुःक्षतिं दुर्गतिम् ।
इत्थं ये परदारकर्मणि रता लोकत्रये निन्दिता विन्दन्ते परमापदः सुखधिया दुःखं नरास्ते सदा

4.18

पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो मैथिल्याहरणादवाप मरणं वालिश्च्युतो राज्यतः ।
पाञ्चालीप्रतिकाङ्क्षित्वेन निधनं भीमाद्गतः कीचकस् तस्मादन्यवधूर्नरैर्न मनसा ऽप्यालापनीया भुवि

4.19

अथ दूतीसमुद्देशः ।
चक्षुःप्रीतिरुदीरिता प्रथमतश्चित्तभ्रमः स्यात्ततः सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा ।
वैराग्यं विषयेषु कार्श्यमथ च व्रीडानिवृत्तिस्ततो ह्युन्मादो मरणं दश(नव) प्रकटिताः कन्दर्पचेष्टा इति

4.20

कामिन्या नवयौवने न मिलति स्वेच्छाविहारो नृणाम् उन्मादो मरणं तदा मनसिजव्यामोहतो जायते ।
तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना कामिभिर् गन्तव्येति वदन्ति काश्यपमुनिक्षेमेन्द्रवात्स्यायनाः

4.21

तारापीडसुतो विनाशमगमत्कादम्बरीकाङ्क्षया व्यामुक्तः किल पुण्डरीकमुनिरप्युच्चैर्महाश्वेतया ।
उर्वश्या च पुरूरवा नरपतिः सन्त्याजितो जीवितं तस्माज्जीवितरक्षणाय हि विनिर्गम्या परप्रेयसी

4.22

दासी वारवधूर्नटी च विधवा बाला च धात्री तथा कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी ।
मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषिताम् आलापे कविभिः सदैव मदनव्यापारलीलाविधौ

4.23

अथ सुखसाध्यासमुद्देशः ।
प्रौढा कान्तविमानिता बहुगुणा रम्या ऽनपत्या तथा रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पप्रिया गायिका ।
षण्ढोन्मत्तदरिद्रसेवकमहारोगार्तडिम्भाङ्गना नूनं सिद्ध्यति दूतिकानिगदिता रम्याभिसारोत्सवे

4.24

अथ कष्टसाध्यासमुद्देशः ।
एका वल्लभरक्षिता परजनालापे विरक्ता दृढा निःस्नेहा धनयौवने गुरुजनाद्भीता च लज्जावती ।
स्वस्था सुन्दरनायका पतिरता शिष्यादिकान्ता तथा दुःसाध्या कविशेखरेण रमणी प्रोक्ता रतिप्रार्थने

4.25

अथ त्याज्यस्त्रीसमुद्देशः ।
अज्ञाता द्विजवल्लभा गुरुवधूर्मित्राङ्गना रोगिणी चेटी प्रव्रजिता सती रिपुवधूः शिष्या च गर्भान्विता ।
भ्रूणघ्नी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा गन्तव्या न कदाचिदेव पुरुषैरेताः स्त्रियः कामिभिः

4.26

सुरतत्याज्यस्थानसमयसमुद्देशः ।
नद्यां देवगृहे चतुष्पथवटे शैलस्य सानौ जले गुर्वग्निद्विजसन्निधौ परगृहे दुर्गे श्मशाने वने ।
सन्ध्यायां दिवसे कदा ऽपि सुरतं पुम्भिर्विवेकान्वितैर् दृष्ट्वा धर्मविरोधसङ्कटमिति त्याज्यं सदा यत्नतः

4.27

अष्टम्यां हिमरश्मिशेखरतिथौ बाणे च पूर्णातिथौ भानोः सङ्क्रमणे व्रते च शरदि ग्रीष्मे क्षपायामपि ।
यातायातपरिश्रमे ज्वरगदे सम्भोगचेष्टां नरः कुर्यान्नैव कदाचिदेव सुकृतीत्याहुर्मुनीन्द्राः स्फुटम्

4.28

अथ सुरतयोग्यस्थानसमुद्देशः ।
स्फूर्ज्जद्दीपशिखोज्ज्वले सुललिते रम्योन्नते विस्तरे धूपोद्गारमनोहरे कुसुमस्रग्दामोपशोभान्विते ।
वीणातालरवाकुले मनसिजप्रस्तावनानन्दिते सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया

4.29

अथाभिलाषसमुद्देशः ।
उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
आलिङ्गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते

4.30

दोर्मूलं खलु दर्शयेत् स्तनयुगे वस्त्रं समालम्बते अङ्गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयो ऽभिलाषः सदा

4.31

अथालिङ्गनसमुद्देशः ।
माल्यापूरितकुन्तलः सुवसनः स्निग्धाङ्गरागोज्ज्वलो नानाभूषणसुन्दरः स्मरवशस्ताम्बूलपूर्णाननः ।
स्फूर्ज्जद्दीपमनोज्ञवासभवने शय्यातले नायको रागार्थं परिरम्भणं प्रथमतः कुर्यात्समं योषिता

4.32

वृक्षारूढकसञ्ज्ञकं प्रथमतस्तस्माल्लतावेष्टितं तस्माज्जाघनविद्धकावपि मतावूरूपगूढं पुनः ।
ज्ञातव्यं तिलतण्डुलं रसविदामालिङ्गनं योषितां क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम्

4.33

एकेन पादेन पदं स्वभर्तुरन्येन चाक्रम्य तदूरुभागम् ।
आपीड्य दोर्भ्यामपि कान्तपृष्ठं वृक्षाधिरूढं प्रवदन्ति तज्ज्ञाः

4.34

ऊर्ध्वं भुजाभ्यां सरलाङ्गयष्टी क्षोणीरुहं वल्लिरिवाधिरुद्य ।
नारी प्रियं चुम्बति निस्तरङ्गा भवेल्लतावेष्टितसञ्ज्ञकं तत्

4.35

श्रोणीतटे बाहुयुगेन कान्तमापीड्य मुक्ताम्बरकेशभारा ।
वक्त्रासवं स्वादयति प्रहृष्टा तज्ज्ञैः स्फुटं जाघनमेतदुक्तम्

4.36

सुखोपविष्टं पुरुषं पुरन्ध्री सम्मीलिताक्षं स्वकरप्रबन्धात् ।
आविध्यति प्रेमलसत्कुचाभ्यामालिङ्गनं विद्धकमेतदाहुः

4.37

कान्तो मनोजव्यथिताङ्गयष्ट्या आपीडयेदूरुयुगं युवत्याः ।
ऊरूपघातेन कविप्रवीरैरूरूपगूढं तदिदं प्रदिष्टम्

4.38

बाहूरुवक्षोजघनेन गाढमन्योन्यसंसक्तशरीरयष्ट्योः ।
आनन्दभावाद्यदुदीर्णभावमालिङ्गनं तत्तिलतण्डुलाख्यम्

4.39

गात्रोपरिष्ठादथ तल्पमध्ये संलीयते यन्मिथुनं शरीरे ।
कामातिरेकात् कृतपूर्णचेष्टमालिङ्गनं क्षीरजलं प्रदिष्टम्

4.40

अन्योन्यसंसक्तमुखं च बाहू नेत्रं ललाटं हृदयं कपोलम् ।
आनन्दभावश्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति

4.41

अथ चुम्बनसमुद्देशः ।
गण्डस्थलीमस्तकदन्तवासोग्रीवाकुचोरःस्तनचूचुकानि ।
आलिङ्गनानन्तरमेव यूनोः स्थानानि चुम्बस्य वदन्ति तज्ज्ञाः

4.42

कक्षायुगं चापि नितम्बिनीनां कन्दर्पगेहं च रतिप्रवीणाः ।
चुम्बन्ति कामं तरलायताक्ष्या देशस्य सात्म्येन सदैव लाटाः

4.43

कान्तो ऽङ्गनाया वदने स्वकीयं वक्त्रं समारोप्य बलेन यत्र ।
न चुम्बति क्रोधवशेन नारी स्याच्चुम्बनं तन्निमिताभिदानम्

4.44

पत्युर्मुखे स्वीयमुखं निवेश्य प्रेम्णा मनागञ्चति दन्तवासः ।
उच्चेन गृह्णात्यपि कम्पितोष्ठी प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात्

4.45

हस्तेन नेत्रं परिमील्य भर्तुः सम्मीलिताक्षी वदने स्वजिह्वाम् ।
निक्षिप्य च क्रीडति यत्र लोला ख्यातं रसज्ञैः खलु घृष्टसञ्ज्ञम्

4.46

हस्ताङ्गुलीसम्पुटकेन यत्र कान्तोष्ठमादाय रसज्ञया च ।
आस्वादयेन्निर्दशनं विनोदात् स्याच्चुम्बनं पीडितमेतदेव

4.47

कान्ताधरं स्वाधरसम्पुटेन पीत्वा मुहुः स्वादयति क्रमेण ।
नारी च तेनैव विधानकेन ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम्

4.48

ओष्ठेन कान्तोष्ठयुगं निपीय जिह्वां निधायाप्यथ तालुभागे ।
चुम्बोत्सवे नृत्यति यत्र नारी प्रोक्तं समौष्ठं मुनिभिः पुराणैः

4.49

अथ नखाघातसमुद्देशः ।
कक्षाकुचोरःस्थलकुक्षिनाभिश्रोणीललाटाङ्घ्रिकरेषु सद्यः ।
साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः सुव्यक्त एषः स्तनकन्धरादौ

4.50

सञ्ज्ञापकं मन्मथरागराशेरुक्तं मुनीन्द्रैश्छुरिताभिधानम् ।
वक्षोजकन्दर्पगृहाधरेषु देयं नवोढाप्रमदाजनानाम्

4.51

कण्डूयनेनैव शिरोरुहाणामस्योपयोगं परिकीर्तयन्ति ।
अर्धेन्दुशङ्काशमिदं नखज्ञैरर्धेन्दुसञ्ज्ञं कथितं समासात्

4.52

कक्षानितम्बस्तनपार्श्वकेषु दातव्यमेतत् करजं सदैव ।
अर्धेन्दुसञ्ज्ञद्वितयं प्रयुक्तं स्यान्मण्डलाख्यं मदनावतंसम्

4.53

ऊरूतटे कामगृहे नितम्बे प्रोचुर्मुनीन्द्रा विनियोगमस्य ।
समैश्च सर्वैर्नखरैः सुलग्नैस्तज्ज्ञैः किलोक्तं शशकप्लुताख्यम्

4.54

सीमन्तपार्श्वे हृधि चूचुकादावेतत् प्रयोज्यं सुरतप्रयोगे ।
सर्वैर्नखैर्वै स्तनमध्यभागे पश्चादधो ऽङ्गुष्ठभवा हि रेखा

4.55

व्यक्तीकृता रागकरी तदेतन्मयूरपदं समुदीरयन्ति ।
अलम्बमेवं स्फुरितार्धरेखं प्राहुः क्षतं पङ्कजपत्रसञ्ज्ञम्

4.56

दोर्मूलवक्षःस्थलनाभिसन्धावस्योपयोगं वदते महेशः ।
रेखायुगं गण्डयुगे प्रदत्तं स्तनान्तकक्षाजघनस्थलेषु ।
देशान्तरं गच्छति कामिनीनां संस्मारकं दर्दुरकं वदन्ति

4.57

पुंसः शरीरे युवतीकुचे वा क्षतं नखस्य प्रतिवीक्ष्य सद्यः ।
कन्दर्परागाकुलचित्तवृत्तिर्मुनेरपि स्यात् किमुतेतरस्य

4.58

सर्वस्वमेवास्ति मनोभवस्य प्रेम्णा प्रयुक्तं करजं रतज्ञैः ।
नास्माद्द्वितीयं भुवि रागबीजमित्याह शीतांशुकलाकिरीटः

4.59

अथ दशनघातसमुद्देशः ।
दन्तप्रकाराश्च नखप्रकारैर्ज्ञेयाः समा एव समैश्च सद्भिः ।
शीत्कारहुङ्कारविचेष्टिताद्याः प्रायो विशेषाः पुनरत्र कार्याः

4.60

श्लथा घनास्तीव्रमुखाः समाङ्गा रागस्पृशो निर्मलदीप्तिभाजः ।
दन्ता प्रदेया नखदानदेशे वक्त्रान्तराक्षिद्वितयं विहाय

4.61

दन्तौष्ठसंयोगवशेन गण्डे दन्तप्रकारः किल विद्रुमो ऽयम् ।
अभ्यासयोगाद्युवतीजनानां स्यान्नान्यथा क्वापि विनोदतस्तु

4.62

ऊरूस्थले कण्ठकपोलयुग्मे खण्डाभ्रकं मण्डलतुल्यरूपम् ।
संशोभते दन्तमिदं युवत्याः प्रायो मुनीन्द्राः समुदीरयन्ति

4.63

दीर्घा सुरक्ता क्षतकुञ्चिता च रेखा स्थले चूचुकयोः प्रदेया ।
विशेषकाले स्मरणे च तज्ज्ञैर्दन्तो ऽयमुक्तः किल कोलचर्चः(र्वः)

4.64

अथ केशाकर्षणसमुद्देशः ।
द्वाभ्यां कराभ्यां शिरसि प्रकामं कृष्ट्वा कचांश्चुम्बन्ति वल्लभश्चेत् ।
तदेव दिष्टं समहस्तसञ्ज्ञं स्यादेकहस्तेन तरङ्गरङ्गः

4.65

कर्णप्रदेशे च कचं निपीड्य प्रेम्णा पतिश्चुम्बति वल्लभास्यम् ।
अन्योन्यहस्तग्रहविस्तरेण कामावतंसं मुनयो वदन्ति

4.66

संवेष्ट्य सर्वाङ्गुलिभिः कचौघं यस्याः पतिर्धारयति स्मरार्ताम् ।
भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलाविधिज्ञैः

4.67

भव्या घना रौक्ष्यविवर्जिताश्च श्यामा विशाला बहुलाः कचाः स्युः ।
चुम्बप्रदानावसरे प्रकर्ष्या रागोदयार्थं तरुणीजनानाम्

4.68

इत्यादयो बाह्यरतप्रकाराः पूर्वं रतज्ञैः परिकल्पनीयाः ।
अन्ये ऽपि ये सन्ति बहुप्रभेदा नोक्ता मया विस्तरभीतितस्ते

मूल पाठ: Pañcasāyaka · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc