पञ्चसायक · अध्याय 2
इति कविशेखरश्रीज्योतिरीश्वरकविरचिते पञ्चसायके जात्यादिसमुद्देशो नाम प्रथमः सायकः ।
अथ द्वितीयः सायकः ।
रतभेदाः ।
आयामैः परिणाहकैश्च पुरुषाः लिङ्गैर्वराङ्गैः स्त्रियो ज्ञातव्याश्च रसगृहारुणसमाख्याताङ्गुलैः सर्वतः ।
जात्या ते ऽपि शशा वृषाश्च तुरगाः प्राज्ञैः स्मृतास्ता पुनर् मृग्यश्चा करिणीति विस्तरभयात्सङ्क्षिप्य निष्कृष्यते
शशकहरिणपत्न्योर्गोतुरङ्ग्योस्तथैव हयगजपतिनार्योरेकरूपं रतं स्यात् ।
इह भवति नितान्तं प्रीतिरन्योन्ययोगाद् अनुमरणशक्यं स्त्री कथं स्वीकरोति
मृगीवृषं चेद्वृषभीतुरङ्गमत्युच्चमेतद्द्वितयं वदन्ति ।
अश्वाशशं गोकरिणीसमुत्थं नीचद्वयं तुष्टिकरं न यूनोः
मृगीहयं हस्तिवधूशशं चेतत्युच्चनीचं सुरतं वदन्ति ।
प्रमाणभेदे ऽपि न द्रवन्ति तस्मिन्न तृप्यन्ति नितम्बवत्यः
प्रोक्तरतानामुत्तममध्यमाधमत्वम् ।
स्त्रीपुंसयोस्तुल्यरतं प्रशस्तं मध्यद्वयं मध्यममामनन्ति ।
अत्युच्चकं चाप्यतिनीचकं च निन्द्यं रतज्ञैः सुरतं प्रदिष्टम्
प्रीतिः समा स्यात्सुरते समाख्ये नीचद्वये योषित एव तुष्टिः ।
अत्युच्चके वा ऽप्यतिनीचके वा तुष्टिर्न पुंसां न च सुन्दरीणाम्
वेगभेदात्सुरतभेदाः ।
प्रचण्डवेगो ऽप्यथ मध्यवेगस्तथा ऽपरः स्याल्लघुनामधेयः ।
पुंसस्तरुण्या उभयोरपीह त्रिधा कवीन्द्राः सुरतं वदन्ति
इदानीं शशादीनां स्वरूपं निरूप्यते ।
दीर्घाक्षाः स्थूलदेहा लघुसमदशना लम्बकर्णा सुवाचो ग्रीवायां जानुदेशे करकमलतले कालिमानं वहन्तः ।
अल्पाहाराल्पशौचा दिनमधिशयिनः कान्तिमन्तो बलाढ्याः क्रीडावन्तो विनीता लघुतरसुरताः पुण्यभाजः शशाः स्युः
सुचारुकेशो मृदुवाक् सुवेशः सुदीर्घकण्ठश्चपलः सुनेत्रः ।
सुरक्तपाणिः समदन्तपङ्क्तिः सौभाग्ययुक्तः कथितो मृगो ऽयम्
स्फाराकाराः सदर्पाः सुरतरसकलालम्पटाः सुन्दराङ्गा व्यूढोरस्काः सुरूपाः सुसमजठरिणो मांसला लोलनेत्राः ।
अत्यन्तप्रौढवाचो ऽपरिलघुधृतयः क्रोधना मध्यवेगा उक्षाणो लिङ्गमीषद्विततनवमितैरङ्गुलीकैर्वहन्ति
कार्ये धृष्टा बलिष्ठाः सितशमदशनाः पीवरास्या वराक्षा ग्रीवाबाहूरुदीर्घाः परहितनिरताः सात्त्विकाः स्निग्धवाचः ।
निर्लज्जाश्चारुशीलाः पृथुतरगतयश्चण्डसम्भोगरक्ता अश्वा लिङ्गं वहन्तो युवतिजनमतं भानुसङ्ख्याङ्गुलीकम्
मृग्यादीनां स्वरूपनिरूपणम् ।
मृद्वङ्गी दीर्घनेत्रा वरबिसलतिकाकोमला दीर्घबाहुः शोणाम्भोजाभिरामं वहति करयुगं ह्रस्वमध्या सुकेशी ।
सुश्रोणीः कम्बुकण्ठी पृथुकुचयुगला या वहत्यङ्गुलीकैः षड्भिः कन्दर्पगेहं कथयति हरिणीं तामिह ज्योतिरीशः
व्यानिम्नोत्तुङ्गशीर्षा बहुतरकपिशस्थूलकेशप्रचारा चञ्चन्नीलाम्बुजाक्षी सुललितवदना तुङ्गवक्षोजभारा ।
गम्भीरावर्तनाभिर्वलिभिरुपगता श्रोणिभारालसाङ्गी सेयं रन्ध्राङ्गुलीकं वहति रतगुहारन्ध्रकं वै तुरङ्गी
स्थूलाङ्गी स्थूलगण्डा लघुतरनयना स्थूलनीलाल्पकेशा बिम्बौष्ठी पीनबाहुः कठिनगुरुकुचा हीनपर्वा ऽतिदुष्टा ।
निर्लज्जा रासभोक्तिस्तरलितवदना सर्वदा कष्टसाध्या निर्दिष्टा हस्तिनीयं वहति रविसमैरङ्गुलैर्गुह्यदेशम्
अथ स्त्रीणामवस्थाविशेषाः कथ्यन्ते ।
षोडशवर्षवयस्कां बालामित्यालपन्ति धीमन्तः ।
विंशात्तरुणीं त्रिंशात्प्रौढां पञ्चाशतो वृद्धाम्
बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवेद् आलोके सुखमातनोति तरुणी सम्भोगलीलाविधौ ।
आलोके ऽपि सुखायते सरभसं प्रौढा तमिस्रे ऽङ्गना वृद्धा जीवितहारिणी न कुरुते कुत्रापि सौख्यं मनाक्
अथ देशविशेषात् स्त्रीस्वरूपं निरूप्यते ।
रूक्षाङ्गी बहुवर्णिनी चलमतिर्गीतप्रिया चाटुला शैलाम्भोनिधिपार्श्वदेशवनिता प्रायो भवेदीदृशी ।
अम्भोदागमपुष्पमाससमये सेव्या पुनः प्रीणिता गुर्वाहारसुगन्धिमाल्यवसनस्निग्धाङ्गरागादिभिः
गूढग्रन्थिरहर्निशं हि सकले गात्रे वहप्यच्छताम् अम्भोजप्रसवारुणोत्तमकरा शीतालयप्रेयसी ।
सौराष्ट्री च कलिङ्गदेशयुवतिः कामं भवेत्पित्तला हेमन्ते शिशिरे नरैरविरतं सेव्या यथाकाङ्क्षया
ज्ञेया कोकिलकाकलीकलरवा मेदस्विनी शीतला निद्रालुश्च शिरीषकोमलतनुः स्निग्धानना श्लेष्मला ।
वङ्गश्रीहटकामरूपतरुणी शीतादिना शङ्किता गन्तव्या शरदि प्रकृष्टमदना ग्रीष्मे नरैरादृता
शुचिचरितविचित्रा चित्रसम्भोगमित्रा नखदशनविरक्ता शिल्पशिक्षानुरक्ता ।
स्थिरमतिनिजबन्धुः कामसर्वस्वसिन्धुर् भवति रुचिरवेषा कामिनी मध्यदेशा
करकुचकरजाताश्लेषविन्यासदक्षा सकलसुरतबन्धुर्ज्ञानवैदग्ध्यदक्षा ।
नलघुनगुरुवेगा प्रायशः कामरक्ता रमयति मधुराल्पं सुन्दरी तैरभुक्ती
मृदुवचनविभागा कोमलानङ्गभागा विगतरमणनी(भी)तिः कोमलानङ्गगीतिः ।
द्रवति झटिति कान्ता चित्रसम्भोगदक्षा रमयति किल कौली कीर्तिता वङ्गीगौडी
करतलहतितुष्टा बाह्यसम्भोगहृष्टा चिरनिधुवनसाध्या मालवी धूर्तवाक्या ।
सुखयति सुखवेगा व्यञ्जितानङ्गरागा चपलपिशुनशीला स्यादियं चोलबाला
कुवलयदलवर्णा चारुताटङ्ककर्णा चकितहरिणनेत्रा फुल्लराजीववक्त्रा ।
लघुनिधुवनरक्ता ऽकष्टसम्भोगसक्ता सुललितगतिरेषा गुर्जरी चारुवेषा
अलसवलितदृष्टिर्दिव्यरूपाङ्गयष्टिः कठिनमदनवेगा दुःखसाध्या प्रयोगे ।
विरमति सुरतान्ते कोपमायाति कान्ते विविधपुरुषलोला सैन्धवी दुष्टशीला
पुलककरजदात्री दुष्टवाक्याभिधात्री विषमसुरतपात्री निश्चितं कालरात्री ।
इति भवति पुरन्ध्री कोशलावन्तिका स्त्री कवलयति रतार्ता श्रूयते पूर्ववार्ता
पिकवरमृदुवाचः कोमलाङ्ग्यः सुरम्या व्यपगतभयलज्जाः साहसिन्यः स्वतन्त्राः ।
लघुनिधुवनसाध्याश्चीनसौवीरभेदद्रविडमलयजाताः सुन्दराङ्ग्यस्तरुण्यः
सकलसुरतदक्षा सिद्धिसौभाग्यवश्या दशनवसनपानप्रीतिभाजः सलज्जाः ।
करजलिखनदक्षाश्चण्डवेगाभिरम्याः कुसुमसुरभयः स्युर्मद्रतैलङ्गनार्यः
सुरतसविमर्दप्रेमवत्यः प्रचण्डाः करजदशनकेशाश्लेषसञ्ज्ञाविहीनाः ।
सहजमलिनचित्ताः पौण्ड्रकाम्बोजजाताः करतललयतुष्टाः कामरूपाङ्गनाः स्युः
गाढं संश्लिष्य कण्ठे लिखति कररुहैः सर्वतः कान्तदेहं केशेष्वाकृष्य चुम्बत्यधरमविरतं मुष्टिघातं ददाति ।
तृप्तिं नो याति शीघ्रं द्रवति न च रते चण्डवेगा प्रगल्भा ज्ञातव्या पण्डितेन्द्रैरतिकलितरतिर्लाटकर्णाटनारी
दुष्टा दुर्गन्धदेहाः पशुसमसुरताश्चुम्बनश्लेषहीनाः सेर्ष्या म्लेच्छाङ्गनाः स्युर्लघुरतनिरताः पार्वतीयाश्च नार्यः ।
काश्मीराभीरगन्ध्याः सकलरसकलामोददक्षा नितान्तं साध्या देशानुसारादिह पटुमतिभिर्योषितः सर्वदैव
जातेस्तत्त्वं समस्तं निखिलशशिकलाबोधनं सत्त्ववृत्तिं मृग्यादीनां वशत्वं मदनरसकलाकौतुकं चाप्यशेषम् ।
इत्थं यः कामिनीनां कलयति चरितं देशसात्म्येन सम्यग् यावज्जीवं स तस्याः प्रभवति हृदये प्राणनाथः सुखाय
योनिभेदनिरूपणम् ।
स्पर्शेन पङ्कजसमा तरुणीजनानाम् अभ्यन्तरे च गुटिकासमदेशका च ।
योनिर्भवेदथ वलिप्रकारावकीर्णा गोजिह्विकासुखरकर्कशगर्भदेशा
अत्युत्तमा प्रकथिता प्रथमा कवीन्द्रैर् मध्या च मध्यमविधा किल सम्प्रदिष्टा ।
शेषद्वयं मदनकेलिकलारसज्ञैर् निन्द्यं सदैव कथितं सुरतोत्सवेषु
वह्निर्न शान्तिमुपयाति कदा ऽपि काष्ठैर् नाम्भोनिधिर्विरमति प्रचुरैः पयोभिः ।
नाप्यन्तको जगति जन्तुभिरेति तोषं वामा ऽपि नैव पुरुषैः खलु याति तृप्तिम्
तस्मान्नरेण रतिरङ्गविचक्षणेन मायामुपास्य सकलां स्वशरीरसाध्याम् ।
तासां मनोहरणमेव परं विधेयं नो वेद को ऽपि हृदयं खलु कामिनीनाम्
प्रीतिभेदनिरूपणम् ।
स्रक्चन्दनाम्बरमनोहरभक्ष्यभोज्यैर् नानाविधैरुपचिता विषयैः सदैव ।
प्रीतिः स्मृता विषयजेति कविप्रवीरैः सादृश्ययोगसुभगा कथिता सदैव
आखेटशिल्पसुरपूजनकेलिरङ्गसङ्गीतसेवनविधावुपचीयते या ।
अभ्यासकौशलवशेन कृशोदरीणाम् आभ्यासकी निगदिता कविभिः पुराणैः
स्त्रीणां रागविनाशहेतवः ।
दारिद्रदुःखभयविक्लवमानरोगैर् उद्वेगकोपतनुतादिभिरीश्वराणाम् ।
रागं त्यजन्ति वनिता इह विस्तरस्य भीत्या न चास्य कथितः सकलो विवर्तः
मूल पाठ: Pañcasāyaka · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0