भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 7.18

7.18.1

वैकङ्कतेनेध्मेन
देवेभ्य आज्यं वह ।
अग्ने तान् इह मादय
सर्व आ यन्तु मे हवम् ॥

7.18.2

इन्द्र आ याहि मे हवम्
इदं करिष्यामि तच् छृणु ।
इम ऐन्द्रा अतिसरा
आकूतीः सं नमन्तु मे ।
तेभिः शकेम वीर्यं
जातवेदस् तनूवशिन् ॥

7.18.3

यद् असाव् अमुतो देवा
अदेवः संश्चिकीर्षति ।
मा तस्याग्निर् हव्यं वाक्षीद्
धवं देवाश् च मोप गुर्
ममैव हवम् एतन ॥

7.18.4

अति धावतातिसरा
विश्वस्येशाना ओजसः ।
वृश्चतामुष्य जीवितम्
इन्द्रेण सह मेदिना ॥

7.18.5

अतिसृत्यातिसरा
इन्द्रस्यौजसा हत ।
अविं वृक इव मथ्नीत
ततो वो जीवन् मा मोचि
प्राणम् अस्यापि नह्यत ॥

7.18.6

यान् असौ प्रतिसरान् अकश्
चकार कृणवच् च यान् ।
त्वं तान् इन्द्र वृत्रहन्
प्रतीचः पुनर् आ कृधि
यथामुं तृणहञ् जनम् ॥

7.18.7

यम् अमी पुरोदधिरे
ब्रह्माणम् उपभूतये ।
इन्द्रस्य ते अधस्पदं
तं प्र यच्छामि मृत्यवे
क्रव्याद् एनं शमयतु ॥

7.18.8

यदि प्रेयुर् देवपुरा
ब्रह्म वर्माणि चक्रिरे ।
तनूपानं परिपाणानि चक्रिरे
सर्वं तद् अरसं कृधि ॥

7.18.9

अत्रैनम् इन्द्र वृत्रहन्न्
उग्रो मर्मणि विध्य ।
अत्रैवैनम् अभि तिष्ठ
शक्र मेद्य् अहं तव ।
अनु त्वेन्द्रा रभामहे
स्याम सुमतौ तव ॥

7.18.10

यथेन्द्र उद्वाचनं
लब्ध्वा चक्रे अधस्पदम् ।
कृण्वे ऽमुम् अधरं तथा
शश्वतीभ्यः समाभ्यः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc