भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 7.17

7.17.1

अग्निं ते वसुमन्तम् ऋच्छन्तु
ये माघायवः प्राच्या दिशो +ऽभिदासान् ॥

7.17.2

वायुं ते ऽन्तरिक्षवन्तम् ऋच्छन्तु
ये माघायव एतस्या दिशो +ऽभिदासान् ॥

7.17.3

सोमं ते रुद्रवन्तम् ऋच्छन्तु
ये माघायवो दक्षिणाया दिशो +ऽभिदासान् ॥

7.17.4

वरुणं त आदित्यवन्तम् ऋच्छन्तु
ये माघायव एतस्या दिशो +ऽभिदासान् ॥

7.17.5

सूर्यं ते द्यावापृथिवीवन्तम् ऋच्छन्तु
ये माघायवः प्रतीच्या दिशो +ऽभिदासान् ॥

7.17.6

अपस् त ओषधीमतीर् ऋच्छन्तु
ये माघायव एतस्या दिशो +ऽभिदासान् ॥

7.17.7

विश्वकर्माणं ते सप्तर्षिवन्तम् ऋच्छन्तु
ये माघायव उदीच्या दिशो +ऽभिदासान् ॥

7.17.8

इन्द्रं ते मरुत्वन्तम् ऋच्छन्तु
ये माघायव एतस्या दिशो +ऽभिदासान् ॥

7.17.9

प्रजापतिं ते प्रजननवन्तम् ऋच्छन्तु
ये माघायवो ध्रुवाया दिशो +ऽभिदासान् ॥

7.17.10

बृहस्पतिं ते विश्वदेववन्तम् ऋच्छन्तु
ये माघायव ऊर्ध्वाया दिशो +ऽभिदासान् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc