पैप्पलाद-संहिता · अध्याय 20.8
अग्नाविष्णू महि धाम प्रियं वां
पातं घृतस्य गुह्यानि नाम ।
दमेदमे सप्त रत्ना दधान् -
-ओप वां जिह्वा घृतम् आ चरण्यात् ॥
अग्नाविष्णू महि तद् वां महित्वं
वीतं घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुत्या वावृधाना
प्रति वां जिह्वा घृतम् उच् चरण्यात् ॥
उन् नम्भय पृथिवीं
भिन्धीदं दिव्यं नभः ।
ऊध्नो दिव्यस्य नो धातर्
ईशानो वि ष्या बिलम् ॥
अपक्रामन् पौरुषेयाद्
गृणानो दैव्यं सहः ।
प्रणीतीर् अभ्यावर्तस्व
देवो देवानां सख्या जुषाणः ॥
पितोर् अहं पितुपतिं तद् ईडे
धाता विधर्ता भुवनेष्व् एषु ।
नेमेन मह्यं मधुमाँ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
अयं पितोः पितुमान् आभृतस् पर्-
-ईदं शृणोतु यद् अहं ब्रवीमि ।
नेमेन मह्यं मधुमाँ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
अत्रैवैनं निरृत आ रभस्व्-
-आत्रैवैनं निरृते प्र क्षिणीह्य्
अत्रैवैनं सर्व वि वृश्च ।
नेमेन मह्यं मधुमाँ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
यत् त्वा पित उपब्रुवे तन् म आ शृण्व्
अस्मिन् मे हवे हव्यो यथासः ।
अमुं देवैर् निरृतिः संविदान्-
-आमुं छिनत्ति वरुणस्य पाशात् ॥
यद् अस्मृति चकृमा किं चिद् एन
उपारिम चरणैर् जातवेदः ।
तस्मात् पाहि त्वं नः प्रचेतः
शुभे सखिभ्यो अमृतत्वम् अस्मान् ॥
अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।
आसन्याद् अन्याद् यक्ष्मान् नः पाहि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0