पैप्पलाद-संहिता · अध्याय 20.7
यन् नो अग्निर् असनद् यन् न इन्द्रो
विश्वे यद् देवा मरुतः स्वर्काः ।
तद् अस्मभ्यं सविता सत्यधर्मा
सरस्वत्य् अनुमतिर् नि यच्छात् ॥
यूयं नो देवा उभयाय वेदसे
शर्म यच्छत द्विपदे चतुष्पदे ।
अदत् पिबद् ऊर्जयमानम् आशितं
तद् अस्मभ्यं शं योर् अरपो दधात ॥
बृहस्पते सवितर् बोधयैनं
संशितं चित् संतरं सं शिशाधि ।
वर्धयैनं महते सौभगाय
विश्व एनम् अनु मदन्ति देवाः ॥
अमुत्रभूयाद् अधि यद् यमस्य
बृहस्पतिर् अभिशस्त्या अमुञ्चत ।
प्रति मृत्युम् औहताम् अश्विना ते
देवानाम् अग्ने भिषजा शचीभिः ॥
इन्द्रावरुणा सुतपाव् इमं सुतं
मद्यं सोमं पिबतं धृतव्रता ।
युवो रथो अध्वरं देववीतये
प्रति स्वसरम् उप याति पीतये ॥
इन्द्रावरुणा मधुमत्तमस्य
वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वाम् अस्मे परिषिक्तम् अन्ध
आसद्यास्मिन् बर्हिषि मादयेथाम् ॥
उरु विष्णो वि क्रमस्व्-
-ओरु क्षयाय निष् कृधि ।
घृतं घृतयोने पिब
प्र प्र यज्ञपतिं तिर ॥
दिवो विष्ण उत वा पृथिव्या
उरोर् वा विष्णो महो अन्तरिक्षात् ।
उभा हि हस्तौ मधुना पृणस्व्-
-आप्रयच्छ दक्षिणाद् ओत सव्यात् ॥
विष्णोर् नू कं प्र वोचं वीर्याणि
यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं
विचक्रमाणस् त्रेधोरुगायः ॥
प्र तद् विष्णु स्तवते वीर्याणि
मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व्
अधिक्षियन्ति भुवनानि विश्वा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0