भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.9

20.9.1

त्विषिर् असि त्विषिवन्तो भूयास्म ।
चक्षुष्मन्तो गोमन्तः
प्रजावन्तो वर्चस्विनः ॥

20.9.2

यद् अह्ना संचिनुथ
क्षीरं भरथोधभिः ।
इदं तद् विश्वरूपा वः
पयो हरामि वीरुधा ॥

20.9.3

यद् अघ्न्या ओषधीभ्यो
ऽद्भ्यः संभरथा मधु ।
इदं तद् विश्वरूपा वः
क्षीरं हराम्य् ओषध्या ॥

20.9.4

यो अभ्यवभृणायसि
स्वपन्तम् इच्छ पूरुषं
शयानम् अकस्वलम् ।
अयस्मयेन वर्मण्-
-आश्ममयेन वर्मणा
पर्य् अस्मान् वरुणो दधत् ॥

20.9.5

ये नो गृहे ब्राह्मणा मन्यमाना
घोरां वाचं मिथुयानुब्रुवन्ति ।
एनोहृतो मलहृतो भवन्तु
दुर्योणम् अस्मत् परि ते हरन्तु ॥

20.9.6

अयम् अग्निः सत्पतिर् वृद्धवृष्णियो
रथीव पत्यै न जनयत् पुरोहितः ।
नाभा पृथिव्या निहितो दविद्युतद्
अधस्पदं कृणुतां ये पृतन्यवः ॥

20.9.7

अग्ने शर्ध महते सौभगाय
तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यं सुयमम् आ कृणुष्व
शत्रूयताम् अभि तिष्ठा महांसि ॥

20.9.8

दृष्टो दमूना अतिथिर् दुरोण
इमं नो यज्ञम् उप याहि विद्वान् ।
विश्वा ह्य् अग्ने अभियुजो विहत्य
शत्रूयताम् आ भरा भोजनानि ॥

20.9.9

अग्ने सपत्नान् प्र णुदस्व जातान्
प्रत्य् अजाताञ् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानः
शर्म नो यच्छ त्रिवरूथम् उद्भित् ॥

20.9.10

प्रान्यान् सपत्नान् सहसा सहस्व
प्रत्य् अजाताञ् जातवेदः शृणीहि ।
इदं राष्ट्रं पिपृहि सौभगाय्-
-आनु त्वा देवा वसवो मदन्ताम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc