भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.64

20.64.1

ग्राह्या दूतो ऽस्य्
उलूका सं पचामि ते ॥

20.64.2

निरृत्या दूतो ऽस्य्
उलूका सं पचामि ते ॥

20.64.3

वरुणस्य दूतो ऽस्य्
उलूका सं पचामि ते ॥

20.64.4

मृत्योर् दूतो ऽस्य्
उलूका सं पचामि ते ॥

20.64.5

यमस्य दूतो ऽस्य्
उलूका सं पचामि ते ॥

20.64.6

राजा त्वा वरुणो ऽखनद्
दत्तां सोमेन बभ्रुणा ।
तां त्वा विद्म प्रतापिकां
प्रामुष्य हृदयं तप ॥

20.64.7

शोचयैनं प्रतपैनं
सम् एनं तक्मना सृज ।
यथास्य दह्यमानस्य्-
-आग्निः पर्वाण्य् अन्व् अयद् ।
हृदयं प्रेवलिज्जयाद्
अक्ष्यौ कामेन शोचयान्
मुहूर्तं माम् अपश्यतः ॥

20.64.8

अयम् इत् त्वाग्निर् आ नयाद्
वातस् त्वात उद् यमात् ।
यं त्वम् एनं नि वर्तय्-
- आसौ हा इह ते मनः ॥

20.64.9

अग्निष् ट्वा तपतु
सूर्यस् त्वा तपतु
वातस् त्वा युङ्क्तां मरुतश् च युञ्जताम् ।
अर्वाङ् एहि समटमानो मरीचिभिः ॥

20.64.10

वृहामि ते लोमान्य् अङ्गेभ्यः
पचामि मांसं ज्वलयाम्य् अस्थि ।
इह ते रमतां मनो
मयि ते रमतां मनः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc