पैप्पलाद-संहिता · अध्याय 20.65
अयं पिण्डः कर्करपिण्डः
स्मरः पाञ्चलः संतपनः करंकरः ।
अमुष्य हृदयं तपो
यम् अहं कामये प्रियम् ॥
यथायम् अग्निस् तपति
यथा तपति सूर्यः ।
एवा ते तप्यतां मनो
हृदयम् अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
यथा तपति परशुं
यथा वासिनखादनम् ।
यथा सूर्य उद्यन् सर्वं संतपति ।
एवा ते तप्यतां मनो हृदयम्
अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
सं त्वा द्यौश् च पृथिवी च तपतां
मां कामेन न रमासा अत्र ॥
स्मर है स्मरताद् अमुम्
अङ्गज्वरेणोच्छोचनीनाम् ।
तक्मनैनं सं सृज
विश्वशारदेन मम कामेन ॥
अष्टाशीतिं सहस्राण्य्
अत्य् अवादीद् वचो मम ।
इहारे ऽहम् अवादिषम्
अत्रारे प्रायस्य् अस्तम् ॥
यं सुमित्रः सुमित्रायै
चक्रे ऽवासा स्मरम् ।
यथा सा तस्य कामेन
न सुष्वाप कदा चन ।
एवासौ मम कामेन
माव स्वाप्सीत् कदा चन ॥
पर्य् अग्निर् आपस् तपति
परि द्याम् एति सूर्यः ।
परि त्वाम् इन्द्रो वृत्रहा
मह्यं तपतु सर्वतः ॥
यथा वातो न्यावाति
यथा तपति सूर्यः ।
एवा त्वम् इन्द्र वृत्रहन्न्
अमुं मह्यम् इहा नय ॥
शालालवं संवननं
वनाद् वननम् आभृतम् ।
येन गयो गन्धर्वो
अप्सरसां समवानयत् ।
तेनाहम् अमुं मयि वानयाम्य्
आ मृत्योर् आ परावतः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0