पैप्पलाद-संहिता · अध्याय 20.62
यावत् पर्णं यावत् फलं
यावन्तो अध्यृक्षराः ।
तावन्तः शुष्मास् तुम्बुरोस्
तद् उ ते विषदूषणम् ॥
रुद्र जलाषभेषज्-
-एमं रोगम् अशीसमो
जलाणिति ॥
अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् इदम् उर्व् अन्तरिक्षम् ।
ऋषभस्येव कनिक्लदतो
हृदयं शमयामि ते ॥
सं मा सिञ्चन्तु मरुतः
सं मासौ रोहिणी दिवः ।
सं मायम् अग्निः सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
नक्तं हरी मृगयेते
दिवा सुपर्णरोहितौ ।
भवाय च शर्वाय च्-
-ओभाभ्याम् अकरं नमः ॥
नमो भवाय नमः शर्वाय
नमः कुमारशत्रवे ।
नमो नीलशिखण्डाय
नमः सभाप्रपादिने ॥
यस्य हरी अश्वतरौ
गर्दभाव् अभितःसरौ ।
तस्मै नीलशिखण्डाय
नमः सभाप्रपादिने ॥
असाव् एति शिशुमारो
असाव् एति पुलीकया ।
कुमारशत्रो व रोह्-
-ओदकं परिवाचनम् ॥
यथेदम् अभ्रम् अर्भकं
पर्जन्याद् अप शीयते ।
एवा मे अश्विना मुखाद्
अभील्य् अप शीयताम् ॥
अभीलि नश्येतः परस्
त्वचं मे माभि मिम्लपः ।
अगस्त्यस्य ब्रह्मण्-
-आभीलीं नाशयामसि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0