भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.61

20.61.1

व्याघ्रायोभयादते
पथे ऽहम् अकरं नमः ॥

20.61.2

नमस् ते पथ्ये रेवति
स्वस्ति मा परा णय
स्वस्ति पुनर् आ नय ।
अथो स्वस्ति नस् कृधि
जीवा ज्योतिर् अशीमहि ॥

20.61.3

आमनसं यजामहे
सत्यप्राशं पुरोहितम् ।
तं देवं प्रथमं यजे
यो ऽमुम् आमनसं करत् ॥

20.61.4

आमनस्क देवक्-
-आरोरुवत्क देवक ।
अर्वाग् अवस्तरं कृधि
यम् अहं कामये प्रियम् ॥

20.61.5

अयं नो अग्निर् अध्यक्षो
अयं नो वसुवित्तमः ।
अस्योपसद्ये मा रिषाम्-
-आयं रक्षतु नः प्रजाम् ॥

20.61.6

अस्मिन् सहस्रं पुष्यास्म्-
-ऐधमानाः स्वे गृहे ।
इमं सम् इन्धिषीमह्य्
आयुष्मन्तः सुवर्चसः ॥

20.61.7

शुद्धवाला कृष्णफला
कब्रूर् बलासभेषजी ।
शुक्तिवल्गस्य नाशनी
देवी ददातु भेषजम् ॥

20.61.8

अश्वत्थो देवसदनस्
तृतीयस्याम् इतो दिवि ।
तत्र लोहितवृक्षो जातः
शिग्रुः क्षिप्तभेषजः ॥

20.61.9

न तत्र भवो हन्ति
न शर्व इषुम् अस्यति ।
यत्र त्वं देव तुम्बुरो
पर्वतेषु विरोहसि ॥

20.61.10

कृष्याम् अन्यो वि रोहति
गिरेर् अन्यो ऽधि पक्षसि ।
त्रातारौ शश्वताम् इमाव्
आ गन्तां शिग्रुतुम्बुरू ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc