पैप्पलाद-संहिता · अध्याय 20.60
ऋचं साम यद् अप्राक्षं
हविर् ओजो यजुर् बलम् ।
एतं मा तस्मान् मा हिंसीद्
वेदः पृष्टः शचीपते ॥
उद् भरे द्यावापृथिवी सहौषधीभिः ।
गृह्णामि प्रजां निर् अपः सृजामि ॥
मा न आपो मेधां
मा ब्रह्म प्र मथिष्टन ।
सुष्यदा यूयं स्यन्दध्वम्
उपहूतो ऽहं सुमेधा वर्चस्वी ॥
मा नो मेधां मा नो दीक्षां
मा नो हिंसिष्ट यत् तपः ।
शिवा नः सर्व आयुष
आपो भवन्तु मातरः ॥
इह प्रजा विश्वरूपा रमन्ताम्
अस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।
अग्निं कुलायम् उप संविशन्तीर्
जानन्तु नः पयसा घृतेन ॥
रन्तय स्थ रमतय स्थ
मयि श्रित स्थ मयि श्रयध्वम् ।
मनोता नाम स्थ ग्राम्या अप्सरसो
वेद वो वित्तम् आ मा विशत ॥
शर्व नीलशिखण्ड
वीर कर्मणिकर्मणि ।
इमाम् अस्य प्राशं जहि
येनेदं विवदामहे ॥
तृतीयकं वितृतीयं सदन्दिं
तक्मानम् उत राजयक्ष्मम् ।
यथा शक्र उन्मुमोच तृतीयकम्
एवाहं तद् उन् मुञ्चामि
तृतीयकं तम् अस्याम्
ओषध्यां बध्नामि ॥
आध्वस्तपक्ष्णे बृहते
पथे ऽहम् अकरं नमः ॥
इन्द्राय त्विषीमते पथे ऽहम् अकरं नमः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0