पैप्पलाद-संहिता · अध्याय 20.59
पैशिर् माता पेशिः पिता
पैशेयः पेश्या हतः ।
अद्धा कृतस्य ब्रह्मणा
वृश्चिकस्यारसं विषम् ॥
निर् ह्वयामि पर्णसादान्
निर् उत् पुच्छाद् उ ते विषम् ।
भूमिस् त उच्यते माता
तस्यै ते नम इत् सृज ॥
किम् उ दन्त आमयति
किम् अभूद् उपवेशनम् ।
आपो निर् अस्यता क्रिमिम्
अगदे कृणुता हनू ॥
यत्र भूम्या अनामृतं
दिवि चन्द्रमसि श्रितम् ।
विद्वाँ अहं तत्र मन्ये
माहं पौत्रम् अघं नि गाम् ॥
यत् ते सुसीमे हृदयम्
अदो वै तत् प्रजापतौ ।
वेदाम तस्य ते वयं
(माहं पौत्रम् अघं नि गाम्) ॥
यत् सुवर्णाया हृदयं
पृथिव्याम् अधि निष्ठितम् ।
वेदाहं तस्यास् तन् नाम
(माहं पौत्रम् अघं नि गाम्) ॥
अग्नेर् हृदयम् असि
विद्युत् तत् त्वा तथा वेद ।
माहं पौत्रम् अघं नि गाम् ॥
प्रजा इमे प्रजापत
इन्द्राग्नी शर्म यच्छतम् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥
यां प्रजाम् अविदाम् अद्य् -
- आत्मनः परिनिर्मिताम् ।
आयुष्मतीं तनूकृतां
ताँ अग्ने जरसे नय ॥
इन्द्र इवासानि सासहिर्
अग्निर् इव ज्योतिषा बृहन् ।
सूर्य इव विश्वतः प्रत्यक्
समुद्र इव दुष्टरः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0