पैप्पलाद-संहिता · अध्याय 20.58
वेद वै ते तक्मन् नाम
विश्वसो नाम वा असि ।
असमरथो नाम ते पिता
हार्षी नाम तक्मन् ते माता
शिमिदा नाम ते स्वसा ॥
गिरिं गच्छेति साप्तमिकी ॥
असुरास् त्वोद् अव भरन्
समुद्राद् अधि मायया ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥
रोगस्थानम् असृक्स्थानम्
अथो आस्रावभेषजम् ।
बभ्रोर् अश्वस्य वारेण्-
-आपि नह्यामि ता अहम् ॥
यन् मे दण्डो वापाति
दीक्षया तपसा सह ।
तम् अहं पुनर् आ ददे
पुनर् इन्द्रः पुनर् भगः ।
पुनर् मे ब्रह्मणस्पतिर्
ब्रह्म जीवितवा अदात् ॥
इत्थाद् उलूकाप तन्वन्
उत्तानपादम् अर्भकः ।
स मे प्रेमाणम् आ वहद्
अप द्वेषः परा वहत् ॥
यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा मूत्रस्य ते धारा
परा पतति केतुमत् ॥
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे मधुमद् वचो
देवेषु पुरुषेषु च ॥
दीर्घायुत्वाय तपसे
मह्या अरिष्टतातये ।
सुपर्णो मह्यम् अब्रवीद्
एतद् उत्सक्तभेषजम्
एतत् पुलिशभेषजम् ॥
अग्नी रक्षांसीत्य् एका ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0