भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.57

20.57.1

सनिर् असि सनितासि सनेयम् ॥

20.57.2

कृतिर् असि कर्तासि क्रियासम् ॥

20.57.3

वित्तिर् असि वेत्तासि विदेयम् ॥

20.57.4

भूतिर् असि भूतासि भूयासम् ॥

20.57.5

भूर् असि सुभूर् असि सुभूर् नामासि ॥

20.57.6

प्रजापतेर् मध्यमः श्रेष्ठो रश्मिर् असि ॥

20.57.7

भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ॥

20.57.8

अग्निर् वह्निर् वह्निर् अग्निः ॥

20.57.9

इन्द्र आरोद्धा प्रजापतिः प्रदाता ॥

20.57.10

बृहस्पतेस् त्वा मुखेन याचामि
सूर्यस्य त्वा चक्षुषा प्रतीक्षे
अदब्धेन त्वा चक्षुषावेक्षे ॥

20.57.11

अयुतो ऽहम् अयुतो म आत्मा
अयुतं मे चक्षुर् अयुतं मे श्रोत्रम्
अयुतो मे प्राणो अयुतो मे ऽपानो अयुतो ऽहं सर्वः ॥

20.57.12

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥

20.57.13

अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन ॥

20.57.14

इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे ॥

20.57.15

यो अग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः ॥

20.57.16

तस्मिन्न् एतत् सुहुतम् अस्तु प्राशितं
तन् मा मा हिंसीः परमे व्योमन् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc