पैप्पलाद-संहिता · अध्याय 20.56
एतद् यद् अन्यत्र जिगांसथ
यद् अन्यत्र विवीषथ ।
तद् वश् चित्तम् अमूमुहं
तद् वश् चित्तम् अनीनशम् ॥
अस्ति वै पथां निष्कुटं
नदीनां च निरङ्कशम् ।
तेन वश् चित्तम् अमूमुहं
तेन वश् चित्तम् अनीनशम् ॥
यानि वः सप्त चेतांस्य्
अष्टौ यानि मनांसि च ।
तद् वश् चित्तम् अमूमुहं
तद् वश् चित्तम् अनीनशम् ॥
इन्द्रेण मेदिना युज्-
-आग्निना जातवेदसा ।
तेन वश् चित्तम् अमूमुहं
तेन वश् चित्तम् अनीनशम् ॥
प्रतीचीनां वो अभ्य् अधाम्
अश्वम् इवाश्वाभिधान्या ।
कृण्वे वो मामके वशे
पदोर् उपानहौ यथा ॥
देवानां संसद् असि
देवानां यातुर् असि ।
यया तन्वा ब्रह्म जिन्वसि
तया मा जिन्व ॥
रोचे मा प्रकाशे मा
कण्वा विदन् मा गमय ।
अनु मा बुध्यन्ताम् ॥
वयः सुपर्णा उप सेदुर् इन्द्रं
प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर्
मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥
अप्सु जातस्य महतस् पर्य् अश्मनः ।
स्वयंजातस्य शोचिषो
ऽद्भिः पर्वत नाशय ॥
उत्तोदिनीं शिमिद्वती
दुर्गयोनिर् व्यद्वराम् ।
मृगाँ अनु प्र पातय
मरीचीर् अनु नाशय ॥
अश्वस्यास्नः संपतिता
पर्णे ते वसतिष् कृता ।
असृक् पतत्रिणाम् असि
जहि वामून् प्र बाधम ॥
असृक्तो अधि जातो ऽसि
पर्णे ते सदनं कृतम् ।
आण्डं पतत्रिणाम् असि
जहि वामून् प्र बाधम ॥
यथा गर्दभो विवर्तनाद्
विधूय विपलायते ।
एवासौ पलायताम्
अमुष्माद् अध्य् आयतः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0