पैप्पलाद-संहिता · अध्याय 20.55
अदर्शि गातुवित्तमो
यस्मिन् व्रतान्य् आदधुः ।
उपो षु जातम् आर्यस्य वर्धनं
सोमं गच्छन्तु नो गिरः ॥
प्र दैवोदासो अग्निर्
देवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते
तस्थौ नाकस्य सानवि ॥
यस्माद् रेजन्ति कृष्टयश्
चर्कृत्यानि कृण्वतः ।
सहस्रसा मेधसाताव् इव त्मन्-
-आग्निं धीभिर् दुवस्यत ॥
आ प्यायस्व सम् एतु ते
विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
आ प्यायस्व मदिन्तम
सोम विश्वेभिर् अंशुभिः ।
भवा नः सुम्नयुः सखा वृधे ॥
सं ते पयांसि सम् उ यन्तु वजाः
सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो अमृताय सोम
दिवि श्रवांस्य् उत्तमानि धिष्व ॥
विद्म त्वा वयं सोमं
राजानं ये त्वा न विदुः ।
तेषां चक्षुषा श्रोत्रेण
प्राणेन प्रजया पशुभिर् गृहैर् धनेना प्यायस्व ।
एषा त ओषधीस्
तया त्वम् आ प्यायस्व ॥
आपीनो अस्मान् आप्यायच्
चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर् गृहैर् धनेन ॥
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् सत्यं चित्तमोहनम् ॥
शर्वेण नीलशिखण्डेन
भवेन मरुतां पित्रा ।
विरूपाक्षेण बभ्रुणा
वाचं वदिष्यतो हताः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0