भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.54

20.54.1

यत् ते श्लिष्टं क्लोम कर्णेषु
यच् च शिश्ने सनाभ्याम् ।
इन्द्रस् तद् अब्रवीद् भिषक्
पार्ष्णिर् आश्लिष्टावच्छेदनी ॥

20.54.2

एषा वै दुःसहा नाम
पार्ष्णिर् आश्लिष्टावच्छेदनी ।
इदम् अहम् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्याश्लिष्टां प्र च्छिनद्मि ॥

20.54.3

विपश्चित् पुच्छम् आभरत्
तद् विष्णुः पुनर् आभरत् ।
तद् अग्निना मनसा संविदानं
पुमांसम् अस्यै पुत्रं धेहि स्वाहा ॥

20.54.4

विपश्चित् पुच्छम् आ भर
यर्ज्जरहस्ता चित्त्या ।
यथास्याः पुत्रो जायता
अभिभूर् णो विपश्चिता ॥

20.54.5

अपेहीतो विपश्चित् त्वं
पुमान् अयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः
स पुमान् एव जायताम् ॥

20.54.6

भद्राय कर्णः क्रोशतु
भद्रायाक्षि वि वेपताम् ।
परा दुष्वप्न्यं सुव
यद् भद्रं तन् न आ सुव ॥

20.54.7

अक्षिवेपं दुष्वप्न्यम्
आर्तिं पुरुषरेषिणीम् ।
तद् अस्मद् अश्विना युवम्
अप्रिये प्रति मुञ्चतम् ॥

20.54.8

यत् पार्श्वाद् उरसो मे
अङ्गादङ्गाद् अववेपते ।
अश्विना पुष्करस्रजा
तस्मान् नः पातम् अंहसः ॥

20.54.9

यदीद् अमृतकाम्याघं
(· ·) रिप्रम् उपेयिम ।
अन्धश्रोण इव हीयतां
मा नो न्व् आगाद् अघं यतः ॥

20.54.10

अरिप्रा आपो अप रिप्रम् अस्मत् ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्मिन् दुष्वप्न्यम् आ सृजामि ॥

20.54.101

पयो मे क्लोम कर्णेषु
पयो मे वीरुधो दधन् ।
पयो मे सृष्टा देवेषु
पयो मे दधत् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc