भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.53

20.53.1

धाता ते हस्तम् अग्रहीत्
सविता हस्तम् अग्रहीत् ।
मित्रस् त्वम् असि धर्मण्-
-अग्निर् आचार्यस् तव ॥

20.53.2

अग्नेर् ब्रह्मचार्य् असि
मम ब्रह्मचार्य् असि ।
प्रजापतिष् ट्वा गोपायतु
देवाय त्वा सवित्रे परि ददामि
स्वस्ति चरताद् इहासौ ॥

20.53.3

विश्वम् असि विश्वपते
सर्वम् असि सर्वपते ।
तं त्वासौ देवाय त्वा सवित्रे परि ददामि
स्वस्ति चरतान् मयि ॥

20.53.4

समाववर्त्ति विष्ठितो जिगीषुर्
विश्वेषां कामश् चरताम् इहास्तु ।
विश्वा द्वेषांसि दुरिता हित्व्-
-आ यन्त्व् अनुव्रता सवितुर् दैव्यस्य ॥

20.53.5

आ नो हस्तो अकृतागात् स्वर्गः
पुनर् ऐतु तन्वा संविदानः ।
प्राणेन तेजसा हरसा बलेन
मित्रो अस्मान् वरुण उभयतस् पातु ॥

20.53.6

यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥

20.53.7

यद् वर्चो द्यावापृथिव्योर्
अथो यद् आञ्जन त्वयि ।
तेन सुचक्षा वर्चस्य्
अहं भूयासम् आञ्जन ॥

20.53.8

यद्य् अस्पृषि श्लिष्टं
यदि वा स्वप्नयानुश्लिष्टम् ।
आश्लिष्टावच्छेदनम्
अस्य् अभिदृष्टवीर्यम् ॥

20.53.9

अव वार् इव वारिवा
अव वर्षं गिरेर् इव ।
अव ज्याम् इव धन्वनो
हृदि श्लिष्टं छिनद्मि ते ॥

20.53.10

यत् ते हृदि श्लिष्टं
यच् च श्लिष्टं पुरीतति ।
मध्ये पृष्टीनां यच् छ्लिष्टं
तत् पार्ष्ण्याव छिनद्मि ते ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc