पैप्पलाद-संहिता · अध्याय 20.52
रात्रिंरात्रिम् अप्रयामं भरन्तो
ऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो
मा ते अग्ने प्रतिवेशा रिषाम ॥
आग्न आयूंषि पवस्वा
सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥
त्रीण्य् आयूंषि तव जातवेदस्
तिस्रो व्युष्टीर् उषसस् ते अग्ने ।
तिस्रस् ते तन्वो देवसंशितास्
ताभिर् नः पाहि सदम् अप्रमादम् ॥
पाहि नो अग्न एकया
पाहि न उत द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जांपते
पाहि चतसृभिर् वसो ॥
समीची माहनी पाताम्
आयुष्मत्या ऋचो मा छित्सि ।
तनूपात् साम्नो
वसुविदं लोकम् अनु चराणि ॥
य ऋते चिद् इत्य् एका ॥
भगेह्य् अर्वाङ् उप माम् इह त्वं
मदो नामासि मयि मादयामुम् ।
सुरा त एकम् अभवज् जनित्रम्
अग्नेर् अधि जातो ऽसि ब्रह्मणा तेजसा च ॥
सहानया प्रविशेहान्तरा माम् ।
विशन्त्य् एहि प्रविशन्त्य् एह्य्
आ मा विश प्र मा विश्-
-ओप त्वा ह्वय उप मा ह्वयस्व ।
नरिष्टा नाम वा असि ॥
यथापः प्रवता यन्ति
यथा मासा अहर्जरम् ।
एवा मा ब्रह्मचारिणो
धातर् आ यन्तु सर्वदा ॥
आ गन्त मा रिषण्यत
प्रस्तोतारो माप स्थात सुमन्यवः ।
दृढासो अमरिष्णवो मावपिष्यवः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0