भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.51

20.51.1

उत् तभ्नामि गवां क्षीरम्
उद् रथं रथवाहनम् ।
उत् तब्धा अस्माकं वीरा
मयि गावश् च गोपतौ ॥

20.51.2

उत् त्वा स्तभ्नातु सविता देवो अग्निर्
उन् मित्रावरुणाव् अश्विनोभा ।
सर्वान् सपत्नान् अवधीर् युगेन
विशां पतिर् उपसत्तैध्य् अत्र ॥

20.51.3

त्वं हि रुद्र वशिनी निर्निषे
त्वं देवेषूत मानुषेषु ।
यद् ईशानो नयसि यच् च हंस्य्
अस्माकम् अस्तु पितृषु स्वधावत् ॥

20.51.4

वायव् आ रुन्धि नो मृगान्
अस्मभ्यं मृगयद्भ्यः ।
स नो नेदिष्ठम् आ कृधि
वातो हि रशनाकृतः ॥

20.51.5

उद् असुर्य उद् उ यकृत्
स्थाम गच्छतु ते पुनः ।
यतो निलयते यकृत्
तत् प्रस्तम्भम् आजतु ।
मेमं पृथुप्रवर्तने
जघनस्तम्भिनं करः ॥

20.51.6

या पार्श्वे संतनोति
हृदयं जिह्वया सह ।
तां त्वं देवि पृथिवि
हिक्काम् अरसां कृधि ॥

20.51.7

अनुसृप्ताम् इत्य् एका ॥

20.51.8

प्र पतात इति द्वे ॥

20.51.10

अहरहर् बलिम् इत्ये हरन्तो
ऽश्वायेव तिष्ठते घासम् अग्ने ।
रायष्पोषेण सम् इषा मदन्तो
ऽग्ने मा ते प्रतिवेशा रिषाम ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc