भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.49

20.49.1

सृजाम्य् आप उशतीर् उपेमाः
संरराणाः पयसा सं बभूवुः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा
अपां प्रति प्रति गृह्णात्व् एनाः ॥

20.49.2

उच् छ्रयस्व बहुर् भव
स्वेन महसा यव ।
पृणीहि सर्वा पात्राणि
मा त्वा दिव्याशनिर् वधीत् ॥

20.49.3

आशृण्वन्तं यवं देवं
यत्र त्वाच्छावदामसि ।
तद् उच् छ्रयस्व द्यौर् इव
समुद्र इवैध्य् अक्षितः ॥

20.49.4

अक्षितास् त उपसदो
अक्षिताः सन्तु राशयः ।
पृणन्तो अक्षिताः सन्त्व्
अत्तारः सन्त्व् अक्षिताः ॥

20.49.5

सकृद् यद् द्यौर् अजायत
सकृद् भूमिर् अजायत ।
सकृद् यः पृश्निया दुग्धं
तद् अन्यो नानु जायते
मा त्वानु जनि कश् चन ॥

20.49.6

इष्वग्रम् इषुयावनं
मणिं कृण्वे सुमङ्गलम् ।
स मा शरव्याभ्यः पातु
दिवानक्तं च जीवसे ॥

20.49.7

प्रतिष्ठितो ऽसि ब्रह्मणा
जम्भयामसि त्वा वयम् ।
अपामार्गेण विद्वला
इदं त्वाप मृज्महे
युवन्तं क्षिपन्तं जहि ॥

20.49.8

शीर्णं त एतन् न क्षुतं त एतत्
संक्षुतं दुःक्षुतं तुभ्यम् अस्तु ।
रुद्राशनिष् टे जघनेन ग्रीवा
इन्द्र इव वृत्रं वज्रेण हन्तु ॥

20.49.9

अनुहवं परिहवं
परिवादं परिक्षवम् ।
सव्येर्मं रिक्तकुम्भां
परा तां सवितः सुव ॥

20.49.10

अपपापं परिक्षवं
पुण्यं भक्षीमहि क्षवम् ।
शिवा ते पापनासिकां
पर्णकश् चाभि मेहताम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc