भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.48

20.48.1

स्नुषासौ सेनास्याः सेनाया
इहास्याः श्वशुरोयम् अस्याः श्वशुरः ।
सा यथा स्नुषा श्वशुराद् अधस्पद्यते
अधरा पद्यते नीची पद्यते ॥

20.48.2

एवासौ सेनास्याः सेनाया
अधस् पद्यताम् अधरा पद्यतां नीची पद्यताम् ।
सेन्द्राग्निभ्यां हतवीरां हतपूरुषां
पराजितां प्रणुत्तैतु परमां परावतम् ॥

20.48.3

ताम् इन्द्राग्नी हतवीरां हतपूरुषां पराजितां
प्रणुत्तां यतीम् अन्वाक्शीताम् ।
पराजित एत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः ॥

20.48.4

अस्ना व्यक्त एतु ।
अघं हि रण्येत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः ॥

20.48.5

अघप्रतीको अघेनैनं विध्यामः ।
अभूत्या एनं पाशे सित्वा
दुष्वप्न्येन सं सृज्य
मृत्योर् व्यात्त आसन्न् अपि दधामि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc