भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.43

20.43.1

इन्द्र जीव सूर्य जीव
देवा जीवा जीव्यासम् अहम् ।
सर्वम् आयुर् जीव्यासम् ॥

20.43.2

अनाभूर् अस्मि नैतवे
तन्त्यां बद्धो दिवि श्रितः ।
आहा त्वा निरृतये ॥

20.43.3

रन्तिर् असि रमतिर् असि ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥

20.43.4

दर्शो ऽसि दर्शतो ऽसि
विश्वतः संदृष्टः ।
सोमो असि रुद्रो असि ॥

20.43.5

तं त्वा यं देवा अंशुम् आप्यायन्ति
तं त्वा यम् आदित्या अंशुम् आप्यायन्ति ।
तं त्वा यम् अक्षितम् अक्षितये पिबन्ति
स नः सोमः प्र तिरद् दीर्घम् आयुः ॥

20.43.6

अन्येषां प्राणेना प्यायस्व
मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणेना प्यायस्व ॥

20.43.7

चिद् असि समुद्रयोनिः श्येन ऋतावान् ।
सोमपीथोप न एह्य् अर्वाङ्
रायस्पोषेण प्रजया धनेन ॥

20.43.8

स्वरव स्थ नमो वो महताम् ऊर्जायै ।
पर्णां माव गाम् ॥

20.43.9

अपश्चाद्दघ्वान्नस्य भूयासम् ।
अन्नादायान्नपतये रुद्राय नमो अग्नये ॥

20.43.10

या ते वसो वात इषुः सा त एषा ।
तया नो मृड ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc