पैप्पलाद-संहिता · अध्याय 20.44
अग्निस् तक्मानम् अप बाधताम् इतो
वरुणो ग्रावा मरुतः पूतदक्षाः ।
बर्हिषदः समिधः शोशुचानास्
तक्मनः शोचाम् अप निर् नुदन्तु ॥
यो अभ्यवभृणायसि
स्वपन्तम् इच्छ पुरुषं
शयानम् अकोविदम् ।
स नः सहस्रवीर्य्-
-आनुष्ठाता शिवो भव ॥
देवयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥
ब्रह्मयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥
अन्नयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥
मनुष्ययातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥
अवभरणो नामासि देवत्रा णो अक्षमापः ।
यो अस्मान् द्वेष्टि यं वयं द्विष्मस्
तं त आसन्न् अपि दघ्मः ॥
यद् अदोस्नाता आसुरो दीक्षितो ऽचरत् ।
तस्य यन् मलम् अवास्रवत्
स हि नासि तावद् अनुष्ठ्या त्वा विद्म-
-अरसं वृश्चिक ते विषम् ॥
केतुलुङ्गा नाम ते माता कर्कटः पिता ।
तत् सत्यम् अरसम् अभग ते विषम् ॥
द्वे विषस्य धारे स्त्रिया अन्या पुंसो अन्या ।
ते उभे अरसे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0