भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.42

20.42.1

यद् अद्य दुग्धं पृथिवीम् असक्त
यद् ओषधीर् व्यसरद् यद् आपः ।
वत्से पयो गवि पयो यद् अस्याम्
अस्मांस् तत् सचतां पयः ॥

20.42.2

परा पतन्त्य् आशवो
ऽश्वा अधोधुरं यथा ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥

20.42.3

विषितं ते वस्तिबिलम् इत्य् एका ॥

20.42.4

अस्य पारे समुद्रस्य
शुक्रं ज्योतिर् अमर्त्यम् ।
तन् नः पात्व् अंहसस्
तन् नः पातु विश्वतः ॥

20.42.5

आ नो मेधा सुमतिर् विश्वरूपा
हिरण्यवर्णा जगती जगम्यात् ।
सा नो अग्ने मेधा
जुषताम् इह प्रचेताः ॥

20.42.6

निष् क्रामत्व् इषिर्यो अत्र प्रविष्टो
वयाष्ठश् च सयुजा याव् इह स्तः ।
सप्त ऋषीणां स्यूमरश्मिः पथैतु
स्वान् मृगान् पुनर् अप्य् एतु कृष्णः ॥

20.42.7

सप्त ऋषीन् गच्छ स्यूमरश्मये
मृगान् कृष्णः सचतां वाजो अश्वम् ।
ईडो अस्मान् सुप्रजसः सुवीरान्
सह यज्ञेन पयसा सचातै ॥

20.42.8

नमो अस्त्व् ऋषये स्यूमरश्मये
नमः कृष्णायोत यो वाजो अस्य ।
नमो देवायार्वतेषु जिष्णवे
ऽयं नो वाजी प्र तिरात्य् आयुः ॥

20.42.9

अति यन्त्य् अहान्य् अति रात्रीर् अत्य् उषसः ।
आपो अन्तर्धावरीस् ताभिर् अन्तर् दधे त्वा ॥

20.42.10

यथा नैदाघ्ये मासि
बह्वीः शुष्यन्त्य् ओषधीः ।
एवा प्र शुष्य माम् अनु
यच् च पश्यामि यच् च न ॥

20.42.11

पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेनाहम् अन्येषां स्त्रिय
आ लुम्पामि ममेद् असन् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc