पैप्पलाद-संहिता · अध्याय 20.41
उत्तमोस्य् ओषधीनां
वीरुधां बलवत्तमः ।
सस्यन्दन त्वम् ओषधे
सर्वाः स्यन्दय गा इमाः ॥
अरन्तुरथन्तु ।
वनेषु शुष्मो अस्तु ते
पृथिव्याम् अस्तु यद् धरः ॥
अकृद् अश्वो अकृत् खरो
अकृद् अश्वतरो हरिः ।
एवासि बह्वघे तव
भसन् नदत्व् आसिचा ॥
यथा नदति गर्दभ
एवा नदति ते भसत् ।
व्रीहेर् यवस्य माषस्य्-
-ऐतत् पश्याभिदर्शनम् ॥
उद् भरे द्यावापृथिवी
उद् आप उद् अग्निम् उद् इन्द्रम्
उत् सूर्यम् उद् रात्रिम् उद् अहः ॥
नमस्कृत्य द्यावापृथिवीभ्याम्
अन्तरिक्षाय मृत्यवे ।
मेक्ष्याम्य् ऊर्ध्वस् तिष्ठन्
मा मा हिंसिषुर् ईश्वराः ॥
यन् मेढ्वा यद् अप्सरसः
पयो देवीर् अहृषत ।
तद् इहोप हृयामहे
चक्षुषे च बलाय च ।
देवानां देवहूत्या
मयि त्या देवताः पुनः ॥
यास्य दोषा रसस्य मे
त्वं देवि ततर्पिथ ।
नाराशंसेन स्तोमेन्-
-आहं त्वत् पुनर् आ ददे
युष्मद् अप्सरसस् परि ॥
यन् मे तन्वो रसं
वयम् उद् अप्सरसस् परि ।
नाराशंसेन स्तोमेन
प्रजाम् आ प्यायामहे ॥
यन् मे पयो विषिषिचे
जाग्रतः स्वपतश् च यत् ।
पुनस् तद् अद्य मे देवा
आ सिञ्चन्तु तनू अधि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0