भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.40

20.40.1

अघमारम् अघशंसं निरृथं
दुर्हार्दे दन्तं प्र हिणोमि घोरम् ।
सो अस्यात्तु द्विपदश् चतुष्पदः
शिवो अस्मभ्यं सुमना अस्त्व् एषः ॥

20.40.2

शिवं ते दन्तं हविषा कृणोमि
शिवो मह्यं कुर्वते दन्तो अस्तु ।
शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु
शिवो मह्यं नभसी रोदसी स्ताम् ॥

20.40.3

पुरुरूपा पृथुपेशा
अरंकृद् वहतोर् असि ।
प्रतिष्ठासि चतुष्पदां
यस् त एष पञ्चमः पादस्
तं तेन प्रति गृह्णामि ॥

20.40.4

ससर्परीर् अमतिं बाधमाना
बृहन् मिमाय जमदग्निदत्ता ।
आ सूर्यस्य दुहिता ततान
श्रवो देवेष्व् अमृतम् अजुर्यम् ॥

20.40.5

ससर्परीर् अभरत् तूयम् एभ्यो
ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
सा पक्ष्या नव्यमायुर् दधाना
यां मे पुलस्ति जमदग्नयो ददुः ॥

20.40.6

अघ्न्ये दूरमूत् कन्द
नि पदश् चतुरो जहि ।
अधा गोदुहः शीर्षणि
शफाँ उरसि वादय ॥

20.40.7

शृङ्गाभ्याम् उप स्रष्टारं
पदावर्तय गोदुहम् ।
अथो ये अन्ये तिष्ठन्ति
तान् विषूचो वि नाशय ॥

20.40.8

यथा नर्ता सक्षिकाजिं
नि कुल्फम् अभिनृत्यति ।
एवा त्वम् अघ्न्ये पदः
सर्वान् साकम् उद् अर्दय ॥

20.40.9

उद् उ क्षीरम् उत्तभितं
स्यन्दन्ताम् अस्य धेनवः ।
असृक् तस्य गावो दुह्रां
यो अस्मान् नापचायति ॥

20.40.10

ऋक्षीकाया यथा मनो
व्याघ्रस्य यथा मनः ।
एवा तस्य गवां मनो
यो अस्मान् नापचायति ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc