पैप्पलाद-संहिता · अध्याय 20.39
अपेहि तक्मंश् चर परो अन्यम्
अस्मद् इच्छ पुरुषं कं चिद् एव ।
वेद ते तक्मन् पितरं वेद मातरम् ॥
शमीवान् असि शामीवतः
शमीवान् आभिशोकिः ।
अभिशोको हार्षणिर्
हर्षणो जाञ्जभिः ॥
यः पशूनां मार्जनीयो
यं त्वम् अंशेन भेजिषे ।
अभीहि तक्मन् गर्दभं
न माम् अभ्येतुम् अर्हसि ॥
विस्रसा नाम ते माता
किःकिशो (⟨ किष्किषो ?) नाम ते पिता ।
शिमिदा नाम ते स्वसा ॥
गिरिं गच्छ गिरिजा असि
गिरौ ते माहिषो गृहः ।
दासी चक्रम् आस्थाय
नाम्लाते नि क्रन्दयिष्यति ॥
आ वातो वात्व् अनघः
सर्वस्य दूतो अभिशस्तिपाः ।
जलाषम् इत् प्र सिञ्चति
तद् विषस्याप सिञ्चतु ॥
याम् अस्यति पृश्निबाहुर्
इष्टं हरिद्रुपर्ण्यम् ।
ताम् अस्य निष् खिदामसि
यथा जीवासि भद्रया ॥
अश्रान्तस्य त्वा मनसा
युनज्मि प्रथमस्य च ।
उत्कूलम् उद्वहो भव्-
-ओदुह्य प्रति धावतात् ॥
एतं दन्तं निरृत्या घोरम् आहुर्
यस्त आसन्न् अवरूढ एषः ।
तं दुर्हार्दे प्र हिणोमि घोरं
स नो मा हिंसीज् ज्यायसो मा कनीयसः ॥
शिवः शग्मो भवतु दन्त एष
मा नो हिंसीज् ज्यायसो मा कनीयसः ।
अघमारम् अघशंसं निरृथं
तं ते दन्तः सचतां घोर एषः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0