पैप्पलाद-संहिता · अध्याय 20.38
यद्य् अस्य् अप्रियजा
यदि वान्यत आभृतः ।
विसल्पकस्य भेषजीर्
देवीर् आप इमा मम ॥
यवस्य पूतिकस्य
दृशाम्बस्योत गर्मुतः ।
तेषां सम् अग्रभं शुष्मम्
आशूनां धावताम् इव ॥
यस् तनुः प्रतुर्वणी
वध इव प्रसर्पति ।
मयूरः किल ते विषं
कृकवाकुश् च जक्षतु ॥
उदीचीनः प्र तनोति
नितत्निर् भूम्याम् अधि ।
ओज्मानं पश्य वीरुधो
मिथुना सम् अवीवनत् ॥
नि त्वातनं नितत्निना
परि त्वागां सहीयसा ।
श्येनाद् अभिद्रवीयसा
सुपर्णान् निकरीयसा ॥
यद् अत्रापि मधोर् अहं
निरष्ठविषम् अस्मृतम् ।
अग्निश् च तत् सविता च
पुनर् मे जठरे धत्ताम् ॥
अग्ने रुद्रस्य जायासि
दुहितासि प्रजापतेः ।
उच्चैःश्लोके दानपत्नि हविःश्रव
उप त्वा ह्वय उप मा ह्वयस्व ।
नरिष्टा नाम वा असि ॥
यथासौ हरिणो वृषा
कूलाद् अधि प्रस्कन्दति ।
एवा नि ष्कन्द पित्र्याद्
भगं जयन्ती धनं जयन्ती ॥
ऋजिश्वा मह्यम् अब्रवीद्
गन्धर्वस्यानुशासनम् ।
एतत् ते पतिवेदनम् ॥
पाटा भिनत्तु कुम्भं
पाटा कुम्भीं गदोहनीम् ।
पाटा सर्वस्य पात्रस्य
वधूं कृणोतु विश्वतः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0