भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.37

20.37.1

विश्वं विव्यज्मि पृथिवीव पुष्टम्
आयदायत् प्रति गृह्णाम्य् अन्नम् ।
वैश्वानरस्य महतो महिम्ना
स्योनम् अस्मभ्यं मधुमत् कृणोतु ॥

20.37.2

त्रिशृङ्गम् असि दुरभिधर्षम्
इन्द्राय ध्रियसे ।
पूषा ते प्राशिता ॥

20.37.3

पाहि नो अग्ने तन्वं
पाहि गाः पाहि यत् तनूकृतम् ।
अहुतादाव् अमर्त्यौ
ताव् अस्मान् पातो अंहसः ॥

20.37.4

यौ देवानाम् अहुतादाव् अमर्त्यौ
स्वर्भानुश् च स्वर्ज्योतिश् च ।
तयोस् त्वास्येन प्राश्नाम्य्
अग्नेष् ट्वा वैश्वानरस्य त्वास्येन प्राश्नामि ॥

20.37.5

दक्षश् च त्वा मानसः प्राश्नीतां
स्वर्भानुश् च मारुतः ।
मा पृणन् पूर्त्या वि राधि
मो वयं प्रजया धनेन ॥

20.37.6

अनाधृष्यस्य ते पितो
अनाधृष्यशवसः ।
सर्ववीराः सर्वात्मानो
भक्षं क्रियास्म ॥

20.37.7

कामो मे राज्ञि प्र विवेश
त्वां तम् अहं निर् ह्वये पुनः ।
गृहेषु गोषु मे मनो
अक्ष्योर् अस्तु मे भगो
जिह्वायाम् अस्तु मे रसो
बाह्वोर् अस्तु मे बलम्
ऊर्वोर् अस्तु मे जवः ॥

20.37.8

दिवो ऽसि निर्मथितं
पृथिव्या अध्य् उद्भृतम् ।
समुद्राद् उच्यसे जातम्
अक्ष्यामयभेषजम् अस्य् आथर्वणम् ॥

20.37.9

पूषा परस्ताद् आ वर्तयतु
चतस्रो भूम्या दिशः ।
सगलिक पुषलिक
पुनर् नो नष्टम् आयति
जीवेन भुनजामहै ॥

20.37.10

यद् आभरच् छृतद् अग्निस्
तेजने नष्टवेदनम् ।
खर्गलेव पुनर् दत्तं
पुनर् अस्मा अश्विना नष्टम् आजतम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc