भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.28

20.28.1

यद् अप्सु ते सरस्वति
गोष्व् अश्वेषु यन् मधु ।
तेन नो वाजिनीवति
मुखम् अङ्धि सरस्वति वर्चसा ॥

20.28.2

यो अद्य देव सूर्य
त्वां च मां चान्तरायति ।
तस्मिन् दुष्वप्न्यं सर्वं
दुरितानि च मृज्महे ॥

20.28.3

यो नो +ऽभिच्छायं मर्त्येष्व्
अग्निं तिष्ठस्य् अन्तरा ।
तस्य वृश्चामि ते मूलं
न च्छायां करवो ऽपरम् ॥

20.28.4

घ्नन्त्व् एनं देवेषवो
ब्रह्माणो घ्नन्तु मेन्या ।
यो अस्माकं प्रजापते
अग्निं तिष्ठत्य् अन्तरा ॥

20.28.5

प्रजापते यो ऽस्माँ आदृश्-
-आग्निं तिष्ठत्य् अन्तरा ।
तं मृत्यवे प्र यच्छामि
स रुद्रस्यास्त्व् आखणः ॥

20.28.6

प्र सुवैनं देववज्रेभ्यो
मृत्युर् वि क्रमताम् अधि ।
सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् बन्धैर् अविमोक्यैः ॥

20.28.7

सुमङ्गलेन वचसा
केशिन् ग्रामं न आ वद ।
ब्रह्मणाब्रह्मणा त्व्-
-ओलूकाच्छा वदामसि ॥

20.28.8

पराङ् एव परा वद
पराचीम् अनु संवतम् ।
यथा यमस्य त्वा गृहे
ऽरसं प्रतिचाकशं
नियस्तं प्रतिचाकशम् ॥

20.28.9

शुनम् उलूक नो वद
यं द्विष्मस् तम् इतो नय ।
राज्ञो यमस्य ते गृहे
सिकताभिर् विदेव्यम्
आखुस् ते मूषिकेद् भागः ॥

20.28.10

आ वद बहुलं गोष्ठं
धीतवत्सम् अनष्टगुम् ।
ध्वाङ्क्षाय द्विपदां वद
शुने चतुष्पदां वद ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc