पैप्पलाद-संहिता · अध्याय 20.27
तिर्यङ् ते गर्भो भवतु
हृदयस्थं जरायु ते ।
आद् ओषम् अग्निम् आ रोह् -
-आद् गच्छ यमसादनम् ॥
वि ते चृतामि तकरिं
वि योनिं वि गवीन्यौ ।
वि मातरं च पुत्रं च
वि गर्भं च जरायु च ॥
अन्वङ् ते गर्भो भवत्व्
अनुसोत जरायु ते ।
यथा त्वं पुत्रं विन्दासै
यथा जीवासि भद्रया ॥
प्र पृष्ठे गर्भम् अर्दय
वि योन आस्यं सृज ।
निर् ऐतु दशमास्यो
गर्भो गवीन्योर् अधि ॥
विष्कम्भेण वि ष्कभाय
तौ विष्वञ्चौ व्याकुरु ।
एष वाम् अग्निर् अन्तरा
स विष्वञ्चौ व्य् अस्यतु ॥
विष्कम्भो वि ष्कभायतु
मनश् च हृदयं च वाम् ।
विवर्तन वर्तय
शश्वतीभ्यः समाभ्यः ॥
समुद्रं त्वा प्र हिणोमि
स्वां योनिम् अपीहि ।
अच्छिद्रस् तन्वा भूयासं
मा परा सेचि मे पयः ॥
यद् अत्रापि रसस्य मे
परापपातास्मृतम् ।
तद् इहोप ह्वयामहे
तन् मा प्यायतां पुनः ॥
कविर् अग्रे प्र लिलेख
धर्ता केशाँ अधारयत् ।
इहैव विश्वतो दधद्
धाता त्वष्टा त्वचि केशाँ अचीक्ल्̥पत् ॥
सरस्वति व्रतेषु ते
दिव्येषु देवि धामसु ।
मन्द्रे हिरण्यवर्तने
प्र ण आयूंषि तारिषः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0