पैप्पलाद-संहिता · अध्याय 20.29
पुनर् मे राजा वरुणः
पुनर् इन्द्रः पुनर् भगः ।
पुनर् मे विश्वे देवा
आयुर् जीवितवा अदुः ॥
उत् तिष्ठातः प्र द्रवार्वाङ्
मात्र तिष्ठो ऽभिचाकशत् ।
सपत्न्या वर्च आदाय्-
-आथास्माभिः सहाससि ॥
उत् तिष्ठत निर् द्रवत
न व इहास्ति न्यञ्चनम् ।
अमुष्य वित्तम् अभि वः सुवामि
तद् अनुवध्वं सुदतीर् अहिनस् तत् ॥
ये अस्माकं सबन्धवो
विष्ठिताः पृथिवीम् अनु ।
तेषाम् इन्द्र इव देवानाम्
अहं भूयासम् उत्तमः ॥
ये अग्नयः पार्थिवा
आहिताः पृथिवीम् अनु ।
तेषाम् असि त्वं संगथे
स नो जीवातवे कृधि ॥
चित स्थ परिचित स्थ्-
-आग्नयश् च निहवा नाम ।
ते नो मा नि ह्वध्वं
तेभ्यो वो नमो न वो हवम् एमि ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
स वो हवम् एतु ॥
इन्द्राग्नी पुनर् आ कृतं न एता
स्थिरवीराव् अपरावीतगू ।
अस्माकं सर्वा निहवे सन्त्व् एषां
वयं विद्याम गुह्यं नाम गवाम् ॥
प्रजापते अनुनिक्रन्दय
विश्वे देवाः पदवायाः सन्त्व् आसाम् ।
आदित्या अनुसंगत्य शूरा
इन्द्रज्येष्ठाः पुनर् आ वर्तयन्तु ॥
इन्द्र प्रणेतर् वर्धय म्-
-आश्विना मां वहतम् आश्वश्वा ।
ऐन्द्राग्नं वर्म प्रतिमुञ्चमानो
यथोभयेभ्यश् चारु समितिम् आ वदानि ॥
चारुवाक् चारुवदनश्
चारु सं काश नो नृभिः ।
अद्वेष्यप्रतीकाशो
जिगीवाँ अपराजितः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0