भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.26

20.26.1

सं मा भगेन द्विगुणेन वर्चसा
सं मा पृथिव्या सं मौषधीभिः ।
सं मापो मयोभुवो
भगेन वर्चसा सिचन् ॥

20.26.2

वर्चो मे मित्रावरुणेत्य् एका ॥

20.26.3

ऋचं साम यजामहे
याभ्यां कर्माणि कृण्वते ।
वि ते सदसि राजतो
यज्ञं देवेषु यच्छताम् ॥

20.26.4

अङ्गमङ्गं सं चिनोमि
चक्षुः प्राणम् अथो बलम् ।
प्रियाः श्रुतस्य भूयास्म्-
-आयुष्मन्तः सुमेधसः ॥

20.26.5

एतन् नो देव सवितर्
जगद्धात्री च रक्षतम् ।
पूषैनत् पुनर् आजत्व्
अविनष्टम् अविह्रुतम् ॥

20.26.6

यावन्त्य् एव पलितानि
साकं जज्ञिरे अग्रशः ।
तेभ्यः परि ब्रवीमि त्वा
कृष्णाः केशा भवन्तु मे ॥

20.26.7

कृष्णान् केशान् सिनीवालि
कृष्णान् केशान् सरस्वति ।
कृष्णान् मे अश्विना केशान्
कृणुतं पुष्करस्रजा ॥

20.26.8

अदो यद् अग्रे देवानां
पुरस्ताद् अवतिष्ठति ।
तन् मे +ऽब्रवीत् त्वष्टा विरिष्टभेषजम् ॥

20.26.9

श्वा विश्वधायसा
विश्वभेषज्या कृतम् ।
यद् आमयति निष् कृधि
निष्कृतिर् नाम वा असि ॥

20.26.10

सं ते चृतामि तकरिं
सं योनिं सं गवीन्यौ ।
सं मातरं च पुत्रं च
सं गर्भं च जरायु च ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc