भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.22

20.22.1

मां वदन्तम् अनु सर्वे वदन्तु
मां प्राणन्तम् अनु प्राणन्तु सर्वे ।
मां विशन्तम् अनु सर्वे विशन्तु
मयि देवा एकवृतो भवन्तु ॥

20.22.2

सूर्यो मा चक्षुषः पातु
बृहस्पतिर् वाचः सोमो राजा सभायाः ।
इन्द्रो वो दृशे भवामि ॥

20.22.3

वेद वै ते सभे नाम
सुभद्रासि सरस्वति ।
अथो ये ते सभासदस्
ते मे सन्तु सुवाचसः ॥

20.22.4

इमा या ब्रह्मणस्पते
विषूचीर् वाच ईरते ।
सध्रीचीर् इन्द्र ताः कृत्वा
मह्यं शिवतमाः कृधि ॥

20.22.5

अहम् एषां हस्तरसम्
अहं विज्ञानम् आ ददे ।
सर्वस्या अस्याः संसदो
ऽहं भूयासम् उत्तम
इन्द्रो यो गायताम् इव ॥

20.22.6

उत्तमं मोत्तमे कृध्य्
उत्तमा हि बभूविथ ।
यां त्वा भुरण्युर् अन्वैच्छद्
गन्धर्वः शरदः शतम् ॥

20.22.7

अभिभूर् अहम् आगमम्
अहं भूयासम् उत्तमः ।
इदं प्रतिप्रवादिनं
द्विषन्तम् अव धून्वे ॥

20.22.8

उरुष् टे वस्तिर् भवतु
समुद्रस्य बिलं यथा ।
परोदकम् इव सिच्यतां
मूत्रं ते तन्वस् परि ॥

20.22.9

यथा वातो यथोदकं
यथा समुद्र एजति ।
एवा ते गर्भ एजतु
निरैतु दशमास्यो
बहिर् जरायुणा सह ॥

20.22.10

इदम् उ श्रेयो ऽवसानम् आगां
शिवे मे द्यावापृथिवी अभूताम् ।
असपत्नाः प्रदिशो मे भवन्तु
न वै त्वा द्विष्मो अभयं नो अस्तु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc