पैप्पलाद-संहिता · अध्याय 20.21
दिवस् पृथिव्याः पर्य् अन्तरिक्षाद्
वातात् पशुभ्यो अध्य् ओषधीभ्यः ।
यतो लक्ष्मीर् वृजिना संबभूव
सा ब्रह्मणा प्रच्युता दूरम् एतु ॥
वाल्कुत्सस्य च गन्धेन
हिरण्यवर्चसेन च ।
आत् पुष्करिण्या यो गन्धो
भगो मा तेन जिन्वतु ॥
यद् इन्द्रो अग्रे असुराञ् जघान
ततो लक्ष्मीर् न्य् अदधुर् मर्त्येषु ।
तासां पापिष्ठा निर् अतः सुवामः
शिवा अस्यै जातवेदो नि यच्छ ॥
या त्वा लक्ष्मीर् देवृघ्नी या पतिघ्नी
गृहेभ्यस् त्वा नुदते या व्याडा ।
अतस् त्वम् एनसो मुच्यमान्-
-ओत् तरेमाः स्रोत्याः सप्त साकम् ॥
निपिंशन्तीं नितुदन्तीं
संपिबन्तीं न्यक्वरीम् ।
प्रभङ्गां भ्रूणघ्नीं लक्ष्मीं
ब्रह्मणा ता अनीनशम् ॥
उदोजिष्ठां सहस्यां
जयन्तीम् अपराजिताम् ।
लक्ष्मीर् याः पुण्याः कल्याणीस्
ता अस्यै सवितः सुव ॥
लक्ष्म्यः सम् अलप्सत
सम् अलप्सत लक्ष्म्यः ।
अजैषुर् भद्रा लक्ष्म्यः
परा पापीर् अजेषत ॥
लक्ष्मीणां लक्ष्मीतमे
लक्ष्मीणाम् अधिपा असि ।
तां त्वाहं शुद्धो गोप्स्यामि
देवजा हि बभूविथ ॥
सभा च मा समितिश् चावतां
प्रजापतेर् दुहितरौ सचेतसौ ।
येन संगच्छा उप मा स तिष्ठाद्
अन्तर् वदानि हृदये जनानाम् ॥
सभा सेना समितिस् त्वाम् अवन्तु
प्रजापतेर् दुहितरः प्रचेतसः ।
येन वदान्य् उप मा स शिक्षाद्
अन्तर् वदानि हृदये जनानाम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0