भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.23

20.23.1

वास्तोष्पत इह नः शर्म यच्छ
भद्राच् छ्रेयो अभि नो नेष वस्यः ।
अरिष्टा वीरा इह मे भवन्तु
द्विपाच् चतुष्पान् मय्य् अस्तु पुष्टम् ॥

20.23.2

अनमीवो वास्तोष्पते
विश्वा रूपाण्य् आविशन् ।
सखा सुशेव एधि नः ॥

20.23.3

ऋतेन स्थूणा अधि रोह वंश्-
-ओग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्न् उपसत्तारो अत्र
विराजां जीवाच् छरदः शतानि ॥

20.23.4

आ रोहतं पक्षाव् अमृतं वसानौ
दम्पत्योः कृणुतं दीर्घम् आयुः ।
तत्र नारी पुत्रिणी जीवपत्न्-
-ईदं कुलायम् उपसंविशाति ॥

20.23.5

अग्निर् मा विश्वाद् दुरितात् पुनातु
मातरिश्वा पवमानः पुरस्तात्
सोमो मा पातु मरुतो बृहस्पतिर्
वायुश् च मा पवमानः पुनीताम् ॥

20.23.6

त्वया सत्यं वि जयन्ते
तव सत्यं विवाचनम् ।
अग्रे वृक्षस्य जायसे
सेमं जनय पूरुषम् ॥

20.23.7

वृक्षस्य शतशाखस्य
माधुन्तस्य निकृत्वनः ।
विभीदकस्य यत् फलं
तेन त्वोन् मादयामसि ॥

20.23.8

पूर्वे वातात् प्र पततं
पूर्वे पततम् अश्विभ्याम् ।
इमे न्यर्वणी अहम्
उद्नेवाग्निम् अवीवरे ॥

20.23.9

मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
सुभूतम् अस्मभ्यं धत्त
युष्मान् अन्व् एतु किल्बिषम् ॥

20.23.10

इह वर्च इह पय
इह चक्षुर् उप ह्वये ।
इहेन्द्रियं दधातन ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc