भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.20

20.20.1

आसन्मन्त्र्यां वचस्यां
संपिबन्तीं न्यक्वरीम् ।
उत्तरां जनंगमां
प्र ता धमामि लक्ष्म्यः ॥

20.20.2

या ते घोरा तन्वम् आविवेश
या ते लक्ष्मीः सर्वा समक्ता ।
अग्निष् टे तास्व् अदत्त सौभगाय्-
-आपः शुन्धन्तु बृहते रणाय ॥

20.20.3

अदेवृघ्नीं वरुण्-
-आपतिघ्नीं बृहस्पते ।
इन्द्रापुत्रघ्नीं लक्ष्म्यम्
अस्यै ताः सवितः सुव ॥

20.20.4

या ते लक्ष्मीश् चक्षुषि योत दत्सु
या हस्तयो स्तनयोर् योपपक्षयोः ।
श्रोण्योर् भंससि या पदोष् टे
सर्वास् ता अति क्राम घोराः ॥

20.20.5

ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
लक्ष्मीः श्रोणिभ्याम् अङ्गेभ्यो
याः पापीस् ता अनीनशन् ॥

20.20.6

अपाश्लीलं पृथिवी हन्तु यत् पदोर्
अप हस्तयोर् वरुणो मित्रो अर्यमा ।
अपादित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥

20.20.7

एता एना व्याकरन्
खिले गा अदितीर् इव ।
रमन्तां भद्रा लक्ष्म्यो
याः पापीस् ता अनीनशन् ॥

20.20.8

साहुषी नाम वा असि
सहमाना सहस्वती ।
गृहगुप्तिम् अनुवर्तिं कुलायिनीं
ता इहा वेशयामसि ॥

20.20.9

?संचारिण्य् उभैर् या बभूव्-
-आन्या अन्यां जिन्वति भद्रपापीः ।
तां लक्ष्मीं निहवा नयामो
भद्रा सुभद्राम् अपि सौभगाय? ॥

20.20.10

एकशतं लक्ष्म्यस्
तासां राज्ञी बभूविथ ।
भद्राभिर् भद्रे संभूय
भद्रेणाभि सचस्व नः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc